॥ दशमः सर्गः ॥
॥ चतुरचतुर्भुजः ॥

अत्रांतरे मसृणरोषवशामसीम्-निःश्वासनिःसहमुखीं सुमुखीमुपेत्य ।
सव्रीडमीक्षितसखीवदनां दिनांते सानंदगद्गदपदं हरिरित्युवाच ॥ 53 ॥

॥ गीतं 19 ॥

वदसि यदि किंचिदपि दंतरुचिकौमुदी हरति दरतिमिरमतिघोरम् ।
स्फुरदधरसीधवे तव वदनचंद्रमा रोचयतु लोचनचकोरम् ॥
प्रिये चारुशीले मुंच मयि मानमनिदानं सपदि मदनानलो दहति मम मानसं देहि मुखकमलमधुपानम् ॥ 1 ॥

सत्यमेवासि यदि सुदति मयि कोपिनी देहि खरनखशरघातम् ।
घटय भुजबंधनं जनय रदखंडनं येन वा भवति सुखजातम् ॥ 2 ॥

त्वमसि मम भूषणं त्वमसि मम जीवनं त्वमसि भवजलधिरत्नम् ।
भवतु भवतीह मयि सततमनोरोधिनि तत्र मम हृदयमतिरत्नम् ॥ 3 ॥

नीलनलिनाभमपि तन्वि तव लोचनं धारयति कोकनदरूपम् ।
कुसुमशरबाणभावेन यदि रंजयसि कृष्णमिदमेतदनुरूपम् ॥ 4 ॥

स्फुरतु कुचकुंभयोरुपरि मणिमंजरी रंजयतु तव हृदयदेशम् ।
रसतु रशनापि तव घनजघनमंडले घोषयतु मन्मथनिदेशम् ॥ 5 ॥

स्थलकमलगंजनं मम हृदयरंजनं जनितरतिरंगपरभागम् ।
भण मसृणवाणि करवाणि पदपंकजं सरसलसदलक्तकरागम् ॥ 6 ॥

स्मरगरलखंडनं मम शिरसि मंडनं देहि पदपल्लवमुदारम् ।
ज्वलति मयि दारुणो मदनकदनारुणो हरतु तदुपाहितविकारम् ॥ 7 ॥

इति चटुलचाटुपटुचारु मुरवैरिणो राधिकामधि वचनजातम् ।
जयति पद्मावतीरमणजयदेवकवि-भारतीभणितमतिशातम् ॥ 8 ॥

परिहर कृतातंके शंकां त्वया सततं घन-स्तनजघनयाक्रांते स्वांते परानवकाशिनि ।
विशति वितनोरन्यो धन्यो न कोऽपि ममांतरं स्तनभरपरीरंभारंभे विधेहि विधेयताम् ॥ 54 ॥

मुग्धे विधेहि मयि निर्दयदंतदंश-दोर्वल्लिबंधनिबिडस्तनपीडनानि ।
चंडि त्वमेव मुदमंच न पंचबाण-चंडालकांडदलनादसवः प्रयांतु ॥ 55 ॥

व्यथयति वृथा मौनं तन्वि प्रपंचय पंचमं तरुणी मधुरालापैस्तापं विनोदय दृष्टिभिः ।
सुमुखि विमुखीभावं तावद्विमुंच न मुंच मां स्वयमतिशयस्निग्धो मुग्धे प्रियिऽहमुपस्थितः ॥ 56 ॥

बंधूकद्युतिबांधवोऽयमधरः स्निग्धो मधूकच्चवि-र्गंडश्चंडि चकास्ति नीलनलिनश्रीमोचनं लोचनम् ।
नासाभ्येति तिलप्रसूनपदवीं कुंदाभदांति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ 57 ॥

दृशौ तव मदालसे वदनमिंदुसंदीपकं गतिर्जनमनोरमा विधुतरंभमूरुद्वयम् ।
रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा-वहो विबुधयौवनं वहसि तन्वी पृथ्वीगता ॥ 58 ॥

॥ इति श्रीगीतगोविंदे मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः ॥