कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्पञ्चमकाण्डे षष्ठः प्रश्नः – उपानुवाक्याभिधानं
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
हिर॑ण्यवर्णा॒-श्शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निं-याँ गर्भ॑-न्दधि॒रे विरू॑पा॒स्ता न॒ आप॒-श्शग्ग् स्यो॒ना भ॑वन्तु ॥ यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नाम् । म॒धु॒श्चुत॒-श्शुच॑यो॒ याः पा॑व॒कास्ता न॒ आप॒-श्शग्ग् स्यो॒ना भ॑वन्तु ॥ यासा᳚-न्दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं-याँ अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति । याः पृ॑थि॒वी-म्पय॑सो॒न्दन्ति॑ – [ ] 1
शु॒क्रास्ता न॒ आप॒-श्शग्ग् स्यो॒ना भ॑वन्तु ॥ शि॒वेन॑ मा॒ चक्षु॑षा पश्यता-ऽऽप-श्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑-म्मे । सर्वाग्ं॑ अ॒ग्नीग्ं र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ॥ यद॒द-स्स॑-म्प्रय॒तीरहा॒ वन॑दताह॒ते । तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ॥ य-त्प्रेषि॑ता॒ वरु॑णेन॒ ता-श्शीभग्ं॑ स॒मव॑ल्गत । 2
तदा᳚प्नो॒-दिन्द्रो॑ वो य॒ती-स्तस्मा॒-दापो॒ अनु॑ स्थन ॥ अ॒प॒का॒मग्ग् स्यन्द॑माना॒ अवी॑वरत वो॒ हिक᳚म् । इन्द्रो॑ व॒-श्शक्ति॑भि र्देवी॒-स्तस्मा॒-द्वार्णाम॑ वो हि॒तम् ॥ एको॑ दे॒वो अप्य॑तिष्ठ॒-थ्स्यन्द॑माना यथा व॒शम् । उदा॑निषु-र्म॒हीरिति॒ तस्मा॑-दुद॒क-मु॑च्यते ॥ आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नी-षोमौ॑ बिभ्र॒त्याप॒ इ-त्ताः । ती॒व्रो रसो॑ मधु॒पृचा॑- [मधु॒पृचा᳚म्, अ॒र॒ङ्ग॒म आ मा᳚] 3
-मरङ्ग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ॥ आदि-त्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वान्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं-यँ॒दा वः॑ ॥ आपो॒ हि ष्ठा म॑यो॒ भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥ तस्मा॒ अर॑-ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ दि॒वि श्र॑य स्वा॒न्तरि॑क्षे यतस्व पृथि॒व्या स-म्भ॑व ब्रह्मवर्च॒-सम॑सि ब्रह्मवर्च॒साय॑ त्वा ॥ 4
(उ॒दन्ति॑ – स॒मव॑ल्गत – मधु॒पृचां᳚ – मा॒तरो॒ – द्वाविग्ं॑शतिश्च) (अ. 1)
अ॒पा-ङ्ग्रहा᳚-न्गृह्णात्ये॒तद्वाव रा॑ज॒सूयं॒-यँदे॒ते ग्रहा᳚-स्स॒वो᳚ ऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑-मग्निस॒व-श्चित्य॒स्ताभ्या॑-मे॒व सू॑य॒ते-ऽथो॑ उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा᳚-ऽग्नि॒चित॒ आपो॑ भव॒न्त्यापो॒ वा अ॒ग्नेर्भ्रातृ॑व्या॒ यद॒पो᳚ ऽग्नेर॒धस्ता॑दुप॒ दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚-ऽस्य॒ भ्रातृ॑व्यो भवत्य॒मृतं॒- [भ्रातृ॑व्यो भवत्य॒मृत᳚म्, वा आप॒स्तस्मा॑-] 5
