कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्पञ्चमकाण्डे प्रथमः प्रश्नः – उख्याग्निकथनं
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
सा॒वि॒त्राणि॑ जुहोति॒ प्रसू᳚त्यै चतुर्गृही॒तेन॑ जुहोति॒ चतु॑ष्पादः प॒शवः॑ प॒शूने॒वा-ऽव॑ रुन्धे॒ चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठति॒ छन्दाग्ं॑सि दे॒वेभ्यो ऽपा᳚-ऽक्राम॒-न्न वो॑ भा॒गानि॑ ह॒व्यं-वँ॑क्ष्याम॒ इति॒ तेभ्य॑ ए॒तच्च॑तु-र्गृही॒तम॑-धारय-न्पुरो-ऽनु वा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒ यच्च॑तुर्गृही॒त-ञ्जु॒होति॒ छन्दाग्॑स्ये॒व त-त्प्री॑णाति॒ तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं-वँ॑हन्ति॒ य-ङ्का॒मये॑त॒ [य-ङ्का॒मये॑त, पापी॑यान्-थ्स्या॒दित्येकै॑क॒-] 1
पापी॑यान्-थ्स्या॒दित्येकै॑क॒-न्तस्य॑ जुहुया॒-दाहु॑तीभिरे॒वैन॒मप॑ गृह्णाति॒ पापी॑या-न्भवति॒ य-ङ्का॒मये॑त॒ वसी॑यान्-थ्स्या॒दिति॒ सर्वा॑णि॒ तस्या॑-ऽनु॒द्रुत्य॑ जुहुया॒दाहु॑त्यै॒वैन॑म॒भि क्र॑मयति॒ वसी॑या-न्भव॒त्यथो॑ य॒ज्ञस्यै॒वैषा-ऽभिक्रा᳚न्ति॒रेति॒ वा ए॒ष य॑ज्ञमु॒खा-दृद्ध्या॒ यो᳚-ऽग्नेर्दे॒वता॑या॒ एत्य॒ष्टावे॒तानि॑ सावि॒त्राणि॑ भवन्त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚- [गा॑य॒त्रः, अ॒ग्निस्तेनै॒व] 2
-ऽग्निस्तेनै॒व य॑ज्ञमु॒खादृद्ध्या॑ अ॒ग्नेर्दे॒वता॑यै॒ नैत्य॒ष्टौ सा॑वि॒त्राणि॑ भव॒न्त्याहु॑तिर्नव॒मी त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे विया॑तयति॒ यदि॑ का॒मये॑त॒ छन्दाग्ं॑सि यज्ञयश॒सेना᳚ ऽर्पयेय॒मित्यृच॑मन्त॒मा-ङ्कु॑र्या॒च्छन्दाग्॑स्ये॒व य॑ज्ञयश॒सेना᳚ ऽर्पयति॒ यदि॑ का॒मये॑त॒ यज॑मानं-यँज्ञयश॒सेना᳚-ऽर्पयेय॒मिति॒ यजु॑रन्त॒म-ङ्कु॑र्या॒-द्यज॑मानमे॒व य॑ज्ञयश॒सेना᳚-ऽर्पयत्यृ॒चा स्तोम॒ग्ं॒ सम॑र्ध॒ये- [सम॑र्ध॒येति॑, आ॒ह॒ समृ॑द्ध्यै] 3
-त्या॑ह॒ समृ॑द्ध्यै च॒तुर्भि॒रभ्रि॒मा द॑त्ते च॒त्वारि॒ छन्दाग्ं॑सि॒ छन्दो॑भिरे॒व दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्या अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स वेणु॒-म्प्रा-ऽवि॑श॒-थ्स ए॒तामू॒तिमनु॒ सम॑चर॒-द्य-द्वेणो᳚-स्सुषि॒रग्ं सु॑षि॒रा-ऽभ्रि॑र्भवति सयोनि॒त्वाय॒ स यत्र॑य॒त्रा-ऽव॑स॒-त्त-त्कृ॒ष्णम॑भव-त्कल्मा॒षी भ॑वति रू॒पस॑मृद्ध्या उभयतः॒, क्ष्णूर्भ॑वती॒तश्चा॒-ऽ-मुत॑श्चा॒-ऽर्कस्या-व॑रुद्ध्यै व्याममा॒त्री भ॑वत्ये॒ताव॒द्वै पुरु॑षे वी॒र्यं॑-वीँ॒र्य॑सम्मि॒ता ऽप॑रिमिता भव॒त्य-प॑रिमित॒स्या-ऽ व॑रुद्ध्यै॒ यो वन॒स्पती॑ना-म्फल॒ग्रहि॒-स्स ए॑षां-वीँ॒र्या॑वा-न्फल॒ग्रहि॒र्वेणु॑-र्वैण॒वी भ॑वति वी॒र्य॑स्या व॑रुद्ध्यै ॥ 4 ॥
(का॒मये॑त – गाय॒त्रो᳚ – ऽर्ध॒येति॑ – च – स॒प्तविग्ं॑शतिश्च) (अ. 1)
व्यृ॑द्धं॒-वाँ ए॒त-द्य॒ज्ञस्य॒ यद॑य॒जुष्के॑ण क्रि॒यत॑ इ॒माम॑गृभ्ण-न्रश॒ना-मृ॒तस्येत्य॑श्वाभि॒धानी॒मा द॑त्ते॒ यजु॑ष्कृत्यै य॒ज्ञस्य॒ समृ॑द्ध्यै॒ प्रतू᳚र्तं-वाँजि॒न्ना द्र॒वेत्यश्व॑-म॒भि द॑धाति रू॒पमे॒वा-ऽस्यै॒त-न्म॑हि॒मानं॒-व्याँच॑ष्टे यु॒ञ्जाथा॒ग्ं॒ रास॑भं-युँ॒वमिति॑ गर्द॒भ-मस॑त्ये॒व ग॑र्द॒भ-म्प्रति॑ ष्ठापयति॒ तस्मा॒दश्वा᳚-द्गर्द॒भो-ऽस॑त्तरो॒ योगे॑योगे त॒वस्त॑र॒मित्या॑ह॒ [त॒वस्त॑र॒मित्या॑ह, योगे॑योग] 5
योगे॑योग ए॒वैनं॑-युँङ्क्ते॒ वाजे॑वाजे हवामह॒ इत्या॒हान्नं॒-वैँ वाजो-ऽन्न॑मे॒वाव॑ रुन्धे॒ सखा॑य॒ इन्द्र॑मू॒तय॒ इत्या॑हेन्द्रि॒यमे॒वाव॑ रुन्धे॒ ऽग्निर्दे॒वेभ्यो॒ निला॑यत॒ त-म्प्र॒जाप॑ति॒रन्व॑विन्द-त्प्राजाप॒त्यो-ऽश्वो ऽश्वे॑न॒ स-म्भ॑र॒त्यनु॑वित्त्यै पापवस्य॒सं-वाँ ए॒त-त्क्रि॑यते॒ यच्छ्रेय॑सा च॒ पापी॑यसा च समा॒न-ङ्कर्म॑ कु॒र्वन्ति॒ पापी॑या॒न्॒.- [पापी॑यान्, ह्यश्वा᳚-द्गर्द॒भो-ऽश्व॒-] 6
-ह्यश्वा᳚-द्गर्द॒भो-ऽश्व॒-म्पूर्व॑-न्नयन्ति पापवस्य॒-सस्य॒ व्यावृ॑त्त्यै॒ तस्मा॒च्छ्रेयाग्ं॑स॒-म्पापी॑या-न्प॒श्चादन्वे॑ति ब॒हुर्वै भव॑तो॒ भ्रातृ॑व्यो॒ भव॑तीव॒ खलु॒ वा ए॒ष यो᳚-ऽग्नि-ञ्चि॑नु॒ते व॒ज्र्यश्वः॑ प्र॒तूर्व॒न्नेह्य॑व॒-क्राम॒न्न-श॑स्ती॒रित्या॑ह॒ वज्रे॑णै॒व पा॒प्मान॒-म्भ्रातृ॑व्य॒मव॑ क्रामति रु॒द्रस्य॒ गाण॑पत्या॒दित्या॑ह रौ॒द्रा वै प॒शवो॑ रु॒द्रादे॒व [ ] 7
