दिक्कालाद्यनवच्छिन्नानंतचिन्मात्रमूर्तये ।
स्वानुभूत्येकमानाय नमः शांताय तेजसे ॥ 1.1 ॥
बोद्धारो मत्सरग्रस्ताः
प्रभवः स्मयदूषिताः ।
अबोधोपहताः चान्ये
जीर्णं अंगे सुभाषितम् ॥ 1.2 ॥
अज्ञः सुखं आराध्यः
सुखतरं आराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विदग्धं
ब्रह्मापि तं नरं न रंजयति ॥ 1.3 ॥
प्रसह्य मणिं उद्धरेन्मकरवक्त्रदंष्ट्रांतरात्
समुद्रं अपि संतरेत्प्रचलदूर्मिमालाकुलम् ।
भुजंगं अपि कोपितं शिरसि पुष्पवद्धारयेत्
न तु प्रतिनिविष्टमूऋखजनचित्तं आराधयेथ् ॥ 1.4 ॥
लभेत सिकतासु तैलं अपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।
क्वचिदपि पर्यटन्शशविषाणं आसादयेत्
न तु प्रतिनिविष्टमूर्खचित्तं आराधयेथ् ॥ 1.5 ॥
व्यालं बालमृणालतंतुभिरसौ रोद्धुं समुज्जृंभते
छेत्तुं वज्रमणिं शिरीषकुसुमप्रांतेन सन्नह्यति ।
माधुर्यं मधुबिंदुना रचयितुं क्षारामुधेरीहते
नेतुं वांछंति यः खलान्पथि सतां सूक्तैः सुधास्यंदिभिः ॥ 1.6 ॥
स्वायत्तं एकांतगुणं विधात्रा
विनिर्मितं छादनं अज्ञतायाः ।
विशेषाअतः सर्वविदां समाजे
विभूषणं मौनं अपंडितानाम् ॥ 1.7 ॥
यदा किंचिज्ज्ञोऽहं द्विप इव मदांधः समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः
यदा किंचित्किंचिद्बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ 1.8 ॥
कृमिकुलचित्तं लालाक्लिन्नं विगंधिजुगुप्सितं
निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम् ।
सुरपतिं अपि श्वा पार्श्वस्थं विलोक्य न शंकते
न हि गणयति क्षुद्रो जंतुः परिग्रहफल्गुताम् ॥ 1.9 ॥
शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं
म्हीध्रादुत्तुंगादवनिं अवनेश्चापि जलधिम् ।
अधोऽधो गंगेयं पदं उपगता स्तोकम्
अथवाविवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ 1.10 ॥
शक्यो वारयितुं जलेन हुतभुक्च्छत्रेण सूर्यातपो
नागेंद्रो निशिताग्कुशेन समदो दंडेन गोगर्दभौ ।
व्याधिर्भेषजसंग्रहैश्च विविधैर्मंत्रप्रयोगैर्विषं
सर्वस्यौषधं अस्ति शास्त्रविहितं मूर्खस्य नस्त्यौषधिम् ॥ 1.11 ॥
साहित्यसंगीतकलाविहीनः
साक्षात्पशुः पुच्छविषाणहीनः ।
तृणं न खादन्नपि जीवमानस्
तद्भागधेयं परमं पशूनाम् ॥ 1.12 ॥
येषां न विद्या न तपो न दानं
ज्ञानं न शीलं न गुणो न धर्मः ।
ते मर्त्यलोके भुवि भारभूता
मनुष्यरूपेण मृगाश्चरंति ॥ 1.13 ॥
वरं पर्वतदुर्गेषु
भ्रांतं वनचरैः सह
न मूर्खजनसंपर्कः
सुरेंद्रभवनेष्वपि ॥ 1.14 ॥
शास्त्रोपस्कृतशब्दसुंदरगिरः शिष्यप्रदेयागमा
विख्याताः कवयो वसंति विषये यस्य प्रभोर्निर्धनाः ।
तज्जाड्यं वसुधादिपस्य कवयस्त्वर्थं विनापीश्वराः
कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः ॥ 1.15 ॥
हर्तुर्याति न गोचरं किं अपि शं पुष्णाति यत्सर्वदाऽप्य्
अर्थिभ्यः प्रतिपाद्यमानं अनिशं प्राप्नोति वृद्धिं पराम् ।
कल्पांतेष्वपि न प्रयाति निधनं विद्याख्यं अंतर्धनं
येषां तान्प्रति मानं उज्झत नृपाः कस्तैः सह स्पर्धते ॥ 1.16 ॥
अधिगतपरमार्थान्पंडितान्मावमंस्थास्
तृणं इव लघु लक्ष्मीर्नैव तान्संरुणद्धि ।
अभिनवमदलेखाश्यामगंडस्थलानां
न भवति बिसतंतुर्वारणं वारणानाम् ॥ 1.17 ॥
अंभोजिनीवनविहारविलासं एव
हंसस्य हंति नितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्धीकीर्तिं अपहर्तुं असौ समर्थः ॥ 1.18 ॥
केयूराणि न भूषयंति पुरुषं हारा न चंद्रोज्ज्वला
न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः ।
वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यते