-वाँ आप॒स्तस्मा॑-द॒द्भिरव॑तान्त-म॒भि षि॑ञ्चन्ति॒ ना-ऽऽर्ति॒मार्च्छ॑ति॒ सर्व॒मायु॑रेति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं-वेँदान्नं॒-वाँ आपः॑ प॒शव॒ आपो-ऽन्न॑-म्प॒शवो᳚-ऽन्ना॒दः प॑शु॒मा-न्भ॑वति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं-वेँद॒ द्वाद॑श भवन्ति॒ द्वाद॑श॒ मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रेणै॒वास्मा॒ [-स्सं॑वँथ्स॒रेणै॒वास्मा᳚, अन्न॒मव॑ रुन्धे॒] 6
अन्न॒मव॑ रुन्धे॒ पात्रा॑णि भवन्ति॒ पात्रे॒ वा अन्न॑मद्यते॒ सयो᳚न्ये॒वान्न॒मव॑ रुन्ध॒ आ द्वा॑द॒शा-त्पुरु॑षा॒दन्न॑-म॒त्त्यथो॒ पात्रा॒न्न छि॑द्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं-वेँद॑ कु॒म्भाश्च॑ कु॒म्भीश्च॑ मिथु॒नानि॑ भवन्ति मिथु॒नस्य॒ प्रजा᳚त्यै॒ प्र प्र॒जया॑ प॒शुभि॑-र्मिथु॒नै-र्जा॑यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ [य उ॑, चै॒ना॒ ए॒वं-वेँद॒] 7
चैना ए॒वं-वेँद॒ शुग्वा अ॒ग्नि-स्सो᳚-ऽद्ध्व॒र्युं-यँज॑मान-म्प्र॒जा-श्शु॒चा-ऽर्प॑यति॒ यद॒प उ॑प॒दधा॑ति॒ शुच॑मे॒वास्य॑ शमयति॒ ना-ऽऽर्ति॒मार्च्छ॑त्यद्ध्व॒र्युर्न यज॑मान॒-श्शाम्य॑न्ति प्र॒जा यत्रै॒ता उ॑पधी॒यन्ते॒ ऽपां-वाँ ए॒तानि॒ हृद॑यानि॒ यदे॒ता आपो॒ यदे॒ता अ॒प उ॑प॒दधा॑ति दि॒व्याभि॑रे॒वैना॒-स्सग्ं सृ॑जति॒ वर्षु॑कः प॒र्जन्यो॑ [प॒र्जन्यः॑, भ॒व॒ति॒ यो वा] 8
भवति॒ यो वा ए॒तासा॑मा॒यत॑न॒-ङ्कॢप्तिं॒-वेँदा॒-ऽऽयत॑नवा-न्भवति॒ कल्प॑ते ऽस्मा अनुसी॒तमुप॑ दधात्ये॒तद्वा आ॑सामा॒यत॑नमे॒षा कॢप्ति॒र्य ए॒वं-वेँदा॒-ऽऽयत॑नवा-न्भवति॒ कल्प॑ते-ऽस्मै द्व॒द्वम्म॒न्या उप॑ दधाति॒ चत॑स्रो॒ मद्ध्ये॒ धृत्या॒ अन्नं॒-वाँ इष्ट॑का ए॒त-त्खलु॒ वै सा॒क्षादन्नं॒-यँदे॒ष च॒रुर्यदे॒त-ञ्च॒रुमु॑प॒ दधा॑ति सा॒क्षा- [सा॒क्षात्, ए॒वा-ऽस्मा॒ अन्न॒मव॑ रुन्धे] 9
-दे॒वा-ऽस्मा॒ अन्न॒मव॑ रुन्धे मद्ध्य॒त उप॑ दधाति मद्ध्य॒त ए॒वास्मा॒ अन्न॑-न्दधाति॒ तस्मा᳚-न्मद्ध्य॒तो-ऽन्न॑मद्यते बार्हस्प॒त्यो भ॑वति॒ ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पति॒-र्ब्रह्म॑णै॒वास्मा॒ अन्न॒मव॑ रुन्धे ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॒ त्वेत्या॑ह तेज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति॒ यस्यै॒ष उ॑पधी॒यते॒ य उ॑ चैनमे॒वं-वेँद॑ ॥ 10 ॥
(अ॒मृत॑ – मस्मै – जायते॒ यस्यै॒ता – उ॑पधी॒यन्ते॒ य उ॑ – प॒र्जन्य॑ – उप॒दधा॑ति सा॒क्षाथ् – स॒प्तच॑त्वारिग्ंशच्च) (अ. 2)
