विनियोगः
पुराणपुरुषो विष्णुः पुरुषोत्तम उच्यते ।
नाम्नां सहस्रं वक्ष्यामि तस्य भागवतोद्धृतम् ॥ 1॥
यस्य प्रसादाद्वागीशाः प्रजेशा विभवोन्नताः ।
क्षुद्रा अपि भवंत्याशु श्रीकृष्णं तं नतोऽस्म्यहम् ॥ 2॥
अनंता एव कृष्णस्य लीला नामप्रवर्तिकाः ।
उक्ता भागवते गूहाः प्रकटा अपि कुत्रचित् ॥ 3॥
अतस्तानि प्रवक्ष्यामि नामानि मुरवैरिणः ।
सहस्रं यैस्तु पठितैः पठितं स्याच्छुकामृतम् ॥ 4॥
कृष्णनामसहस्रस्य ऋषिरग्निर्निरूपितः ।
गायत्री च तथा छंदो देवता पुरुषोत्तमः ॥ 5॥
विनियोगः समस्तेषु पुरुषार्थेषु वै मतः ।
बीजं भक्तप्रियः शक्तिः सत्यवागुच्यते हरिः ॥ 6॥
भक्तोद्धरणयत्नस्तु मंत्रोऽत्र परमो मतः ।
अवतारितभक्तांशः कीलकं परिकीर्तितम् ॥ 7॥
अस्त्रं सर्वसमर्थश्च गोविंदः कवचं मतम् ।
पुरुषो ध्यानमत्रोक्तः सिद्धिः शरणसंस्मृतिः ॥ 8॥
अधिकारलीला
श्रीकृष्णः सच्चिदानंदो नित्यलीलाविनोदकृत् ।
सर्वागमविनोदी च लक्ष्मीशः पुरुषोत्तमः ॥ 9॥
आदिकालः सर्वकालः कालात्मा माययावृतः ।
भक्तोद्धारप्रयत्नात्मा जगत्कर्ता जगन्मयः ॥ 10॥
नामलीलापरो विष्णुर्व्यासात्मा शुकमोक्षदः ।
व्यापिवैकुंठदाता च श्रीमद्भागवतागमः ॥ 11॥
शुकवागमृताब्धींदुः शौनकाद्यखिलेष्टदः ।
भक्तिप्रवर्तकस्त्राता व्यासचिंताविनाशकः ॥ 12॥
सर्वसिद्धांतवागात्मा नारदाद्यखिलेष्टदः ।
अंतरात्मा ध्यानगम्यो भक्तिरत्नप्रदायकः ॥ 13॥
मुक्तोपसृप्यः पूर्णात्मा मुक्तानां रतिवर्धनः ।
भक्तकार्यैकनिरतो द्रौण्यस्त्रविनिवारकः ॥ 14॥
भक्तस्मयप्रणेता च भक्तवाक्परिपालकः ।
ब्रह्मण्यदेवो धर्मात्मा भक्तानां च परीक्षकः ॥ 15॥
आसन्नहितकर्ता च मायाहितकरः प्रभुः ।
उत्तराप्राणदाता च ब्रह्मास्त्रविनिवारकः ॥ 16॥
सर्वतः पाणवपतिः परीक्षिच्छुद्धिकारणम् ।
गूहात्मा सर्ववेदेषु भक्तैकहृदयंगमः ॥ 17॥
कुंतीस्तुत्यः प्रसन्नात्मा परमाद्भुतकार्यकृत् ।
भीष्ममुक्तिप्रदः स्वामी भक्तमोहनिवारकः ॥ 18॥
सर्वावस्थासु संसेव्यः समः सुखहितप्रदः ।
कृतकृत्यः सर्वसाक्षी भक्तस्त्रीरतिवर्धनः ॥ 19॥
सर्वसौभाग्यनिलयः परमाश्चर्यरूपधृक् ।
अनन्यपुरुषस्वामी द्वारकाभाग्यभाजनम् ॥ 20॥
बीजसंस्कारकर्ता च परीक्षिज्जानपोषकः ।
सर्वत्रपूर्णगुणकः सर्वभूषणभूषितः ॥ 21॥
सर्वलक्षणदाता च धृतराष्ट्रविमुक्तिदः ।
सन्मार्गरक्षको नित्यं विदुरप्रीतिपूरकः ॥ 22॥
लीलाव्यामोहकर्ता च कालधर्मप्रवर्तकः ।
पाणवानां मोक्षदाता परीक्षिद्भाग्यवर्धनः ॥ 23॥
कलिनिग्रहकर्ता च धर्मादीनां च पोषकः ।
सत्संगजानहेतुश्च श्रीभागवतकारणम् ॥ 24॥
प्राकृतादृष्टमार्गश्च॥॥॥॥॥॥ चोंतिनुएद्
ज्ञान-साधन-लीला
॥॥॥॥॥॥॥॥॥॥॥॥ श्रोतव्यः सकलागमैः ।
कीर्तितव्यः शुद्धभावैः स्मर्तव्यश्चात्मवित्तमैः ॥ 25॥
अनेकमार्गकर्ता च नानाविधगतिप्रदः ।
पुरुषः सकलाधारः सत्त्वैकनिलयात्मभूः ॥ 26॥
सर्वध्येयो योगगम्यो भक्त्या ग्राह्यः सुरप्रियः ।
जन्मादिसार्थककृतिर्लीलाकर्ता पतिः सताम् ॥ 27॥
आदिकर्ता तत्त्वकर्ता सर्वकर्ता विशारदः ।
नानावतारकर्ता च ब्रह्माविर्भावकारणम् ॥ 28॥
दशलीलाविनोदी च नानासृष्टिप्रवर्तकः ।
अनेककल्पकर्ता च सर्वदोषविवर्जितः ॥ 29॥
सर्गलीला
वैराग्यहेतुस्तीर्थात्मा सर्वतीर्थफलप्रदः ।
तीर्थशुद्धैकनिलयः स्वमार्गपरिपोषकः ॥ 30॥
तीर्थकीर्तिर्भक्तगम्यो भक्तानुशयकार्यकृत् ।
