ध्यानम् ।
श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका-
मालालालित कुन्तला प्रविलसन्मुक्तावलीशोभना ।
सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता
वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा ॥

श्री नारद उवाच –
भगवन्परमेशान सर्वलोकैकनायक ।
कथं सरस्वती साक्षात्प्रसन्ना परमेष्ठिनः ॥ 2 ॥

कथं देव्या महावाण्यास्सतत्प्राप सुदुर्लभम् ।
एतन्मे वद तत्त्वेन महायोगीश्वर प्रभो ॥ 3 ॥

श्री सनत्कुमार उवाच –
साधु पृष्टं त्वया ब्रह्मन् गुह्याद्गुह्यमनुत्तमम् ।
मयानुगोपितं यत्नादिदानीं सत्प्रकाश्यते ॥ 4 ॥

पुरा पितामहं दृष्ट्वा जगत्स्थावरजङ्गमम् ।
निर्विकारं निराभासं स्तम्भीभूतमचेतसम् ॥ 5 ॥

सृष्ट्वा त्रैलोक्यमखिलं वागभावात्तथाविधम् ।
आधिक्याभावतः स्वस्य परमेष्ठी जगद्गुरुः ॥ 6 ॥

दिव्यवर्षायुतं तेन तपो दुष्करमुत्तमम् ।
ततः कदाचित्सञ्जाता वाणी सर्वार्थशोभिता ॥ 7 ॥

अहमस्मि महाविद्या सर्ववाचामधीश्वरी ।
मम नाम्नां सहस्रं तु उपदेक्ष्याम्यनुत्तमम् ॥ 8 ॥

अनेन संस्तुता नित्यं पत्नी तव भवाम्यहम् ।
त्वया सृष्टं जगत्सर्वं वाणीयुक्तं भविष्यति ॥ 9 ॥

इदं रहस्यं परमं मम नामसहस्रकम् ।
सर्वपापौघशमनं महासारस्वतप्रदम् ॥ 10 ॥

महाकवित्वदं लोके वागीशत्वप्रदायकम् ।
त्वं वा परः पुमान्यस्तु स्तवेनाऽनेन तोषयेत् ॥ 11 ॥

तस्याहं किङ्करी साक्षाद्भविष्यामि न संशयः ।
इत्युक्त्वान्तर्दधे वाणी तदारभ्य पितामहः ॥ 12 ॥

स्तुत्वा स्तोत्रेण दिव्येन तत्पतित्वमवाप्तवान् ।
वाणीयुक्तं जगत्सर्वं तदारभ्याऽभवन्मुने ॥ 13 ॥

तत्तेहं सम्प्रवक्ष्यामि शृणु यत्नेन नारद ।
सावधानमना भूत्वा क्षणं शुद्धो मुनीश्वरः ॥ 14 ॥

[ ऐं वद वद वाग्वादिनी स्वाहा ]

वाग्वाणी वरदा वन्द्या वरारोहा वरप्रदा ।
वृत्तिर्वागीश्वरी वार्ता वरा वागीशवल्लभा ॥ 1 ॥

विश्वेश्वरी विश्ववन्द्या विश्वेशप्रियकारिणी ।
वाग्वादिनी च वाग्देवी वृद्धिदा वृद्धिकारिणी ॥ 2 ॥

वृद्धिर्वृद्धा विषघ्नी च वृष्टिर्वृष्टिप्रदायिनी ।
विश्वाराध्या विश्वमाता विश्वधात्री विनायका ॥ 3 ॥

विश्वशक्तिर्विश्वसारा विश्वा विश्वविभावरी ।
वेदान्तवेदिनी वेद्या वित्ता वेदत्रयात्मिका ॥ 4 ॥

वेदज्ञा वेदजननी विश्वा विश्वविभावरी ।
वरेण्या वाङ्मयी वृद्धा विशिष्टप्रियकारिणी ॥ 5 ॥

विश्वतोवदना व्याप्ता व्यापिनी व्यापकात्मिका ।
व्यालघ्नी व्यालभूषाङ्गी विरजा वेदनायिका ॥ 6 ॥

वेदवेदान्तसंवेद्या वेदान्तज्ञानरूपिणी ।
विभावरी च विक्रान्ता विश्वामित्रा विधिप्रिया ॥ 7 ॥

वरिष्ठा विप्रकृष्टा च विप्रवर्यप्रपूजिता ।
वेदरूपा वेदमयी वेदमूर्तिश्च वल्लभा ॥ 8 ॥