प॒शू-न्नि॒र्याच्या॒-ऽऽत्मने॒ कर्म॑ कुरुते पू॒ष्णा स॒युजा॑ स॒हेत्या॑ह पू॒षा वा अद्ध्व॑नाग्ं सन्ने॒ता सम॑ष्ट्यै॒ पुरी॑षायतनो॒ वा ए॒ष यद॒ग्निरङ्गि॑रसो॒ वा ए॒तमग्रे॑ दे॒वता॑ना॒ग्ं॒ सम॑भर-न्पृथि॒व्या-स्स॒धस्था॑द॒ग्नि-म्पु॑री॒ष्य॑-मङ्गिर॒स्व-दच्छे॒हीत्या॑ह॒ साय॑तनमे॒वैन॑-न्दे॒वता॑भि॒-स्स-म्भ॑रत्य॒ग्नि-म्पु॑री॒ष्य॑-मङ्गिर॒स्व- दच्छे॑म॒ इत्या॑ह॒ येन॑ [ ] 8
स॒ङ्गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृङ्क्ते प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्नि-स्स॒म्भृत्य॒ इत्या॑हुरि॒यं-वैँ प्र॒जाप॑ति॒स्तस्या॑ ए॒तच्छ्रोत्रं॒-यँद्व॒ल्मीको॒-ऽग्नि-म्पु॑री॒ष्य॑-मङ्गिर॒स्व-द्भ॑रिष्याम॒ इति॑ वल्मीकव॒पामुप॑ तिष्ठते सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒-ऽग्निग्ं स-म्भ॑रत्य॒ग्नि-म्पु॑री॒ष्य॑-मङ्गिर॒स्व-द्भ॑राम॒ इत्या॑ह॒ येन॑ स॒गञ्च्छ॑ते॒ वाज॑मे॒वास्य॑ वृ॒ङ्क्ते ऽन्व॒ग्निरु॒षसा॒मग्र॑- [-ऽन्व॒ग्निरु॒षसा॒मग्र᳚म्, अ॒ख्य॒दित्या॒हा-] 9
-मख्य॒दित्या॒हा-नु॑ख्यात्या आ॒गत्य॑ वा॒ज्यद्ध्व॑न आ॒क्रम्य॑ वाजि-न्पृथि॒वीमित्या॑हे॒च्छत्ये॒वैन॒-म्पूर्व॑या वि॒न्दत्युत्त॑रया॒ द्वाभ्या॒मा क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्या॒-न्तस्मा॒दनु॑रूपाः प॒शवः॒ प्रजा॑यन्ते॒ द्यौस्ते॑ पृ॒ष्ठ-म्पृ॑थि॒वी स॒धस्थ॒मित्या॑है॒भ्यो वा ए॒तं-लोँ॒केभ्यः॑ प्र॒जाप॑ति॒-स्समै॑रय-द्रू॒पमे॒वास्यै॒-तन्म॑हि॒मानं॒-व्याँच॑ष्टे व॒ज्री वा ए॒ष यदश्वो॑ द॒-द्भिर॒न्यतो॑दद्भ्यो॒ भूयां॒-लोँम॑भिरुभ॒याद॑द्भ्यो॒ य-न्द्वि॒ष्या-त्तम॑धस्प॒द-न्ध्या॑ये॒-द्वज्रे॑णै॒वैनग्ग्॑ स्तृणुते ॥ 10 ॥
(आ॒ह॒ – पापी॑यान् – रु॒द्रादे॒व – येना – ऽग्रं॑ – वँ॒ज्री वै – स॒प्तद॑श च) (अ. 2)
उत्क्रा॒मो-द॑क्रमी॒दिति॒ द्वाभ्या॒मुत्क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्या॒-न्तस्मा॒दनु॑रूपाः प॒शवः॒ प्रजा॑यन्ते॒ ऽप उप॑ सृजति॒ यत्र॒ वा आप॑ उप॒ गच्छ॑न्ति॒ तदोष॑धयः॒ प्रति॑ तिष्ठ॒न्त्योष॑धीः प्रति॒तिष्ठ॑न्तीः प॒शवो-ऽनु॒ प्रति॑ तिष्ठन्ति प॒शून्. य॒ज्ञो य॒ज्ञं-यँज॑मानो॒ यज॑मान-म्प्र॒जास्तस्मा॑द॒प उप॑ सृजति॒ प्रति॑ष्ठित्यै॒ यद॑द्ध्व॒र्यु-र॑न॒ग्नावाहु॑ति-ञ्जुहु॒याद॒न्धो᳚ ऽद्ध्व॒र्यु- [-ऽद्ध्व॒र्युः, स्या॒-द्रक्षाग्ं॑सि] 11
-स्स्या॒-द्रक्षाग्ं॑सि य॒ज्ञग्ं ह॑न्यु॒र्॒हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो᳚-ऽद्ध्व॒र्युर्भव॑ति॒ न य॒ज्ञग्ं रक्षाग्ं॑सि घ्नन्ति॒ जिघ॑र्म्य॒ग्नि-म्मन॑सा घृ॒तेनेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति प्रति॒क्ष्यन्त॒-म्भुव॑नानि॒ विश्वेत्या॑ह॒ सर्व॒ग्ग्॒ ह्ये॑ष प्र॒त्य-ङ्क्षेति॑ पृ॒थु-न्ति॑र॒श्चा वय॑सा बृ॒हन्त॒मित्या॒हा-ऽल्पो॒ ह्ये॑ष जा॒तो म॒हा- [म॒हान्, भव॑ति॒] 12
-न्भव॑ति॒ व्यचि॑ष्ठ॒मन्नग्ं॑ रभ॒सं-विँदा॑न॒मित्या॒हा ऽन्न॑मे॒वा-ऽस्मै᳚ स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वं-वेँदा ऽऽत्वा॑ जिघर्मि॒ वच॑सा घृ॒तेनेत्या॑ह॒ तस्मा॒-द्य-त्पुरु॑षो॒ मन॑सा-ऽभि॒गच्छ॑ति॒ त-द्वा॒चा व॑दत्य र॒क्षसेत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै॒ मर्य॑श्री-स्स्पृह॒य-द्व॑र्णो अ॒ग्निरित्या॒हा-प॑चितिमे॒वा-ऽस्मि॑-न्दधा॒त्य-प॑चितिमा-न्भवति॒ य ए॒वं- [य ए॒वम्, वेद॒ मन॑सा॒ त्वै] 13
-वेँद॒ मन॑सा॒ त्वै तामाप्तु॑मर्हति॒ याम॑द्ध्व॒र्युर॑-न॒ग्नावाहु॑ति-ञ्जु॒होति॒ मन॑स्वतीभ्या-ञ्जुहो॒त्याहु॑त्यो॒राप्त्यै॒ द्वाभ्या॒-म्प्रति॑ष्ठित्यै यज्ञमु॒खे य॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञग्ं रक्षाग्ं॑सि जिघाग्ं सन्त्ये॒तर्हि॒ खलु॒ वा ए॒त-द्य॑ज्ञमु॒खं-यँर्ह्ये॑न॒-दाहु॑ति-रश्ञु॒ते परि॑ लिखति॒ रक्ष॑सा॒मप॑हत्यै ति॒सृभिः॒ परि॑ लिखति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वा-ऽग्निस्तस्मा॒-द्रक्षा॒ग्॒स्यप॑ हन्ति [हन्ति, गा॒य॒त्रि॒या परि॑] 14
