चूडोत्तंसितचंद्रचारुकलिकाचंचच्छिखाभास्वरो
लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।
अंतःस्फूर्जद्अपारमोहतिमिरप्राग्भारं उच्चाटयन्
श्वेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ 3.1 ॥
भ्रांतं देशं अनेकदुर्गविषमं प्राप्तं न किंचित्फलं
त्यक्त्वा जातिकुलाभिमानं उचितं सेवा कृता निष्फला ।
भुक्तं मानविवर्जितं परगृहेष्वाशंकया काकवत्
तृष्णे जृंभसि पापकर्मपिशुने नाद्यापि संतुष्यसि ॥ 3.2 ॥
उत्खातं निधिशंकया क्षितितलं ध्माता गिरेर्धातवो
निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन संतोषिताः ।
मंत्राराधनतत्परेण मनसा नीताः श्मशाने निशाः
प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव ॥ 3.3 ॥
खलालापाः सौढाः कथं अपि तद्आराधनपरैर्निगृह्यांतर्
बाष्पं हसितं अपि शून्येन मनसा ।
कृतो वित्तस्तंभप्रतिहतधियां अंजलिरपि
त्वं आशे मोघाशे किम अपरं अतो नर्तयसि माम् ॥ 3.4 ॥
अमीषां प्राणानां तुलितविसिनीपत्रपयसां
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।
यद्आढ्यानां अग्रे द्रविणमदनिःसंज्ञमनसां
कृतं मावव्रीडैर्निजगुणकथापातकं अपि ॥ 3.5 ॥
क्षांतं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः
सोढो दुःसहशीततापपवनक्लेशो न तप्तं तपः ।
ध्यातं वित्तं अहर्निशं नित्यमितप्राणैर्न शंभोः पदं
तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वंचिताः ॥ 3.6 ॥
भोगा न भुक्ता वयं एव भुक्तास्
तपो न तप्तं वयं एव तप्ताः ।
कालो न यातो वयं एव यातास्तृष्णा
न जीर्णा वयं एव जीर्णाः ॥ 3.7 ॥
बलिभिर्मुखं आक्रांतं पलितेनांकितं शिरः ।
गात्राणि शिथिलायंते तृष्णैका तरुणायते ॥ 3.8 ॥
विवेकव्याकोशे विदधति समे शाम्यति तृषा
परिष्वंगे तुंगे प्रसरतितरां सा परिणता ।
जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपणस्तृषापात्रं
यस्यां भवति मरुतां अप्यधिपतिः ॥ 3.81 ॥
निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलितः
समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः ।
शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने
अहो मूढः कायस्तदपि मरणापायचकितः ॥ 3.9 ॥
आशा नाम नदी मनोरथजला तृष्णातरंगाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुंगचिंतातटी
तस्याः परगता विशुद्धं अलसो नंदंति योगीश्वराः ॥ 3.10 ॥
न संसारोत्पन्नं चरितं अनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः ।
महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया
महांतो जायंते व्यसनं इव दातुं विषयिणाम् ॥ 3.11 ॥
अवश्यं यातारश्चिरतरं उषित्वापि विषया
वियोगे को भेदस्त्यजति न जनो यत्स्वयं अमून् ।
व्रजंतः स्वातंत्र्यादतुलपरितापाय मनसः
स्वयं त्यक्ता ह्येते शमसुखं अनंतं विदधति ॥ 3.12 ॥
ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वंत्यहो दुष्करं
यन्मुंचंत्युपभोगभांज्यपि धनान्येकांततो निःस्पृहाः ।
संप्रातान्न पुरा न संप्रति न च प्राप्तौ दृढप्रत्ययान्
वांछामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥ 3.13 ॥
