(श्रीदेवीभागवतं, द्वादश स्कन्धं, द्वादशोऽध्यायः, मणिद्वीप वर्णन – 3)
व्यास उवाच ।
तदेव देवीसदनं मध्यभागे विराजते ।
सहस्र स्तम्भसंयुक्ताश्चत्वारस्तेषु मण्डपाः ॥ 1 ॥
शृङ्गारमण्डपश्चैको मुक्तिमण्डप एव च ।
ज्ञानमण्डप सञ्ज्ञस्तु तृतीयः परिकीर्तितः ॥ 2 ॥
एकान्तमण्डपश्चैव चतुर्थः परिकीर्तितः ।
नाना वितानसंयुक्ता नाना धूपैस्तु धूपिताः ॥ 3 ॥
कोटिसूर्यसमाः कान्त्या भ्राञ्जन्ते मण्डपाः शुभाः ।
तन्मण्डपानां परितः काश्मीरवनिका स्मृता ॥ 4 ॥
मल्लिकाकुन्दवनिका यत्र पुष्कलकाः स्थिताः ।
असङ्ख्याता मृगमदैः पूरितास्तत्स्रवा नृप ॥ 5 ॥
महापद्माटवी तद्वद्रत्नसोपाननिर्मिता ।
सुधारसेनसम्पूर्णा गुञ्जन्मत्तमधुव्रता ॥ 6 ॥
हंसकारण्डवाकीर्णा गन्धपूरित दिक्तटा ।
वनिकानां सुगन्धैस्तु मणिद्वीपं सुवासितम् ॥ 7 ॥
शृङ्गारमण्डपे देव्यो गायन्ति विविधैः स्वरैः ।
सभासदो देववशा मध्ये श्रीजगदम्बिका ॥ 8 ॥
मुक्तिमण्डपमध्ये तु मोचयत्यनिशं शिवा ।
ज्ञानोपदेशं कुरुते तृतीये नृप मण्डपे ॥ 9 ॥
चतुर्थमण्डपे चैव जगद्रक्षा विचिन्तनम् ।
मन्त्रिणी सहिता नित्यं करोति जगदम्बिका ॥ 10 ॥
चिन्तामणिगृहे राजञ्छक्ति तत्त्वात्मकैः परैः ।
सोपानैर्दशभिर्युक्तो मञ्चकोप्यधिराजते ॥ 11 ॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते मञ्चखुराः प्रोक्ताः फलकस्तु सदाशिवः ॥ 12 ॥
तस्योपरि महादेवो भुवनेशो विराजते ।
या देवी निजलीलार्थं द्विधाभूता बभूवह ॥ 13 ॥
सृष्ट्यादौ तु स एवायं तदर्धाङ्गो महेश्वरः ।
कन्दर्प दर्पनाशोद्यत्कोटि कन्दर्पसुन्दरः ॥ 14 ॥
पञ्चवक्त्रस्त्रिनेत्रश्च मणिभूषण भूषितः ।
हरिणाभीतिपरशून्वरं च निजबाहुभिः ॥ 15 ॥
दधानः षोडशाब्दोऽसौ देवः सर्वेश्वरो महान् ।
कोटिसूर्य प्रतीकाशश्चन्द्रकोटि सुशीतलः ॥ 16 ॥
शुद्धस्फटिक सङ्काशस्त्रिनेत्रः शीतल द्युतिः ।
वामाङ्के सन्निषण्णाऽस्य देवी श्रीभुवनेश्वरी ॥ 17 ॥
नवरत्नगणाकीर्ण काञ्चीदाम विराजिता ।
तप्तकाञ्चनसन्नद्ध वैदूर्याङ्गदभूषणा ॥ 18 ॥
कनच्छ्रीचक्रताटङ्क विटङ्क वदनाम्बुजा ।
ललाटकान्ति विभव विजितार्धसुधाकरा ॥ 19 ॥
बिम्बकान्ति तिरस्कारिरदच्छद विराजिता ।
लसत्कुङ्कुमकस्तूरीतिलकोद्भासितानना ॥ 20 ॥
दिव्य चूडामणि स्फार चञ्चच्चन्द्रकसूर्यका ।
उद्यत्कविसमस्वच्छ नासाभरण भासुरा ॥ 21 ॥
चिन्ताकलम्बितस्वच्छ मुक्तागुच्छ विराजिता ।
पाटीर पङ्क कर्पूर कुङ्कुमालङ्कृत स्तनी ॥ 22 ॥
विचित्र विविधा कल्पा कम्बुसङ्काश कन्धरा ।
दाडिमीफलबीजाभ दन्तपङ्क्ति विराजिता ॥ 23 ॥
अनर्घ्य रत्नघटित मुकुटाञ्चित मस्तका ।
मत्तालिमालाविलसदलकाढ्य मुखाम्बुजा ॥ 24 ॥
कलङ्ककार्श्यनिर्मुक्त शरच्चन्द्रनिभानना ।