क्षीयंते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ 1.19 ॥
विद्या नाम नरस्य रूपं अधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः ।
विद्या बंधुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः ॥ 1.20 ॥
क्षांतिश्चेत्कवचेन किं किं अरिभिः क्रोधोऽस्ति चेद्देहिनां
ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधं किं फलम् ।
किं सर्पैर्यदि दुर्जनाः किं उ धनैर्विद्याऽनवद्या यदि
व्रीडा चेत्किं उ भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥ 1.21 ॥
दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने
प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ।
शौर्यं शत्रुजने क्षमा गुरुजने कांताजने धृष्टता
ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ 1.22 ॥
जाड्यं धियो हरति सिंचति वाचि सत्यं
मानोन्नतिं दिशति पापं अपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं
सत्संगतिः कथय किं न करोति पुंसाम् ॥ 1.23 ॥
जयंति ते सुकृतिनो
रससिद्धाः कवीश्वराः ।
नास्ति येषां यशःकाये
जरामरणजं भयम् ॥ 1.24 ॥
सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः
स्निग्धं मित्रं अवंचकः परिजनो निःक्लेशलेशं मनः ।
आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं
तुष्टे विष्टपकष्टहारिणि हरौ संप्राप्यते देहिना ॥ 1.25 ॥
प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं
काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् ।
तृष्णास्रोतो विभंगो गुरुषु च विनयः सर्वभूतानुकंपा
सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसां एष पंथाः ॥ 1.26 ॥
प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहता विरमंति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारब्धं उत्तमजना न परित्यजंति ॥ 1.27 ॥
असंतो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः
प्रिया न्याय्या वृत्तिर्मलिनं असुभंगेऽप्यसुकरम् ।
विपद्युच्चैः स्थेयं पदं अनुविधेयं च महतां
सतां केनोद्दिष्टं विषमं असिधाराव्रतं इदम् ॥ 1.28 ॥
क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशाम्
आपन्नोऽपि विपन्नदीधितिरिति प्राणेषु नश्यत्स्वपि ।
मत्तेभेंद्रविभिन्नकुंभपिशितग्रासैकबद्धस्पृहः
किं जीर्णं तृणं अत्ति मानमहतां अग्रेसरः केसरी ॥ 1.29 ॥
स्वल्पस्नायुवसावशेषमलिनं निर्मांसं अप्यस्थि गोः
श्वा लब्ध्वा परितोषं एति न तु तत्तस्य क्षुधाशांतये ।
सिंहो जंबुकं अंकं आगतं अपि त्यक्त्वा निहंति द्विपं
सर्वः कृच्छ्रगतोऽपि वांछंति जनः सत्त्वानुरूपं फलम् ॥ 1.30 ॥
लांगूलचालनं अधश्चरणावपातं
भूमौ निपत्य वदनोदरदर्शनं च ।
श्वा पिंडदस्य कुरुते गजपुंगवस्तु
धीरं विलोकयति चाटुशतैश्च भुंक्ते ॥ 1.31 ॥
परिवर्तिनि संसारे
मृतः को वा न जायते ।
स जातो येन जातेन
याति वंशः समुन्नतिम् ॥ 1.32 ॥
कुसुमस्तवकस्येव
द्वयी वृत्तिर्मनस्विनः ।
मूर्ध्नि वा सर्वलोकस्य
शीर्यते वन एव वा ॥ 1.33 ॥
संत्यन्येऽपि बृहस्पतिप्रभृतयः संभाविताः पंचषास्
तान्प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते ।
द्वावेव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्करौ
भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ॥ 1.34 ॥
वहति भुवनश्रेणिं शेषः फणाफलकस्थितां
कमठपतिना मध्येपृष्ठं सदा स च धार्यते ।
तं अपि कुरुते क्रोडाधीनं पयोधिरनादराद्
अहह महतां निःसीमानश्चरित्रविभूतयः ॥ 1.35 ॥