धन्यानां गिरिकंदरेषु वसतां ज्योतिः परं ध्यायतामानंदाश्रु
जलं पिबंति शकुना निःशंकं अंकेशयाः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडा
काननकेलिकौतुकजुषां आयुः परं क्षीयते ॥ 3.14 ॥
भिक्षाशतं तदपि नीरसं एकबारं
शय्या च भूः परिजनो निजदेहमात्रम् ।
वस्त्रं विशीर्णशतखंडमयी च कंथा
हा हा तथापि विषया न परित्यजंति ॥ 3.15 ॥
स्तनौ मांसग्रंथी कनककलशावित्युपमिती
मुखं श्लेष्मागारं तदपि च शशांकेन तुलितम् ।
स्रवन्मूत्रक्लिन्नं करिवरशिरस्पर्धि जघनं
मुहुर्निंद्यं रूपं कविजनविशेषैर्गुरुकृतम् ॥ 3.16 ॥
एको रागिषु राजते प्रियतमादेहार्धहारी हरो
नीरागेषु जनो विमुक्तललनासंगो न यस्मात्परः ।
दुर्वारस्मरबाणपन्नगविषव्याबिद्धमुग्धो जनः
शेषः कामविडंबितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ॥ 3.17 ॥
अजानंदाहात्म्यं पततु शलभस्तीव्रदहने
स मीनोऽप्यज्ञानाद्बडिशयुतं अश्नातु पिशितम् ।
विजानंतोऽप्येते वयं इह वियज्जालजटिलान्
न मुंचामः कानां अहह गहनो मोहमहिमा ॥ 3.18 ॥
तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं
क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितम् ।
प्रदीप्ते कामाग्नौ सुदृढतरं आलिंगति वधूं
प्रतीकारं व्याधः सुखं इति विपर्यस्यति जनः ॥ 3.19 ॥
तुंगं वेश्म सुताः सतां अभिमताः संख्यातिगाः संपदः
कल्याणी दयिता वयश्च नवं इत्यज्ञानमूढो जनः ।
मत्वा विश्वं अनश्वरं निविशते संसारकारागृहे
संदृश्य क्षणभंगुरं तदखिलं धन्यस्तु सन्न्यस्यति ॥ 3.20 ॥
दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णांबरा
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।
याच्ञाभंगभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ 3.21 ॥
अभिमतमहामानग्रंथिप्रभेदपटीयसी
गुरुतरगुणग्रामाभोजस्फुटोज्ज्वलचंद्रिका ।
विपुलविलल्लज्जावल्लीवितानकुठारिका
जठरपिठरी दुस्पुरेयं करोति विडंबनम् ॥ 3.22 ॥
पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपालिं
ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकंठे ।
द्वारं द्वारं प्रविष्टो वरं उदरदरीपूरणाय क्षुधार्तो
मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येसु दीनः ॥ 3.23 ॥
गंगातरंगकणशीकरशीतलानि
विद्याधराध्युषितचारुशिलातलानि ।
स्थानानि किं हिमवतः प्रलयं गतानि
यत्सावमानपरपिंडरता मनुष्याः ॥ 3.24 ॥
किं कंदाः कंदरेभ्यः प्रलयं उपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरसगलभृतो वल्कलिन्यश्च शाखाः ।
वीक्ष्यंते यन्मुखानि प्रसभं अपगतप्रश्रयाणां खलानां
दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानि ॥ 3.25 ॥
पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना
भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनम् ।
क्षुद्राणां अविवेकमूढमनसां यत्रेश्वराणां सदा
वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ 3.26 ॥
फलं स्वेच्छालभ्यं प्रतिवनं अखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
सहंते संतापं तदपि धनिनां द्वारि कृपणाः ॥ 3.27 ॥
