विष्णुपत्नि जगन्मातः विष्णुवक्षस्थलस्थिते ।
पद्मासने पद्महस्ते पद्मावति नमोऽस्तु ते ॥ 1 ॥

वेंकटेशप्रिये पूज्ये क्षीराब्दितनये शुभे ।
पद्मेरमे लोकमातः पद्मावति नमोऽस्तु ते ॥ 2 ॥

कल्याणी कमले कांते कल्याणपुरनायिके ।
कारुण्यकल्पलतिके पद्मावति नमोऽस्तु ते ॥ 3 ॥

सहस्रदलपद्मस्थे कोटिचंद्रनिभानने ।
पद्मपत्रविशालाक्षी पद्मावति नमोऽस्तु ते ॥ 4 ॥

सर्वज्ञे सर्ववरदे सर्वमंगलदायिनी ।
सर्वसम्मानिते देवी पद्मावति नमोऽस्तु ते ॥ 5 ॥

सर्वहृद्दहरावासे सर्वपापभयापहे ।
अष्टैश्वर्यप्रदे लक्ष्मी पद्मावति नमोऽस्तु ते ॥ 6 ॥

देहि मे मोक्षसाम्राज्यं देहि त्वत्पाददर्शनम् ।
अष्टैश्वर्यं च मे देहि पद्मावति नमोऽस्तु ते ॥ 7 ॥

नक्रश्रवणनक्षत्रे कृतोद्वाहमहोत्सवे ।
कृपया पाहि नः पद्मे त्वद्भक्तिभरितान् रमे ॥ 8 ॥

इंदिरे हेमवर्णाभे त्वां वंदे परमात्मिकाम् ।
भवसागरमग्नं मां रक्ष रक्ष महेश्वरी ॥ 9 ॥

कल्याणपुरवासिन्यै नारायण्यै श्रियै नमः ।
शृतिस्तुतिप्रगीतायै देवदेव्यै च मंगलम् ॥ 10 ॥