वरं पक्षच्छेदः समदमघवन्मुक्तकुलिशप्रहारैर्
उद्गच्छद्बहुलदहनोद्गारगुरुभिः ।
तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे
न चासौ संपातः पयसि पयसां पत्युरुचितः ॥ 1.36 ॥
सिंहः शिशुरपि निपतति
मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां
न खलु वयस्तेजसो हेतुः ॥ 1.37 ॥
जातिर्यातु रसातलं गुणगणैस्तत्राप्यधो गम्यतां
शीलं शैलतटात्पतत्वभिजनः संदह्यतां वह्निना ।
शौर्ये वैरिणि वज्रं आशु निपतत्वर्थोऽस्तु नः केवलं
येनैकेन विना गुणस्तृणलवप्रायाः समस्ता इमे ॥ 1.38 ॥
धनं अर्जय काकुत्स्थ
धनमूलं इदं जगत् ।
अंतरं नाभिजानामि
निर्धनस्य मृतस्य च ॥ 1.39 ॥
तानींद्रियाण्यविकलानि तदेव नाम
सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः क्षणेन
सोऽप्यन्य एव भवतीति विचित्रं एतथ् ॥ 1.40 ॥
यस्यास्ति वित्तं स नरः कुलीनः
स पंडितः स श्रुतवान्गुणज्ञः ।
स एव वक्ता स च दर्शनीयः
सर्वे गुणाः कांचनं आश्रयंति ॥ 1.41 ॥
दौर्मंत्र्यान्नृपतिर्विनश्यति यतिः संगात्सुतो लालनात्
विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।
ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयान्
मैत्री चाप्रणयात्समृद्धिरनयात्त्यागप्रमादाद्धनम् ॥ 1.42 ॥
दानं भोगो नाशस्तिस्रो
गतयो भवंति वित्तस्य ।
यो न ददाति न भुंक्ते
तस्य तृतीया गतिर्भवति ॥ 1.43 ॥
मणिः शाणोल्लीढः समरविजयी हेतिदलितो
मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः ।
कलाशेषश्चंद्रः सुरतमृदिता बालवनिता
तन्निम्ना शोभंते गलितविभवाश्चार्थिषु नराः ॥ 1.44 ॥
परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये
स पश्चात्संपूर्णः कलयति धरित्रीं तृणसमाम् ।
अतश्चानैकांत्याद्गुरुलघुतयाऽर्थेषु धनिनाम्
अवस्था वस्तूनि प्रथयति च संकोचयति च ॥ 1.45 ॥
राजंदुधुक्षसि यदि क्षितिधेनुं एतां
तेनाद्य वत्सं इव लोकं अमुं पुषाण
तस्मिंश्च सम्यगनिशं परिपोष्यमाणे
नानाफलैः फलति कल्पलतेव भूमिः ॥ 1.46 ॥
सत्यानृता च परुषा प्रियवादिनी च
हिंस्रा दयालुरपि चार्थपरा वदान्या ।
नित्यव्यया प्रचुरनित्यधनागमा च
वारांगनेव नृपनीतिरनेकरूपा ॥ 1.47 ॥
आज्ञा कीर्तिः पालनं ब्राह्मणानां
दानं भोगो मित्रसंरक्षणं च
येषां एते षड्गुणा न प्रवृत्ताः
कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥ 1.48 ॥
यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं
तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् ।
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा सा कृथाः
कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ 1.49 ॥
त्वं एव चातकाधारोऽ
सीति केषां न गोचरः ।
किं अंभोदवरास्माकं
कार्पण्योक्तं प्रतीक्षसे ॥ 1.50 ॥
रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम्
अंभोदा बहवो वसंति गगने सर्वेऽपि नैतादृशाः ।
केचिद्वृष्टिभिरार्द्रयंति वसुधां गर्जंति केचिद्वृथा
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ 1.51 ॥
अकरुणत्वं अकारणविग्रहः
परधने परयोषिति च स्पृहा ।
सुजनबंधुजनेष्वसहिष्णुता
प्रकृतिसिद्धं इदं हि दुरात्मनाम् ॥ 1.52 ॥
दुर्जनः परिहर्तव्यो
विद्ययाऽलकृतोऽपि सन् ।
मणिना भूषितः सर्पः
किं असौ न भयंकरः ॥ 1.53 ॥
जाड्यं ह्रीमति गण्यते व्रतरुचौ दंभः शुचौ कैतवं
शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि ।
तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे
तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नांकितः ॥ 1.54 ॥