भक्ततुल्यः सर्वतुल्यः स्वेच्छासर्वप्रवर्तकः ॥ 31॥
गुणातीतोऽनवद्यात्मा सर्गलीलाप्रवर्तकः ।
साक्षात्सर्वजगत्कर्ता महदादिप्रवर्तकः ॥ 32॥
मायाप्रवर्तकः साक्षी मायारतिविवर्धनः ।
आकाशात्मा चतुर्मूर्तिश्चतुर्धा भूतभावनः ॥ 33॥
रजःप्रवर्तको ब्रह्मा मरीच्यादिपितामहः ।
वेदकर्ता यज्ञकर्ता सर्वकर्ताऽमितात्मकः ॥ 34॥
अनेकसृष्टिकर्ता च दशधासृष्टिकारकः ।
यज्ञांगो यज्ञवाराहो भूधरो भूमिपालकः ॥ 35॥
सेतुर्विधरणो जैत्रो हिरण्याक्षांतकः सुरः ।
दितिकश्यपकामैकहेतुसृष्टिप्रवर्तकः ॥ 36॥
देवाभयप्रदाता च वैकुंठाधिपतिर्महान् ।
सर्वगर्वप्रहारी च सनकाद्यखिलार्थदः ॥ 37॥
सर्वाश्वासनकर्ता च भक्ततुल्याहवप्रदः ।
काललक्षणहेतुश्च सर्वार्थज्ञापकः परः ॥ 38॥
भक्तोन्नतिकरः सर्वप्रकारसुखदायकः ।
नानायुद्धप्रहरणो ब्रह्मशापविमोचकः ॥ 39॥
पुष्टिसर्गप्रणेता च गुणसृष्टिप्रवर्तकः ।
कर्दमेष्टप्रदाता च देवहूत्यखिलार्थदः ॥ 40॥
शुक्लनारायणः सत्यकालधर्मप्रवर्तकः ।
ज्ञानावतारः शांतात्मा कपिलः कालनाशकः ॥ 41॥
त्रिगुणाधिपतिः सांख्यशास्त्रकर्ता विशारदः ।
सर्गदूषणहारी च पुष्टिमोक्षप्रवर्तकः ॥ 42॥
लौकिकानंददाता च ब्रह्मानंदप्रवर्तकः ।
भक्तिसिद्धांतवक्ता च सगुणज्ञानदीपकः ॥ 43॥
आत्मप्रदः पूर्णकामो योगात्मा योगभावितः ।
जीवन्मुक्तिप्रदः श्रीमानन्यभक्तिप्रवर्तकः ॥ 44॥
कालसामर्थ्यदाता च कालदोषनिवारकः ।
गर्भोत्तमज्ञानदाता कर्ममार्गनियामकः ॥ 45॥
सर्वमार्गनिराकर्ता भक्तिमार्गैकपोषकः ।
सिद्धिहेतुः सर्वहेतुः सर्वाश्चर्यैककारणम् ॥ 46॥
चेतनाचेतनपतिः समुद्रपरिपूजितः ।
सांख्याचार्यस्तुतः सिद्धपूजितः सर्वपूजितः ॥ 47॥
विसर्गलीला
विसर्गकर्ता सर्वेशः कोटिसूर्यसमप्रभः ।
अनंतगुणगंभीरो महापुरुषपूजितः ॥ 48॥
अनंतसुखदाता च ब्रह्मकोटिप्रजापतिः ।
सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः ॥ 49॥
समुद्रकोटिगंभीरस्तीर्थकोटिसमाह्वयः ।
सुमेरुकोटिनिष्कंपः कोटिब्रह्मांडविग्रहः ॥ 50॥
कोट्यश्वमेधपापघ्नो वायुकोटिमहाबलः ।
कोटींदुजगदानंदी शिवकोटिप्रसादकृत् ॥ 51॥
सर्वसद्गुणमाहात्म्यः सर्वसद्गुणभाजनम् ।
मन्वादिप्रेरको धर्मो यज्ञनारायणः परः ॥ 52॥
आकूतिसूनुर्देवेंद्रो रुचिजन्माऽभयप्रदः ।
दक्षिणापतिरोजस्वी क्रियाशक्तिः परायणः ॥ 53॥
दत्तात्रेयो योगपतिर्योगमार्गप्रवर्तकः ।
अनसूयागर्भरत्नमृषिवंशविवर्धनः ॥ 54॥
गुणत्रयविभागज्ञश्चतुर्वर्गविशारदः ।
नारायणो धर्मसूनुर्मूर्तिपुण्ययशस्करः ॥ 55॥
सहस्रकवचच्छेदी तपःसारो नरप्रियः ।
विश्वानंदप्रदः कर्मसाक्षी भारतपूजितः ॥ 56॥
अनंताद्भुतमाहात्म्यो बदरीस्थानभूषणम् ।
जितकामो जितक्रोधो जितसंगो जितेंद्रियः ॥ 57॥
उर्वशीप्रभवः स्वर्गसुखदायी स्थितिप्रदः ।
अमानी मानदो गोप्ता भगवच्छास्त्रबोधकः ॥ 58॥
ब्रह्मादिवंद्यो हंसश्रीर्मायावैभवकारणम् ।
विविधानंतसर्गात्मा विश्वपूरणतत्परः ॥ 59॥
यज्ञजीवनहेतुश्च यज्ञस्वामीष्टबोधकः ।
नानासिद्धांतगम्यश्च सप्ततंतुश्च षड्गुणः ॥ 60॥
प्रतिसर्गजगत्कर्ता नानालीलाविशारदः ।
ध्रुवप्रियो ध्रुवस्वामी चिंतिताधिकदायकः ॥ 61॥
दुर्लभानंतफलदो दयानिधिरमित्रहा ।
अंगस्वामी कृपासारो वैन्यो भूमिनियामकः ॥ 62॥
भूमिदोग्धा प्रजाप्राणपालनैकपरायणः ।
यशोदाता ज्ञानदाता सर्वधर्मप्रदर्शकः ॥ 63॥
