अथ सप्तमस्तोत्रम्

विश्वस्थितिप्रलयसर्गमहाविभूति वृत्तिप्रकाशनियमावृति बंधमोक्षाः ।
यस्या अपांगलवमात्रत ऊर्जिता सा श्रीः यत्कटाक्षबलवत्यजितं नमामि ॥ 1॥

ब्रह्मेशशक्ररविधर्मशशांकपूर्व गीर्वाणसंततिरियं यदपांगलेशम् ।
आश्रित्य विश्वविजयं विसृजत्यचिंत्या श्रीः यत्कटाक्षबलवत्यजितं नमामि ॥ 2॥

धर्मार्थकामसुमतिप्रचयाद्यशेषसन्मंगलं विदधते यदपांगलेशम् ।
आश्रित्य तत्प्रणतसत्प्रणता अपीड्या श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ 3॥

षड्वर्गनिग्रहनिरस्तसमस्तदोषा ध्यायंति विष्णुमृषयो यदपांगलेशम् ।
आश्रित्य यानपि समेत्य न याति दुःखं श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ 4॥

शेषाहिवैरिशिवशक्रमनुप्रधान चित्रोरुकर्मरचनं यदपांगलेशम् ।
आश्रित्य विश्वमखिलं विदधाति धाता श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ 5॥

शक्रोग्रदीधितिहिमाकरसूर्यसूनु पूर्वं निहत्य निखिलं यदपांगलेशम् ।
आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः श्रीः यत्कटाक्ष बलवति अजितं नमामि ॥ 6॥

तत्पादपंकजमहासनतामवाप शर्वादिवंद्यचरणो यदपांगलेशम् ।
आश्रित्य नागपतिः अन्यसुरैर्दुरापां श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ 7॥

नागारिरुग्रबलपौरुष आप विष्णुवाहत्वमुत्तमजवो यदपांगलेशम् । वर्
विष्णोर्वाह
आश्रित्य शक्रमुखदेवगणैः अचिंत्यं श्रीः यत्कटाक्ष बलवति अजितं नमामि ॥ 8॥

आनंदतीर्थमुनिसन्मुखपंकजोत्थं साक्षाद्रमाहरिमनः प्रियं उत्तमार्थम् ।
भक्त्या पठति अजितमात्मनि सन्निधाय यः स्तोत्रमेतभियाति तयोरभीष्टम् ॥ 9॥

इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु सप्तमस्तोत्रं संपूर्णम्