[ ॐ ह्रीं गुरुरूपे मां गृह्ण गृह्ण ऐं वद वद वाग्वादिनी स्वाहा ]

गौरी गुणवती गोप्या गन्धर्वनगरप्रिया ।
गुणमाता गुणान्तस्था गुरुरूपा गुरुप्रिया ॥ 9 ॥ [ गुहान्तस्था ]

गुरुविद्या गानतुष्टा गायकप्रियकारिणी । [ गिरिविद्या ]
गायत्री गिरीशाराध्या गीर्गिरीशप्रियङ्करी ॥ 10 ॥

गिरिज्ञा ज्ञानविद्या च गिरिरूपा गिरीश्वरी ।
गीर्माता गणसंस्तुत्या गणनीयगुणान्विता ॥ 11 ॥

गूढरूपा गुहा गोप्या गोरूपा गौर्गुणात्मिका ।
गुर्वी गुर्वम्बिका गुह्या गेयजा गृहनाशिनी ॥ 12 ॥

गृहिणी गृहदोषघ्नी गवघ्नी गुरुवत्सला ।
गृहात्मिका गृहाराध्या गृहबाधाविनाशिनी ॥ 13 ॥

गङ्गा गिरिसुता गम्या गजयाना गुहस्तुता ।
गरुडासनसंसेव्या गोमती गुणशालिनी ॥ 14 ॥

[ ॐ ऐं नमः शारदे श्रीं शुद्धे नमः शारदे वं ऐं वद वद वाग्वादिनी स्वाहा ]

शारदा शाश्वती शैवी शाङ्करी शङ्करात्मिका ।
श्रीश्शर्वाणी शतघ्नी च शरच्चन्द्रनिभानना ॥ 15 ॥

शर्मिष्ठा शमनघ्नी च शतसाहस्ररूपिणी ।
शिवा शम्भुप्रिया श्रद्धा श्रुतिरूपा श्रुतिप्रिया ॥ 16 ॥

शुचिष्मती शर्मकरी शुद्धिदा शुद्धिरूपिणी ।
शिवा शिवङ्करी शुद्धा शिवाराध्या शिवात्मिका ॥ 17 ॥

श्रीमती श्रीमयी श्राव्या श्रुतिः श्रवणगोचरा ।
शान्तिश्शान्तिकरी शान्ता शान्ताचारप्रियङ्करी ॥ 18 ॥

शीललभ्या शीलवती श्रीमाता शुभकारिणी ।
शुभवाणी शुद्धविद्या शुद्धचित्तप्रपूजिता ॥ 19 ॥

श्रीकरी श्रुतपापघ्नी शुभाक्षी शुचिवल्लभा ।
शिवेतरघ्नी शबरी श्रवणीयगुणान्विता ॥ 20 ॥ [शर्वरी]

शारी शिरीषपुष्पाभा शमनिष्ठा शमात्मिका ।
शमान्विता शमाराध्या शितिकण्ठप्रपूजिता ॥ 21 ॥

शुद्धिः शुद्धिकरी श्रेष्ठा श्रुतानन्ता शुभावहा ।
सरस्वती च सर्वज्ञा सर्वसिद्धिप्रदायिनी ॥ 22 ॥

[ ॐ ऐं वद वद वाग्वादिनी स्वाहा ]

सरस्वती च सावित्री सन्ध्या सर्वेप्सितप्रदा ।
सर्वार्तिघ्नी सर्वमयी सर्वविद्याप्रदायिनी ॥ 23 ॥

सर्वेश्वरी सर्वपुण्या सर्गस्थित्यन्तकारिणी ।
सर्वाराध्या सर्वमाता सर्वदेवनिषेविता ॥ 24 ॥

सर्वैश्वर्यप्रदा सत्या सती सत्वगुणाश्रया ।
सर्वक्रमपदाकारा सर्वदोषनिषूदिनी ॥ 25 ॥ [ स्वरक्रमपदाकारा ]

सहस्राक्षी सहस्रास्या सहस्रपदसंयुता ।
सहस्रहस्ता साहस्रगुणालङ्कृतविग्रहा ॥ 26 ॥

सहस्रशीर्षा सद्रूपा स्वधा स्वाहा सुधामयी ।
षड्ग्रन्थिभेदिनी सेव्या सर्वलोकैकपूजिता ॥ 27 ॥