पुरंजनो जगन्मित्रं विसर्गांतप्रदर्शकः ।
प्रचेतसां पतिश्चित्रभक्तिहेतुर्जनार्दनः ॥ 64॥
स्मृतिहेतुब्रह्मभावसायुज्यादिप्रदः शुभः ।
विजयी ॥॥॥॥॥॥॥॥॥॥ चोंतिनुएद्
स्थानलीला
॥॥ स्थितिलीलाब्धिरच्युतो विजयप्रदः ॥ 65॥
स्वसामर्थ्यप्रदो भक्तकीर्तिहेतुरधोक्षजः ।
प्रियव्रतप्रियस्वामी स्वेच्छावादविशारदः ॥ 66॥
संग्यगम्यः स्वप्रकाशः सर्वसंगविवर्जितः ।
इच्छायां च समर्यादस्त्यागमात्रोपलंभनः ॥ 67॥
अचिंत्यकार्यकर्ता च तर्कागोचरकार्यकृत् ।
शऋंगाररसमर्यादा आग्नीध्ररसभाजनम् ॥ 68॥
नाभीष्टपूरकः कर्ममर्यादादर्शनोत्सुकः ।
सर्वरूपोऽद्भुततमो मर्यादापुरुषोत्तमः ॥ 69॥
सर्वरूपेषु सत्यात्मा कालसाक्षी शशिप्रभः ।
मेरुदेवीव्रतफलमृषभो भगलक्षणः ॥ 70॥
जगत्संतर्पको मेघरूपी देवेंद्रदर्पहा ।
जयंतीपतिरत्यंतप्रमाणाशेषलौकिकः ॥ 71॥
शतधान्यस्तभूतात्मा शतानंदो गुणप्रसूः ।
वैष्णवोत्पादनपरः सर्वधर्मोपदेशकः ॥ 72॥
परहंसक्रियागोप्ता योगचर्याप्रदर्शकः ।
चतुर्थाश्रमनिर्णेता सदानंदशरीरवान् ॥ 73॥
प्रदर्शितान्यधर्मश्च भरतस्वाम्यपारकृत् ।
यथावत्कर्मकर्ता च संगानिष्टप्रदर्शकः ॥ 74॥
आवश्यकपुनर्जन्मकर्ममार्गप्रदर्शकः ।
यज्ञरूपमृगः शांतः सहिष्णुः सत्पराक्रमः ॥ 75॥
रहूगणगतिज्ञश्च रहूगणविमोचकः ।
भवाटवीतत्त्ववक्ता बहिर्मुखहिते रतः ॥ 76॥
गयस्वामी स्थानवंशकर्ता स्थानविभेदकृत् ।
पुरुषावयवो भूमिविशेषविनिरूपकः ॥ 77॥
जंबूद्वीपपतिर्मेरुनाभिपद्मरुहाश्रयः ।
नानाविभूतिलीलाढ्यो गंगोत्पत्तिनिदानकृत् ॥ 78॥
गंगामाहात्म्यहेतुश्च गंगारूपोऽतिगूढकृत् ।
वैकुंठदेहहेत्वंबुजन्मकृत् सर्वपावनः ॥ 79॥
शिवस्वामी शिवोपास्यो गूढः संकर्षणात्मकः ।
स्थानरक्षार्थमत्स्यादिरूपः सर्वैकपूजितः ॥ 80॥
उपास्यनानारूपात्मा ज्योतीरूपो गतिप्रदः ।
सूर्यनारायणो वेदकांतिरुज्ज्वलवेषधृक् ॥ 81॥
हंसोऽंतरिक्षगमनः सर्वप्रसवकारणम् ।
आनंदकर्ता वसुदो बुधो वाक्पतिरुज्ज्वलः ॥ 82॥
कालात्मा कालकालश्च कालच्छेदकृदुत्तमः ।
शिशुमारः सर्वमूर्तिराधिदैविकरूपधृक् ॥ 83॥
अनंतसुखभोगाढ्यो विवरैश्वर्यभाजनम् ।
संकर्षणो दैत्यपतिः सर्वाधारो बृहद्वपुः ॥ 84॥
अनंतनरकच्छेदी स्मृतिमात्रार्तिनाशनः ।
सर्वानुग्रहकर्ता च ॥॥॥॥॥॥॥॥॥॥ चोंतिनुएद्
पोषण-पुष्टि-लीला
॥॥॥॥॥॥॥॥ मर्यादाभिन्नशास्त्रकृत् ॥ 85 ॥
कालांतकभयच्छेदी नामसामर्थ्यरूपधृक् ।
उद्धारानर्हगोप्त्रात्मा नामादिप्रेरकोत्तमः ॥ 86॥
अजामिलमहादुष्टमोचकोऽघविमोचकः ।
धर्मवक्ताऽक्लिष्टवक्ता विष्णुधर्मस्वरूपधृक् ॥ 87॥
सन्मार्गप्रेरको धर्ता त्यागहेतुरधोक्षजः ।
वैकुंठपुरनेता च दाससंवृद्धिकारकः ॥ 88॥
दक्षप्रसादकृद्धंसगुह्यस्तुतिविभावनः ।
स्वाभिप्रायप्रवक्ता च मुक्तजीवप्रसूतिकृत् ॥ 89॥
नारदप्रेरणात्मा च हर्यश्वब्रह्मभावनः ।
शबलाश्वहितो गूढवाक्यार्थज्ञापनक्षमः ॥ 90॥
गूढार्थज्ञापनः सर्वमोक्षानंदप्रतिष्ठितः ।
पुष्टिप्ररोहहेतुश्च दासैकज्ञातहृद्गतः ॥ 91॥
शांतिकर्ता सुहितकृत् स्त्रीप्रसूः सर्वकामधुक् ।
पुष्टिवंशप्रणेता च विश्वरूपेष्टदेवता ॥ 92॥
कवचात्मा पालनात्मा वर्मोपचितिकारणम् ।
विश्वरूपशिरश्छेदी त्वाष्ट्रयज्ञविनाशकः ॥ 93॥
वृत्रस्वामी वृत्रगम्यो वृत्रव्रतपरायणः ।
वृत्रकीर्तिर्वृत्रमोक्षो मघवत्प्राणरक्षकः ॥ 94॥
अश्वमेधहविर्भोक्ता देवेंद्रामीवनाशकः ।
