जनक उवाच ॥

अहो निरंजनः शांतो बोधोऽहं प्रकृतेः परः ।
एतावंतमहं कालं मोहेनैव विडंबितः ॥ 2-1॥

यथा प्रकाशयाम्येको देहमेनं तथा जगत् ।
अतो मम जगत्सर्वमथवा न च किंचन ॥ 2-2॥

स शरीरमहो विश्वं परित्यज्य मयाधुना ।
कुतश्चित् कौशलाद् एव परमात्मा विलोक्यते ॥ 2-3॥

यथा न तोयतो भिन्नास्तरंगाः फेनबुद्बुदाः ।
आत्मनो न तथा भिन्नं विश्वमात्मविनिर्गतम् ॥ 2-4॥

तंतुमात्रो भवेद् एव पटो यद्वद् विचारितः ।
आत्मतन्मात्रमेवेदं तद्वद् विश्वं विचारितम् ॥ 2-5॥

यथैवेक्षुरसे क्लृप्ता तेन व्याप्तैव शर्करा ।
तथा विश्वं मयि क्लृप्तं मया व्याप्तं निरंतरम् ॥ 2-6॥

आत्माज्ञानाज्जगद्भाति आत्मज्ञानान्न भासते ।
रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद् भासते न हि ॥ 2-7॥

प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः ।
यदा प्रकाशते विश्वं तदाहं भास एव हि ॥ 2-8॥

अहो विकल्पितं विश्वमज्ञानान्मयि भासते ।
रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा ॥ 2-9॥

मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति ।
मृदि कुंभो जले वीचिः कनके कटकं यथा ॥ 2-10॥

अहो अहं नमो मह्यं विनाशो यस्य नास्ति मे ।
ब्रह्मादिस्तंबपर्यंतं जगन्नाशोऽपि तिष्ठतः ॥ 2-11॥

अहो अहं नमो मह्यमेकोऽहं देहवानपि ।
क्वचिन्न गंता नागंता व्याप्य विश्वमवस्थितः ॥ 2-12॥

अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः ।
असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम् ॥ 2-13॥

अहो अहं नमो मह्यं यस्य मे नास्ति किंचन ।
अथवा यस्य मे सर्वं यद् वाङ्मनसगोचरम् ॥ 2-14॥

ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवम् ।
अज्ञानाद् भाति यत्रेदं सोऽहमस्मि निरंजनः ॥ 2-15॥

द्वैतमूलमहो दुःखं नान्यत्तस्याऽस्ति भेषजम् ।
दृश्यमेतन् मृषा सर्वमेकोऽहं चिद्रसोमलः ॥ 2-16॥

बोधमात्रोऽहमज्ञानाद् उपाधिः कल्पितो मया ।
एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम ॥ 2-17॥

न मे बंधोऽस्ति मोक्षो वा भ्रांतिः शांता निराश्रया ।
अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितम् ॥ 2-18॥

सशरीरमिदं विश्वं न किंचिदिति निश्चितम् ।
शुद्धचिन्मात्र आत्मा च तत्कस्मिन् कल्पनाधुना ॥ 2-19॥

शरीरं स्वर्गनरकौ बंधमोक्षौ भयं तथा ।
कल्पनामात्रमेवैतत् किं मे कार्यं चिदात्मनः ॥ 2-20॥

अहो जनसमूहेऽपि न द्वैतं पश्यतो मम ।
अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम् ॥ 2-21॥

नाहं देहो न मे देहो जीवो नाहमहं हि चित् ।
अयमेव हि मे बंध आसीद्या जीविते स्पृहा ॥ 2-22॥

अहो भुवनकल्लोलैर्विचित्रैर्द्राक् समुत्थितम् ।
मय्यनंतमहांभोधौ चित्तवाते समुद्यते ॥ 2-23॥

मय्यनंतमहांभोधौ चित्तवाते प्रशाम्यति ।
अभाग्याज्जीववणिजो जगत्पोतो विनश्वरः ॥ 2-24॥

मय्यनंतमहांभोधावाश्चर्यं जीववीचयः ।
उद्यंति घ्नंति खेलंति प्रविशंति स्वभावतः ॥ 2-25॥