स्तुत्या स्तुतिमयी साध्या सवितृप्रियकारिणी ।
संशयच्छेदिनी साङ्ख्यवेद्या सङ्ख्या सदीश्वरी ॥ 28 ॥

सिद्धिदा सिद्धसम्पूज्या सर्वसिद्धिप्रदायिनी ।
सर्वज्ञा सर्वशक्तिश्च सर्वसम्पत्प्रदायिनी ॥ 29 ॥

सर्वाऽशुभघ्नी सुखदा सुखसंवित्स्वरूपिणी ।
सर्वसम्भाषणी सर्वजगत्सम्मोहिनी तथा ॥ 30 ॥ [ सर्वसम्भीषणी ]

सर्वप्रियङ्करी सर्वशुभदा सर्वमङ्गला ।
सर्वमन्त्रमयी सर्वतीर्थपुण्यफलप्रदा ॥ 31 ॥

सर्वपुण्यमयी सर्वव्याधिघ्नी सर्वकामदा ।
सर्वविघ्नहरी सर्ववन्दिता सर्वमङ्गला ॥ 32 ॥

सर्वमन्त्रकरी सर्वलक्ष्मीः सर्वगुणान्विता ।
सर्वानन्दमयी सर्वज्ञानदा सत्यनायिका ॥ 33 ॥

सर्वज्ञानमयी सर्वराज्यदा सर्वमुक्तिदा ।
सुप्रभा सर्वदा सर्वा सर्वलोकवशङ्करी ॥ 34 ॥

सुभगा सुन्दरी सिद्धा सिद्धाम्बा सिद्धमातृका ।
सिद्धमाता सिद्धविद्या सिद्धेशी सिद्धरूपिणी ॥ 35 ॥

सुरूपिणी सुखमयी सेवकप्रियकारिणी ।
स्वामिनी सर्वदा सेव्या स्थूलसूक्ष्मापराम्बिका ॥ 36 ॥

साररूपा सरोरूपा सत्यभूता समाश्रया ।
सिताऽसिता सरोजाक्षी सरोजासनवल्लभा ॥ 37 ॥

सरोरुहाभा सर्वाङ्गी सुरेन्द्रादिप्रपूजिता ।

[ ॐ ह्रीं ऐं महासरस्वति सारस्वतप्रदे ऐं वद वद वाग्वादिनी स्वाहा ]

महादेवी महेशानी महासारस्वतप्रदा ॥ 38 ॥

महासरस्वती मुक्ता मुक्तिदा मोहनाशिनी । [ मलनाशिनी ]
महेश्वरी महानन्दा महामन्त्रमयी मही ॥ 39 ॥

महालक्ष्मीर्महाविद्या माता मन्दरवासिनी ।
मन्त्रगम्या मन्त्रमाता महामन्त्रफलप्रदा ॥ 40 ॥

महामुक्तिर्महानित्या महासिद्धिप्रदायिनी ।
महासिद्धा महामाता महदाकारसंयुता ॥ 41 ॥

मही महेश्वरी मूर्तिर्मोक्षदा मणिभूषणा ।
मेनका मानिनी मान्या मृत्युघ्नी मेरुरूपिणी ॥ 42 ॥

मदिराक्षी मदावासा मखरूपा मखेश्वरी । [ महेश्वरी ]
महामोहा महामाया मातॄणां मूर्ध्निसंस्थिता ॥ 43 ॥

महापुण्या मुदावासा महासम्पत्प्रदायिनी ।
मणिपूरैकनिलया मधुरूपा मदोत्कटा ॥ 44 ॥ [ महोत्कटा ]

महासूक्ष्मा महाशान्ता महाशान्तिप्रदायिनी ।
मुनिस्तुता मोहहन्त्री माधवी माधवप्रिया ॥ 45 ॥

मा महादेवसंस्तुत्या महिषीगणपूजिता ।
मृष्टान्नदा च माहेन्द्री महेन्द्रपददायिनी ॥ 46 ॥

मतिर्मतिप्रदा मेधा मर्त्यलोकनिवासिनी ।
मुख्या महानिवासा च महाभाग्यजनाश्रिता ॥ 47 ॥

महिला महिमा मृत्युहारी मेधाप्रदायिनी ।
मेध्या महावेगवती महामोक्षफलप्रदा ॥ 48 ॥

महाप्रभाभा महती महादेवप्रियङ्करी ।
महापोषा महर्थिश्च मुक्ताहारविभूषणा ॥ 49 ॥ [ महर्द्धिश्च ]