जाह्नवीसलिलावर्त शोभिनाभिविभूषिता ॥ 25 ॥
माणिक्य शकलाबद्ध मुद्रिकाङ्गुलिभूषिता ।
पुण्डरीकदलाकार नयनत्रयसुन्दरी ॥ 26 ॥
कल्पिताच्छ महाराग पद्मरागोज्ज्वलप्रभा ।
रत्नकिङ्किणिकायुक्त रत्नकङ्कणशोभिता ॥ 27 ॥
मणिमुक्तासरापार लसत्पदकसन्ततिः ।
रत्नाङ्गुलिप्रवितत प्रभाजाललसत्करा ॥ 28 ॥
कञ्चुकीगुम्फितापार नाना रत्नततिद्युतिः ।
मल्लिकामोदि धम्मिल्ल मल्लिकालिसरावृता ॥ 29 ॥
सुवृत्तनिबिडोत्तुङ्ग कुचभारालसा शिवा ।
वरपाशाङ्कुशाभीति लसद्बाहु चतुष्टया ॥ 30 ॥
सर्वशृङ्गारवेषाढ्या सुकुमाराङ्गवल्लरी ।
सौन्दर्यधारासर्वस्वा निर्व्याजकरुणामयी ॥ 31 ॥
निजसंलापमाधुर्य विनिर्भर्त्सितकच्छपी ।
कोटिकोटिरवीन्दूनां कान्तिं या बिभ्रती परा ॥ 32 ॥
नाना सखीभिर्दासीभिस्तथा देवाङ्गनादिभिः ।
सर्वाभिर्देवताभिस्तु समन्तात्परिवेष्टिता ॥ 33 ॥
इच्छाशक्त्या ज्ञानशक्त्या क्रियाशक्त्या समन्विता ।
लज्जा तुष्टिस्तथा पुष्टिः कीर्तिः कान्तिः क्षमा दया ॥ 34 ॥
बुद्धिर्मेधास्मृतिर्लक्ष्मीर्मूर्तिमत्योङ्गनाः स्मृताः ।
जया च विजया चैवाप्यजिता चापराजिता ॥ 35 ॥
नित्या विलासिनी दोग्ध्री त्वघोरा मङ्गला नवा ।
पीठशक्तय एतास्तु सेवन्ते यां पराम्बिकाम् ॥ 36 ॥
यस्यास्तु पार्श्वभागेस्तोनिधीतौ शङ्खपद्मकौ ।
नवरत्न वहानद्यस्तथा वै काञ्चनस्रवाः ॥ 37 ॥
सप्तधातुवहानद्यो निधिभ्यां तु विनिर्गताः ।
सुधासिन्ध्वन्तगामिन्यस्ताः सर्वा नृपसत्तम ॥ 38 ॥
सा देवी भुवनेशानी तद्वामाङ्के विराजते ।
सर्वेश त्वं महेशस्य यत्सङ्गा देव नान्यथा ॥ 39 ॥
चिन्तामणि गृहस्याऽस्य प्रमाणं शृणु भूमिप ।
सहस्रयोजनायामं महान्तस्तत्प्रचक्षते ॥ 40 ॥
तदुत्तरे महाशालाः पूर्वस्माद् द्विगुणाः स्मृताः ।
अन्तरिक्षगतं त्वेतन्निराधारं विराजते ॥ 41 ॥
सङ्कोचश्च विकाशश्च जायतेऽस्य निरन्तरम् ।
पटवत्कार्यवशतः प्रलये सर्जने तथा ॥ 42 ॥
शालानां चैव सर्वेषां सर्वकान्तिपरावधि ।
चिन्तामणिगृहं प्रोक्तं यत्र देवी महोमयी ॥ 43 ॥
येये उपासकाः सन्ति प्रतिब्रह्माण्डवर्तिनः ।
देवेषु नागलोकेषु मनुष्येष्वितरेषु च ॥ 44 ॥
श्रीदेव्यास्ते च सर्वेपि व्रजन्त्यत्रैव भूमिप ।
देवीक्षेत्रे ये त्यजन्ति प्राणान्देव्यर्चने रताः ॥ 45 ॥
ते सर्वे यान्ति तत्रैव यत्र देवी महोत्सवा ।
घृतकुल्या दुग्धकुल्या दधिकुल्या मधुस्रवाः ॥ 46 ॥
स्यन्दन्ति सरितः सर्वास्तथामृतवहाः पराः ।
द्राक्षारसवहाः काश्चिज्जम्बूरसवहाः पराः ॥ 47 ॥
आम्रेक्षुरसवाहिन्यो नद्यस्तास्तु सहस्रशः ।
मनोरथफलावृक्षावाप्यः कूपास्तथैव च ॥ 48 ॥
यथेष्टपानफलदान न्यूनं किञ्चिदस्ति हि ।
न रोगपलितं वापि जरा वापि कदाचन ॥ 49 ॥