ये वर्तंते धनपतिपुरः प्रार्थनादुःखभाजो
ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः ।
तेषां अंतःस्फुरितहसितं वासराणि स्मरेयं
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ 3.28 ॥
ये संतोषनिरंतरप्रमुदितस्तेषां न भिन्ना मुदो
ये त्वन्ये धनलुब्धसंकलधियस्तेसां न तृष्णाहता ।
इत्थं कस्य कृते कुतः स विधिना कीदृक्पदं संपदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ 3.29 ॥
भिक्षाहारं अदैन्यं अप्रतिसुखं भीतिच्छिदं सर्वतो
दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् ।
सर्वत्रान्वहं अप्रयत्नसुलभं साधुप्रियं पावनं
शंभोः सत्रं अवायं अक्षयनिधिं शंसंति योगीश्वराः ॥ 3.30 ॥
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं
माने धैन्यभयं बले रिपुभयं रूपे जराय भयम् ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतांताद्भयं
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥ 3.31 ॥
आक्रांतं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं
संतोषो धनलिप्सया शममुखं प्रौढांगनाविभ्रमैः ।
लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैर्
अस्थैर्येण विभूतयोऽप्यपहता ग्रस्तं न किं केन वा ॥ 3.32 ॥
आधिव्याधिशतैर्जनस्य विविधैरारोग्यं उन्मूल्यते
लक्ष्मीर्यत्र पतंति तत्र विवृतद्वारा इव व्यापदः ।
जातं जातं अवश्यं आशु विवशं मृत्युः करोत्यात्मसात्
तत्किं तेन निरंकुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ 3.33 ॥
भोगास्तुंगतरंगभंगतरलाः प्राणाः क्षणध्वंसिनः
स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः प्रियासु स्थिता ।
तत्संसारं असारं एव निखिलं बुद्ध्वा बुधा बोधका
लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ 3.34 ॥
भोगा मेघवितानमध्यविलसत्सौदामिनीचंचला
आयुर्वायुविघट्टिताब्जपटलीलीनांबुवद्भंगुरम् ।
लीला यौवनलालसास्तनुभृतां इत्याकलय्य द्रुतं
योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः ॥ 3.35 ॥
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं
माने दैन्यभयं बले रिपुभयं रूपे जराया भयम् ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतांताद्भयं
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयं ॥ 3.36 ॥
कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे
कांताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः ।
वामाक्षीणां अवज्ञाविहसितवसतिर्वृद्धभावोऽन्यसाधुः
संसारे रे मनुष्या वदत यदि सुखं स्वल्पं अप्यस्ति किंचिथ् ॥ 3.37 ॥
व्याघ्रीव तिष्ठति जरा परितर्जयंती
रोगाश्च शत्रव इव प्रहरंति देहम् ।
आयुः परिस्रवंति भिन्नघटादिवांभो
लोकस्तथाप्यहितं आचरतीति चित्रम् ॥ 3.38 ॥
भोगा भंगुरवृत्तयो बहुविधास्तैरेव चायं भवस्तत्
कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टतैः ।
आशापाशशतापशांतिविशदं चेतःसमाधीयतां
कामोत्पत्तिवशात्स्वधामनि यदि श्रद्देयं अस्मद्वचः ॥ 3.39 ॥
सखे धन्याः केचित्त्रुटितभवबंधव्यतिकरा
वनांते चित्तांतर्विषं अविषयाशीत्विषगताः ।