गायत्रि॒या परि॑ लिखति॒ तेजो॒ वै गा॑य॒त्री तेज॑सै॒वैन॒-म्परि॑गृह्णाति त्रि॒ष्टुभा॒ परि॑ लिखतीन्द्रि॒यं-वैँ त्रि॒ष्टु-गि॑न्द्रि॒येणै॒वैन॒-म्परि॑ गृह्णात्यनु॒ष्टुभा॒ परि॑ लिखत्यनु॒ष्टु-फ्सर्वा॑णि॒ छन्दाग्ं॑सि परि॒भूः पर्या᳚प्त्यै मद्ध्य॒तो॑-ऽनु॒ष्टुभा॒ वाग्वा अ॑नु॒ष्टु-प्तस्मा᳚-न्मद्ध्य॒तो वा॒चा व॑दामो गायत्रि॒या प्र॑थ॒मया॒ परि॑ लिख॒त्यथा॑-ऽनु॒ष्टुभा-ऽथ॑ त्रि॒ष्टुभा॒ तेजो॒ वै गा॑य॒त्री य॒ज्ञो॑ ऽनु॒ष्टुगि॑न्द्रि॒य-न्त्रि॒ष्टु-प्तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ य॒ज्ञ-म्परि॑ गृह्णाति ॥ 15 ॥
(अ॒न्धो᳚-ऽद्ध्व॒र्यु – र्म॒हान् – भ॑वति॒ य ए॒वग्ं – ह॑न्ति – त्रि॒ष्टुभा॒ तेजो॒ वै गा॑य॒त्री – त्रयो॑दश च) (अ. 3)
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ खनति॒ प्रसू᳚त्या॒ अथो॑ धू॒म-मे॒वैतेन॑ जनयति॒ ज्योति॑ष्मन्त-न्त्वा-ऽग्ने सु॒प्रती॑क॒-मित्या॑ह॒ ज्योति॑रे॒वैतेन॑ जनयति॒ सो᳚-ऽग्निर्जा॒तः प्र॒जा-श्शु॒चा-ऽऽर्प॑य॒-त्त-न्दे॒वा अ॑र्ध॒र्चेना॑-शमयञ्छि॒व-म्प्र॒जाभ्यो-ऽहिग्ं॑ सन्त॒मित्या॑ह प्र॒जाभ्य॑ ए॒वैनग्ं॑ शमयति॒ द्वाभ्या᳚-ङ्खनति॒ प्रति॑ष्ठित्या अ॒पा-म्पृ॒ष्ठम॒सीति॑ पुष्करप॒र्णमा [पुष्करप॒र्णमा, ह॒र॒त्य॒पां-वाँ] 16
ह॑रत्य॒पां-वाँ ए॒त-त्पृ॒ष्ठं-यँ-त्पु॑ष्करप॒र्णग्ं रू॒पेणै॒वैन॒दा ह॑रति पुष्करप॒र्णेन॒ स-म्भ॑रति॒ योनि॒र्वा अ॒ग्नेः पु॑ष्करप॒र्णग्ं सयो॑निमे॒वाग्निग्ं सम्भ॑रति कृष्णाजि॒नेन॒ सम्भ॑रति य॒ज्ञो वै कृ॑ष्णाजि॒नं-यँ॒ज्ञेनै॒व य॒ज्ञग्ं सम्भ॑रति॒ य-द्ग्रा॒म्याणा᳚-म्पशू॒ना-ञ्चर्म॑णा स॒म्भरे᳚-द्ग्रा॒म्या-न्प॒शूञ्छु॒चा-ऽर्प॑ये-त्कृष्णाजि॒नेन॒ सम्भ॑रत्यार॒ण्याने॒व प॒शू- [प॒शून्, शु॒चा-ऽर्प॑यति॒] 17
-ञ्छु॒चा-ऽर्प॑यति॒ तस्मा᳚-थ्स॒माव॑-त्पशू॒ना-म्प्र॒जाय॑मानाना-मार॒ण्याः प॒शवः॒ कनी॑याग्ंस-श्शु॒चा ह्यृ॑ता लो॑म॒त-स्सम्भ॑र॒त्यतो॒ ह्य॑स्य॒ मेद्ध्य॑-ङ्कृष्णाजि॒न-ञ्च॑ पुष्करप॒र्ण-ञ्च॒ सग्ग् स्तृ॑णाती॒यं-वैँ कृ॑ष्णाजि॒नम॒सौ पु॑ष्करप॒र्ण-मा॒भ्या-मे॒वैन॑-मुभ॒यतः॒ परि॑गृह्णात्य॒-ग्निर्दे॒वेभ्यो॒ निला॑यत॒ तमथ॒र्वा-ऽन्व॑पश्य॒दथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्न॒ इ- [निर॑मन्थदग्न॒ इति॑, आ॒ह॒ य ए॒वैन॑-] 18
-त्या॑ह॒ य ए॒वैन॑-म॒न्वप॑श्य॒-त्तेनै॒वैन॒ग्ं॒ सम्भ॑रति॒ त्वाम॑ग्ने॒ पुष्क॑रा॒दधीत्या॑ह पुष्करप॒र्णे ह्ये॑न॒मुप॑श्रित॒-मवि॑न्द॒-त्तमु॑ त्वा द॒द्ध्यङ्ङृषि॒रित्या॑ह द॒द्ध्यङ् वा आ॑थर्व॒ण-स्ते॑ज॒स्व्या॑सी॒-त्तेज॑ ए॒वास्मि॑-न्दधाति॒ तमु॑ त्वा पा॒थ्यो वृषेत्या॑ह॒ पूर्व॑मे॒वोदि॒त-मुत्त॑रेणा॒भि गृ॑णाति [गृ॑णाति, च॒त॒सृभि॒-स्सम्भ॑रति] 19
चत॒सृभि॒-स्सम्भ॑रति च॒त्वारि॒ छन्दाग्ं॑सि॒ छन्दो॑भिरे॒व गा॑य॒त्रीभि॑र्ब्राह्म॒णस्य॑ गाय॒त्रो हि ब्रा᳚ह्म॒ण-स्त्रि॒ष्टुग्भी॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यो॑ य-ङ्का॒मये॑त॒ वसी॑यान्-थ्स्या॒दित्यु॒भयी॑भि॒स्तस्य॒ सम्भ॑रे॒-त्तेज॑श्चै॒वा-ऽस्मा॑ इन्द्रि॒य-ञ्च॑ स॒मीची॑ दधात्यष्टा॒भि-स्सम्भ॑रत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚ ऽग्निर्यावा॑ने॒वा-ऽग्निस्तग्ं सम्भ॑रति॒ सीद॑ होत॒रित्या॑- -ह दे॒वता॑ ए॒वास्मै॒ सग्ं सा॑दयति॒ नि होतेति॑ मनु॒ष्या᳚न्-थ्सग्ं सी॑द॒स्वेति॒ वयाग्ं॑सि॒ जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्ना॒मित्या॑ह देव मनु॒ष्याने॒वा-ऽस्मै॒ सग्ंस॑न्ना॒-न्प्रज॑नयति ॥ 20
(ऐ – व प॒शू – निति॑ – गृणाति – होत॒रिति॑ – स॒प्तविग्ं॑शतिश्च) (अ. 4)
क्रू॒रमि॑व॒ वा अ॑स्या ए॒त-त्क॑रोति॒ य-त्खन॑त्य॒प उप॑ सृज॒त्यापो॒ वै शा॒न्ता-श्शा॒न्ताभि॑रे॒वा-ऽस्यै॒ शुचग्ं॑ शमयति॒ स-न्ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधा॒त्वित्या॑ह प्रा॒णो वै वा॒युः प्रा॒णेनै॒वास्यै᳚ प्रा॒णग्ं स-न्द॑धाति॒ स-न्ते॑ वा॒युरित्या॑ह॒ तस्मा᳚-द्वा॒युप्र॑च्युता दि॒वो वृष्टि॑रीर्ते॒ तस्मै॑ च देवि॒ वष॑डस्तु॒ [वष॑डस्तु, तुभ्य॒मित्या॑ह॒] 21