न चिन्ता न च मात्सर्यं कामक्रोधादिकं तथा ।
सर्वे युवानः सस्त्रीकाः सहस्रादित्यवर्चसः ॥ 50 ॥
भजन्ति सततं देवीं तत्र श्रीभुवनेश्वरीम् ।
केचित्सलोकतापन्नाः केचित्सामीप्यतां गताः ॥ 51 ॥
सरूपतां गताः केचित्सार्ष्टितां च परेगताः ।
यायास्तु देवतास्तत्र प्रतिब्रह्माण्डवर्तिनाम् ॥ 52 ॥
समष्टयः स्थितास्तास्तु सेवन्ते जगदीश्वरीम् ।
सप्तकोटिमहामन्त्रा मूर्तिमन्त उपासते ॥ 53 ॥
महाविद्याश्च सकलाः साम्यावस्थात्मिकां शिवाम् ।
कारणब्रह्मरूपां तां माया शबलविग्रहाम् ॥ 54 ॥
इत्थं राजन्मया प्रोक्तं मणिद्वीपं महत्तरम् ।
न सूर्यचन्द्रौ नो विद्युत्कोटयोग्निस्तथैव च ॥ 55 ॥
एतस्य भासा कोट्यंश कोट्यंशो नापि ते समाः ।
क्वचिद्विद्रुमसङ्काशं क्वचिन्मरकतच्छवि ॥ 56 ॥
विद्युद्भानुसमच्छायं मध्यसूर्यसमं क्वचित् ।
विद्युत्कोटिमहाधारा सारकान्तिततं क्वचित् ॥ 57 ॥
क्वचित्सिन्दूर नीलेन्द्रं माणिक्य सदृशच्छवि ।
हीरसार महागर्भ धगद्धगित दिक्तटम् ॥ 58 ॥
कान्त्या दावानलसमं तप्तकाञ्चन सन्निभम् ।
क्वचिच्चन्द्रोपलोद्गारं सूर्योद्गारं च कुत्र चित् ॥ 59 ॥
रत्नशृङ्गि समायुक्तं रत्नप्राकार गोपुरम् ।
रत्नपत्रै रत्नफलैर्वृक्षैश्च परिमण्डितम् ॥ 60 ॥
नृत्यन्मयूरसङ्घैश्च कपोतरणितोज्ज्वलम् ।
कोकिलाकाकलीलापैः शुकलापैश्च शोभितम् ॥ 61 ॥
सुरम्य रमणीयाम्बु लक्षावधि सरोवृतम् ।
तन्मध्यभाग विलसद्विकचद्रत्न पङ्कजैः ॥ 62 ॥
सुगन्धिभिः समन्तात्तु वासितं शतयोजनम् ।
मन्दमारुत सम्भिन्न चलद्द्रुम समाकुलम् ॥ 63 ॥
चिन्तामणि समूहानां ज्योतिषा वितताम्बरम् ।
रत्नप्रभाभिरभितो धगद्धगित दिक्तटम् ॥ 64 ॥
वृक्षव्रात महागन्धवातव्रात सुपूरितम् ।
धूपधूपायितं राजन्मणिदीपायुतोज्ज्वलम् ॥ 65 ॥
मणिजालक सच्छिद्र तरलोदरकान्तिभिः ।
दिङ्मोहजनकं चैतद्दर्पणोदर संयुतम् ॥ 66 ॥
ऐश्वर्यस्य समग्रस्य शृङ्गारस्याखिलस्य च ।
सर्वज्ञतायाः सर्वायास्तेजसश्चाखिलस्य च ॥ 67 ॥
पराक्रमस्य सर्वस्य सर्वोत्तमगुणस्य च ।
सकला या दयायाश्च समाप्तिरिह भूपते ॥ 68 ॥
राज्ञ आनन्दमारभ्य ब्रह्मलोकान्त भूमिषु ।
आनन्दा ये स्थिताः सर्वे तेऽत्रैवान्तर्भवन्ति हि ॥ 69 ॥
इति ते वर्णितं राजन्मणिद्वीपं महत्तरम् ।
महादेव्याः परंस्थानं सर्वलोकोत्तमोत्तमम् ॥ 70 ॥
एतस्य स्मरणात्सद्यः सर्वपापं विनश्यति ।
प्राणोत्क्रमणसन्धौ तु स्मृत्वा तत्रैव गच्छति ॥ 71 ॥
अध्याय पञ्चकं त्वेतत्पठेन्नित्यं समाहितः ।
भूतप्रेतपिशाचादि बाधा तत्र भवेन्न हि ॥ 72 ॥
नवीन गृह निर्माणे वास्तुयागे तथैव च ।
पठितव्यं प्रयत्नेन कल्याणं तेन जायते ॥ 73 ॥
इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे द्वादशोध्यायः ॥