शरच्चंद्रज्योत्स्नाधवलगगनाभोगसुभगां
नयंते ये रात्रिं सुकृतचयचिंतैकशरणाः ॥ 3.391 ॥
ब्रह्मेंद्रादिमरुद्गणांस्तृणकणान्यत्र स्थितो मन्यते
यत्स्वादाद्विरसा भवंति विभवास्त्रैलोक्यराज्यादयः ।
भोगः कोऽपि स एव एक परमो नित्योदितो जृंभते
भोः साधो क्षणभंगुरे तदितरे भोगे रतिं मा कृथाः ॥ 3.40 ॥
सा रम्या नगरी महान्स नृपतिः सामंतचक्रं च तत्
पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चंद्रबिंबाननाः ।
उद्वृत्तः स राजपुत्रनिवहस्ते वंदिनस्ताः कथाः
सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ 3.41 ॥
यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको
यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चांते ।
इत्थं नयौ रजनिदिवसौ लोलयंद्वाविवाक्षौ
कालः कल्यो भुवनफलके क्रडति प्राणिशारैः ॥ 3.42 ॥
आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं
व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते ।
दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयीं प्रमादमदिरां उन्मत्तभूतं जगथ् ॥ 3.43 ॥
रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जंतवो
धावंत्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः ।
व्यापारैः पुनर्उक्तभूतविषयैरित्थं विधेनामुना
संसारेण कदर्थिता वयं अहो मोहान्न लज्जामहे ॥ 3.44 ॥
न ध्यानं पदं ईश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिंगितं
मातुः केवलं एव यौवनवनच्छेदे कुठारा वयम् ॥ 3.45 ॥
नाभ्यस्ता प्रतिवादिवृंददमनी विद्या विनीतोचिता
खड्गाग्रैः करिकुंभपीठदलनैर्नाकं न नीतं यशः ।
कांताकौम्अलपल्लवाधररसः पीतो न चंद्रोदये
तारुण्यं गतं एव निष्फलं अहो शून्यालये दीपवथ् ॥ 3.46 ॥
विद्या नाधिगता कलंकरहिता वित्तं च नोपार्जितं
शुश्रूषापि समाहितेन मनसा पित्रोर्न संपादिता ।
आलोलायतलोचनाः प्रियतमाः स्वप्नेऽपि नालिंगिताः
कालोऽयं परपिंडलोलुपतया काकैरिव प्रेर्यते ॥ 3.47 ॥
वयं येभ्यो जाताश्चिरपरिगता एव खलु ते
समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः ।
इदानीं एते स्मः प्रतिदिवसं आसन्नपतना
गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥ 3.48 ॥
आयुर्वर्षशतं न्\’ऎ9णां परिमितं रात्रौ तद्अर्धं गतं
तस्यार्धस्य परस्य चार्धं अपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरंगचंचलतरे सौख्यं कुतः प्राणिनाम् ॥ 3.49 ॥
क्षणं बालो भूत्वा क्षणं पै युवा कामरसिकः
क्षणं वित्तैर्हीनः क्षणं अपि च संपूर्णविभवः ।
जराजीर्णैरंगैर्नट इव बलीमंडिततनूर्
नरः संसारांते विशति यमधानीयवनिकाम् ॥ 3.50 ॥
त्वं राजा वयं अप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वंति नः ।
इत्थं मानधनातिदूरं उभयोरप्यावयोरंतरं
यद्यस्मासु पराङ्मुखोऽसि वयं अप्येकांततो निःस्पृहा ॥ 3.51 ॥
अर्थानां ईशिषे त्वं वयं अपि च गिरां ईश्महे यावदर्थं
शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः ।
सेवंते त्वां धनाढ्या मतिमलहतयेमां अपि श्रोतुकामामय्य्
अप्यास्था न ते चेत्त्वयि मम नितरां एव राजन्ननास्था ॥ 3.52 ॥
