ॐ अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा᳚दि॒त्यैरु॒त वि॒श्वदे᳚वैः ।
अ॒ह-म्मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि᳚न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥1॥
अ॒हं सोम॑माह॒नस᳚-म्बिभर्म्य॒ह-न्त्वष्टा᳚रमु॒त पू॒षण॒-म्भगम्᳚ ।
अ॒ह-न्द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒ ये॑ 3 यज॑मानाय सुन्व॒ते ॥2॥
अ॒हं राष्ट्री᳚ स॒ङ्गम॑नी॒ वसू᳚ना-ञ्चिकि॒तुषी᳚ प्रथ॒मा य॒ज्ञिया᳚नाम् ।
ता-म्मा᳚ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रा॒-म्भू~र्या᳚वे॒शयन्ती᳚म् ॥3॥
मया॒ सो अन्न॑मत्ति यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं᳚ शृ॒णोत्यु॒क्तम् ।
अ॒म॒न्त॒वो॒मान्त उप॑क्षियन्ति॒ श्रु॒धि श्रु॑तं श्रद्धि॒व-न्ते᳚ वदामि ॥4॥
अ॒हमे॒व स्व॒यमि॒दं-वँदा॑मि॒ जुष्ट᳚-न्दे॒वेभि॑रु॒त मानु॑षेभिः ।
य-ङ्का॒मये॒ त-न्त॑मु॒ग्र-ङ्कृ॑णोमि॒ त-म्ब्र॒ह्माण॒-न्तमृषि॒-न्तं सु॑मे॒धाम् ॥5॥
अ॒हं रु॒द्राय॒ धनु॒रात॑नोमि ब्रह्म॒द्विषे॒ शर॑वे हन्त॒ वा उ॑ ।
अ॒ह-ञ्जना᳚य स॒मद᳚-ङ्कृणोम्य॒ह-न्द्यावा᳚पृथि॒वी आवि॑वेश ॥6॥
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्ध-न्मम॒ योनि॑र॒प्स्व॒न्त-स्स॑मु॒द्रे ।
ततो॒ विति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामू-न्द्यां-वँ॒र्ष्मणोप॑ स्पृशामि ॥7॥
अ॒हमे॒व वात॑ इव॒ प्रवा᳚म्या॒-रभ॑माणा॒ भुव॑नानि॒ विश्वा᳚ ।
प॒रो दि॒वापर॒ ए॒ना पृ॑थि॒व्यै-ताव॑ती महि॒ना सम्ब॑भूव ॥8॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
॥ इति ऋग्वेदोक्त-न्देवीसूक्तं समाप्तम् ॥
॥त-थ्सत् ॥