संसारमोचकश्चित्रकेतुबोधनतत्परः ॥ 95॥
मंत्रसिद्धिः सिद्धिहेतुः सुसिद्धिफलदायकः ।
महादेवतिरस्कर्ता भक्त्यै पूर्वार्थनाशकः ॥ 96॥
देवब्राह्मणविद्वेषवैमुख्यज्ञापकः शिवः ।
आदित्यो दैत्यराजश्च महत्पतिरचिंत्यकृत् ॥ 97॥
मरुतां भेदकस्त्राता व्रतात्मा पुंप्रसूतिकृत् ।
ऊतिलीला
कर्मात्मा वासनात्मा च ऊतिलीलापरायणः ॥ 98॥
समदैत्यसुरः स्वात्मा वैषम्यज्ञानसंश्रयः ।
देहाद्युपाधिरहितः सर्वज्ञः सर्वहेतुविद् ॥ 99॥
ब्रह्मवाक्स्थापनपरः स्वजन्मावधिकार्यकृत् ।
सदसद्वासनाहेतुस्त्रिसत्यो भक्तमोचकः ॥ 100॥
हिरण्यकशिपुद्वेषी प्रविष्टात्माऽतिभीषणः ।
शांतिज्ञानादिहेतुश्च प्रह्लादोत्पत्तिकारणम् ॥ 101॥
दैत्यसिद्धांतसद्वक्ता तपःसार उदारधीः ।
दैत्यहेतुप्रकटनो भक्तिचिह्नप्रकाशकः ॥ 102॥
सद्द्वेषहेतुः सद्द्वेषवासनात्मा निरंतरः ।
नैष्ठुर्यसीमा प्रह्लादवत्सलः संगदोषहा ॥ 103॥
महानुभावः साकारः सर्वाकारः प्रमाणभूः ।
स्तंभप्रसूतिर्नृहरिर्नृसिंहो भीमविक्रमः ॥ 104॥
विकटास्यो ललज्जिह्वो नखशस्त्रो जवोत्कटः ।
हिरण्यकशिपुच्छेदी क्रूरदैत्यनिवारकः ॥ 105॥
सिंहासनस्थः क्रोधात्मा लक्ष्मीभयविवर्धनः ।
ब्रह्माद्यत्यंतभयभूरपूर्वाचिंत्यरूपधृक् ॥ 106॥
भक्तैकशांतहृदयो भक्तस्तुत्यः स्तुतिप्रियः ।
भक्तांगलेहनोद्धूतक्रोधपुङ्जः प्रशांतधीः ॥ 107॥
स्मृतिमात्रभयत्राता ब्रह्मबुद्धिप्रदायकः ।
गोरूपधार्यमृतपाः शिवकीर्तिविवर्धनः ॥ 108॥
धर्मात्मा सर्वकर्मात्मा विशेषात्माऽऽश्रमप्रभुः ।
संसारमग्नस्वोद्धर्ता सन्मार्गाखिलतत्त्ववाक् ॥ 109॥
आचारात्मा सदाचारः ॥॥॥॥॥॥॥॥॥ चोंतिनुएद्
मन्वंतरलीला
॥॥॥॥॥॥॥॥॥॥मन्वंतरविभावनः ।
स्मृत्याऽशेषाशुभहरो गजेंद्रस्मृतिकारणम् ॥ 110॥
जातिस्मरणहेत्वैकपूजाभक्तिस्वरूपदः ।
यज्ञो भयान्मनुत्राता विभुर्ब्रह्मव्रताश्रयः ॥ 111॥
सत्यसेनो दुष्टघाती हरिर्गजविमोचकः ।
वैकुंठो लोककर्ता च अजितोऽमृतकारणम् ॥ 112॥
उरुक्रमो भूमिहर्ता सार्वभौमो बलिप्रियः ।
विभुः सर्वहितैकात्मा विष्वक्सेनः शिवप्रियः ॥ 113॥
धर्मसेतुर्लोकधृतिः सुधामांतरपालकः ।
उपहर्ता योगपतिर्बृहद्भानुः क्रियापतिः ॥ 114॥
चतुर्दशप्रमाणात्मा धर्मो मन्वादिबोधकः ।
लक्ष्मीभोगैकनिलयो देवमंत्रप्रदायकः ॥ 115॥
दैत्यव्यामोहकः साक्षाद्गरुडस्कंधसंश्रयः ।
लीलामंदरधारी च दैत्यवासुकिपूजितः ॥ 116॥
समुद्रोन्मथनायत्तोऽविघ्नकर्ता स्ववाक्यकृत् ।
आदिकूर्मः पवित्रात्मा मंदराघर्षणोत्सुकः ॥ 117॥
श्वासैजदब्धिवार्वीचिः कल्पांतावधिकार्यकृत् ।
चतुर्दशमहारत्नो लक्ष्मीसौभाग्यवर्धनः ॥ 118॥
धन्वंतरिः सुधाहस्तो यज्ञभोक्ताऽऽर्तिनाशनः ।
आयुर्वेदप्रणेता च देवदैत्याखिलार्चितः ॥ 119॥
बुद्धिव्यामोहको देवकार्यसाधनतत्परः ।
स्त्रीरूपो मायया वक्ता दैत्यांतःकरणप्रियः ॥ 120॥
पायितामृतदेवांशो युद्धहेतुस्मृतिप्रदः ।
सुमालिमालिवधकृन्माल्यवत्प्राणहारकः ॥ 121॥
कालनेमिशिरश्छेदी दैत्ययज्ञविनाशकः ।
इंद्रसामर्थ्यदाता च दैत्यशेषस्थितिप्रियः ॥ 122॥
शिवव्यामोहको मायी भृगुमंत्रस्वशक्तिदः ।
बलिजीवनकर्ता च स्वर्गहेतुर्व्रतार्चितः ॥ 123॥
अदित्यानंदकर्ता च कश्यपादितिसंभवः ।
उपेंद्र इंद्रावरजो वामनब्रह्मरूपधृक् ॥ 124॥
ब्रह्मादिसेवितवपुर्यज्ञपावनतत्परः ।
याच्ञोपदेशकर्ता च ज्ञापिताशेषसंस्थितिः ॥ 125॥
