॥ पंचमः सर्गः ॥
॥ साकांक्षपुंडरीकाक्षः ॥

अहमिह निवसामि याहि राधां अनुनय मद्वचनेन चानयेथाः ।
इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ 31 ॥

॥ गीतं 10 ॥

वहति मलयसमीरे मदनमुपनिधाय ।
स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥
तव विरहे वनमाली सखि सीदति ॥ 1 ॥

दहति शिशिरमयूखे मरणमनुकरोति ।
पतति मदनविशिखे विलपति विकलतरोऽति ॥ 2 ॥

ध्वनति मधुपसमूहे श्रवणमपिदधाति ।
मनसि चलितविरहे निशि निशि रुजमुपयाति ॥ 3 ॥

वसति विपिनविताने त्यजति ललितधाम ।
लुठति धरणिशयने बहु विलपति तव नाम ॥ 4 ॥

रणति पिकसमवाये प्रतिदिशमनुयाति ।
हसति मनुजनिचये विरहमपलपति नेति ॥ 5 ॥

स्फुरति कलरवरावे स्मरति मणितमेव।
तवरतिसुखविभवे गणयति सुगुणमतीव ॥ 6 ॥

त्वदभिधशुभदमासं वदति नरि शृणोति ।
तमपि जपति सरसं युवतिषु न रतिमुपैति ॥ 7 ॥

भणति कविजयदेवे विरहविलसितेन ।
मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ 8 ॥

पूर्वं यत्र समं त्वया रतिपतेरासादितः सिद्धय-स्तस्मिन्नेव निकुंजमन्मथमहातीर्थे पुनर्माधवः ।
ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमंत्रावलीं भूयस्त्वत्कुचकुंभनिर्भरपरीरंभामृतं वांछति ॥ 32 ॥

॥ गीतं 11 ॥

रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।
न कुरु नितंबिनि गमनविलंबनमनुसर तं हृदयेशम् ॥
धीरसमीरे यमुनातीरे वसति वने वनमाली ॥ 1 ॥

नाम समेतं कृतसंकेतं वादयते मृदुवेणुम् ।
बहु मनुते ननु ते तनुसंगतपवनचलितमपि रेणुम् ॥ 2 ॥

पतति पतत्रे विचलति पत्रे शंकितभवदुपयानम् ।
रचयति शयनं सचकितनयनं पश्यति तव पंथानम् ॥ 3 ॥

मुखरमधीरं त्यज मंजीरं रिपुमिव केलिषुलोलम् ।
चल सखि कुंजं सतिमिरपुंजं शीलय नीलनिचोलम् ॥ 4 ॥

उरसि मुरारेरुपहितहारे घन इव तरलबलाके ।
तटिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ 5 ॥

विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् ।
किसलयशयने पंकजनयने निधिमिव हर्षनिदानम् ॥ 6 ॥

हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् ।
कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ 7 ॥

श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।
प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ 8 ॥

विकिरति मुहुः श्वासांदिशः पुरो मुहुरीक्षते प्रविशति मुहुः कुंजं गुंजन्मुहुर्बहु ताम्यति ।
रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लांतः कांते प्रियस्तव वर्तते ॥ 33 ॥

त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविंदस्य मनोरथेन च समं प्राप्तं तमः सांद्रताम् ।
कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना तन्मुग्धे विफलं विलंबनमसौ रम्योऽभिसारक्षणः ॥ 34 ॥

आश्लेषादनु चुंबनादनु नखोल्लेखादनु स्वांतज-प्रोद्बोधादनु संभ्रमादनु रतारंभादनु प्रीतयोः ।
अन्यार्थं गतयोर्भ्रमान्मिलितयोः संभाषणैर्जानतो-र्दंपत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ 35 ॥

सभयचकितं विन्यस्यंतीं दृशौ तिमिरे पथि प्रतितरु मुहुः स्थित्वा मंदं पदानि वितन्वतीम् ।
कथमपि रहः प्राप्तामंगैरनंगतरंगिभिः सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ 36 ॥

राधामुग्धमुखारविंदमधुपस्त्रैलोक्यमौलिस्थली नेपथ्योचितनीलरत्नमवनीभारावतारांतकः।
स्वच्छंदं व्रजसुब्दरीजनमनस्तोषप्रदोषोदयः कंसध्वंसनधूमकेतुरवतु त्वां देवकीनंदनः॥ 36 + 1 ॥

॥ इति श्रीगीतगोविंदेऽभिसारिकवर्णने साकांक्षपुंडरीकाक्षो नाम पंचमः सर्गः ॥