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।
सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मंडनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ 1.55 ॥
शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखं अनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
नृपांगणगतः खलो मनसि सप्त शल्यानि मे ॥ 1.56 ॥
न कश्चिच्चंडकोपानाम्
आत्मीयो नाम भूभुजाम् ।
होतारं अपि जुह्वानं
स्पृष्टो वहति पावकः ॥ 1.57 ॥
मौनौमूकः प्रवचनपटुर्बाटुलो जल्पको वा
धृष्टः पार्श्वे वसति च सदा दूरतश्चाप्रगल्भः ।
क्षांत्या भीरुर्यदि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो योगिनां अप्यगम्यः ॥ 1.58 ॥
उद्भासिताखिलखलस्य विशृंखलस्य
प्राग्जातविस्तृतनिजाधमकर्मवृत्तेः ।
दैवादवाप्तविभवस्य गुणद्विषोऽस्य
नीचस्य गोचरगतैः सुखं आप्यते ॥ 1.59 ॥
आरंभगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना
छायेव मैत्री खलसज्जनानाम् ॥ 1.60 ॥
मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम् ।
लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ 1.61 ॥
वांछा सज्जनसंगमे परगुणे प्रीतिर्गुरौ नम्रता
विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम् ।
भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खले
येष्वेते निवसंति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ 1.62 ॥
विपदि धैर्यं अथाभ्युदये क्षमा
सदसि वाक्यपटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धं इदं हि महात्मनाम् ॥ 1.63 ॥
प्रदानं प्रच्छन्नं गृहं उपगते संभ्रमविधिः
प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः ।
अनुत्सेको लक्ष्म्यां अनभिभवगंधाः परकथाः
सतां केनोद्दिष्टं विषमं असिधाराव्रतं इदम् ॥ 1.64 ॥
करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता
मुखे सत्या वाणी विजयि भुजयोर्वीर्यं अतुलम् ।
हृदि स्वच्छा वृत्तिः श्रुतिं अधिगतं च श्रवणयोर्
विनाप्यैश्वर्येण प्रकृतिमहतां मंडनं इदम् ॥ 1.65 ॥
संपत्सु महतां चित्तं
भवत्युत्पलकौमलम् ।आपत्सु च महाशैलशिला
संघातकर्कशम् ॥ 1.66 ॥
संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते
प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥ 1.67 ॥
प्रीणाति यः सुचरितैः पितरं स पुत्रो
यद्भर्तुरेव हितं इच्छति तत्कलत्रम् ।
तन्मित्रं आपदि सुखे च समक्रियं यद्
एतत्त्रयं जगति पुण्यकृतो लभंते ॥ 1.68 ॥
एको देवः केशवो वा शिवो वा
ह्येकं मित्रं भूपतिर्वा यतिर्वा ।
एको वासः पत्तने वा वने वा
ह्येका भार्या सुंदरी वा दरी वा ॥ 1.69 ॥
नम्रत्वेनोन्नमंतः परगुणकथनैः स्वान्गुणान्ख्यापयंतः
स्वार्थान्संपादयंतो विततपृथुतरारंभयत्नाः परार्थे ।
क्षांत्यैवाक्षेपरुक्षाक्षरमुखरमुखांदुर्जनांदूषयंतः
संतः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः ॥ 1.70 ॥
भवंति नम्रास्तरवः फलोद्गमैर्
नवांबुभिर्दूरावलंबिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वभाव एष परोपकारिणाम् ॥ 1.71 ॥
श्रोत्रं श्रुतेनैव न कुंडलेन
दानेन पाणिर्न तु कंकणेन ।
विभाति कायः करुणपराणां
परोपकारैर्न तु चंदनेन ॥ 1.72 ॥
पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान्प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणं इदं प्रवदंति संतः ॥ 1.73 ॥
पद्माकरं दिनकरो विकचीकरोति
चम्द्र्प्वोलासयति कैरवचक्रवालम् ।
नाभ्यर्थितो जलधरोऽपि जलं ददाति