सत्यार्थप्रेरकः सर्वहर्ता गर्वविनाशकः ।
त्रिविक्रमस्त्रिलोकात्मा विश्वमूर्तिः पृथुश्रवाः ॥ 126॥
पाशबद्धबलिः सर्वदैत्यपक्षोपमर्दकः ।
सुतलस्थापितबलिः स्वर्गाधिकसुखप्रदः ॥ 127॥
कर्मसंपूर्तिकर्ता च स्वर्गसंस्थापितामरः ।
ज्ञातत्रिविधधर्मात्मा महामीनोऽब्धिसंश्रयः ॥ 128॥
सत्यव्रतप्रियो गोप्ता मत्स्यमूर्तिधृतश्रुतिः ।
शऋंगबद्धधृतक्षोणिः सर्वार्थज्ञापको गुरुः ॥ 129॥
ईशानुकथालीला
ईशसेवकलीलात्मा सूर्यवंशप्रवर्तकः ।
सोमवंशोद्भवकरो मनुपुत्रगतिप्रदः ॥ 130॥
अंबरीषप्रियः साधुर्दुर्वासोगर्वनाशकः ।
ब्रह्मशापोपसंहर्ता भक्तकीर्तिविवर्धनः ॥ 131॥
इक्ष्वाकुवंशजनकः सगराद्यखिलार्थदः ।
भगीरथमहायत्नो गंगाधौतांघ्रिपंकजः ॥ 132॥
ब्रह्मस्वामी शिवस्वामी सगरात्मजमुक्तिदः ।
खट्वांगमोक्षहेतुश्च रघुवंशविवर्धनः ॥ 133॥
रघुनाथो रामचंद्रो रामभद्रो रघुप्रियः ।
अनंतकीर्तिः पुण्यात्मा पुण्यश्लोकैकभास्करः ॥ 134॥
कोशलेंद्रः प्रमाणात्मा सेव्यो दशरथात्मजः ।
लक्ष्मणो भरतश्चैव शत्रुघ्नो व्यूहविग्रहः ॥ 135॥
विश्वामित्रप्रियो दांतस्ताडकावधमोक्षदः ।
वायव्यास्त्राब्धिनिक्षिप्तमारीचश्च सुबाहुहा ॥ 136॥
वृषध्वजधनुर्भंगप्राप्तसीतामहोत्सवः ।
सीतापतिर्भृगुपतिगर्वपर्वतनाशकः ॥ 137॥
अयोध्यास्थमहाभोगयुक्तलक्ष्मीविनोदवान् ।
कैकेयीवाक्यकर्ता च पितृवाक्परिपालकः ॥ 138॥
वैराग्यबोधकोऽनन्यसात्त्विकस्थानबोधकः ।
अहल्यादुःखहारी च गुहस्वामी सलक्ष्मणः ॥ 139॥
चित्रकूटप्रियस्थानो दंडकारण्यपावनः ।
शरभंगसुतीक्ष्णादिपूजितोऽगस्त्यभाग्यभूः ॥ 140॥
ऋषिसंप्रार्थितकृतिर्विराधवधपंडितः ।
छिन्नशूर्पणखानासः खरदूषणघातकः ॥ 141॥
एकबाणहतानेकसहस्रबलराक्षसः ।
मारीचघाती नियतसीतासंबंधशोभितः ॥ 142॥
सीतावियोगनाट्यश्च जटायुर्वधमोक्षदः ।
शबरीपूजितो भक्तहनुमत्प्रमुखावृतः ॥ 143॥
दुंदुभ्यस्थिप्रहरणः सप्ततालविभेदनः ।
सुग्रीवराज्यदो वालिघाती सागरशोषणः ॥ 144॥
सेतुबंधनकर्ता च विभीषणहितप्रदः ।
रावणादिशिरश्छेदी राक्षसाघौघनाशकः ॥ 145॥
सीताऽभयप्रदाता च पुष्पकागमनोत्सुकः ।
अयोध्यापतिरत्यंतसर्वलोकसुखप्रदः ॥ 146॥
मथुरापुरनिर्माता सुकृतज्ञस्वरूपदः ।
जनकज्ञानगम्यश्च ऐलांतप्रकटश्रुतिः ॥ 147॥
हैहयांतकरो रामो दुष्टक्षत्रविनाशकः ।
सोमवंशहितैकात्मा यदुवंशविवर्धनः ॥ 148॥
निरोधलीला
परब्रह्मावतरणः केशवः क्लेशनाशनः ।
भूमिभारावतरणो भक्तार्थाखिलमानसः ॥ 149॥
सर्वभक्तनिरोधात्मा लीलानंतनिरोधकृत् ।
भूमिष्ठपरमानंदो देवकीशुद्धिकारणम् ॥ 150॥
वसुदेवज्ञाननिष्ठसमजीवनिवारकः ।
सर्ववैराग्यकरणस्वलीलाधारशोधकः ॥ 151॥
मायाज्ञापनकर्ता च शेषसंभारसंभृतिः ।
भक्तक्लेशपरिज्ञाता तन्निवारणतत्परः ॥ 152॥
आविष्टवसुदेवांशो देवकीगर्भभूषणम् ।
पूर्णतेजोमयः पूर्णः कंसाधृष्यप्रतापवान् ॥ 153॥
विवेकज्ञानदाता च ब्रह्माद्यखिलसंस्तुतः ।
सत्यो जगत्कल्पतरुर्नानारूपविमोहनः ॥ 154॥
भक्तिमार्गप्रतिष्ठाता विद्वन्मोहप्रवर्तकः ।
मूलकालगुणद्रष्टा नयनानंदभाजनम् ॥ 155॥
वसुदेवसुखाब्धिश्च देवकीनयनामृतम् ।
पितृमातृस्तुतः पूर्वसर्ववृत्तांतबोधकः ॥ 156॥
गोकुलागतिलीलाप्तवसुदेवकरस्थितिः ।
सर्वेशत्वप्रकटनो मायाव्यत्ययकारकः ॥ 157॥
ज्ञानमोहितदुष्टेशः प्रपंचास्मृतिकारणम् ।
यशोदानंदनो नंदभाग्यभूगोकुलोत्सवः ॥ 158॥
नंदप्रियो नंदसूनुर्यशोदायाः स्तनंधयः ।