माणिक्यभूषणा मन्त्रा मुख्यचन्द्रार्धशेखरा ।
मनोरूपा मनश्शुद्धिः मनश्शुद्धिप्रदायिनी ॥ 50 ॥

महाकारुण्यसम्पूर्णा मनोनमनवन्दिता ।
महापातकजालघ्नी मुक्तिदा मुक्तभूषणा ॥ 51 ॥

मनोन्मनी महास्थूला महाक्रतुफलप्रदा ।
महापुण्यफलप्राप्या मायात्रिपुरनाशिनी ॥ 52 ॥

महानसा महामेधा महामोदा महेश्वरी ।
मालाधरी महोपाया महातीर्थफलप्रदा ॥ 53 ॥

महामङ्गलसम्पूर्णा महादारिद्र्यनाशिनी ।
महामखा महामेघा महाकाली महाप्रिया ॥ 54 ॥

महाभूषा महादेहा महाराज्ञी मुदालया ।

[ ॐ ह्रीं ऐं नमो भगवति ऐं वद वद वाग्वादिनी स्वाहा ]

भूरिदा भाग्यदा भोग्या भोग्यदा भोगदायिनी ॥ 55 ॥

भवानी भूतिदा भूतिः भूमिर्भूमिसुनायिका ।
भूतधात्री भयहरी भक्तसारस्वतप्रदा ॥ 56 ॥

भुक्तिर्भुक्तिप्रदा भोक्त्री भक्तिर्भक्तिप्रदायिनी । [भेकी]
भक्तसायुज्यदा भक्तस्वर्गदा भक्तराज्यदा ॥ 57 ॥

भागीरथी भवाराध्या भाग्यासज्जनपूजिता ।
भवस्तुत्या भानुमती भवसागरतारिणी ॥ 58 ॥

भूतिर्भूषा च भूतेशी भाललोचनपूजिता । [ फाललोचनपूजिता ]
भूता भव्या भविष्या च भवविद्या भवात्मिका ॥ 59 ॥

बाधापहारिणी बन्धुरूपा भुवनपूजिता ।
भवघ्नी भक्तिलभ्या च भक्तरक्षणतत्परा ॥ 60 ॥

भक्तार्तिशमनी भाग्या भोगदानकृतोद्यमा ।
भुजङ्गभूषणा भीमा भीमाक्षी भीमरूपिणी ॥ 61 ॥

भाविनी भ्रातृरूपा च भारती भवनायिका ।
भाषा भाषावती भीष्मा भैरवी भैरवप्रिया ॥ 62 ॥

भूतिर्भासितसर्वाङ्गी भूतिदा भूतिनायिका ।
भास्वती भगमाला च भिक्षादानकृतोद्यमा ॥ 63 ॥

भिक्षुरूपा भक्तिकरी भक्तलक्ष्मीप्रदायिनी ।
भ्रान्तिघ्ना भ्रान्तिरूपा च भूतिदा भूतिकारिणी ॥ 64 ॥

भिक्षणीया भिक्षुमाता भाग्यवद्दृष्टिगोचरा ।
भोगवती भोगरूपा भोगमोक्षफलप्रदा ॥ 65 ॥

भोगश्रान्ता भाग्यवती भक्ताघौघविनाशिनी ।

[ ॐ ऐं क्लीं सौः बाले ब्राह्मी ब्रह्मपत्नी ऐं वद वद वाग्वादिनी स्वाहा ]

ब्राह्मी ब्रह्मस्वरूपा च बृहती ब्रह्मवल्लभा ॥ 66 ॥

ब्रह्मदा ब्रह्ममाता च ब्रह्माणी ब्रह्मदायिनी ।
ब्रह्मेशी ब्रह्मसंस्तुत्या ब्रह्मवेद्या बुधप्रिया ॥ 67 ॥

बालेन्दुशेखरा बाला बलिपूजाकरप्रिया ।
बलदा बिन्दुरूपा च बालसूर्यसमप्रभा ॥ 68 ॥

ब्रह्मरूपा ब्रह्ममयी ब्रध्नमण्डलमध्यगा ।
ब्रह्माणी बुद्धिदा बुद्धिर्बुद्धिरूपा बुधेश्वरी ॥ 69 ॥