भू॒ते॒ष्ट॒का उप॑ दधा॒त्यत्रा᳚त्र॒ वै मृ॒त्युर्जा॑यते॒ यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते॒ तत॑ ए॒वैन॒मव॑ यजते॒ तस्मा॑दग्नि॒चि-थ्सर्व॒मायु॑रेति॒ सर्वे॒ ह्य॑स्य मृ॒त्यवो ऽवे᳚ष्टा॒स्तस्मा॑-दग्नि॒चिन्ना-भिच॑रित॒वै प्र॒त्यगे॑न-मभिचा॒र-स्स्तृ॑णुते सू॒यते॒ वा ए॒ष यो᳚-ऽग्नि-ञ्चि॑नु॒ते दे॑वसु॒वामे॒तानि॑ ह॒वीग्ंषि॑ भवन्त्ये॒ताव॑न्तो॒ वै दे॒वानाग्ं॑ स॒वास्त ए॒वा- [स॒वास्त ए॒व, अ॒स्मै॒ स॒वा-न्प्र] 11
-ऽस्मै॑ स॒वा-न्प्र य॑च्छन्ति॒ त ए॑नग्ं सुवन्ते स॒वो᳚-ऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑-म्ब्रह्मस॒वश्चित्यो॑ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह सवि॒तृप्र॑सूत ए॒वैन॒-म्ब्रह्म॑णा दे॒वता॑भिर॒भि षि॑ञ्च॒त्यन्न॑-स्यान्नस्या॒भि षि॑ञ्च॒त्यन्न॑-स्यान्न॒स्या-व॑रुद्ध्यै पु॒रस्ता᳚-त्प्र॒त्यञ्च॑म॒भि षि॑ञ्चति पु॒रस्ता॒द्धि प्र॑ती॒ची-न॒मन्न॑म॒द्यते॑ शीर्ष॒तो॑-ऽभि षि॑ञ्चति शीर्ष॒तो ह्यन्न॑म॒द्यत॒ आ मुखा॑-द॒न्वव॑स्रावयति [मुखा॑-द॒न्वव॑स्रावयति, मु॒ख॒त ए॒वा-ऽस्मा॑] 12
मुख॒त ए॒वा-ऽस्मा॑ अ॒न्नाद्य॑-न्दधात्य॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भि षि॑ञ्चा॒मीत्या॑है॒ष वा अ॒ग्ने-स्स॒वस्तेनै॒वैन॑म॒भि षि॑ञ्चति॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॑म॒भि षि॑ञ्च॒तीन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भि षि॑ञ्चा॒-मीत्या॑हेन्द्रि॒यमे॒वास्मि॑-न्नु॒परि॑ष्टा-द्दधात्ये॒त- [-द्दधात्ये॒तत्, वै रा॑ज॒सूय॑स्य] 13
-द्वै रा॑ज॒सूय॑स्य रू॒पं-यँ ए॒वं-विँ॒द्वान॒ग्नि-ञ्चि॑नु॒त उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा᳚ग्नि॒चित॒ इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यं-वीँ॒र्य॑-म्परा॑-ऽपत॒-त्तद्दे॒वा-स्सौ᳚त्राम॒ण्या सम॑भरन्-थ्सू॒यते॒ वा ए॒ष यो᳚-ऽग्नि-ञ्चि॑नु॒ते᳚-ऽग्नि-ञ्चि॒त्वा सौ᳚त्राम॒ण्या य॑जेतेन्द्रि॒यमे॒व वी॒र्यग्ं॑ स॒भृन्त्या॒-ऽऽत्म-न्ध॑त्ते ॥ 14 ॥
(त ए॒वा – न्वव॑स्रावयत्ये॒ – त – द॒ष्टाच॑त्वारिग्ंशच्च) (अ. 3)
स॒जूरब्दो-ऽया॑वभि-स्स॒जूरु॒षा अरु॑णीभि-स्स॒जू-स्सूर्य॒ एत॑शेन स॒जोषा॑व॒श्विना॒ दग्ंसो॑भि-स्स॒जूर॒ग्निर्वै᳚श्वान॒र इडा॑भिर्घृ॒तेन॒ स्वाहा॑ संवँथ्स॒रो वा अब्दो॒ मासा॒ अया॑वा उ॒षा अरु॑णी॒ सूर्य॒ एत॑श इ॒मे अ॒श्विना॑ संवँथ्स॒रो᳚-ऽग्निर्वै᳚श्वान॒रः प॒शव॒ इडा॑ प॒शवो॑ घृ॒तग्ं सं॑वँथ्स॒र-म्प॒शवो-ऽनु॒ प्र जा॑यन्ते संवँथ्स॒रेणै॒वास्मै॑ प॒शू-न्प्रज॑नयति दर्भस्त॒म्बे जु॑होति॒ य – [ ] 15