पूतनासुपयःपाता मुग्धभावातिसुंदरः ॥ 159॥
सुंदरीहृदयानंदो गोपीमंत्राभिमंत्रितः ।
गोपालाश्चर्यरसकृत् शकटासुरखंडनः ॥ 160॥
नंदव्रजजनानंदी नंदभाग्यमहोदयः ।
तृणावर्तवधोत्साहो यशोदाज्ञानविग्रहः ॥ 161॥
बलभद्रप्रियः कृष्णः संकर्षणसहायवान् ।
रामानुजो वासुदेवो गोष्ठांगणगतिप्रियः ॥ 162॥
किंकिणीरवभावज्ञो वत्सपुच्छावलंबनः ।
नवनीतप्रियो गोपीमोहसंसारनाशकः ॥ 163॥
गोपबालकभावज्ञश्चौर्यविद्याविशारदः ।
मृत्स्नाभक्षणलीलास्यमाहात्म्यज्ञानदायकः ॥ 164॥
धराद्रोणप्रीतिकर्ता दधिभांडविभेदनः ।
दामोदरो भक्तवश्यो यमलार्जुनभंजनः ॥ 165॥
बृहद्वनमहाश्चर्यो वृंदावनगतिप्रियः ।
वत्सघाती बालकेलिर्बकासुरनिषूदनः ॥ 166॥
अरण्यभोक्ताऽप्यथवा बाललीलापरायणः ।
प्रोत्साहजनकश्चैवमघासुरनिषूदनः ॥ 167॥
व्यालमोक्षप्रदः पुष्टो ब्रह्ममोहप्रवर्धनः ।
अनंतमूर्तिः सर्वात्मा जंगमस्थावराकृतिः ॥ 168॥
ब्रह्ममोहनकर्ता च स्तुत्य आत्मा सदाप्रियः ।
पौगंडलीलाभिरतिर्गोचारणपरायणः ॥ 169॥
वृंदावनलतागुल्मवृक्षरूपनिरूपकः ।
नादब्रह्मप्रकटनो वयःप्रतिकृतिस्वनः ॥ 170॥
बर्हिनृत्यानुकरणो गोपालानुकृतिस्वनः ।
सदाचारप्रतिष्ठाता बलश्रमनिराकृतिः ॥ 171॥
तरुमूलकृताशेषतल्पशायी सखिस्तुतः ।
गोपालसेवितपदः श्रीलालितपदांबुजः ॥ 172॥
गोपसंप्रार्थितफलदाननाशितधेनुकः ।
कालीयफणिमाणिक्यरंजितश्रीपदांबुजः ॥ 173॥
दृष्टिसङ्जीविताशेषगोपगोगोपिकाप्रियः ।
लीलासंपीतदावाग्निः प्रलंबवधपंडितः ॥ 174॥
दावाग्न्यावृतगोपालदृष्ट्याच्छादनवह्निपः ।
वर्षाशरद्विभूतिश्रीर्गोपीकामप्रबोधकः ॥ 175॥
गोपीरत्नस्तुताशेषवेणुवाद्यविशारदः ।
कात्यायनीव्रतव्याजसर्वभावाश्रितांगनः ॥ 176॥
सत्संगतिस्तुतिव्याजस्तुतवृंदावनांघ्रिपः ।
गोपक्षुच्छांतिसंव्याजविप्रभार्याप्रसादकृत् ॥ 177॥
हेतुप्राप्तेंद्रयागस्वकार्यगोसवबोधकः ।
शैलरूपकृताशेषरसभोगसुखावहः ॥ 178॥
लीलागोवर्धनोद्धारपालितस्वव्रजप्रियः ।
गोपस्वच्छंदलीलार्थगर्गवाक्यार्थबोधकः ॥ 179॥
इंद्रधेनुस्तुतिप्राप्तगोविंदेंद्राभिधानवान् ।
व्रतादिधर्मसंसक्तनंदक्लेशविनाशकः ॥ 180॥
नंदादिगोपमात्रेष्टवैकुंठगतिदायकः ।
वेणुवादस्मरक्षोभमत्तगोपीविमुक्तिदः ॥ 181॥
सर्वभावप्राप्तगोपीसुखसंवर्धनक्षमः ।
गोपीगर्वप्रणाशार्थतिरोधानसुखप्रदः ॥ 182॥
कृष्णभावव्याप्तविश्वगोपीभावितवेषधृक् ।
राधाविशेषसंभोगप्राप्तदोषनिवारकः ॥ 183॥
परमप्रीतिसंगीतसर्वाद्भुतमहागुणः ।
मानापनोदनाक्रंदगोपीदृष्टिमहोत्सवः ॥ 184॥
गोपिकाव्याप्तसर्वांगः स्त्रीसंभाषाविशारदः ।
रासोत्सवमहासौख्यगोपीसंभोगसागरः ॥ 185॥
जलस्थलरतिव्याप्तगोपीदृष्ट्यभिपूजितः ।
शास्त्रानपेक्षकामैकमुक्तिद्वारविवर्धनः ॥ 186॥
सुदर्शनमहासर्पग्रस्तनंदविमोचकः ।
गीतमोहितगोपीधृक्षंखचूडविनाशकः ॥ 187॥
गुणसंगीतसंतुष्टिर्गोपीसंसारविस्मृतिः ।
अरिष्टमथनो दैत्यबुद्धिव्यामोहकारकः ॥ 188॥
केशिघाती नारदेष्टो व्योमासुरविनाशकः ।
अक्रूरभक्तिसंराद्धपादरेणुमहानिधिः ॥ 189॥
रथावरोहशुद्धात्मा गोपीमानसहारकः ।
ह्रदसंदर्शिताशेषवैकुंठाक्रूरसंस्तुतः ॥ 190॥
मथुरागमनोत्साहो मथुराभाग्यभाजनम् ।
मथुरानगरीशोभादर्शनोत्सुकमानसः ॥ 191॥
दुष्टरंजकघाती च वायकार्चितविग्रहः ।
वस्त्रमालासुशोभांगः कुब्जालेपनभूषितः ॥ 192॥
कुब्जासुरूपकर्ता च कुब्जारतिवरप्रदः ।