बन्धक्षयकरी बाधानाशिनी बन्धुरूपिणी ।
बिन्द्वालया बिन्दुभूषा बिन्दुनादसमन्विता ॥ 70 ॥

बीजरूपा बीजमाता ब्रह्मण्या ब्रह्मकारिणी ।
बहुरूपा बलवती ब्रह्मज्ञा ब्रह्मचारिणी ॥ 71 ॥ [ब्रह्मजा]

ब्रह्मस्तुत्या ब्रह्मविद्या ब्रह्माण्डाधिपवल्लभा ।
ब्रह्मेशविष्णुरूपा च ब्रह्मविष्ण्वीशसंस्थिता ॥ 72 ॥

बुद्धिरूपा बुधेशानी बन्धी बन्धविमोचनी ।

[ ॐ ह्रीं ऐं अं आं इं ईं उं ऊं ऋं ॠं ~लुं ~लूं एं ऐं ॐ औं कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं लं क्षं अक्षमाले अक्षरमालिका समलङ्कृते वद वद वाग्वादिनी स्वाहा ]

अक्षमालाऽक्षराकाराऽक्षराऽक्षरफलप्रदा ॥ 73 ॥

अनन्ताऽनन्दसुखदाऽनन्तचन्द्रनिभानना ।
अनन्तमहिमाऽघोरानन्तगम्भीरसम्मिता ॥ 74 ॥

अदृष्टाऽदृष्टदाऽनन्तादृष्टभाग्यफलप्रदा । [ दृष्टिदा ]
अरुन्धत्यव्ययीनाथाऽनेकसद्गुणसंयुता ॥ 75 ॥

अनेकभूषणाऽदृश्याऽनेकलेखनिषेविता ।
अनन्ताऽनन्तसुखदाऽघोराऽघोरस्वरूपिणी ॥ 76 ॥

अशेषदेवतारूपाऽमृतरूपाऽमृतेश्वरी ।
अनवद्याऽनेकहस्ताऽनेकमाणिक्यभूषणा ॥ 77 ॥

अनेकविघ्नसंहर्त्री त्वनेकाभरणान्विता ।
अविद्याज्ञानसंहर्त्री ह्यविद्याजालनाशिनी ॥ 78 ॥

अभिरूपानवद्याङ्गी ह्यप्रतर्क्यगतिप्रदा ।
अकलङ्करूपिणी च ह्यनुग्रहपरायणा ॥ 79 ॥

अम्बरस्थाऽम्बरमयाऽम्बरमालाऽम्बुजेक्षणा ।
अम्बिकाऽब्जकराऽब्जस्थाऽंशुमत्यऽंशुशतान्विता ॥ 80 ॥

अम्बुजाऽनवराऽखण्डाऽम्बुजासनमहाप्रिया ।
अजराऽमरसंसेव्याऽजरसेवितपद्युगा ॥ 81 ॥

अतुलार्थप्रदाऽर्थैक्याऽत्युदारात्वभयान्विता ।
अनाथवत्सलाऽनन्तप्रियाऽनन्तेप्सितप्रदा ॥ 82 ॥

अम्बुजाक्ष्यम्बुरूपाऽम्बुजातोद्भवमहाप्रिया ।
अखण्डा त्वमरस्तुत्याऽमरनायकपूजिता ॥ 83 ॥

अजेया त्वजसङ्काशाऽज्ञाननाशिन्यभीष्टदा ।
अक्ताघनेन चाऽस्त्रेशी ह्यलक्ष्मीनाशिनी तथा ॥ 84 ॥

अनन्तसाराऽनन्तश्रीरनन्तविधिपूजिता ।
अभीष्टामर्त्यसम्पूज्या ह्यस्तोदयविवर्जिता ॥ 85 ॥

आस्तिकस्वान्तनिलयाऽस्त्ररूपाऽस्त्रवती तथा ।
अस्खलत्यस्खलद्रूपाऽस्खलद्विद्याप्रदायिनी ॥ 86 ॥

अस्खलत्सिद्धिदाऽऽनन्दाऽम्बुजाताऽऽमरनायिका ।
अमेयाऽशेषपापघ्न्यक्षयसारस्वतप्रदा ॥ 87 ॥

[ ॐ ज्यां ह्रीं जय जय जगन्मातः ऐं वद वद वाग्वादिनी स्वाहा ]