तुभ्य॒मित्या॑ह॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व वृष्टि॑-न्दधाति॒ तस्मा॒-थ्सर्वा॑नृ॒तून्. व॑र्षति॒ य-द्व॑षट्कु॒र्या-द्या॒तया॑मा-ऽस्य वषट्का॒र-स्स्या॒द्यन्न व॑षट्कु॒र्या-द्रक्षाग्ं॑सि य॒ज्ञग्ं ह॑न्यु॒र्वडित्या॑ह प॒रोक्ष॑मे॒व वष॑-ट्करोति॒ नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञग्ं रक्षाग्ं॑सि घ्नन्ति॒ सुजा॑तो॒ ज्योति॑षा स॒हेत्य॑नु॒ष्टुभोप॑ नह्यत्यनु॒ष्टु- [नह्यत्यनु॒ष्टुप्, सर्वा॑णि॒ छन्दाग्ं॑सि॒] 22
-फ्सर्वा॑णि॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः प्रि॒ययै॒वैन॑-न्त॒नुवा॒ परि॑ दधाति॒ वेदु॑को॒ वासो॑ भवति॒य ए॒वं-वेँद॑ वारु॒णो वा अ॒ग्निरुप॑नद्ध॒ उदु॑ तिष्ठ स्वद्ध्वरो॒र्ध्व ऊ॒ षुण॑ ऊ॒तय॒ इति॑ सावि॒त्रीभ्या॒मु-त्ति॑ष्ठति सवि॒तृप्र॑सूत ए॒वास्यो॒र्ध्वां-वँ॑रुणमे॒निमु-थ्सृ॑जति॒ द्वाभ्या॒-म्प्रति॑ष्ठित्यै॒ स जा॒तो गर्भो॑ असि॒ [गर्भो॑ असि, रोद॑स्यो॒रित्या॑हे॒मे] 23
रोद॑स्यो॒रित्या॑हे॒मे वै रोद॑सी॒ तयो॑रे॒ष गर्भो॒ यद॒ग्नि-स्तस्मा॑-दे॒वमा॒हाग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धी॒ष्वित्या॑ह य॒दा ह्ये॑तं-विँ॒भर॒न्त्यथ॒ चारु॑तरो॒ भव॑ति॒ प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रद-द्गा॒ इत्या॒हौष॑धयो॒ वा अ॑स्य मा॒तर॒स्ताभ्य॑ ए॒वैन॒-म्प्रच्या॑वयति स्थि॒रो भ॑व वी॒ड्व॑ङ्ग॒ इति॑ गर्द॒भ आ सा॑दयति॒ [आ सा॑दयति, स-न्न॑ह्यत्ये॒वैन॑-] 24
स-न्न॑ह्यत्ये॒वैन॑-मे॒तया᳚ स्थे॒म्ने ग॑र्द॒भेन॒ सम्भ॑रति॒ तस्मा᳚-द्गर्द॒भः प॑शू॒ना-म्भा॑रभा॒रित॑मो गर्द॒भेन॒ स-म्भ॑रति॒ तस्मा᳚-द्गर्द॒भो-ऽप्य॑नाले॒शे-ऽत्य॒न्या-न्प॒शू-न्मे᳚द्य॒त्यन्न॒ग्ग्॒ ह्ये॑नेना॒-ऽर्कग्ं स॒म्भर॑न्ति गर्द॒भेन॒ सम्भ॑रति॒ तस्मा᳚-द्गर्द॒भो द्वि॒रेता॒-स्सन् कनि॑ष्ठ-म्पशू॒ना-म्प्रजा॑यते॒-ऽग्निर्ह्य॑स्य॒ योनि॑-न्नि॒र्दह॑ति प्र॒जासु॒ वा ए॒ष ए॒तर्ह्यारू॑ढ॒- [ए॒तर्ह्यारू॑ढः, स ई᳚श्व॒रः प्र॒जा-श्शु॒चा] 25
-स्स ई᳚श्व॒रः प्र॒जा-श्शु॒चा प्र॒दहः॑ शि॒वो भ॑व प्र॒जाभ्य॒ इत्या॑ह प्र॒जाभ्य॑ ए॒वैनग्ं॑ शमयति॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिर॒ इत्या॑ह मान॒व्यो॑ हि प्र॒जा मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒ मा-ऽन्तरि॑क्ष॒-म्मा वन॒स्पती॒नित्या॑है॒भ्य ए॒वैनं॑-लोँ॒केभ्यः॑ शमयति॒ प्रैतु॑ वा॒जी कनि॑क्रद॒दित्या॑ह वा॒जी ह्ये॑ष नान॑द॒-द्रास॑भः॒ पत्वे- [पत्वेति, आ॒ह॒ रास॑भ॒ इति॒] 26
-त्या॑ह॒ रास॑भ॒ इति॒ ह्ये॑तमृष॒यो-ऽव॑द॒-न्भर॑न्न॒ग्नि-म्पु॑री॒ष्य॑मित्या॑हा॒-ऽग्निग्ग् ह्ये॑ष भर॑ति॒ मा पा॒द्यायु॑षः पु॒रेत्या॒हा-ऽऽयु॑रे॒वा-ऽस्मि॑-न्दधाति॒ तस्मा᳚-द्गर्द॒भ-स्सर्व॒मायु॑रेति॒ तस्मा᳚-द्गर्द॒भे पु॒रा-ऽऽयु॑षः॒ प्रमी॑ते बिभ्यति॒ वृषा॒-ऽग्निं-वृँष॑ण॒-म्भर॒न्नित्या॑ह॒ वृषा॒ ह्ये॑ष वृषा॒-ऽग्निर॒पा-ङ्गर्भग्ं॑ – [वृषा॒-ऽग्निर॒पा-ङ्गर्भ᳚म्, स॒मु॒द्रिय॒-] 27
समु॒द्रिय॒-मित्या॑हा॒-ऽपाग् ह्ये॑ष गर्भो॒ यद॒ग्निरग्न॒ आ या॑हि वी॒तय॒ इति॒ वा इ॒मौ लो॒कौ व्यै॑ता॒मग्न॒ आ या॑हि वी॒तय॒ इति॒ यदाहा॒ ऽनयो᳚र्लो॒कयो॒-र्वीत्यै॒ प्रच्यु॑तो॒ वा ए॒ष आ॒यत॑ना॒दग॑तः प्रति॒ष्ठाग्ं स ए॒तर्ह्य॑द्ध्व॒र्यु-ञ्च॒ यज॑मान-ञ्च द्ध्यायत्यृ॒तग्ं स॒त्यमित्या॑हे॒यं-वाँ ऋ॒तम॒सौ [ ] 28
स॒त्यम॒नयो॑रे॒वैन॒-म्प्रति॑ ष्ठापयति॒ ना-ऽऽर्ति॒मार्च्छ॑त्यद्ध्व॒र्युर्न यज॑मानो॒ वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यद॒ग्निरुप॑नद्ध॒ ओष॑धयः॒ प्रति॑ गृह्णीता॒ग्निमे॒त-मित्या॑ह॒ शान्त्यै॒ व्यस्य॒न् विश्वा॒ अम॑ती॒ररा॑ती॒-रित्या॑ह॒ रक्ष॑सा॒मप॑हत्यै नि॒षीद॑-न्नो॒ अप॑ दुर्म॒तिग्ं ह॑न॒दित्या॑ह॒ प्रति॑ष्ठित्या॒ ओष॑धयः॒ प्रति॑मोदद्ध्व- [प्रति॑मोदद्ध्वम्, ए॒न॒मित्या॒हौष॑धयो॒] 29
-मेन॒मित्या॒हौष॑धयो॒ वा अ॒ग्नेर्भा॑ग॒धेय॒-न्ताभि॑रे॒वैन॒ग्ं॒ सम॑र्धयति॒ पुष्पा॑वती-स्सुपिप्प॒ला इत्या॑ह॒ तस्मा॒दोष॑धयः॒ फल॑-ङ्गृह्णन्त्य॒ यं-वोँ॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्नग्ं स॒धस्थ॒मा-ऽस॑द॒दित्या॑ह॒ याभ्य॑ ए॒वैन॑-म्प्रच्या॒वय॑ति॒ तास्वे॒वैन॒-म्प्रति॑ष्ठापयति॒ द्वाभ्या॑मु॒पाव॑हरति॒ प्रति॑ष्ठित्यै ॥ 30 ॥
(अ॒स्त्व॒ – नु॒ष्टु – ब॑सि – सादय॒त्या – रू॑ढः॒-पत्वेति॒-गर्भ॑-म॒सौ – मो॑दद्ध्वं॒ – द्विच॑त्वारिग्ंशच्च) (अ. 5)