वयं इह परितुष्टा वल्कलैस्त्वं दुकूलैः
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥ 3.53 ॥
फलं अलं अशनाय स्वादु पानाय तोयं
क्षितिरपि शयनार्थं वाससे वल्कलं च ।
नवघनमधुपानभ्रांतसर्वेंद्रियाणामविनयम्
अनुमंतुं नोत्सहे दुर्जनानाम् ॥ 3.54 ॥
अश्नीमहि वयं भिक्षां आशावासो वसीमहि ।
शयीमहि महीपृष्ठे कुर्वीमहि किं ईश्वरैः ॥ 3.55 ॥
न नटा ना विटा न गायका न च सभ्येतरवादचुंचवः ।
नृपं ईक्षितुं अत्र के वयं स्तनभारानमिता न योषितः ॥ 3.56 ॥
विपुलहृदयैरीशैरेतज्जगज्जनितं पुरा
विधृतं अपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।
इह हि भुवनान्यन्यैर्धीराश्चतुर्दश भुंजते
कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ 3.57 ॥
अभुक्तायां यस्यां क्षणं अपि न यातं नृपशतैर्
धुवस्तस्या लाभे क इव बहुमानः क्षितिभृताम् ।
तद्अंशस्याप्यंशे तद्अवयलेशेऽपि पतयो
विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ 3.58 ॥
मृत्पिंडो जलरेखया बलयतिः सर्वोऽप्ययं नन्वणुः
स्वांशीकृत्य स एव संगरशतै राज्ञां गणा भुंजते ।
ये दद्युर्ददतोऽथवा किं अपरं क्षुद्रा दरिद्रं भृशं
धिग्धिक्तान्पुरुषाधमांधनकणान्वांछंति तेभ्योऽपि ये ॥ 3.59 ॥
स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं
कपालं यस्योच्चैर्विनिहितं अलंकारविधये ।
नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना
नमद्भिः कः पुंसां अयं अतुलदर्पज्वरभरः ॥ 3.60 ॥
परेषां चेतांसि प्रतिदिवसं आराध्य बहुधा
प्रसादं किं नेतुं विशसि हृदय क्लेशकलितम् ।
प्रसन्ने त्वय्यंतःसवयमुदितचिंतामणिगणो
विविक्तः संकल्पः किं अभिलषितं पुष्यति न ते ॥ 3.61 ॥
सत्यां एव त्रिलोकीसरिति हरशिरश्चुंबिनीवच्छटायां
सद्वृत्तिं कल्पयंत्यां बटविटपभवैर्वल्कलैः सत्फलैश्च ।
कोऽयं विद्वान्विपत्तिज्वरजनितरुजातीवदुःखासिकानां
वक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात्स्वे कुटुंबेऽनुकंपाम् ॥ 3.611 ॥
परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां
स्वयं भवति यद्यथा भवति तत्तथा नान्यथा ।
अतीतं अननुस्मरन्नपि च भाव्यसंकल्पयन्नतर्कित
समागमानुभवामि भोगनाहम् ॥ 3.62 ॥
एतस्माद्विरमेंद्रियार्थगहनादायासकादाश्रयश्रेयो
मार्गं अशेषदुःखशमनव्यापारदक्षं क्षणात् ।
स्वात्मीभावं उपैहि संत्यज निजां कल्लोललोलं गतिं
मा भूयो भज भंगुरां भवरतिं चेतः प्रसीदाधुना ॥ 3.63 ॥
मोहं मार्जय तां उपार्जय रतिं चंद्रार्धचूडामणौ
चेतः स्वर्गतरंगिणीतटभुवां आसंगं अंगीकुरु ।
को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च
ज्वालाग्रेषु च पन्नगेषु सरिद्वेगेषु च चप्रत्ययः ॥ 3.64 ॥
चेतश्चिंतय मा रमां सकृदिमां अस्थायिनीं आस्थया
भूपालभ्रुकुटीकुटीविहरणव्यापारपण्यांगनाम् ।
कंथाकंचुकिनः प्रविश्य भवनद्वाराणि वाराणसीरथ्या
पंक्तिषु पाणिपात्रपतितां भिक्षां अपेक्षामहे ॥ 3.65 ॥
अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः
पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम् ।
यद्यस्त्येवं कुरु भवरसास्वादने लंपटत्वं
नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ 3.66 ॥
प्राप्ताः श्रियः सकलकामदुधास्ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
संपादिताः प्रणयिनो विभवैस्ततः किं
कल्पं स्थितास्तनुभृतां तनवस्ततः किम् ॥ 3.67 ॥
भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बंधुषु न मन्मथजा विकाराः ।
संसर्ज दोषरहिता विजया वनांता
वैराग्यं अस्ति किं इतः परमर्थनीयम् ॥ 3.68 ॥
तस्मादनंतं अजरं परमं विकासि
तद्ब्रह्म चिंतय किं एभिरसद्विकल्पैः ।
यस्यानुषंगिण इमे भुवनाधिपत्यभोगादयः
कृपणलोकमता भवंति ॥ 3.69 ॥
पातालं आविशसि यासि नभो विलंघ्य
दिङ्मंडलं भ्रमसि मानस चापलेन ।
भ्रांत्यापि जातु विमलं कथं आत्मनीनं
न ब्रह्म संसरसि विर्वृतिमं एषि येन ॥ 3.70 ॥
किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः
स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।
मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं
स्वात्मानंदपदप्रवेशकलनं शेसैर्वाणिग्वृत्तिभिः ॥ 3.71 ॥
नायं ते समयो रहस्यं अधुना निद्राति नाथो यदि
स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः ।
चेतस्तानपहाय याहि भवनं देवस्य विश्वेशितुर्
निर्दौवारिकनिर्दयोक्त्य्अपरुषं निःसौम्अशर्मप्रदम् ॥ 3.711 ॥
यतो मेरुः श्रीमान्निपतति युगांताग्निवलितः
समुद्राः शुष्यंति प्रचुरमकरग्राहनिलयाः ।
धरा गच्छत्यंतं धरणिधरपादैरपि धृता
शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ 3.72 ॥
गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दंतावलिर्
दृष्टिर्नक्ष्यति वर्धते वधिरता वक्त्रं च लालायते ।
वाक्यं नाद्रियते च बांधवजनो भार्या न शुश्रूषते
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ 3.73 ॥
वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां
स्थानं जरापरिभवस्य तदा पुमांसम् ।
आरोपितांस्थिशतकं परिहृत्य यांति
चंडालकूपं इव दूरतरं तरुण्यः ॥ 3.74 ॥
यावत्स्वस्थं इदं शरीरं अरुजं यावच्च दूरे जरा
यावच्चेंद्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ 3.75 ॥
तपस्यंतः संतः किं अधिनिवसामः सुरनदीं
गुणोदारांदारानुत परिचरामः सविनयम् ।
पिबामः शास्त्रौघानुतविविधकाव्यामृतरसान्
न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ 3.76 ॥
दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजो
वयं तु स्थूलेच्छाः सुमहति फले बद्धमनसः ।
जरा देहं मृत्युर्हरति दयितं जीवितं इदं
सखे नान्यच्छ्रेयो जगति विदुषेऽन्यत्र तपसः ॥ 3.77 ॥
माने म्लायिनि खंडिते च वसुनि व्यर्थे प्रयातेऽर्थिनि
क्षीणे बंधुजने गते परिजने नष्टे शनैर्यौवने ।
युक्तं केवलं एतदेव सुधियां यज्जह्नुकन्यापयःपूताग्राव
गिरींद्रकंदरतटीकुंजे निवासः क्वचिथ् ॥ 3.78 ॥
रम्याश्चंद्रमरीचयस्तृणवती रम्या वनांतस्थली
रम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः ।
कोपोपाहितबाष्पबिंदुतरलं रम्यं प्रियाया मुखं
सर्वं रम्यं अनित्यतां उपगते चित्ते न किंचित्पुनः ॥ 3.79 ॥
रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं
किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।
किंतु भ्रांतपतंगक्षपवनव्यालोलदीपांकुरच्छाया
चंचलं आकलय्य सकलं संतो वनांतं गताः ॥ 3.80 ॥
आ संसारात्त्रिभुवनं इदं चिन्वतां तात्तादृङ्नैवास्माकं
नयनपदवीं श्रोत्रमार्गं गतो वा ।
योऽयं धत्ते विषयकरिणो गाढगूढाभिमानक्षीवस्यांतः
करणकरिणः संयमालानलीलाम् ॥ 3.81 ॥
यदेतत्स्वच्छंदं विहरणं अकार्पण्यं अशनं
सहार्यैः संवासः श्रुतं उपशमैकव्रतफलम् ।
मनो मंदस्पंदं बहिरपि चिरस्यापि विमृशन्न
जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ 3.82 ॥
जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं
हंतांगेषु गुणाश्बंध्यफलतां याता गुणज्ञैर्विना ।
किं युक्तं सहसाभ्युपैति बलवान्कालः कृतांतोऽक्षमी
हा ज्ञातं मदनांतकांघ्रियुगलं मुक्त्वास्ति नान्यो गतिः ॥ 3.83 ॥
महेश्वरे वा जगतां अधीश्वरे
जनार्दने वा जगद्अंतरात्मनि ।
न वस्तुभेदप्रतिपत्तिरस्ति मे
तथापि भक्तिस्तरुणेंदुशेखरे ॥ 3.84 ॥
स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने
सुखासीनाः शांतध्वंतिसु रजनीषु द्युसरितः ।
भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः
कदा यास्यामोऽतर्गतबहुलबाष्पाकुलदशाम् ॥ 3.85 ॥
महादेवो देवः सरिदपि च सैषा सुरसरिद्गुहा
एवागारं वसनं अपि ता एव हरितः ।
सुहृदा कालोऽयं व्रतं इदं अदैन्यव्रतं इदं
कियद्वा वक्ष्यामो वटविटप एवास्तु दयिता ॥ 3. ॥
वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः
स्मरंतः संसारे विगुणपरिणामां विधिगतिम् ।
वयं पुण्यारण्ये परिणतशरच्चंद्रकिरणास्
त्रियामा नेस्यामो हरचरणचिंतैकशरणाः ॥ 3.86 ॥
कदा वाराणस्यां अमरतटिनीरोधसि वसन्
वसानः कौपीनं शिरसि निदधानोऽंजलिपुटम् ।
अये गौरीनाथ त्रिपुरहर शंभो त्रिनयन
प्रसीदेत्याक्रोशन्निमिषं इव नेष्यामि दिवसान् ॥ 3.87 ॥
उद्यानेषु विचित्रभोजनविधिस्तीव्रातितीव्रं तपः
कौपीनावरणं सुवस्त्रं अमितं भिक्षाटनं मंडनम् ।
आसन्नं मरणं च मंगलसमं यस्यां समुत्पद्यते
तां काशीं परिहृत्य हंत विबुधैरन्यत्र किं स्थीयते ॥ 3. ॥
स्नात्वा गांगैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वा
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यंकमूले ।
आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ॥ 3.88 ॥
एकाकी निःस्पृहः शांतः पाणिपात्रो दिगंबरः ।
कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥ 3.89 ॥
पाणिं पात्रयतां निसर्गशुचिना भैक्षेण संतुष्यतां
यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ।
अत्यागेऽपि तनोरखंडपरमानंदावबोधस्पृशा
मध्वा कोऽपि शिवप्रसादसुलभः संपत्स्यते योगिनाम् ॥ 3.90 ॥
कौपीनं शतखंडजर्जरतरं कंथा पुनस्तादृशी
नैश्चिंत्यं निरपेक्षभैक्ष्यं अशनं निद्रा श्मशाने वने ।
स्वातंत्र्येण निरंकुशं विहरणं स्वांतं प्रशांतं सदा
स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम् ॥ 3.91 ॥
ब्रह्मांडं मंडलीमात्रं किं लोभाय मनस्विनः ।
शफरीस्फुर्तेनाब्धिः क्षुब्धो न खलु जायते ॥ 3.92 ॥