जया जयन्ती जयदा जन्मकर्मविवर्जिता ।
जगत्प्रिया जगन्माता जगदीश्वरवल्लभा ॥ 88 ॥

जातिर्जया जितामित्रा जप्या जपनकारिणी ।
जीवनी जीवनिलया जीवाख्या जीवधारिणी ॥ 89 ॥

जाह्नवी ज्या जपवती जातिरूपा जयप्रदा ।
जनार्दनप्रियकरी जोषनीया जगत्स्थिता ॥ 90 ॥

जगज्ज्येष्ठा जगन्माया जीवनत्राणकारिणी ।
जीवातुलतिका जीवजन्मी जन्मनिबर्हणी ॥ 91 ॥

जाड्यविध्वंसनकरी जगद्योनिर्जयात्मिका ।
जगदानन्दजननी जम्बूश्च जलजेक्षणा ॥ 92 ॥

जयन्ती जङ्गपूगघ्नी जनितज्ञानविग्रहा ।
जटा जटावती जप्या जपकर्तृप्रियङ्करी ॥ 93 ॥

जपकृत्पापसंहर्त्री जपकृत्फलदायिनी ।
जपापुष्पसमप्रख्या जपाकुसुमधारिणी ॥ 94 ॥

जननी जन्मरहिता ज्योतिर्वृत्यभिदायिनी ।
जटाजूटनचन्द्रार्धा जगत्सृष्टिकरी तथा ॥ 95 ॥

जगत्त्राणकरी जाड्यध्वंसकर्त्री जयेश्वरी ।
जगद्बीजा जयावासा जन्मभूर्जन्मनाशिनी ॥ 96 ॥

जन्मान्त्यरहिता जैत्री जगद्योनिर्जपात्मिका ।
जयलक्षणसम्पूर्णा जयदानकृतोद्यमा ॥ 97 ॥

जम्भराद्यादिसंस्तुत्या जम्भारिफलदायिनी ।
जगत्त्रयहिता ज्येष्ठा जगत्त्रयवशङ्करी ॥ 98 ॥

जगत्त्रयाम्बा जगती ज्वाला ज्वालितलोचना ।
ज्वालिनी ज्वलनाभासा ज्वलन्ती ज्वलनात्मिका ॥ 99 ॥

जितारातिसुरस्तुत्या जितक्रोधा जितेन्द्रिया ।
जरामरणशून्या च जनित्री जन्मनाशिनी ॥ 100 ॥

जलजाभा जलमयी जलजासनवल्लभा ।
जलजस्था जपाराध्या जनमङ्गलकारिणी ॥ 101 ॥

[ ऐं क्लीं सौः कल्याणी कामधारिणी वद वद वाग्वादिनी स्वाहा ]

कामिनी कामरूपा च काम्या काम्यप्रदायिनी । [ कामप्रदायिनी ]
कमौली कामदा कर्त्री क्रतुकर्मफलप्रदा ॥ 102 ॥

कृतघ्नघ्नी क्रियारूपा कार्यकारणरूपिणी ।
कञ्जाक्षी करुणारूपा केवलामरसेविता ॥ 103 ॥

कल्याणकारिणी कान्ता कान्तिदा कान्तिरूपिणी ।
कमला कमलावासा कमलोत्पलमालिनी ॥ 104 ॥

कुमुद्वती च कल्याणी कान्तिः कामेशवल्लभा । [ कान्ता ]
कामेश्वरी कमलिनी कामदा कामबन्धिनी ॥ 105 ॥

कामधेनुः काञ्चनाक्षी काञ्चनाभा कलानिधिः ।
क्रिया कीर्तिकरी कीर्तिः क्रतुश्रेष्ठा कृतेश्वरी ॥ 106 ॥

क्रतुसर्वक्रियास्तुत्या क्रतुकृत्प्रियकारिणी ।
क्लेशनाशकरी कर्त्री कर्मदा कर्मबन्धिनी ॥ 107 ॥

कर्मबन्धहरी कृष्टा क्लमघ्नी कञ्जलोचना ।
कन्दर्पजननी कान्ता करुणा करुणावती ॥ 108 ॥

क्लीङ्कारिणी कृपाकारा कृपासिन्धुः कृपावती ।
करुणार्द्रा कीर्तिकरी कल्मषघ्नी क्रियाकरी ॥ 109 ॥

क्रियाशक्तिः कामरूपा कमलोत्पलगन्धिनी ।
कला कलावती कूर्मी कूटस्था कञ्जसंस्थिता ॥ 110 ॥

