अथास्श्टमोऽध्यायः ।
सुखं ऐंद्रियकं राजन् स्वर्गे नरकः एव च ।
देहिनः यत् यथा दुःखं तस्मात् न इच्छेत तत् बुधाः ॥ 1॥
ग्रासं सुमृष्टं विरसं महांतं स्तोकं एव वा ।
यदृच्छया एव अपतितं ग्रसेत् आजगरः अक्रियः ॥ 2॥
शयीत अहानि भूरीणि निराहारः अनुपक्रमः ।
यदि न उपनमेत् ग्रासः महाहिः इव दिष्टभुक् ॥ 3॥
ओजः सहोबलयुतं बिभ्रत् देहं अकर्मकम् ।
शयानः वीतनिद्रः च नेहेत इंद्रियवान् अपि ॥ 4॥
मुनिः प्रसन्नगंभीरः दुर्विगाह्यः दुरत्ययः ।
अनंतपारः हि अक्षोभ्यः स्तिमित उदः इव अर्णवः ॥ 5॥
समृद्धकामः हीनः वा नारायणपरः मुनिः ।
न उत्सर्पेत न शुष्येत सरिद्भिः इव सागरः ॥ 6॥
दृष्ट्वा स्त्रियं देवमायां तत् भावैः अजितेंद्रियः ।
प्रलोभितः पतति अंधे तमसि अग्नौ पतंगवत् ॥ 7॥
योषित् हिरण्य आभरण अंबरादि
द्रव्येषु मायारचितेषु मूढः ।
प्रलोभितात्मा हि उपभोगबुद्ध्या
पतंगवत् नश्यति नष्टदृष्टिः ॥ 8॥
स्तोकं स्तोकं ग्रसेत् ग्रासं देहः वर्तेत यावता ।
गृहान् अहिंसत् न आतिष्ठेत् वृत्तिं माधुकरीं मुनिः ॥ 9॥
अणुभ्यः च महद्भ्यः च शास्त्रेभ्यः कुशलः नरः ।
सर्वतः सारं आदद्यात् पुष्पेभ्यः इव षट्पदः ॥ 10॥
सायंतनं श्वस्तनं वा न संगृह्णीत भिक्षितम् ।
पाणिपात्र उदरामत्रः मक्षिका इव न संग्रही ॥ 11॥
सायंतनं श्वस्तनं वा न संगृह्णीत भिक्षुकः ।
मक्षिकाः इव संगृह्णन् सह तेन विनश्यति ॥ 12॥
पद अपि युवतीं भिक्षुः न स्पृशेत् दारवीं अपि ।
स्पृशन् करीव बध्येत करिण्या अंगसंगतः ॥ 13॥
न अधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचित् मृत्युं आत्मनः ।
बल अधिकैः स हन्येत गजैः अन्यैः गजः यथा ॥ 14॥
न देयं न उपभोग्यं च लुब्धैः यत् दुःख संचितम् ।
भुंक्ते तत् अपि तत् च अन्यः मधुहेव अर्थवित् मधु ॥ 15॥
सुख दुःख उपार्जितैः वित्तैः आशासानां गृह आशिषः ।
मधुहेव अग्रतः भुंक्ते यतिः वै गृहमेधिनाम् ॥ 16॥
ग्राम्यगीतं न श्रुणुयात् यतिः वनचरः क्वचित् ।
शिखेत हरिणात् वद्धात् मृगयोः गीतमोहितात् ॥ 17॥
नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् ।
आसां क्रीडनकः वश्यः ऋष्यशऋंगः मृगीसुतः ॥ 18॥
जिह्वया अतिप्रमाथिन्या जनः रसविमोहितः ।
मृत्युं ऋच्छति असत् बुद्धिः मीनः तु बडिशैः यथा ॥ 19॥
इंद्रियाणि जयंति आशुः निराहाराः मनीषिणः ।
वर्जयित्वा तु रसनं तत् निरन्नस्य वर्धते ॥ 20॥
तावत् जितेंद्रियः न स्यात् विजितानि इंद्रियः पुमान् ।
न जयेत् रसनं यावत् जितं सर्वं जिते रसे ॥ 21॥
पिंगला नाम वेश्या आसीत् विदेहनगरे पुरा ।
तस्या मे शिक्षितं किंचित् निबोध नृपनंदन ॥ 22॥
सा स्वैरिण्येकदा कांतं संकेत उपनेष्यती ।
अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम् ॥ 23॥
मार्ग आगच्छतो वीक्ष्य पुरुषान्पुरुषर्षभ ।
तान् शुल्कदान्वित्तवतः कांतान्मेनेऽर्थकामुका ॥ 24॥
आगतेष्वपयातेषु सा संकेतोपजीवनी ।
अप्यन्यो वित्तवान्कोऽपि मामुपैष्यति भूरिदः ॥ 25॥
एअवं दुराशया ध्वस्तनिद्रा द्वार्यवलंबती ।
निर्गच्छंती प्रविशती निशीथं समपद्यत ॥ 26॥
तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः ।
निर्वेदः परमो जज्ञे चिंताहेतुः सुखावहः ॥ 27॥
तस्या निर्विण्णचित्ताया गीतं श्रुणु यथा मम ।
निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ॥ 28॥
न हि अंगाजातनिर्वेदः देहबंधं जिहासति ।
यथा विज्ञानरहितः मनुजः ममतां नृप ॥ 29॥
पिंगला उवाच ।
अहो मे मोहविततिं पश्यत अविजित आत्मनः ।
या कांतात् असतः कामं कामये येन बालिशा ॥ 30॥
संतं समीपे रमणं रतिप्रदं
वित्तप्रदं नित्यं इमं विहाय ।
अकामदं दुःखभय आदि शोक
मोहप्रदं तुच्छं अहं भजे अज्ञा ॥ 31॥
अहो मयात्मा परितापितो वृथा
सांकेत्यवृत्त्याऽतिविगर्ह्यवार्तया ।
स्त्रैणान्नराद्याऽर्थतृषोऽनुशोच्या
त्क्रीतेन वित्तं रतिमात्मनेच्छती ॥ 32॥
यदस्थिभिर्निर्मितवंशवंश्य
स्थूणं त्वचा रोमनखैः पिनद्धम् ।
क्षरन्नवद्वारमगारमेतद्
विण्मूत्रपूर्णं मदुपैति कान्या ॥ 33॥
विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः ।
याऽन्यस्मिच्छंत्यसत्यस्मादात्मदात्काममच्युतात् ॥ 34॥
सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।
तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ 35॥
कियत्प्रियं ते व्यभजन्कामा ये कामदा नराः ।
आद्यंतवंतो भार्याया देवा वा कालविद्रुताः ॥ 36॥
नूनं मे भगवान् प्रीतः विष्णुः केन अपि कर्मणा ।
निर्वेदः अयं दुराशाया यत् मे जातः सुखावहः ॥ 37॥
मैवं स्युर्मंदभग्यायाः क्लेशा निर्वेदहेतवः ।
येनानुबंधं निहृत्य पुरुषः शममृच्छति ॥ 38॥
तेन उपकृतं आदाय शिरसा ग्राम्यसंगताः ।
त्यक्त्वा दुराशाः शरणं व्रजामि तं अधीश्वरम् ॥ 39॥
संतुष्टा श्रद्दधत्येतद्यथालाभेन जीवती ।
विहराम्यमुनैवाहमात्मना रमणेन वै ॥ 40॥
संसारकूपे पतितं विषयैर्मुषितेक्षणम् ।
ग्रस्तं कालाहिनाऽऽत्मानं कोऽन्यस्त्रातुमधीश्वरः ॥ 41॥
आत्मा एव हि आत्मनः गोप्ता निर्विद्येत यदाखिलात् ।
अप्रमत्तः इदं पश्यत् ग्रस्तं कालाहिना जगत् ॥ 42॥
ब्राह्मण उवाच ।
एअवं व्यवसितमतिर्दुराशां कांततर्षजाम् ।
छित्वोपशममास्थाय शय्यामुपविवेश सा ॥ 43॥
आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।
यथा संछिद्य कांताशां सुखं सुष्वाप पिंगला ॥ 44॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे पिंगलोपाख्याऽनेष्टमोऽध्यायः ॥