संतः स्वयं परहिते विहिताभियोगाः ॥ 1.74 ॥
एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यजंति ये
सामान्यास्तु परार्थं उद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नंति ये
ये तु घ्नंति निरर्थकं परहितं ते के न जानीमहे ॥ 1.75 ॥
क्षीरेणात्मगतोदकाय हि गुणा दत्ता पुरा तेऽखिला
क्षीरोत्तापं अवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः ।
गंतुं पावकं उन्मनस्तदभवद्दृष्ट्वा तु मित्रापदं
युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ 1.76 ॥
इतः स्वपिति केशवः कुलं इतस्तदीयद्विषाम्
इतश्च शरणार्थिनां शिखरिणां गणाः शेरते ।
इतोऽपि बडवानलः सह समस्तसंवर्तकैऋ
अहो विततं ऊर्जितं भरसहं सिंधोर्वपुः ॥ 1.77 ॥
तृष्णां छिंधि भज क्षमां जहि मदं पापे रतिं मा कृथाः
सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् ।
मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं
कीर्तिं पालय दुःखिते कुरु दयां एतत्सतां चेष्टितम् ॥ 1.78 ॥
मनसि वचसि काये पुण्यपीयूषपूर्णास्
त्रिभुवनं उपकारश्रेणिभिः प्रीणयंतः ।
परगुणपरमाणून्पर्वतीकृत्य नित्यं
निजहृदि विकसंतः संत संतः कियंतः ॥ 1.79 ॥
किं तेन हेमगिरिणा रजताद्रिणा वा
यत्राश्रिताश्च तरवस्तरवस्त एव ।
मन्यामहे मलयं एव यदाश्रयेण
कंकोलनिंबकटुजा अपि चंदनाः स्युः ॥ 1.80 ॥
रत्नैर्महार्हैस्तुतुषुर्न देवा
न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न परयुर्विरामं
न निश्चितार्थाद्विरमंति धीराः ॥ 1.81 ॥
क्वचित्पृथ्वीशय्यः क्वचिदपि च परंकशयनः
क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः ।
क्वचित्कंथाधारी क्वचिदपि च दिव्यांबरधरो
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ 1.82 ॥
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो
ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्वाजता
सर्वेषां अपि सर्वकारणं इदं शीलं परं भूषणम् ॥ 1.83 ॥
निंदंतु नीतिनिपुणा यदि वा स्तुवंतु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्ठम् ।
अद्यैव वा मरणं अस्तु युगांतरे वा
न्याय्यात्पथः प्रविचलंति पदं न धीराः ॥ 1.84 ॥
भग्नाशस्य करंडपिंडिततनोर्म्लानेंद्रियस्य क्षुधा
कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरं असौ तेनैव यातः यथा
लोकाः पश्यत दैवं एव हि नृणां वृद्धौ क्षये कारणम् ॥ 1.85 ॥
आलस्यं हि मनुष्याणां
शरीरस्थो महान्रिपुः ।
नास्त्युद्यमसमो बंधुः
कुर्वाणो नावसीदति ॥ 1.86 ॥
छिन्नोऽपि रोहति तर्क्षीणोऽप्युपचीयते पुनश्चंद्रः ।
इति विमृशंतः संतः संतप्यंते न दुःखेषु ॥ 1.87 ॥
नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः
स्वर्गो दुर्गं अनुग्रहः किल हरेरैरावतो वारणः ।
इत्यैश्वर्यबलान्वितोऽपि बलभिद्भग्नः परैः संगरे
तद्व्यक्तं ननु दैवं एव शरणं धिग्धिग्वृथा पौरुषम् ॥ 1.88 ॥
कर्मायत्तं फलं पुंसां
बुद्धिः कर्मानुसारिणी ।
तथापि सुधिया भाव्यं
सुविचार्यैव कुर्वता ॥ 1.89 ॥
खल्वातो दिवसेश्वरस्य किरणैः संताडितो मस्तके
वांछंदेशं अनातपं विधिवशात्तालस्य मूलं गतः ।
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यांत्यापदः ॥ 1.90 ॥
रविनिशाकरयोर्ग्रहपीडनं
गजभुजंगमयोरपि बंधनम् ।
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवानिति मे मतिः ॥ 1.91 ॥
सृजति तावदशेषगुणकरं
पुरुषरत्नं अलंकरणं भुवः ।
तदपि तत्क्षणभंगि करोति
चेदहह कष्टं अपंडितता विधेः ॥ 1.92 ॥
पत्रं नैव यदा करीरविटपे दोषो वसंतस्य किम्