वा॒रु॒णो वा अ॒ग्निरुप॑नद्धो॒ वि पाज॒सेति॒ विस्रग्ं॑सयति सवि॒तृप्र॑सूत ए॒वास्य॒ विषू॑चीं-वँरुणमे॒निं-विँसृ॑जत्य॒प उप॑ सृज॒त्यापो॒ वै शा॒न्ता-श्शा॒न्ताभि॑रे॒वास्य॒ शुचग्ं॑ शमयति ति॒सृभि॒रुप॑ सृजति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वा-ग्निस्तस्य॒ शुचग्ं॑ शमयति मि॒त्र-स्स॒ग्ं॒सृज्य॑ पृथि॒वीमित्या॑ह मि॒त्रो वै शि॒वो दे॒वाना॒-न्तेनै॒वै- [दे॒वाना॒-न्तेनै॒व, ए॒न॒ग्ं॒ सग्ं सृ॑जति॒] 31
-न॒ग्ं॒ सग्ं सृ॑जति॒ शान्त्यै॒ यद्ग्रा॒म्याणा॒-म्पात्रा॑णा-ङ्क॒पालै᳚-स्सग्ंसृ॒जे-द्ग्रा॒म्याणि॒ पात्रा॑णि शु॒चा-ऽर्प॑येदर्मकपा॒लै-स्सग्ं सृ॑जत्ये॒तानि॒ वा अ॑नुपजीवनी॒यानि॒ तान्ये॒व शु॒चा-ऽर्प॑यति॒ शर्क॑राभि॒-स्सग्ं सृ॑जति॒ धृत्या॒ अथो॑ श॒न्त्वाया॑ जलो॒मै-स्सग्ं सृ॑जत्ये॒षा वा अ॒ग्नेः प्रि॒या त॒नूर्यद॒जा प्रि॒ययै॒वैन॑-न्त॒नुवा॒ सग्ं सृ॑ज॒त्यथो॒ तेज॑सा कृष्णाजि॒नस्य॒ लोम॑भि॒-स्सग्ं – [लोम॑भि॒-स्सम्, सृ॒ज॒ति॒ य॒ज्ञो वै] 32
सृ॑जति य॒ज्ञो वै कृ॑ष्णाजि॒नं-यँ॒ज्ञेनै॒व य॒ज्ञग्ं सग्ं सृ॑जति रु॒द्रा-स्स॒भृत्य॑ पृथि॒वीमित्या॑है॒ता वा ए॒त-न्दे॒वता॒ अग्रे॒ सम॑भर॒-न्ताभि॑रे॒वैन॒ग्ं॒ सम्भ॑रति म॒खस्य॒ शिरो॒-ऽसीत्या॑ह य॒ज्ञो वै म॒खस्तस्यै॒त-च्छिरो॒ यदु॒खा तस्मा॑दे॒वमा॑ह य॒ज्ञस्य॑ प॒दे स्थ॒ इत्या॑ह य॒ज्ञस्य॒ ह्ये॑ते [ ] 33
प॒दे अथो॒ प्रति॑ष्ठित्यै॒ प्रा-ऽन्याभि॒-र्यच्छ॒त्यन्व॒न्यै-र्म॑न्त्रयते मिथुन॒त्वाय॒ त्र्यु॑द्धि-ङ्करोति॒ त्रय॑ इ॒मे लो॒का ए॒षां-लोँ॒काना॒माप्त्यै॒ छन्दो॑भिः करोति वी॒र्यं॑-वैँ छन्दाग्ं॑सि वी॒र्ये॑णै॒वैना᳚-ङ्करोति॒ यजु॑षा॒ बिल॑-ङ्करोति॒ व्यावृ॑त्त्या॒ इय॑ती-ङ्करोति प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑ता-न्द्विस्त॒ना-ङ्क॑रोति॒ यावा॑पृथि॒व्योर्दोहा॑य॒ चतुः॑स्तना-ङ्करोति पशू॒ना-न्दोहा॑या॒ष्टास्त॑ना-ङ्करोति॒ छन्द॑सा॒-न्दोहा॑य॒ नवा᳚श्रि-मभि॒चर॑तः कुर्या-त्त्रि॒वृत॑मे॒व वज्रग्ं॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्रह॑रति॒ स्तृत्यै॑ कृ॒त्वाय॒ सा म॒हीमु॒खामिति॒ नि द॑धाति दे॒वता᳚स्वे॒वैना॒-म्प्रति॑ष्ठापयति ॥ 34 ॥
(तेनै॒व – लोम॑भि॒-स्स – मे॒ते – अ॑भि॒चर॑त॒ – एक॑विग्ंशतिश्च) (अ. 6)
स॒प्तभि॑र्धूपयति स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णा-श्शिर॑ ए॒त-द्य॒ज्ञस्य॒ यदु॒खा शी॒र्॒षन्ने॒व य॒ज्ञस्य॑ प्रा॒णा-न्द॑धाति॒ तस्मा᳚-थ्स॒प्त शी॒र्॒ष-न्प्रा॒णा अ॑श्वश॒केन॑ धूपयति प्राजाप॒त्यो वा अश्वः॑ सयोनि॒त्वाया-दि॑ति॒स्त्वेत्या॑हे॒यं-वाँ अदि॑ति॒रदि॑त्यै॒वादि॑त्या-ङ्खनत्य॒स्या अक्रू॑रङ्काराय॒ न हि स्व-स्स्वग्ं हि॒नस्ति॑ दे॒वाना᳚-न्त्वा॒ पत्नी॒रित्या॑ह दे॒वानां॒- [दे॒वाना᳚म्, वा ए॒ता-म्पत्न॒यो-ऽग्रे॑-ऽ] 35
-वाँ ए॒ता-म्पत्न॒यो-ऽग्रे॑-ऽ-कुर्व॒-न्ताभि॑रे॒वैना᳚-न्दधाति धि॒षणा॒स्त्वेत्या॑ह वि॒द्या वै धि॒षणा॑ वि॒द्याभि॑-रे॒वैना॑-म॒भीन्धे॒ ग्नास्त्वेत्या॑ह॒ छन्दाग्ं॑सि॒ वै ग्ना श्छन्दो॑भि-रे॒वैनाग्॑ श्रपयति॒ वरू᳚त्रय॒स्त्वेत्या॑ह॒ होत्रा॒ वै वरू᳚त्रयो॒ होत्रा॑भिरे॒वैना᳚-म्पचति॒ जन॑य॒स्त्वेत्या॑ह दे॒वानां॒-वैँ पत्नी॒- [पत्नीः᳚, जन॑य॒स्ताभि॑-] 36
-र्जन॑य॒स्ताभि॑-रे॒वैना᳚-म्पचति ष॒ड्भिः प॑चति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैना᳚-म्पचति॒ द्विः पच॒न्त्वित्या॑ह॒ तस्मा॒-द्द्वि-स्सं॑वँथ्स॒रस्य॑ स॒स्य-म्प॑च्यते वारु॒ण्यु॑खा-ऽभीद्धा॑ मै॒त्रियोपै॑ति॒ शान्त्यै॑ दे॒वस्त्वा॑ सवि॒तो-द्व॑प॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैना॒-म्ब्रह्म॑णा दे॒वता॑भि॒रु-द्व॑प॒त्यप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॒णे- [आ पृ॒ण, इत्या॑ह॒] 37
-त्या॑ह॒ तस्मा॑द॒ग्नि-स्सर्वा॒ दिशो-ऽनु॒ विभा॒त्युत्ति॑ष्ठ बृह॒ती भ॑वो॒र्ध्वा ति॑ष्ठ ध्रु॒वा त्वमित्या॑ह॒ प्रति॑ष्ठित्या असु॒र्य॑-म्पात्र॒मना᳚च्छृण्ण॒मा-च्छृ॑णत्ति देव॒त्रा-ऽक॑रजक्षी॒रेणा-ऽऽच्छृ॑णत्ति पर॒मं-वाँ ए॒त-त्पयो॒ यद॑जक्षी॒र-म्प॑र॒मेणै॒वैना॒-म्पय॒सा-ऽऽच्छृ॑णत्ति॒ यजु॑षा॒ व्यावृ॑त्त्यै॒ छन्दो॑भि॒रा च्छृ॑णत्ति॒ छन्दो॑भि॒र्वा ए॒षा क्रि॑यते॒ छन्दो॑भिरे॒व छन्दा॒ग्॒स्या च्छृ॑णत्ति ॥ 38 ॥