-द्वा अ॒स्या अ॒मृतं॒-यँ-द्वी॒र्य॑-न्त-द्द॒र्भास्तस्मि॑न् जुहोति॒ प्रैव जा॑यते ऽन्ना॒दो भ॑वति॒ यस्यै॒व-ञ्जुह्व॑त्ये॒ता वै दे॒वता॑ अ॒ग्नेः पु॒रस्ता᳚द्भागा॒स्ता ए॒व प्री॑णा॒त्यथो॒ चक्षु॑रे॒वाग्नेः पु॒रस्ता॒-त्प्रति॑ दधा॒त्यन॑न्धो भवति॒ य ए॒वं-वेँदा-ऽऽपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒-थ्स प्र॒जाप॑तिः पुष्करप॒र्णे वातो॑ भू॒तो॑-ऽलेलाय॒-थ्स [भू॒तो॑-ऽलेलाय॒-थ्सः, प्र॒ति॒ष्ठा-न्ना-ऽवि॑न्दत॒] 16
प्र॑ति॒ष्ठा-न्ना-ऽवि॑न्दत॒ स ए॒तद॒पा-ङ्कु॒लाय॑मपश्य॒-त्तस्मि॑न्न॒ग्निम॑चिनुत॒ तदि॒यम॑भव॒-त्ततो॒ वै स प्रत्य॑तिष्ठ॒द्या-म्पु॒रस्ता॑दु॒पा-द॑धा॒-त्तच्छिरो॑ ऽभव॒-थ्सा प्राची॒ दिग्या-न्द॑क्षिण॒त उ॒पाद॑धा॒-थ्स दक्षि॑णः प॒क्षो॑-ऽभव॒-थ्सा द॑क्षि॒णा दिग्या-म्प॒श्चा-दु॒पाद॑धा॒-त्त-त्पुच्छ॑मभव॒-थ्सा प्र॒तीची॒ दिग्यामु॑त्तर॒त उ॒पाद॑धा॒- [उ॒पाद॑धात्, स उत्त॑रः] 17
-थ्स उत्त॑रः प॒क्षो॑-ऽभव॒-थ्सोदी॑ची॒ दिग्यामु॒परि॑ष्टा-दु॒पाद॑धा॒-त्त-त्पृ॒ष्ठम॑भव॒-थ्सोर्ध्वा दिगि॒यं-वाँ अ॒ग्निः पञ्चे᳚ष्टक॒-स्तस्मा॒-द्यद॒स्या-ङ्खन॑न्त्य॒भीष्ट॑का-न्तृ॒न्दन्त्य॒भि शर्क॑रा॒ग्ं॒ सर्वा॒ वा इ॒यं-वँयो᳚भ्यो॒ नक्त॑-न्दृ॒शे दी᳚प्यते॒ तस्मा॑दि॒मां-वँयाग्ं॑सि॒ नक्त॒-न्नाद्ध्या॑सते॒ य ए॒वं-विँ॒द्वान॒ग्नि-ञ्चि॑नु॒ते प्रत्ये॒व [प्रत्ये॒व, ति॒ष्ठ॒त्य॒भि दिशो॑] 18
ति॑ष्ठत्य॒भि दिशो॑ जयत्याग्ने॒यो वै ब्रा᳚ह्म॒णस्तस्मा᳚-द्ब्राह्म॒णाय॒ सर्वा॑सु दि॒क्ष्वर्धु॑क॒ग्ग्॒ स्वामे॒व त-द्दिश॒मन्वे᳚त्य॒पां-वाँ अ॒ग्निः कु॒लाय॒-न्तस्मा॒दापो॒-ऽग्निग्ं हारु॑का॒-स्स्वामे॒व त-द्योनि॒-म्प्रवि॑शन्ति ॥ 19 ॥
(यद॑- लेलाय॒-थ्स-उ॑त्तर॒त उ॒पाद॑धा-दे॒व – द्वात्रिग्ं॑शच्च) (अ. 4)
सं॒वँ॒थ्स॒रमुख्य॑-म्भृ॒त्वा द्वि॒तीये॑ संवँथ्स॒र आ᳚ग्ने॒यम॒ष्टाक॑पाल॒-न्निर्व॑पेदै॒न्द्र-मेका॑दशकपालं-वैँश्वदे॒व-न्द्वाद॑शकपाल-म्बार्हस्प॒त्य-ञ्च॒रुं-वैँ᳚ष्ण॒व-न्त्रि॑कपा॒ल-न्तृ॒तीये॑ संवँथ्स॒रे॑-ऽभि॒जिता॑ यजेत॒ यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्र्या᳚ग्ने॒य-ङ्गा॑य॒त्र-म्प्रा॑तस्सव॒न-म्प्रा॑तस्सव॒नमे॒व तेन॑ दाधार गाय॒त्री-ञ्छन्दो॒ यदेका॑दशकपालो॒ भव॒त्येका॑दशाक्षरा त्रि॒ष्टुगै॒न्द्र-न्त्रैष्टु॑भ॒-म्माद्ध्य॑न्दिन॒ग्ं॒ सव॑न॒-म्माद्ध्य॑न्दिनमे॒व सव॑न॒-न्तेन॑ दाधार त्रि॒ष्टुभ॒- [त्रि॒ष्टुभ᳚म्, छन्दो॒ य-द्द्वाद॑शकपालो॒ भव॑ति॒] 20
