सैरंध्र्यास्तदनु चिरं स्मरातुराया
यातोऽभूः सुललितमुद्धवेन सार्धम् ।
आवासं त्वदुपगमोत्सवं सदैव
ध्यायंत्याः प्रतिदिनवाससज्जिकायाः ॥1॥

उपगते त्वयि पूर्णमनोरथां प्रमदसंभ्रमकंप्रपयोधराम् ।
विविधमाननमादधतीं मुदा रहसि तां रमयांचकृषे सुखम् ॥2॥

पृष्टा वरं पुनरसाववृणोद्वराकी
भूयस्त्वया सुरतमेव निशांतरेषु ।
सायुज्यमस्त्विति वदेत् बुध एव कामं
सामीप्यमस्त्वनिशमित्यपि नाब्रवीत् किम् ॥3॥

ततो भवान् देव निशासु कासुचिन्मृगीदृशं तां निभृतं विनोदयन् ।
अदादुपश्लोक इति श्रुतं सुतं स नारदात् सात्त्वततंत्रविद्बबभौ ॥4॥

अक्रूरमंदिरमितोऽथ बलोद्धवाभ्या-
मभ्यर्चितो बहु नुतो मुदितेन तेन ।
एनं विसृज्य विपिनागतपांडवेय-
वृत्तं विवेदिथ तथा धृतराष्ट्र्चेष्टाम् ॥5॥

विघाताज्जामातुः परमसुहृदो भोजनृपते-
र्जरासंधे रुंधत्यनवधिरुषांधेऽथ मथुराम् ।
रथाद्यैर्द्योर्लब्धैः कतिपयबलस्त्वं बलयुत-
स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥6॥

बद्धं बलादथ बलेन बलोत्तरं त्वं
भूयो बलोद्यमरसेन मुमोचिथैनम् ।
निश्शेषदिग्जयसमाहृतविश्वसैन्यात्
कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ॥7॥

भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो
युद्धं त्वया व्यधित षोडशकृत्व एवम् ।
अक्षौहिणीः शिव शिवास्य जघंथ विष्णो
संभूय सैकनवतित्रिशतं तदानीम् ॥8॥

अष्टादशेऽस्य समरे समुपेयुषि त्वं
दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या ।
त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये
तत्राऽथ योगबलतः स्वजनाननैषीः ॥9॥

पदभ्यां त्वां पद्ममाली चकित इव पुरान्निर्गतो धावमानो
म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः ।
सुप्तेनांघ्र्याहतेन द्रुतमथ मुचुकुंदेन भस्मीकृतेऽस्मिन्
भूपायास्मै गुहांते सुललितवपुषा तस्थिषे भक्तिभाजे ॥10॥

ऐक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककांक्षी
हा देवेति स्तुवंतं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् ।
मुक्तेस्तुल्यां च भक्तिं धुतसकलमलां मोक्षमप्याशु दत्वा
कार्यं हिंसाविशुद्ध्यै तप इति च तदा प्रात्थ लोकप्रतीत्यै ॥11॥

तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां
मगधपतिना मार्गे सैन्यैः पुरेव निवारितः ।
चरमविजयं दर्पायास्मै प्रदाय पलायितो
जलधिनगरीं यातो वातालयेश्वर पाहि माम् ॥12॥