(आ॒ह॒ दे॒वानां॒ – वैँ पत्नीः᳚ – पृणै॒ – षा – षट् च॑) (अ. 7)
एक॑विग्ंशत्या॒ माषैः᳚ पुरुषशी॒र्॒ष-मच्छै᳚त्यमे॒द्ध्या वै माषा॑ अमे॒द्ध्य-म्पु॑रुषशी॒र्॒ष-म॑मे॒द्ध्यैरे॒वा-स्या॑-मे॒द्ध्य-न्नि॑रव॒दाय॒ मेद्ध्य॑-ङ्कृ॒त्वा ऽऽह॑र॒त्येक॑विग्ंशति-र्भवन्त्येकवि॒ग्ं॒शो वै पुरु॑षः॒ पुरु॑ष॒स्या-ऽऽप्त्यै॒ व्यृ॑द्धं॒-वाँ ए॒त-त्प्रा॒णैर॑मे॒द्ध्यं-यँ-त्पु॑रुषशी॒र्॒षग्ं स॑प्त॒धा वितृ॑ण्णां-वँल्मीकव॒पा-म्प्रति॒ नि द॑धाति स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णाः प्रा॒णैरे॒वैन॒-थ्सम॑र्धयति मेद्ध्य॒त्वाय॒ याव॑न्तो॒ [याव॑न्तः, वै मृ॒त्युब॑न्धव॒-] 39
वै मृ॒त्युब॑न्धव॒-स्तेषां᳚-यँ॒म आधि॑पत्य॒-म्परी॑याय यमगा॒थाभिः॒ परि॑गायति य॒मादे॒वैन॑-द्वृङ्क्ते ति॒सृभिः॒ परि॑गायति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैन॑ल्लो॒केभ्यो॑ वृङ्क्ते॒ तस्मा॒-द्गाय॑ते॒ न देय॒-ङ्गाथा॒ हि त-द्वृ॒ङ्क्ते᳚ ऽग्निभ्यः॑ प॒शूना ल॑भते॒ कामा॒ वा अ॒ग्नयः॒ कामा॑ने॒वाव॑ रुन्धे॒ य-त्प॒शू-न्ना-ऽऽलभे॒ता-ऽन॑वरुद्धा अस्य [ ] 40
प॒शवः॑ स्यु॒र्य-त्पर्य॑ग्निकृतानु-थ्सृ॒जे-द्य॑ज्ञवेश॒स-ङ्कु॑र्या॒-द्य-थ्सग्ग्॑स्था॒पये᳚-द्या॒तया॑मानि शी॒र्॒षाणि॑ स्यु॒र्य-त्प॒शूना॒लभ॑ते॒ तेनै॒व प॒शूनव॑ रुन्धे॒ य-त्पर्य॑ग्निकृतानु-थ्सृ॒जति॑ शी॒र्ष्णा-मया॑तयामत्वाय प्राजाप॒त्येन॒ सग्ग् स्था॑पयति य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञ ए॒व य॒ज्ञ-म्प्रति॑ष्ठापयति प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ स रि॑रिचा॒नो॑-ऽमन्यत॒ स ए॒ता आ॒प्रीर॑पश्य॒-त्ताभि॒र्वै स मु॑ख॒त [स मु॑ख॒तः, आ॒त्मान॒मा ऽप्री॑णीत॒] 41
आ॒त्मान॒मा ऽप्री॑णीत॒ यदे॒ता आ॒प्रियो॒ भव॑न्ति य॒ज्ञो वै प्र॒जाप॑ति-र्य॒ज्ञमे॒वैताभि॑र्मुख॒त आ प्री॑णा॒त्य-प॑रिमितछन्दसो भव॒न्त्यप॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ ऊनातिरि॒क्ता मि॑थु॒नाः प्रजा᳚त्यै लोम॒शं-वैँ नामै॒तच्छन्दः॑ प्र॒जाप॑तेः प॒शवो॑ लोम॒शाः प॒शूने॒वा-ऽव॑ रुन्धे॒ सर्वा॑णि॒ वा ए॒ता रू॒पाणि॒ सर्वा॑णि रू॒पाण्य॒ग्नौ चित्ये᳚ क्रियन्ते॒ तस्मा॑दे॒ता अ॒ग्नेश्चित्य॑स्य [अ॒ग्नेश्चित्य॑स्य, भ॒व॒न्त्येक॑विग्ं शतिग्ं] 42
भव॒न्त्येक॑विग्ं शतिग्ं सामिधे॒नीरन्वा॑ह॒ रुग्वा ए॑कवि॒ग्ं॒शो रुच॑मे॒व ग॑च्छ॒त्यथो᳚ प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कवि॒ग्ं॒श-श्चतु॑र्विग्ंशति॒मन्वा॑ह॒ चतु॑र्विग्ंशतिरर्धमा॒सा-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो᳚-ऽग्निर्वै᳚श्वान॒र-स्सा॒क्षादे॒व वै᳚श्वान॒रमव॑ रुन्धे॒ परा॑ची॒रन्वा॑ह॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒क-स्समा᳚स्त्वा-ऽग्न ऋ॒तवो॑ वर्धय॒न्त्वित्या॑ह॒ समा॑भिरे॒वा-ऽग्निं-वँ॑र्धय- [-ऽग्निं-वँ॑र्धयति, ऋ॒तुभिः॑ संवँथ्स॒रं-विँश्वा॒] 43
-त्यृ॒तुभिः॑ संवँथ्स॒रं-विँश्वा॒ आ भा॑हि प्र॒दिशः॑ पृथि॒व्या इत्या॑ह॒ तस्मा॑द॒ग्नि-स्सर्वा॒ दिशो-ऽनु॒ विभा॑ति॒ प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्मा॒दित्या॑ह मृ॒त्युमे॒वा-ऽस्मा॒दप॑ नुद॒त्युद्व॒य-न्तम॑स॒स्परीत्या॑ह पा॒प्मा वै तमः॑ पा॒प्मान॑मे॒वास्मा॒दप॑ ह॒न्त्यग॑न्म॒ ज्योति॑रुत्त॒म-मित्या॑हा॒-ऽसौ वा आ॑दि॒त्यो ज्योति॑रुत्त॒म-मा॑दि॒त्यस्यै॒व सायु॑ज्य-ङ्गच्छति॒ न सं॑वँथ्स॒रस्ति॑ष्ठति॒ नास्य॒ श्रीस्ति॑ष्ठति॒ यस्यै॒ताः क्रि॒यन्ते॒ ज्योति॑ष्मती-मुत्त॒मामन्वा॑ह॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टा-द्दधाति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ॥ 44 ॥
(याव॑न्तो – ऽस्य – मुख॒त – श्चित्य॑स्य – वर्धय – त्यादि॒त्यो᳚ – ऽष्टाविग्ं॑शतिश्च) (अ. 8)