-ञ्छन्दो॒ य-द्द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती वैश्वदे॒व-ञ्जाग॑त-न्तृतीयसव॒न-न्तृ॑तीयसव॒नमे॒व तेन॑ दाधार॒ जग॑ती॒-ञ्छन्दो॒ य-द्बा॑र्हस्प॒त्यश्च॒रुर्भव॑ति॒ ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पति॒र्ब्रह्मै॒व तेन॑ दाधार॒ य-द्वै᳚ष्ण॒वस्त्रि॑कपा॒लो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒व तेन॑ दाधार॒ य-त्तृ॒तीये॑ संवँथ्स॒रे॑-ऽभि॒जिता॒ यज॑ते॒-ऽभिजि॑त्यै॒ य-थ्सं॑वँथ्स॒रमुख्य॑-म्बि॒भर्ती॒ममे॒व [ ] 21
तेन॑ लो॒कग्ग् स्पृ॑णोति॒ य-द्द्वि॒तीये॑ संवँथ्स॒रे᳚-ऽग्नि-ञ्चि॑नु॒ते᳚ ऽन्तरि॑क्षमे॒व तेन॑ स्पृणोति॒ य-त्तृ॒तीये॑ संवँथ्स॒रे यज॑ते॒-ऽमुमे॒व तेन॑ लो॒कग्ग् स्पृ॑णोत्ये॒तं-वैँ पर॑ आट्णा॒रः क॒क्षीवाग्ं॑ औशि॒जो वी॒तह॑व्य-श्श्राय॒सस्त्र॒सद॑स्युः पौरुकु॒थ्स्यः प्र॒जाका॑मा अचिन्वत॒ ततो॒ वै ते स॒हस्रग्ं॑ सहस्र-म्पु॒त्रान॑विन्दन्त॒ प्रथ॑ते प्र॒जया॑ प॒शुभि॒स्ता-म्मात्रा॑माप्नोति॒ या-न्ते-ऽग॑च्छ॒न्॒ य ए॒वं विँ॒द्वाने॒तम॒ग्नि-ञ्चि॑नु॒ते ॥ 22 ॥
(दा॒धा॒र॒ त्रि॒ष्टुभ॑ – मि॒ममे॒वै – वं – च॒त्वारि॑ च) (अ. 5)
प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स क्षु॒रप॑विर्भू॒त्वा-ऽति॑ष्ठ॒-त्त-न्दे॒वा बिभ्य॑तो॒ नोपा॑-ऽऽय॒-न्ते छन्दो॑भिरा॒त्मान॑-ञ्छादयि॒त्वोपा॑-ऽऽय॒-न्तच्छन्द॑सा-ञ्छन्द॒स्त्व-म्ब्रह्म॒ वै छन्दाग्ं॑सि॒ ब्रह्म॑ण ए॒त-द्रू॒पं-यँ-त्कृ॑ष्णाजि॒न-ङ्कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ छन्दो॑भिरे॒वा-ऽऽत्मान॑-ञ्छादयि॒त्वा-ऽग्निमुप॑ चरत्या॒त्मनो-ऽहिग्ं॑सायै देवनि॒धिर्वा ए॒ष नि धी॑यते॒ यद॒ग्नि- [यद॒ग्निः, अ॒न्ये वा॒ वै] 23
-र॒न्ये वा॒ वै नि॒धिमगु॑प्तं-विँ॒न्दन्ति॒ न वा॒ प्रति॒ प्र जा॑नात्यु॒खामा क्रा॑मत्या॒त्मान॑मे॒वाधि॒पा-ङ्कु॑रुते॒ गुप्त्या॒ अथो॒ खल्वा॑हु॒र्ना-ऽऽक्रम्येति॑ नैर्-ऋ॒त्यु॑खा यदा॒क्रामे॒न्निर्-ऋ॑त्या आ॒त्मान॒मपि॑ दद्ध्या॒-त्तस्मा॒न्ना-ऽऽक्रम्या॑ पुरुषशी॒र्॒षमुप॑ दधाति॒ गुप्त्या॒ अथो॒ यथा᳚ ब्रू॒यादे॒तन्मे॑ गोपा॒येति॑ ता॒दृगे॒व त- [तत्, प्र॒जाप॑ति॒र्वा] 24
-त्प्र॒जाप॑ति॒र्वा अथ॑र्वा॒ ऽग्निरे॒व द॒द्ध्यङ्ङा॑थर्व॒णस्तस्येष्ट॑का अ॒स्थान्ये॒तग्ं ह॒ वाव तद्-ऋषि॑र॒भ्यनू॑वा॒चेन्द्रो॑ दधी॒चो अ॒स्थभि॒रिति॒ यदिष्ट॑काभिर॒ग्नि-ञ्चि॒नोति॒ सात्मा॑नमे॒वाग्नि-ञ्चि॑नुते॒ सात्मा॒मुष्मि॑-ल्लोँ॒के भ॑वति॒ य ए॒वं-वेँद॒ शरी॑रं॒-वाँ ए॒तद॒ग्नेर्यच्चित्य॑ आ॒त्मा वै᳚श्वान॒रो यच्चि॒ते वै᳚श्वान॒र-ञ्जु॒होति॒ शरी॑रमे॒व स॒ग्ग्॒स्कृत्या॒- [स॒ग्ग्॒स्कृत्या॑, अ॒भ्यारो॑हति॒] 25