प्रसादरूपसंतुष्टहरकोदंडखंडनः ॥ 193॥
शकलाहतकंसाप्तधनूरक्षकसैनिकः ।
जाग्रत्स्वप्नभयव्याप्तमृत्युलक्षणबोधकः ॥ 194॥
मथुरामल्ल ओजस्वी मल्लयुद्धविशारदः ।
सद्यः कुवलयापीडघाती चाणूरमर्दनः ॥ 195॥
लीलाहतमहामल्लः शलतोशलघातकः ।
कंसांतको जितामित्रो वसुदेवविमोचकः ॥ 196॥
ज्ञाततत्त्वपितृज्ञानमोहनामृतवाङ्मयः ।
उग्रसेनप्रतिष्ठाता यादवाधिविनाशकः ॥ 197॥
नंदादिसांत्वनकरो ब्रह्मचर्यव्रते स्थितः ।
गुरुशुश्रूषणपरो विद्यापारमितेश्वरः ॥ 198॥
सांदीपनिमृतापत्यदाता कालांतकादिजित् ।
गोकुलाश्वासनपरो यशोदानंदपोषकः ॥ 199॥
गोपिकाविरहव्याजमनोगतिरतिप्रदः ।
समोद्धवभ्रमरवाक् गोपिकामोहनाशकः ॥ 200॥
कुब्जारतिप्रदोऽक्रूरपवित्रीकृतभूगृहः ।
पृथादुःखप्रणेता च पांडवानां सुखप्रदः ॥ 201॥
दशमस्कंधोत्तरार्धनामानि निरोधलीला
जरासंधसमानीतसैन्यघाती विचारकः ।
यवनव्याप्तमथुराजनदत्तकुशस्थलिः ॥ 202॥
द्वारकाद्भुतनिर्माणविस्मापितसुरासुरः ।
मनुष्यमात्रभोगार्थभूम्यानीतेंद्रवैभवः ॥ 203॥
यवनव्याप्तमथुरानिर्गमानंदविग्रहः ।
मुचुकुंदमहाबोधयवनप्राणदर्पहा ॥ 204॥
मुचुकुंदस्तुताशेषगुणकर्ममहोदयः ।
फलप्रदानसंतुष्टिर्जन्मांतरितमोक्षदः ॥ 205॥
शिवब्राह्मणवाक्याप्तजयभीतिविभावनः ।
प्रवर्षणप्रार्थिताग्निदानपुण्यमहोत्सवः ॥ 206॥
रुक्मिणीरमणः कामपिता प्रद्युम्नभावनः ।
स्यमंतकमणिव्याजप्राप्तजांबवतीपतिः ॥ 207॥
सत्यभामाप्राणपतिः कालिंदीरतिवर्धनः ।
मित्रविंदापतिः सत्यापतिर्वृषनिषूदनः ॥ 208॥
भद्रावांछितभर्ता च लक्ष्मणावरणक्षमः ।
इंद्रादिप्रार्थितवधनरकासुरसूदनः ॥ 209॥
मुरारिः पीठहंता च ताम्रादिप्राणहारकः ।
षोडशस्त्रीसहस्रेशः छत्रकुंडलदानकृत् ॥ 210॥
पारिजातापहरणो देवेंद्रमदनाशकः ।
रुक्मिणीसमसर्वस्त्रीसाध्यभोगरतिप्रदः ॥ 211॥
रुक्मिणीपरिहासोक्तिवाक्तिरोधानकारकः ।
पुत्रपौत्रमहाभाग्यगृहधर्मप्रवर्तकः ॥ 212॥
शंबरांतकसत्पुत्रविवाहहतरुक्मिकः ।
उषापहृतपौत्रश्रीर्बाणबाहुनिवारकः ॥ 213॥
शीतज्वरभयव्याप्तज्वरसंस्तुतषड्गुणः ।
शंकरप्रतियोद्धा च द्वंद्वयुद्धविशारदः ॥ 214॥
नृगपापप्रभेत्ता च ब्रह्मस्वगुणदोषदृक् ।
विष्णुभक्तिविरोधैकब्रह्मस्वविनिवारकः ॥ 215॥
बलभद्राहितगुणो गोकुलप्रीतिदायकः ।
गोपीस्नेहैकनिलयो गोपीप्राणस्थितिप्रदः ॥ 216॥
वाक्यातिगामियमुनाहलाकर्षणवैभवः ।
पौंड्रकत्याजितस्पर्धः काशीराजविभेदनः ॥ 217॥
काशीनिदाहकरणः शिवभस्मप्रदायकः ।
द्विविदप्राणघाती च कौरवाखर्वगर्वनुत् ॥ 218॥
लांगलाकृष्टनगरीसंविग्नाखिलनागरः ।
प्रपन्नाभयदः सांबप्राप्तसन्मानभाजनम् ॥ 219॥
नारदान्विष्टचरणो भक्तविक्षेपनाशकः ।
सदाचारैकनिलयः सुधर्माध्यासितासनः ॥ 220॥
जरासंधावरुद्धेन विज्ञापितनिजक्लमः ।
मंत्र्युद्धवादिवाक्योक्तप्रकारैकपरायणः ॥ 221॥
राजसूयादिमखकृत् संप्रार्थितसहायकृत् ।
इंद्रप्रस्थप्रयाणार्थमहत्संभारसंभृतिः ॥ 222॥
जरासंधवधव्याजमोचिताशेषभूमिपः ।
सन्मार्गबोधको यज्ञक्षितिवारणतत्परः ॥ 223॥
शिशुपालहतिव्याजजयशापविमोचकः ।
दुर्योधनाभिमानाब्धिशोषबाणवृकोदरः॥ 224॥
महादेववरप्राप्तपुरशाल्वविनाशकः ।
दंतवक्त्रवधव्याजविजयाघौघनाशकः ॥ 225॥
विदूरथप्राणहर्ता न्यस्तशस्त्रास्त्रविग्रहः ।
उपधर्मविलिप्तांगसूतघाती वरप्रदः ॥ 226॥
बल्वलप्राणहरणपालितर्षिश्रुतिक्रियः ।