ष॒ड्भिर्दी᳚क्षयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑-न्दीक्षयति स॒प्तभि॑र्दीक्षयति स॒प्त छन्दाग्ं॑सि॒ छन्दो॑भिरे॒वैन॑-न्दीक्षयति॒ विश्वे॑ दे॒वस्य॑ ने॒तुरित्य॑-नु॒ष्टुभो᳚त्त॒मया॑ जुहोति॒ वाग्वा अ॑नु॒ष्टु-प्तस्मा᳚-त्प्रा॒णानां॒-वाँगु॑त्त॒मै- क॑स्माद॒क्षरा॒दना᳚प्त-म्प्रथ॒म-म्प॒द-न्तस्मा॒-द्य-द्वा॒चो-ऽना᳚प्त॒-न्तन्म॑नु॒ष्या॑ उप॑ जीवन्ति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः [प्र॒जाप॑तिः, प्र॒जाप॑ते॒रापत्यै॒] 45
प्र॒जाप॑ते॒राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जाना॒ग्ं॒ सृष्ट्यै॒ यद॒र्चिषि॑ प्रवृ॒ञ्ज्या-द्भू॒तमव॑ रुन्धीत॒ यदङ्गा॑रेषु भवि॒ष्यदङ्गा॑रेषु॒ प्रवृ॑णक्ति भवि॒ष्य दे॒वाव॑ रुन्धे भवि॒ष्यद्धि भूयो॑ भू॒ता-द्द्वाभ्या॒-म्प्रवृ॑णक्ति द्वि॒पा-द्यज॑मानः॒ प्रति॑ष्ठित्यै॒ ब्रह्म॑णा॒ वा ए॒षा यजु॑षा॒ सम्भृ॑ता॒ यदु॒खा सा यद्भिद्ये॒ता-ऽऽर्ति॒मार्च्छे॒- [-ऽऽर्ति॒मार्च्छे᳚त्, यज॑मानो] 46
-द्यज॑मानो ह॒न्येता᳚-ऽस्य य॒ज्ञो मित्रै॒तामु॒खा-न्त॒पेत्या॑ह॒ ब्रह्म॒ वै मि॒त्रो ब्रह्म॑न्ने॒वैना॒-म्प्रति॑ष्ठापयति॒ ना-ऽऽर्ति॒मार्च्छ॑ति॒ यज॑मानो॒ नास्य॑ य॒ज्ञो ह॑न्यते॒ यदि॒ भिद्ये॑त॒ तैरे॒व क॒पालै॒-स्सग्ं सृ॑जे॒-थ्सैव ततः॒ प्राय॑श्चित्ति॒र्यो ग॒तश्री॒-स्स्यान्म॑थि॒त्वा तस्याव॑ दद्ध्या-द्भू॒तो वा ए॒ष स स्वा- [ए॒ष स स्वाम्, दे॒वता॒मुपै॑ति॒] 47
-न्दे॒वता॒मुपै॑ति॒ यो भूति॑काम॒-स्स्याद्य उ॒खायै॑ स॒म्भवे॒-थ्स ए॒व तस्य॑ स्या॒दतो॒ ह्ये॑ष स॒म्भव॑त्ये॒ष वै स्व॑य॒म्भूर्नाम॒ भव॑त्ये॒व य-ङ्का॒मये॑त॒ भ्रातृ॑व्यमस्मै जनयेय॒मित्य॒-न्यत॒स्तस्या॒-ऽऽहृत्या-ऽव॑ दद्ध्या-थ्सा॒क्षादे॒वास्मै॒ भ्रातृ॑व्य-ञ्जनयत्यम्ब॒रीषा॒दन्न॑ काम॒स्याव॑ दद्ध्यादम्ब॒रीषे॒ वा अन्न॑-म्भ्रियते॒ सयो᳚न्ये॒वान्न॒- [सयो᳚न्ये॒वान्न᳚म्, अव॑ रुन्धे॒] 48
-मव॑ रुन्धे॒ मुञ्जा॒नव॑ दधा॒त्यूर्ग्वै मुञ्जा॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधात्य॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स क्रु॑मु॒क-म्प्रा-ऽवि॑श-त्क्रुमु॒कमव॑ दधाति॒ यदे॒वास्य॒ तत्र॒ न्य॑क्त॒-न्त दे॒वाव॑ रुन्ध॒ आज्ये॑न॒ सं-यौँ᳚त्ये॒तद्वा अ॒ग्नेः प्रि॒य-न्धाम॒ यदाज्य॑-म्प्रि॒येणै॒वैन॒-न्धाम्ना॒ सम॑र्धय॒त्यथो॒ तेज॑सा॒ [तेज॑सा, वै क॑कन्ती॒मा द॑धाति॒] 49
वै क॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्धे शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒ सीद॒ त्व-म्मा॒तुर॒स्या उ॒पस्थ॒ इति॑ ति॒सृभि॑र्जा॒तमुप॑ तिष्ठते॒ त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केष्वा॒विद॑-ङ्गच्छ॒त्यथो᳚ प्रा॒णाने॒वा-ऽऽत्म-न्ध॑त्ते ॥ 50 ॥
( प्र॒जाप॑ति–र् ऋच्छे॒थ् – स्वा – मे॒वान्नं॒ – तेज॑सा॒ – चतु॑स्त्रिग्ंशच्च) (अ. 9)
न ह॑ स्म॒ वै पु॒रा-ऽग्निरप॑रशुवृक्ण-न्दहति॒ तद॑स्मै प्रयो॒ग ए॒वर्षि॑रस्वदय॒-द्यद॑ग्ने॒ यानि॒ कानि॒ चेति॑ स॒मिध॒मा द॑धा॒त्यप॑रशुवृक्ण-मे॒वास्मै᳚ स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वं-वेँदौदु॑म्बरी॒मा द॑धा॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधाति प्र॒जाप॑तिर॒ग्नि-म॑सृजत॒ तग्ं सृ॒ष्टग्ं रक्षाग्॑- [सृ॒ष्टग्ं रक्षाग्ं॑सि, अ॒जि॒घा॒ग्ं॒स॒न्थ्स ए॒त-] 51
-स्यजिघाग्ंस॒न्थ्स ए॒त-द्रा᳚क्षो॒घ्नम॑पश्य॒-त्तेन॒ वै सरक्षा॒ग्॒स्यपा॑-ऽहत॒ य-द्रा᳚क्षो॒घ्न-म्भव॑त्य॒ग्नेरे॒व तेन॑ जा॒ता-द्रक्षा॒ग्॒स्यप॑ ह॒न्त्याश्व॑त्थी॒मा द॑धात्यश्व॒त्थो वै वन॒स्पती॑नाग्ं सपत्नसा॒हो विजि॑त्यै॒ वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्धे शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒ सग्ंशि॑त-म्मे॒ ब्रह्मोदे॑षा-म्बा॒हू अ॑तिर॒मित्यु॑त्त॒मे औदु॑म्बरी [औदु॑म्बरी, वा॒च॒य॒ति॒ ब्रह्म॑णै॒व] 52
वाचयति॒ ब्रह्म॑णै॒व क्ष॒त्रग्ं सग्ग् श्य॑ति क्ष॒त्रेण॒ ब्रह्म॒ तस्मा᳚-द्ब्राह्म॒णो रा॑ज॒न्य॑वा॒नत्य॒न्य-म्ब्रा᳚ह्म॒ण-न्तस्मा᳚-द्राज॒न्यो᳚ ब्राह्म॒णवा॒नत्य॒न्यग्ं रा॑ज॒न्य॑-म्मृ॒त्युर्वा ए॒ष यद॒ग्निर॒मृत॒ग्ं॒ हिर॑ण्यग्ं रु॒क्ममन्त॑र॒-म्प्रति॑मुञ्चते॒ ऽमृत॑मे॒व मृ॒त्योर॒न्तर्ध॑त्त॒ एक॑विग्ंशतिनिर्बाधो भव॒त्येक॑विग्ंशति॒र्वै दे॑वलो॒का द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य [अ॒सावा॑दि॒त्यः, ए॒क॒वि॒ग्ं॒श ए॒ताव॑न्तो॒ वै] 53