कालिका कल्मषघ्नी च कमनीयजटान्विता ।
करपद्मा कराभीष्टप्रदा क्रतुफलप्रदा ॥ 111 ॥

कौशिकी कोशदा काव्या कर्त्री कोशेश्वरी कृशा । [ कन्या ]
कूर्मयाना कल्पलता कालकूटविनाशिनी ॥ 112 ॥

कल्पोद्यानवती कल्पवनस्था कल्पकारिणी ।
कदम्बकुसुमाभासा कदम्बकुसुमप्रिया ॥ 113 ॥

कदम्बोद्यानमध्यस्था कीर्तिदा कीर्तिभूषणा ।
कुलमाता कुलावासा कुलाचारप्रियङ्करी ॥ 114 ॥

कुलनाथा कामकला कलानाथा कलेश्वरी ।
कुन्दमन्दारपुष्पाभा कपर्दस्थितचन्द्रिका ॥ 115 ॥

कवित्वदा काम्यमाता कविमाता कलाप्रदा । [काव्यमाता]

[ ॐ सौः क्लीं ऐं ततो वद वद वाग्वादिनी स्वाहा ]

तरुणी तरुणीताता ताराधिपसमानना ॥ 116 ॥

तृप्तिस्तृप्तिप्रदा तर्क्या तपनी तापिनी तथा ।
तर्पणी तीर्थरूपा च त्रिपदा त्रिदशेश्वरी ॥ 117 ॥ [ त्रिदशा ]

त्रिदिवेशी त्रिजननी त्रिमाता त्र्यम्बकेश्वरी ।
त्रिपुरा त्रिपुरेशानी त्र्यम्बका त्रिपुराम्बिका ॥ 118 ॥

त्रिपुरश्रीस्त्रयीरूपा त्रयीवेद्या त्रयीश्वरी ।
त्रय्यन्तवेदिनी ताम्रा तापत्रितयहारिणी ॥ 119 ॥

तमालसदृशी त्राता तरुणादित्यसन्निभा ।
त्रैलोक्यव्यापिनी तृप्ता तृप्तिकृत्तत्त्वरूपिणी ॥ 120 ॥

तुर्या त्रैलोक्यसंस्तुत्या त्रिगुणा त्रिगुणेश्वरी ।
त्रिपुरघ्नी त्रिमाता च त्र्यम्बका त्रिगुणान्विता ॥ 121 ॥

तृष्णाच्छेदकरी तृप्ता तीक्ष्णा तीक्ष्णस्वरूपिणी ।
तुला तुलादिरहिता तत्तद्ब्रह्मस्वरूपिणी ॥ 122 ॥

त्राणकर्त्री त्रिपापघ्नी त्रिदशा त्रिदशान्विता ।
तथ्या त्रिशक्तिस्त्रिपदा तुर्या त्रैलोक्यसुन्दरी ॥ 123 ॥

तेजस्करी त्रिमूर्त्याद्या तेजोरूपा त्रिधामता ।
त्रिचक्रकर्त्री त्रिभगा तुर्यातीतफलप्रदा ॥ 124 ॥

तेजस्विनी तापहारी तापोपप्लवनाशिनी ।
तेजोगर्भा तपस्सारा त्रिपुरारिप्रियङ्करी ॥ 125 ॥

तन्वी तापससन्तुष्टा तपनाङ्गजभीतिनुत् ।
त्रिलोचना त्रिमार्गा च तृतीया त्रिदशस्तुता ॥ 126 ॥

त्रिसुन्दरी त्रिपथगा तुरीयपददायिनी ।

[ ॐ ह्रीं श्रीं क्लीं ऐं नमश्शुद्धफलदे ऐं वद वद वाग्वादिनी स्वाहा ]

शुभा शुभावती शान्ता शान्तिदा शुभदायिनी ॥ 127 ॥

शीतला शूलिनी शीता श्रीमती च शुभान्विता ।

[ ॐ ऐं यां यीं यूं यैं यौं यः ऐं वद वद वाग्वादिनी स्वाहा ]

योगसिद्धिप्रदा योग्या यज्ञेनपरिपूरिता ॥ 128 ॥

यज्ञा यज्ञमयी यक्षी यक्षिणी यक्षिवल्लभा ।
यज्ञप्रिया यज्ञपूज्या यज्ञतुष्टा यमस्तुता ॥ 129 ॥