-ऽभ्यारो॑हति॒ शरी॑रं॒-वाँ ए॒त-द्यज॑मान॒-स्सग्ग् स्कु॑रुते॒ यद॒ग्नि-ञ्चि॑नु॒ते यच्चि॒ते वै᳚श्वान॒र-ञ्जु॒होति॒ शरी॑रमे॒व स॒ग्ग्॒स्कृत्या॒ ऽऽत्मना॒-ऽभ्यारो॑हति॒ तस्मा॒-त्तस्य॒ नाव॑ द्यन्ति॒ जीव॑न्ने॒व दे॒वानप्ये॑ति वैश्वान॒र्यर्चा पुरी॑ष॒मुप॑ दधाती॒यं-वाँ अ॒ग्निर्वै᳚श्वान॒रस्तस्यै॒षा चिति॒र्य-त्पुरी॑षम॒ग्निमे॒व वै᳚श्वान॒र-ञ्चि॑नुत ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूर्य-द्वै᳚श्वान॒रः प्रि॒यामे॒वास्य॑ त॒नुव॒मव॑ रुन्धे ॥ 26 ॥
(अ॒ग्नि – स्तथ् – स॒ग्ग्॒स्कृत्या॒ – ग्ने – र्दश॑ च) (अ. 6)
अ॒ग्नेर्वै दी॒क्षया॑ दे॒वा वि॒राज॑माप्नुव-न्ति॒स्रो रात्री᳚र्दीक्षि॒त-स्स्या᳚-त्त्रि॒पदा॑ वि॒रा-ड्वि॒राज॑माप्नोति॒ षड्-रात्री᳚र्दीक्षि॒त-स्स्या॒-थ्ष-ड्वा ऋ॒तवः॑ संवँथ्स॒र-स्सं॑वँथ्स॒रो वि॒रा-ड्वि॒राज॑माप्नोति॒ दश॒ रात्री᳚र्दीक्षि॒त-स्स्या॒-द्दशा᳚क्षरा वि॒रा-ड्वि॒राज॑माप्नोति॒ द्वाद॑श॒ रात्री᳚र्दीक्षि॒त-स्स्या॒-द्द्वाद॑श॒ मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो वि॒रा-ड्वि॒राज॑माप्नोति॒ त्रयो॑दश॒ रात्री᳚र्दीक्षि॒त-स्स्या॒-त्त्रयो॑दश॒ [त्रयो॑दश, मासा᳚-] 27
मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो वि॒रा-ड्वि॒राज॑माप्नोति॒ पञ्च॑दश॒ रात्री᳚र्दीक्षि॒त-स्स्या॒-त्पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यो-ऽर्धमास॒श-स्सं॑वँथ्स॒र आ᳚प्यते संवँथ्स॒रो वि॒रा-ड्वि॒राज॑माप्नोति स॒प्तद॑श॒ रात्री᳚र्दीक्षि॒त-स्स्या॒-द्द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒-स्स सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वि॒रा-ड्वि॒राज॑माप्नोति॒ चतु॑र्विग्ंशति॒ग्ं॒ रात्री᳚र्दीक्षि॒त-स्स्या॒-च्चतु॑र्विग्ंशतिरर्धमा॒सा-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वि॒रा-ड्वि॒राज॑माप्नोति त्रि॒ग्ं॒शत॒ग्ं॒ रात्री᳚र्दीक्षि॒त-स्स्या᳚- [रात्री᳚र्दीक्षि॒त-स्स्या᳚त्, त्रि॒ग्ं॒शद॑क्षरा] 28
-त्त्रि॒ग्ं॒शद॑क्षरा वि॒रा-ड्वि॒राज॑माप्नोति॒ मास॑-न्दीक्षि॒त-स्स्या॒-द्यो मास॒-स्स सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वि॒रा-ड्वि॒राज॑माप्नोति च॒तुरो॑ मा॒सो दी᳚क्षि॒त-स्स्या᳚च्च॒तुरो॒ वा ए॒त-म्मा॒सो वस॑वो-ऽबिभरु॒स्ते पृ॑थि॒वीमा-ऽज॑य-न्गाय॒त्री-ञ्छन्दो॒-ऽष्टौ रु॒द्रास्ते᳚-ऽन्तरि॑क्ष॒मा-ऽज॑य-न्त्रि॒ष्टुभ॒-ञ्छन्दो॒ द्वाद॑शा-ऽऽदि॒त्यास्ते दिव॒मा-ऽज॑य॒न् जग॑ती॒-ञ्छन्द॒स्ततो॒ वै ते व्या॒वृत॑-मगच्छ॒ञ्छ्रैष्ठ्य॑-न्दे॒वाना॒-न्तस्मा॒-द्द्वाद॑श मा॒सो भृ॒त्वा-ऽग्नि-ञ्चि॑न्वीत॒ द्वाद॑श॒ मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो᳚ -ऽग्निश्चित्य॒स्तस्या॑-होरा॒त्राणीष्ट॑का आ॒प्तेष्ट॑कमेन-ञ्चिनु॒ते-ऽथो᳚ व्या॒वृत॑मे॒व ग॑च्छति॒ श्रैष्ठ्यग्ं॑ समा॒नाना᳚म् ॥ 29 ॥