मातर्लक्ष्मि भजस्व कंचिदपरं मत्कांक्षिणी मा स्म भूर्
भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणां असि ।
सद्यः स्यूतपलाशपत्रपुटिकापात्रैः पवित्रीकृतैर्
भिक्षावस्तुभिरेव संप्रति वयं वृत्तिं समीहामहे ॥ 3.93 ॥
महाशय्या पृथ्वी विपुलं उपधानं भुजलतां
वितानं चाकाशं व्यजनं अनुकूलोऽयं अनिलः ।
शरच्चंद्रो दीपो विरतिवनितासंगमुदितः
सुखी शांतः शेते मुनिरतनुभूतिर्नृप इव ॥ 3.94 ॥
भिक्षासी जनमध्यसंगरहितः स्वायत्तचेष्टः सदा
हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ।
रथ्याकीर्णविशीर्णजीर्णवसनः संप्राप्तकंथासनो
निर्मानो निरहंकृतिः शमसुखाभोगैकबद्धस्पृहः ॥ 3.95 ॥
चंडालः किं अयं द्विजातिरथवा शूद्रोऽथ किं तापसः
किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किम् ।
इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनैर्
न क्रुद्धाः पथि नैव तुष्टमनसो यांति स्वयं योगिनः ॥ 3.96 ॥
हिंसाशून्यं अयत्नलभ्यं अशनं धात्रा मरुत्कल्पितं
व्यालानं पशवस्तृणांकुरभुजस्तुष्टाः स्थलीशायिनः ।
संसारार्णवलंघनक्षमधियां वृत्तिः कृता सा नृणां
तां अन्वेषयतां प्रयांति सततं सर्वं समाप्तिं गुणाः ॥ 3.97 ॥
गंगातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशंकाः
कंडूयंते जरठहरिणाः स्वांगं अंगे मदीये ॥ 3.98 ॥
जीर्णाः कंथा ततः किं सितं अमलपटं पट्टसूत्रं ततः किं
एका भार्या ततः किं हयकरिसुगणैरावृतो वा ततः किम् ।
भक्तं भुक्तं ततः किं कदशनं अथवा वासरांते ततः किं
व्यक्तज्योतिर्न वांतर्मथितभवभयं वैभवं वा ततः किम् ॥ 3. ॥
पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यं अक्षय्यं अन्नं
विस्तीर्णं वस्त्रं आशादशकं अचपलं तल्पं अस्वल्पं उर्वीम् ।
येषां निःसंगतांगीकरणपरिणतस्वांतसंतोषिणस्ते
धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयंति ॥ 3.99 ॥
त्रैलोक्याधिपतित्वं एव विरसं यस्मिन्महाशासने
तल्लब्ध्वासनवस्त्रमानघटने भोगे रतिं मा कृथाः ।
भोगः कोऽपि स एक एव परमो नित्योदिता जृंभने
यत्स्वादाद्विरसा भवंति विसयास्त्रैलोक्यराज्यादयः ॥ 3.991 ॥
मातर्मेदिनि तात मारुति सखे तेजः सुबंधो जल
भ्रातर्व्यौम्अ निबद्ध एष भवतां अंत्यः प्रणामांजलिः ।
युष्मत्संगवशोपजातसुकृतस्फारस्फुरन्निर्मलज्ञानापास्त
समस्तमोहमहिमा लीने परब्रह्मणि ॥ 3.100 ॥
शय्या शैलशिलागृहं गिरिगुहा वस्त्रं तरुणां त्वचः
सारंगाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः कौम्अलैः ।
येसां निर्झरं अंबुपानं उचितं रत्यै तु विद्यांगना
मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवांजलिः ॥ 3.1001 ॥
धैर्यं यस्य पिता क्षमा च जननी शांतिश्चिरं गेहिनी
सत्यं मित्रं इदं दया च भगिनी भ्राता मनःसंयमः ।
शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनं
ह्येते यस्य कुटुंबिनो वद सखे कस्माद्भयं योगिनः ॥ 3.1002 ॥
अहो वा हारे वा बलवति रिपौ वा सुहृदि वा
मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यांति दिवसाः
क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ 3.1003 ॥