यामिनीयप्रभा याम्या यजनीया यशस्करी ।
यज्ञकर्त्री यज्ञरूपा यशोदा यज्ञसंस्तुता ॥ 130 ॥

यज्ञेशी यज्ञफलदा योगयोनिर्यजुस्स्तुता ।
यमिसेव्या यमाराध्या यमिपूज्या यमीश्वरी ॥ 131 ॥

योगिनी योगरूपा च योगकर्तृप्रियङ्करी ।
योगयुक्ता योगमयी योगयोगीश्वराम्बिका ॥ 132 ॥

योगज्ञानमयी योनिर्यमाद्यष्टाङ्गयोगता ।
यन्त्रिताघौघसंहारा यमलोकनिवारिणी ॥ 133 ॥

यष्टिव्यष्टीशसंस्तुत्या यमाद्यष्टाङ्गयोगयुक् ।
योगीश्वरी योगमाता योगसिद्धा च योगदा ॥ 134 ॥

योगारूढा योगमयी योगरूपा यवीयसी ।
यन्त्ररूपा च यन्त्रस्था यन्त्रपूज्या च यन्त्रिका ॥ 135 ॥ [ यन्त्रिता ]

युगकर्त्री युगमयी युगधर्मविवर्जिता ।
यमुना यामिनी याम्या यमुनाजलमध्यगा ॥ 136 ॥ [ यमिनी ]

यातायातप्रशमनी यातनानान्निकृन्तनी ।
योगावासा योगिवन्द्या यत्तच्छब्दस्वरूपिणी ॥ 137 ॥

योगक्षेममयी यन्त्रा यावदक्षरमातृका ।
यावत्पदमयी यावच्छब्दरूपा यथेश्वरी ॥ 138 ॥

यत्तदीया यक्षवन्द्या यद्विद्या यतिसंस्तुता ।
यावद्विद्यामयी यावद्विद्याबृन्दसुवन्दिता ॥ 139 ॥

योगिहृत्पद्मनिलया योगिवर्यप्रियङ्करी ।
योगिवन्द्या योगिमाता योगीशफलदायिनी ॥ 140 ॥

यक्षवन्द्या यक्षपूज्या यक्षराजसुपूजिता ।
यज्ञरूपा यज्ञतुष्टा यायजूकस्वरूपिणी ॥ 141 ॥

यन्त्राराध्या यन्त्रमध्या यन्त्रकर्तृप्रियङ्करी ।
यन्त्रारूढा यन्त्रपूज्या योगिध्यानपरायणा ॥ 142 ॥

यजनीया यमस्तुत्या योगयुक्ता यशस्करी ।
योगबद्धा यतिस्तुत्या योगज्ञा योगनायकी ॥ 143 ॥

योगिज्ञानप्रदा यक्षी यमबाधाविनाशिनी ।
योगिकाम्यप्रदात्री च योगिमोक्षप्रदायिनी ॥ 144 ॥

फलश्रुतिः
इति नाम्नां सरस्वत्याः सहस्रं समुदीरितम् ।
मन्त्रात्मकं महागोप्यं महासारस्वतप्रदम् ॥ 1 ॥

यः पठेच्छृणुयाद्भक्त्यात्त्रिकालं साधकः पुमान् ।
सर्वविद्यानिधिः साक्षात् स एव भवति ध्रुवम् ॥ 2 ॥

लभते सम्पदः सर्वाः पुत्रपौत्रादिसंयुताः ।
मूकोऽपि सर्वविद्यासु चतुर्मुख इवापरः ॥ 3 ॥

भूत्वा प्राप्नोति सान्निध्यं अन्ते धातुर्मुनीश्वर ।
सर्वमन्त्रमयं सर्वविद्यामानफलप्रदम् ॥ 4 ॥

महाकवित्वदं पुंसां महासिद्धिप्रदायकम् ।
कस्मै चिन्न प्रदातव्यं प्राणैः कण्ठगतैरपि ॥ 5 ॥

महारहस्यं सततं वाणीनामसहस्रकम् ।
सुसिद्धमस्मदादीनां स्तोत्रं ते समुदीरितम् ॥ 6 ॥

इति श्रीस्कान्दपुराणान्तर्गत श्रीसनत्कुमार संहितायां नारद सनत्कुमार संवादे श्री सरस्वती सहस्रनाम स्तोत्रं सम्पूर्णम् ॥