(स्या॒-त्त्रयो॑दश – त्रि॒ग्ं॒शत॒ग्ं॒ रात्री᳚र्दीक्षि॒त-स्स्या॒-द्- वै ते᳚ – ऽष्टाविग्ं॑शतिश्च) (अ. 7)
सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निस्तं-यँन्नान्वा॒रोहे᳚-थ्सुव॒र्गाल्लो॒का-द्यज॑मानो हीयेत पृथि॒वीमा-ऽक्र॑मिष-म्प्रा॒णो मा॒ मा हा॑सीद॒न्तरि॑क्ष॒मा-ऽक्र॑मिष-म्प्र॒जा मा॒ मा हा॑सी॒-द्दिव॒मा-ऽक्र॑मिष॒ग्ं॒ सुव॑रग॒न्मेत्या॑है॒ष वा अ॒ग्नेर॑न्वारो॒हस्तेनै॒वैन॑-म॒न्वारो॑हति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ य-त्प॒क्षस॑म्मिता-म्मिनु॒या- [मिनु॒यात्, कनी॑याग्ंस-] 30
-त्कनी॑याग्ंसं-यँज्ञक्र॒तुमुपे॑या॒-त्पापी॑यस्यस्या॒ ऽऽत्मनः॑ प्र॒जा स्या॒-द्वेदि॑सम्मिता-म्मिनोति॒ ज्यायाग्ं॑समे॒व य॑ज्ञक्र॒तुमुपै॑ति॒ नास्या॒-ऽऽत्मनः॒ पापी॑यसी प्र॒जा भ॑वति साह॒स्र-ञ्चि॑न्वीत प्रथ॒म-ञ्चि॑न्वा॒न-स्स॒हस्र॑सम्मितो॒ वा अ॒यं-लोँ॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ द्विषा॑हस्र-ञ्चिन्वीत द्वि॒तीय॑-ञ्चिन्वा॒नो द्विषा॑हस्रं॒-वाँ अ॒न्तरि॑क्ष-म॒न्तरि॑क्षमे॒वाभि ज॑यति॒ त्रिषा॑हस्र-ञ्चिन्वीत तृ॒तीय॑-ञ्चिन्वा॒न- [तृ॒तीय॑-ञ्चिन्वा॒नः, त्रिषा॑हस्रो॒ वा अ॒सौ] 31
-स्त्रिषा॑हस्रो॒ वा अ॒सौ लो॒को॑ ऽमुमे॒व लो॒कम॒भि ज॑यति जानुद॒घ्न-ञ्चि॑न्वीत प्रथ॒म-ञ्चि॑न्वा॒नो गा॑यत्रि॒यैवेमं-लोँ॒कम॒भ्यारो॑हति नाभिद॒घ्न-ञ्चि॑न्वीत द्वि॒तीय॑-ञ्चिन्वा॒नस्त्रि॒ष्टुभै॒वा-न्तरि॑क्ष-म॒भ्यारो॑हति ग्रीवद॒घ्न-ञ्चि॑न्वीत तृ॒तीय॑-ञ्चिन्वा॒नो जग॑त्यै॒वामु-ल्लोँ॒कम॒भ्यारो॑हति॒ नाग्नि-ञ्चि॒त्वा रा॒मामुपे॑यादयो॒नौ रेतो॑ धास्या॒मीति॒ न द्वि॒तीय॑-ञ्चि॒त्वा-ऽन्यस्य॒ स्त्रिय॒- [स्त्रिय᳚म्, उपे॑या॒न्न] 32
-मुपे॑या॒न्न तृ॒तीय॑-ञ्चि॒त्वा का-ञ्च॒नोपे॑या॒-द्रेतो॒ वा ए॒तन्नि ध॑त्ते॒ यद॒ग्नि-ञ्चि॑नु॒ते यदु॑पे॒या-द्रेत॑सा॒ व्यृ॑द्ध्ये॒ता-ऽथो॒ खल्वा॑हुर प्रज॒स्य-न्त-द्यन्नोपे॒यादिति॒ य-द्रे॑त॒स्सिचा॑वुप॒दधा॑ति॒ ते ए॒व यज॑मानस्य॒ रेतो॑ बिभृत॒स्तस्मा॒-दुपे॑या॒-द्रेत॒सो-ऽस्क॑न्दाय॒ त्रीणि॒ वाव रेताग्ं॑सि पि॒ता पु॒त्रः पौत्रो॒ [पौत्रः॑, य-द्द्वे रे॑त॒स्सिचा॑] 33
य-द्द्वे रे॑त॒स्सिचा॑-वुपद॒द्ध्या-द्रेतो᳚-ऽस्य॒ विच्छि॑न्द्या-त्ति॒स्र उप॑ दधाति॒ रेत॑स॒-स्सन्त॑त्या इ॒यं-वाँव प्र॑थ॒मा रे॑त॒स्सिग् वाग्वा इ॒य-न्तस्मा॒-त्पश्य॑न्ती॒मा-म्पश्य॑न्ति॒ वाचं॒-वँद॑न्तीम॒न्तरि॑क्ष-न्द्वि॒तीया᳚ प्रा॒णो वा अ॒न्तरि॑क्ष॒-न्तस्मा॒न्ना-ऽन्तरि॑क्ष॒-म्पश्य॑न्ति॒ न प्रा॒णम॒सौ तृ॒तीया॒ चक्षु॒र्वा अ॒सौ तस्मा॒-त्पश्य॑न्त्य॒मू-म्पश्य॑न्ति॒ चक्षु॒-र्यजु॑षे॒मा-ञ्चा॒- [चक्षु॒-र्यजु॑षे॒मा-ञ्चा॑, अ॒मू-ञ्चोप॑] 34
