मुदा सुरौघैस्त्वमुदारसम्मदै-
रुदीर्य दामोदर इत्यभिष्टुतः ।
मृदुदरः स्वैरमुलूखले लग-
न्नदूरतो द्वौ ककुभावुदैक्षथाः ॥1॥

कुबेरसूनुर्नलकूबराभिधः
परो मणिग्रीव इति प्रथां गतः ।
महेशसेवाधिगतश्रियोन्मदौ
चिरं किल त्वद्विमुखावखेलताम् ॥2॥

सुरापगायां किल तौ मदोत्कटौ
सुरापगायद्बहुयौवतावृतौ ।
विवाससौ केलिपरौ स नारदो
भवत्पदैकप्रवणो निरैक्षत ॥3॥

भिया प्रियालोकमुपात्तवाससं
पुरो निरीक्ष्यापि मदान्धचेतसौ ।
इमौ भवद्भक्त्युपशान्तिसिद्धये
मुनिर्जगौ शान्तिमृते कुतः सुखम् ॥4॥

युवामवाप्तौ ककुभात्मतां चिरं
हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् ।
इतीरेतौ तौ भवदीक्षणस्पृहां
गतौ व्रजान्ते ककुभौ बभूवतुः ॥5॥

अतन्द्रमिन्द्रद्रुयुगं तथाविधं
समेयुषा मन्थरगामिना त्वया ।
तिरायितोलूखलरोधनिर्धुतौ
चिराय जीर्णौ परिपातितौ तरू ॥6॥

अभाजि शाखिद्वितयं यदा त्वया
तदैव तद्गर्भतलान्निरेयुषा ।
महात्विषा यक्षयुगेन तत्क्षणा-
दभाजि गोविन्द भवानपि स्तवैः ॥7॥

इहान्यभक्तोऽपि समेष्यति क्रमात्
भवन्तमेतौ खलु रुद्रसेवकौ ।
मुनिप्रसादाद्भव्दङ्घ्रिमागतौ
गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥8॥

ततस्तरूद्दारणदारुणारव-
प्रकम्पिसम्पातिनि गोपमण्डले ।
विलज्जितत्वज्जननीमुखेक्षिणा
व्यमोक्षि नन्देन भवान् विमोक्षदः ॥9॥

महीरुहोर्मध्यगतो बतार्भको
हरेः प्रभावादपरिक्षतोऽधुना ।
इति ब्रुवाणैर्गमितो गृहं भवान्
मरुत्पुराधीश्वर पाहि मां गदात् ॥10॥