॥ द्वादशः सर्गः ॥
॥ सुप्रीतपीतांबरः ॥

गतवति सखीवृंदेऽमंदत्रपाभरनिर्भर-स्मरपरवशाकूतस्फीतस्मितस्नपिताधरम् ।
सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव-प्रसवशयने निक्षिप्ताक्षीमुवाच हरः ॥ 68 ॥

॥ गीतं 23 ॥

किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् ।
तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥
क्षणमधुना नारायणमनुगतमनुसर राधिके ॥ 1 ॥

करकमलेन करोमि चरणमहमागमितासि विदूरम् ।
क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ 2 ॥

वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् ।
विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ 3 ॥

प्रियपरिरंभणरभसवलितमिव पुलकितमतिदुरवापम् ।
मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ 4 ॥

अधरसुधारसमुपनय भाविनि जीवय मृतमिव दासम् ।
त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ 5 ॥

शशिमुखि मुखरय मणिरशनागुणमनुगुणकंठनिदानम् ।
श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ 6 ॥

मामतिविफलरुषा विकलीकृतमवलोकितमधुनेदम् ।
मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम् ॥ 7 ॥

श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् ।
जनयतु रसिकजनेषु मनोरमतिरसभावविनोदम् ॥ 8 ॥

मारंके रतिकेलिसंकुलरणारंभे तया साहस-प्रायं कांतजयाय किंचिदुपरि प्रारंभि यत्संभ्रमात् ।
निष्पंदा जघनस्थली शिथिलता दोर्वल्लिरुत्कंपितं वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ 69 ॥

अथ कांतं रतिक्लांतमपि मंडनवांछया ।
निजगाद निराबाधा राधा स्वाधीनभर्तृका ॥ 70 ॥

॥ गीतं 24 ॥

कुरु यदुनंदन चंदनशिशिरतरेण करेण पयोधरे ।
मृगमदपत्रकमत्र मनोभवमंगलकलशसहोदरे ।
निजगाद सा यदुनंदने क्रीडति हृदयानंदने ॥ 1 ॥

अलिकुलगंजनमंजनकं रतिनायकसायकमोचने ।
त्वदधरचुंबनलंबितकज्जलमुज्ज्वलय प्रिय लोचने ॥ 2 ॥

नयनकुरंगतरंगविकासनिरासकरे श्रुतिमंडले ।
मनसिजपाशविलासधरे शुभवेश निवेशय कुंडले ॥ 3 ॥

भ्रमरचयं रचहयंतमुपरि रुचिरं सुचिरं मम संमुखे ।
जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥ 4 ॥

मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे ।
विहितकलंककलं कमलानन विश्रमितश्रमशीकरे ॥ 5 ॥

मम रुचिरे चिकुरे कुरु मानद मानसजध्वजचामरे ।
रतिगलिते ललिते कुसुमानि शिखंडिशिखंडकडामरे ॥ 6 ॥

सरसघने जघने मम शंबरदारणवारणकंदरे ।
मणिरशनावसनाभरणानि शुभाशय वासय सुंदरे ॥ 7 ॥

श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मंडने ।
हरिचरणस्मरणामृतकृतकलिकलुषभवज्वरखंडने ॥ 8 ॥

रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो-र्घटय जघने कांचीमंच स्रजा कबरीभरम् ।
कलय वलयश्रेणीं पाणौ पदे कुरु नूपुरा-विति निगतितः प्रीतः पीतांबरोऽपि तथाकरोत् ॥ 71 ॥

यद्गांध्गर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृंगारविवेकतत्वमपि यत्काव्येषु लीलायितम् ।
तत्सर्वं जयदेवपंडितकवेः कृष्णैकतानात्मनः सानंदाः परिशोधयंतु सुधियः श्रीगीतगोविंदतः ॥ 72 ॥

श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।
पराशरादिप्रियवर्गकंठे श्रीगीतगोविंदकवित्वमस्तु ॥ 73 ॥

॥ इति श्रीजयदेवकृतौ गीतगोविंदे सुप्रीतपीतांबरो नाम द्वादशः सर्गः ॥
॥ इति गीतगोविंदं समाप्तम् ॥