अथ एकादशस्तोत्रम्
उदीर्णमजरं दिव्यं अमृतस्यंद्यधीशितुः ।
आनंदस्य पदं वंदे ब्रह्मेंद्रादि अभिवंदितम् ॥ 1॥
सर्ववेदपदोद्गीतं इंदिरावासमुत्तमम् (इंदिराधारमुत्तमम्) ।
आनंदस्य पदं वंदे ब्रह्मेंद्रादि अभिवंदितम् ॥ 2॥
सर्वदेवादिदेवस्य विदारितमहत्तमः ।
आनंदस्य पदं वंदे ब्रह्मेंद्रादि अभिवंदितम् ॥ 3॥
उदारमादरान्नित्यं अनिंद्यं सुंदरीपतेः ।
आनंदस्य पदं वंदे ब्रह्मेंद्रादि अभिवंदितम् ॥ 4॥
इंदीवरोदरनिभं सुपूर्णं वादिमोहनम् (वादिमोहदम्) ।
आनंदस्य पदं वंदे ब्रह्मेंद्रादि अभिवंदितम् ॥ 5॥
दातृसर्वामरैश्वर्यविमुक्त्यादेरहो परम् (वरम्) ।
आनंदस्य पदं वंदे ब्रह्मेंद्रादि अभिवंदितम् ॥ 6॥
दूराद्दुरतरं यत्तु तदेवांतिकमंतिकात् ।
आनंदस्य पदं वंदे ब्रह्मेंद्रादि अभिवंदितम् ॥ 7॥
पूर्णसर्वगुणैकार्णमनाद्यंतं सुरेशितुः ।
आनंदस्य पदं वंदे ब्रह्मेंद्रादि अभिवंदितम् ॥ 8॥
आनंदतीर्थमुनिना हरेरानंदरूपिणः ।
कृतं स्तोत्रमिदं पुण्यं पठन्नानंदमाप्नुयात् ॥ 9॥
इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु एकादशस्तोत्रं संपूर्णम्