सर्वतीर्थाघनाशार्थतीर्थयात्राविशारदः ॥ 227॥
ज्ञानक्रियाविभेदेष्टफलसाधनतत्परः ।
सारथ्यादिक्रियाकर्ता भक्तवश्यत्वबोधकः ॥ 228॥
सुदामारंकभार्यार्थभूम्यानीतेंद्रवैभवः ।
रविग्रहनिमित्ताप्तकुरुक्षेत्रैकपावनः ॥ 229॥
नृपगोपीसमस्तस्त्रीपावनार्थाखिलक्रियः ।
ऋषिमार्गप्रतिष्ठाता वसुदेवमखक्रियः ॥ 230॥
वसुदेवज्ञानदाता देवकीपुत्रदायकः ।
अर्जुनस्त्रीप्रदाता च बहुलाश्वस्वरूपदः ॥ 231॥
श्रुतदेवेष्टदाता च सर्वश्रुतिनिरूपितः ।
महादेवाद्यतिश्रेष्ठो भक्तिलक्षणनिर्णयः ॥ 232॥
वृकग्रस्तशिवत्राता नानावाक्यविशारदः ।
नरगर्वविनाशार्थहृतब्राह्मणबालकः ॥ 233॥
लोकालोकपरस्थानस्थितबालकदायकः ।
द्वारकास्थमहाभोगनानास्त्रीरतिवर्धनः ॥ 234॥
मनस्तिरोधानकृतव्यग्रस्त्रीचित्तभावितः ।
मुक्तिलीला
मुक्तिलीलाविहरणो मौशलव्याजसंहृतिः ॥ 235॥
श्रीभागवतधर्मादिबोधको भक्तिनीतिकृत् ।
उद्धवज्ञानदाता च पंचविंशतिधा गुरुः ॥ 236॥
आचारभक्तिमुक्त्यादिवक्ता शब्दोद्भवस्थितिः ।
हंसो धर्मप्रवक्ता च सनकाद्युपदेशकृत् ॥ 237॥
भक्तिसाधनवक्ता च योगसिद्धिप्रदायकः ।
नानाविभूतिवक्ता च शुद्धधर्मावबोधकः ॥ 238॥
मार्गत्रयविभेदात्मा नानाशंकानिवारकः ।
भिक्षुगीताप्रवक्ता च शुद्धसांख्यप्रवर्तकः ॥ 239॥
मनोगुणविशेषात्मा ज्ञापकोक्तपुरूरवाः ।
पूजाविधिप्रवक्ता च सर्वसिद्धांतबोधकः ॥ 240॥
लघुस्वमार्गवक्ता च स्वस्थानगतिबोधकः ।
यादवांगोपसंहर्ता सर्वाश्चर्यगतिक्रियः ॥ 241॥
आश्रयलीला
कालधर्मविभेदार्थवर्णनाशनतत्परः ।
बुद्धो गुप्तार्थवक्ता च नानाशास्त्रविधायकः ॥ 242॥
नष्टधर्ममनुष्यादिलक्षणज्ञापनोत्सुकः ।
आश्रयैकगतिज्ञाता कल्किः कलिमलापहः ॥ 243॥
शास्त्रवैराग्यसंबोधो नानाप्रलयबोधकः ।
विशेषतः शुकव्याजपरीक्षिज्ज्ञानबोधकः ॥ 244॥
शुकेष्टगतिरूपात्मा परीक्षिद्देहमोक्षदः ।
शब्दरूपो नादरूपो वेदरूपो विभेदनः ॥ 245॥
व्यासः शाखाप्रवक्ता च पुराणार्थप्रवर्तकः ।
मार्कंडेयप्रसन्नात्मा वटपत्रपुटेशयः ॥ 246॥
मायाव्याप्तमहामोहदुःखशांतिप्रवर्तकः ।
महादेवस्वरूपश्च भक्तिदाता कृपानिधिः ॥ 247॥
आदित्यांतर्गतः कालः द्वादशात्मा सुपूजितः ।
श्रीभागवतरूपश्च सर्वार्थफलदायकः ॥ 248॥
इतीदं कीर्तनीयस्य हरेर्नामसहस्रकम् ।
पंचसप्ततिविस्तीर्णं पुराणांतरभाषितम् ॥ 249॥
य एतत्प्रातरुत्थाय श्रद्धावान् सुसमाहितः ।
जपेदर्थाहितमतिः स गोविंदपदं लभेत् ॥ 250॥
सर्वधर्मविनिर्मुक्तः सर्वसाधनवर्जितः ।
एतद्धारणमात्रेण कृष्णस्य पदवीं व्रजेत् ॥ 251॥
हर्यावेशितचित्तेन श्रीभागवतसागरात् ।
समुद्धृतानि नामानि चिंतामणिनिभानि हि ॥ 252॥
कंठस्थितान्यर्थदीप्त्या बाधंतेऽज्ञानजं तमः ।
भक्तिं श्रीकृष्णदेवस्य साधयंति विनिश्चितम् ॥ 253॥
किंबहूक्तेन भगवान् नामभिः स्तुतषड्गुणः ।
आत्मभावं नयत्याशु भक्तिं च कुरुते दृढाम् ॥ 254॥
यः कृष्णभक्तिमिह वांछति साधनौघैर्-
नामानि भासुरयशांसि जपेत्स नित्यम् ।
तं वै हरिः स्वपुरुषं कुरुतेऽतिशीघ्रम्-
आत्मार्पणं समधिगच्छति भावतुष्टः ॥ 255॥
श्रीकृष्ण कृष्णसख वृष्णिवृषावनिध्रुग्-
राजन्यवंशदहनानपवर्गवीर्य ।
गोविंद गोपवनिताव्रजभृत्यगीत
तीर्थश्रवः श्रवणमंगल पाहि भृत्यान् ॥ 256॥
॥ इति श्रीभागवतसारसमुच्चये वैश्वानरोक्तं
श्रीवल्लभाचार्यविरचितं
श्रीपुरुषोत्तमसहस्रनामस्तोत्रं संपूर्णम् ॥