अथ अष्टमस्तोत्रम्

वंदिताशेषवंद्योरुवृंदारकं चंदनाचर्चितोदारपीनांसकम् ।
इंदिराचंचलापांगनीराजितं मंदरोद्धारिवृत्तोद्भुजाभोगिनम् ।
प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 1॥

सृष्टिसंहारलीलाविलासाततं पुष्टषाड्गुण्यसद्विग्रहोल्लासिनम् ।
दुष्टनिःशेषसंहारकर्मोद्यतं हृष्टपुष्टातिशिष्ट (अनुशिष्ट) प्रजासंश्रयम् ।
प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 2॥

उन्नतप्रार्थिताशेषसंसाधकं सन्नतालौकिकानंददश्रीपदम् ।
भिन्नकर्माशयप्राणिसंप्रेरकं तन्न किं नेति विद्वत्सु मीमांसितम् ।
प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 3॥

विप्रमुख्यैः सदा वेदवादोन्मुखैः सुप्रतापैः क्षितीशेश्वरैश्चार्च्चितम् ।
अप्रतर्क्योरुसंविद्गुणं निर्मलं सप्रकाशाजरानंदरूपं परम् ।
प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 4॥

अत्ययो यस्य (येन) केनापि न क्वापि हि प्रत्ययो यद्गुणेषूत्तमानां परः ।
सत्यसंकल्प एको वरेण्यो वशी मत्यनूनैः सदा वेदवादोदितः ।
प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 5॥

पश्यतां दुःखसंताननिर्मूलनं दृश्यतां दृश्यतामित्यजेशार्चितम् ।
नश्यतां दूरगं सर्वदाप्याऽत्मगं वश्यतां स्वेच्छया सज्जनेष्वागतम् ।
प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 6॥

अग्रजं यः ससर्जाजमग्र्याकृतिं विग्रहो यस्य सर्वे गुणा एव हि ।
उग्र आद्योऽपि यस्यात्मजाग्र्यात्मजः सद्गृहीतः सदा यः परं दैवतम् ।
प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 7॥

अच्युतो यो गुणैर्नित्यमेवाखिलैः प्रच्युतोऽशेषदोषैः सदा पूर्तितः ।
उच्यते सर्ववेदोरुवादैरजः स्वर्चितो ब्रह्मरुद्रेंद्रपूर्वैः सदा ।
प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 8॥

धार्यते येन विश्वं सदाजादिकं वार्यतेऽशेषदुःखं निजध्यायिनाम् ।
पार्यते सर्वमन्यैर्नयत्पार्यते कार्यते चाखिलं सर्वभूतैः सदा ।
प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 9॥

सर्वपापानियत्संस्मृतेः संक्षयं सर्वदा यांति भक्त्या विशुद्धात्मनाम् ।
शर्वगुर्वादिगीर्वाण संस्थानदः कुर्वते कर्म यत्प्रीतये सज्जनाः ।
प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 10॥

अक्षयं कर्म यस्मिन् परे स्वर्पितं प्रक्षयं यांति दुःखानि यन्नामतः ।
अक्षरो योऽजरः सर्वदैवामृतः कुक्षिगं यस्य विश्वं सदाऽजादिकम् ।
प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 11॥

नंदितीर्थोरुसन्नामिनो नंदिनः संदधानाः सदानंददेवे मतिम् ।
मंदहासारुणा पांगदत्तोन्नतिं वंदिताशेषदेवादिवृंदं सदा ।
प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 12॥

इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु अष्टमस्तोत्रं संपूर्णम्