ए॑कवि॒ग्ं॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेभ्य॑ ए॒व भ्रातृ॑व्यम॒न्तरे॑ति निर्बा॒धैर्वै दे॒वा असु॑रा-न्निर्बा॒धे॑-ऽकुर्वत॒ तन्नि॑र्बा॒धाना᳚-न्निर्बाध॒त्व-न्नि॑र्बा॒धी भ॑वति॒ भ्रातृ॑व्याने॒व नि॑र्बा॒धे कु॑रुते सावित्रि॒या प्रति॑मुञ्चते॒ प्रसू᳚त्यै॒ नक्तो॒षासेत्युत्त॑रया ऽहोरा॒त्राभ्या॑मे॒वैन॒-मुद्य॑च्छते दे॒वा अ॒ग्नि-न्धा॑रय-न्द्रविणो॒दा इत्या॑ह प्रा॒णा वै दे॒वा द्र॑विणो॒दा अ॑होरा॒त्राभ्या॑मे॒वैन॑मु॒द्यत्य॑ [ ] 54
प्रा॒णैर्दा॑धा॒रा ऽऽसी॑नः॒ प्रति॑मुञ्चते॒ तस्मा॒दासी॑नाः प्र॒जाः प्रजा॑यन्ते कृष्णाजि॒नमुत्त॑र॒-न्तेजो॒ वै हिर॑ण्य॒-म्ब्रह्म॑ कृष्णाजि॒न-न्तेज॑सा चै॒वैन॒-म्ब्रह्म॑णा चोभ॒यतः॒ परि॑गृह्णाति॒ षडु॑द्यामग्ं शि॒क्य॑-म्भवति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॒-मुद्य॑च्छते॒ य-द्द्वाद॑शोद्यामग्ं संवँथ्स॒रेणै॒व मौ॒ञ्ज-म्भ॑व॒त्यूर्ग्वै मुञ्जा॑ ऊ॒र्जैवैन॒ग्ं॒ स म॑र्धयति सुप॒र्णो॑-ऽसि ग॒रुत्मा॒नित्यवे᳚क्षते रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒-व्याँच॑ष्टे॒ दिव॑-ङ्गच्छ॒ सुवः॑ प॒तेत्या॑ह सुव॒र्गमे॒वैनं॑-लोँ॒क-ङ्ग॑मयति ॥ 55 ॥
(रक्षा॒ग्॒स्यौ – दु॑बंरि – आदि॒त्य – उ॒द्यत्य॒ – सं – चतु॑र्विग्ंशतिश्च) (अ. 10)
समि॑द्धो अ॒ञ्जन् कृद॑र-म्मती॒ना-ङ्घृ॒तम॑ग्ने॒ मधु॑म॒-त्पिन्व॑मानः । वा॒जी वह॑न् वा॒जिन॑-ञ्जातवेदो दे॒वानां᳚-वँक्षि प्रि॒यमा स॒धस्थ᳚म् ॥ घृ॒तेना॒ञ्जन्थ्स-म्प॒थो दे॑व॒याना᳚-न्प्रजा॒नन् वा॒ज्यप्ये॑तु दे॒वान् । अनु॑ त्वा सप्ते प्र॒दिशः॑ सचन्ताग् स्व॒धाम॒स्मै यज॑मानाय धेहि ॥ ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चासि॒ मेद्ध्य॑श्च सप्ते । अ॒ग्निष्ट्वा॑ [अ॒ग्निष्ट्वा᳚, दे॒वैर्वसु॑भि-स्स॒जोषाः᳚] 56
दे॒वैर्वसु॑भि-स्स॒जोषाः᳚ प्री॒तं-वँह्निं॑-वँहतु जा॒तवे॑दाः ॥ स्ती॒र्ण-म्ब॒र्॒हि-स्सु॒ष्टरी॑मा जुषा॒णोरु पृ॒थु प्रथ॑मान-म्पृथि॒व्याम् । दे॒वेभि॑र्यु॒क्तमदि॑ति-स्स॒जोषा᳚-स्स्यो॒न-ङ्कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु ॥ ए॒ता उ॑ व-स्सु॒भगा॑ वि॒श्वरू॑पा॒ विपक्षो॑भि॒-श्श्रय॑माणा॒ उदातैः᳚ । ऋ॒ष्वा-स्स॒तीः क॒वष॒-श्शुम्भ॑माना॒ द्वारो॑ दे॒वी-स्सु॑प्राय॒णा भ॑वन्तु ॥ अ॒न्त॒रा मि॒त्रावरु॑णा॒ चर॑न्ती॒ मुखं॑-यँ॒ज्ञाना॑म॒भि सं॑विँदा॒ने । उ॒षासा॑ वाग्ं [उ॒षासा॑ वाम्, सु॒हि॒र॒ण्ये सु॑शि॒ल्पे] 57
सुहिर॒ण्ये सु॑शि॒ल्पे ऋ॒तस्य॒ योना॑वि॒ह सा॑दयामि ॥ प्र॒थ॒मा वाग्ं॑ सर॒थिना॑ सु॒वर्णा॑ दे॒वौ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा᳚ । अपि॑प्रय॒-ञ्चोद॑ना वा॒-म्मिमा॑ना॒ होता॑रा॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता᳚ ॥ आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञग्ं सर॑स्वती स॒ह रु॒द्रैर्न॑ आवीत् । इडोप॑हूता॒ वसु॑भि-स्स॒जोषा॑ य॒ज्ञ-न्नो॑ देवीर॒मृते॑षु धत्त ॥ त्वष्टा॑ वी॒र-न्दे॒वका॑म-ञ्जजान॒ त्वष्टु॒रर्वा॑ जायत आ॒शुरश्वः॑ । 58
त्वष्टे॒दं-विँश्व॒-म्भुव॑न-ञ्जजान ब॒होः क॒र्तार॑मि॒ह य॑क्षि होतः ॥ अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ उप॑ दे॒वाग्ं ऋ॑तु॒शः पाथ॑ एतु । वन॒स्पति॑-र्देवलो॒क-म्प्र॑जा॒नन्न॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् ॥ प्र॒जाप॑ते॒स्तप॑सा वावृधा॒न-स्स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने । स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि सा॒द्ध्या ह॒विर॑दन्तु दे॒वाः ॥ 59 ॥
(अ॒ग्निष्ट्वा॑ – वा॒ – मश्वो॒ – द्विच॑त्वारिग्ंशच्च) (अ. 11)
(सा॒वि॒त्राणि॒ – व्यृ॑द्ध॒ – मुत्क्रा॑म – दे॒वस्य॑ खनति – क्रू॒रं -वाँ॑रु॒णः – स॒प्तभि॒ – रेक॑विग्ंशत्या – ष॒ड्भि – र्न ह॑ स्म॒ – समि॑द्धो अ॒ञ्ज – न्नेका॑दश )
(सा॒वि॒त्रा – ण्युत्क्रा॑म – क्रू॒रं -वाँ॑रु॒णः – प॒शवः॑ स्यु॒ – र्न ह॑ स्म॒ – नव॑पञ्चा॒शत्)
(सा॒वि॒त्राणि॑, ह॒विर॑दन्तु दे॒वाः)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्पञ्चमकाण्डे प्रथमः प्रश्न-स्समाप्तः ॥