नोलूकोऽप्यवओकते यदि दिवा सूर्यस्य किं दूषणम् ।
धारा नैव पतंति चातकमुखे मेघस्य किं दूषणम्
यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥ 1.93 ॥
नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा
विधिर्वंद्यः सोऽपि प्रतिनियतकर्मैकफलदः ।
फलं कर्मायत्तं यदि किं अमरैः किं च विधिना
नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ 1.94 ॥
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माडभांडोदरे
विष्णुर्येन दशावतारगहने क्षिप्तो महासंकटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः
सूर्यो भ्राम्यति नित्यं एव गगने तस्मै नमः कर्मणे ॥ 1.95 ॥
नैवाकृतिः फलति नैवा कुलं न शीलं
विद्यापि नैव न च यत्नकृतापि सेवा ।
भाग्यानि पूर्वतपसा खलु संचितानि
काले फलंति पुरुषस्य यथैव वृक्षाः ॥ 1.96 ॥
वने रणे शत्रुजलाग्निमध्ये
महार्णवे पर्वतमस्तके वा ।
सुप्तं प्रमत्तं विषमस्थितं वा
रक्षंति पुण्यानि पुराकृतानि ॥ 1.97 ॥
या साधूंश्च खलान्करोति विदुषो मूर्खान्हितांद्वेषिणः
प्रत्यक्षं कुरुते परीक्षं अमृतं हालाहलं तत्क्षणात् ।
तां आराधय सत्क्रियां भगवतीं भोक्तुं फलं वांछितं
हे साधो व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा मा कृथाः ॥ 1.98 ॥
गुणवदगुणवद्वा कुर्वता कार्यजातं
परिणतिरवधार्या यत्नतः पंडितेन ।
अतिरभसकृतानां कर्मणां आविपत्तेर्
भवति हृदयदाही शल्यतुल्यो विपाकः ॥ 1.99 ॥
स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश्चंदनैरिंधनौघैः
सौवर्णैर्लांगलाग्रैर्विलिखति वसुधां अर्कमूलस्य हेतोः ।
कृत्वा कर्पूरखंडान्वृत्तिं इह कुरुते कोद्रवाणां समंतात्
प्राप्येमां करंभूमिं न चरति मनुजो यस्तोप मंदभाग्यः ॥ 1.100 ॥
मज्जत्वंभसि यातु मेरुशिखरं शत्रुं जयत्वाहवे
वाणिज्यं कृषिसेवने च सकला विद्याः कलाः शिक्षताम् ।
आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं
नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ 1.101 ॥
भीमं वनं भवति तस्य पुरं प्रधानं
सर्वो जनः स्वजनतां उपयाति तस्य ।
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ 1.102 ॥
को लाभो गुणिसंगमः किं असुखं प्राज्ञेतरैः संगतिः
का हानिः समयच्युतिर्निपुणता का धर्मतत्त्वे रतिः ।
कः शूरो विजितेंद्रियः प्रियतमा काऽनुव्रता किं धनं
विद्या किं सुखं अप्रवासगमनं राज्यं किं आज्ञाफलम् ॥ 1.103 ॥
अप्रियवचनदरिद्रैः प्रियवचनधनाढ्यैः स्वदारपरितुष्टैः ।
परपरिवादनिवृत्तैः क्वचित्क्वचिन्मंडिता वसुधा ॥ 1.104 ॥
कदर्थितस्यापि हि धैर्यवृत्तेर्
न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
अधौमुखस्यापि कृतस्य वह्नेर्
नाधः शिखा याति कदाचिदेव ॥ 1.105 ॥
कांताकटाक्षविशिखा न लुनंति यस्य
चित्तं न निर्दहति किपकृशानुतापः ।
कर्षंति भूरिविषयाश्च न लोभपाशैर्
लोकत्रयं जयति कृत्स्नं इदं स धीरः ॥ 1.106 ॥
एकेनापि हि शूरेण
पादाक्रांतं महीतलम् ।
क्रियते भास्करेणैव
स्फारस्फुरिततेजसा ॥ 1.107 ॥
वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान्
मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरंगायते ।
व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते
यस्यांगेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ 1.108 ॥
लज्जागुणौघजननीं जननीं इव स्वाम्
अत्यंतशुद्धहृदयां अनुवर्तमानाम् ।
तेजस्विनः सुखं असूनपि संत्यजनति
सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥ 1.109 ॥