अथ दशमस्तोत्रम्

अव नः श्रीपतिरप्रतिरधिकेशादिभवादे ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 1॥

सुरवन्द्याधिप सद्वरभरिताशेषगुणालम् ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 2॥

सकलध्वान्तविनाशन (विनाशक) परमानन्दसुधाहो ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 3॥

त्रिजगत्पोत सदार्चितचरणाशापतिधातो ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 4॥

त्रिगुणातीतविधारक परितो देहि सुभक्तिम् ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 5॥

शरणं कारणभावन भव मे तात सदाऽलम् ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 6॥

मरणप्राणद पालक जगदीशाव सुभक्तिम् ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 7॥

तरुणादित्यसवर्णकचरणाब्जामल कीर्ते ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 8॥

सलिलप्रोत्थसरागकमणिवर्णोच्चनखादे ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 9॥

कज (खज) तूणीनिभपावनवरजङ्घामितशक्ते ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 10॥

इबहस्तप्रभशोभनपरमोरुस्थरमाले ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 11॥

असनोत्फुल्लसुपुष्पकसमवर्णावरणान्ते ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 12॥

शतमोदोद्भवसुन्दरिवरपद्मोत्थितनाभे ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 13॥

जगदागूहकपल्लवसमकुक्षे शरणादे ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 14॥

जगदम्बामलसुन्दरिगृहवक्षोवर योगिन् ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 15॥

दितिजान्तप्रद चक्रधरगदायुग्वरबाहो ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 16॥

परमज्ञानमहानिधिवदन श्रीरमणेन्दो ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 17॥

निखिलाघौघविनाशन (विनाशक) परसौख्यप्रददृष्टे ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 18॥

परमानन्दसुतीर्थसुमुनिराजो हरिगाथाम् ।
कृतवान्नित्यसुपूर्णकपरमानन्दपदैषिन् ॥ 19॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु दशमस्तोत्रं सम्पूर्णम्