Print Friendly, PDF & Email

केशपाशधृतपिंछिकाविततिसंचलन्मकरकुंडलं
हारजालवनमालिकाललितमंगरागघनसौरभम् ।
पीतचेलधृतकांचिकांचितमुदंचदंशुमणिनूपुरं
रासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥1॥

तावदेव कृतमंडने कलितकंचुलीककुचमंडले
गंडलोलमणिकुंडले युवतिमंडलेऽथ परिमंडले ।
अंतरा सकलसुंदरीयुगलमिंदिरारमण संचरन्
मंजुलां तदनु रासकेलिमयि कंजनाभ समुपादधाः ॥2॥

वासुदेव तव भासमानमिह रासकेलिरससौरभं
दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला ।
वेषभूषणविलासपेशलविलासिनीशतसमावृता
नाकतो युगपदागता वियति वेगतोऽथ सुरमंडली ॥3॥

वेणुनादकृततानदानकलगानरागगतियोजना-
लोभनीयमृदुपादपातकृततालमेलनमनोहरम् ।
पाणिसंक्वणितकंकणं च मुहुरंसलंबितकरांबुजं
श्रोणिबिंबचलदंबरं भजत रासकेलिरसडंबरम् ॥4॥

स्पर्धया विरचितानुगानकृततारतारमधुरस्वरे
नर्तनेऽथ ललितांगहारलुलितांगहारमणिभूषणे ।
सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं
चिन्मये त्वयि निलीयमानमिव सम्मुमोह सवधूकुलम् ॥5॥

स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपांगना
कांतमंसमवलंबते स्म तव तांतिभारमुकुलेक्षणा ॥
काचिदाचलितकुंतला नवपटीरसारघनसौरभं
वंचनेन तव संचुचुंब भुजमंचितोरुपुलकांकुरा ॥6॥

कापि गंडभुवि सन्निधाय निजगंडमाकुलितकुंडलं
पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् ।
इंदिराविहृतिमंदिरं भुवनसुंदरं हि नटनांतरे
त्वामवाप्य दधुरंगनाः किमु न सम्मदोन्मददशांतरम् ॥7॥

गानमीश विरतं क्रमेण किल वाद्यमेलनमुपारतं
ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरंगनाः ।
नाविदन्नपि च नीविकां किमपि कुंतलीमपि च कंचुलीं
ज्योतिषामपि कदंबकं दिवि विलंबितं किमपरं ब्रुवे ॥8॥

मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो
केलिसम्मृदितनिर्मलांगनवघर्मलेशसुभगात्मनाम् ।
मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदित-
स्तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ॥9॥

केलिभेदपरिलोलिताभिरतिलालिताभिरबलालिभिः
स्वैरमीश ननु सूरजापयसि चारुनाम विहृतिं व्यधाः ।
काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे
सूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् ॥10॥

कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे भवान्
पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् ।
ब्रह्मशंकरमुखानपीह पशुपांगनासु बहुमानयन्
भक्तलोकगमनीयरूप कमनीय कृष्ण परिपाहि माम् ॥11॥