॥ चतुर्थः सर्गः ॥
॥ स्निग्धमधुसूदनः ॥

यमुनातीरवानीरनिकुंजे मंदमास्थितम् ।
प्राह प्रेमभरोद्भ्रांतं माधवं राधिकासखी ॥ 25 ॥

॥ गीतं 8 ॥

निंदति चंदनमिंदुकिरणमनु विंदति खेदमधीरम् ।
व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥
सा विरहे तव दीना माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ॥ 1 ॥

अविरलनिपतितमदनशरादिव भवदवनाय विशालम् ।
स्वहृदयर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ 2 ॥

कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् ।
व्रतमिव तव परिरंभसुखाय करोति कुसुमशयनीयम् ॥ 3 ॥

वहति च गलितविलोचनजलभरमाननकमलमुदारम् ।
विधुमिव विकटविधुंतुददंतदलनगलितामृतधारम् ॥ 4 ॥

विलिखति रहसि कुरंगमदेन भवंतमसमशरभूतम् ।
प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ 5 ॥

प्रतिपदमिदमपि निगतति माधव तव चरणे पतिताहम् ।
त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ 6 ॥

ध्यानलयेन पुरः परिकल्प्य भवंतमतीव दुरापम् ।
विलपति हसति विषीदति रोदिति चंचति मुंचति तापम् ॥ 7 ॥

श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् ।
हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ 8 ॥

आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।
सापि त्वद्विरहेण हंत हरिणीरूपायते हा कथं कंदर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ 26 ॥

॥ गीतं 9 ॥

स्तनविनिहितमपि हारमुदारम् ।
सा मनुते कृशतनुरतिभारम् ॥
राधिका विरहे तव केशव ॥ 1 ॥

सरसमसृणमपि मलयजपंकम् ।
पश्यति विषमिव वपुषि सशंकम् ॥ 2 ॥

श्वसितपवनमनुपमपरिणाहम् ।
मदनदहनमिव वहति सदाहम् ॥ 3 ॥

दिशि दिशि किरति सजलकणजालम् ।
नयननलिनमिव विगलितनालम् ॥ 4 ॥

नयनविषयमपि किसलयतल्पम् ।
कलयति विहितहुताशविकल्पम् ॥ 5 ॥

त्यजति न पाणितलेन कपोलम् ।
बालशशिनमिव सायमलोलम् ॥ 6 ॥

हरिरिति हरिरिति जपति सकामम् ।
विरहविहितमरणेन निकामम् ॥ 7 ॥

श्रीजयदेवभणितमिति गीतम् ।
सुखयतु केशवपदमुपुनीतम् ॥ 8 ॥

सा रोमांचति सीत्करोति विलपत्युत्कंपते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि ।
एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नांतकः ॥ 27 ॥

स्मरातुरां दैवतवैद्यहृद्य त्वदंगसंगामृतमात्रसाध्याम् ।
विमुक्तबाधां कुरुषे न राधा-मुपेंद्र वज्रादपि दारुणोऽसि ॥ 28 ॥

कंदर्पज्वरसंज्वरस्तुरतनोराश्चर्यमस्याश्चिरं चेतश्चंदनचंद्रमःकमलिनीचिंतासु संताम्यति ।
किंतु क्लांतिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायंती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ 29 ॥

क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते ।
श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ 30 ॥

॥ इति गीतगोविंदे स्निग्धमाधवो नाम चतुर्थः सर्गः ॥