-ऽमू-ञ्चोप॑ दधाति॒ मन॑सा मद्ध्य॒मामे॒षां-लोँ॒काना॒-ङ्कॢप्त्या॒ अथो᳚ प्रा॒णाना॑मि॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भि॒स्तस्य॑ त इ॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑णे॒ह भ॑क्षी॒येत्या॑ह स्तुतश॒स्त्रे ए॒वैतेन॑ दुहे पि॒ता मा॑त॒रिश्वा-ऽच्छि॑द्रा प॒दा धा॒ अच्छि॑द्रा उ॒शिजः॑ प॒दा-ऽनु॑ तक्षु॒-स्सोमो॑ विश्व॒विन्ने॒ता ने॑ष॒-द्बृह॒स्पति॑रुक्थाम॒दानि॑ शग्ंसिष॒दित्या॑है॒तद्वा अ॒ग्नेरु॒क्थ-न्तेनै॒वैन॒मनु॑ शग्ंसति ॥ 35 ॥
(मि॒नु॒यात् – तृ॒तीय॑-ञ्चिन्वा॒नः – स्त्रियं॒ – पौत्र॑ – श्च॒ – वै – स॒प्त च॑) (अ. 8)
सू॒यते॒ वा ए॒षो᳚-ऽग्नी॒नां-यँ उ॒खाया᳚-म्भ्रि॒यते॒ यद॒ध-स्सा॒दये॒-द्गर्भाः᳚ प्र॒पादु॑का-स्स्यु॒रथो॒ यथा॑ स॒वा-त्प्र॑त्यव॒रोह॑ति ता॒दृगे॒व तदा॑स॒न्दी सा॑दयति॒ गर्भा॑णा॒-न्धृत्या॒ अप्र॑पादा॒याथो॑ स॒वमे॒वैन॑-ङ्करोति॒ गर्भो॒ वा ए॒ष यदुख्यो॒ योनिः॑ शि॒क्यं॑-यँच्छि॒क्या॑दु॒खा-न्नि॒रूहे॒-द्योने॒र्गर्भ॒-न्निर्ह॑ण्या॒-थ्षडु॑द्यामग्ं शि॒क्य॑-म्भवति षोढा विहि॒तो वै [ ] 36
पुरु॑ष आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा᳚न्या॒त्मन्ने॒वैन॑-म्बिभर्ति प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्यो॒खा चो॒लूख॑ल-ञ्च॒ स्तनौ॒ ताव॑स्य प्र॒जा उप॑ जीवन्ति॒ यदु॒खा-ञ्चो॒लूख॑ल-ञ्चोप॒दधा॑ति॒ ताभ्या॑मे॒व यज॑मानो॒-ऽमुष्मि॑-ल्लोँ॒के᳚-ऽग्नि-न्दु॑हे संवँथ्स॒रो वा ए॒ष यद॒ग्निस्तस्य॑ त्रेधाविहि॒ता इष्ट॑काः प्राजाप॒त्या वै᳚ष्ण॒वी- [वै᳚ष्ण॒वीः, वै॒श्व॒क॒र्म॒णी-] 37
-र्वै᳚श्वकर्म॒णी-र॑होरा॒त्राण्ये॒वा-ऽस्य॑ प्राजाप॒त्या यदुख्य॑-म्बि॒भर्ति॑ प्राजाप॒त्या ए॒व तदुप॑ धत्ते॒ य-थ्स॒मिध॑ आ॒दधा॑ति वैष्ण॒वा वै वन॒स्पत॑यो वैष्ण॒वीरे॒व तदुप॑ धत्ते॒ यदिष्ट॑काभिर॒ग्नि-ञ्चि॒नोती॒यं-वैँ वि॒श्वक॑र्मा वैश्वकर्म॒णीरे॒व तदुप॑ धत्ते॒ तस्मा॑-दाहु-स्त्रि॒वृद॒ग्निरिति॒ तं-वाँ ए॒तं-यँज॑मान ए॒व चि॑न्वीत॒ यद॑स्या॒न्य श्चि॑नु॒याद्य-त्त-न्दक्षि॑णाभि॒र्न रा॒धये॑द॒ग्निम॑स्य वृञ्जीत॒ यो᳚-ऽस्या॒-ऽग्नि-ञ्चि॑नु॒या-त्त-न्दक्षि॑णाभी राधयेद॒ग्निमे॒व त-थ्स्पृ॑णोति ॥ 38 ॥
(षो॒ढा॒वि॒हि॒तो वै – वै᳚ष्ण॒वी – र॒न्यो – विग्ं॑श॒तिश्च॑) (अ. 9)
प्र॒जाप॑ति-र॒ग्नि-म॑चिनुत॒र्तुभिः॑ संवँथ्स॒रं-वँ॑स॒न्तेनै॒वास्य॑ पूर्वा॒र्धम॑चिनुत ग्री॒ष्मेण॒ दक्षि॑ण-म्प॒क्षं-वँ॒र्॒षाभिः॒ पुच्छग्ं॑ श॒रदोत्त॑र-म्प॒क्षग्ं हे॑म॒न्तेन॒ मद्ध्य॒-म्ब्रह्म॑णा॒ वा अ॑स्य॒ त-त्पू᳚र्वा॒र्धम॑चिनुत क्ष॒त्रेण॒ दक्षि॑ण-म्प॒क्ष-म्प॒शुभिः॒ पुच्छं॑-विँ॒शोत्त॑र-म्प॒क्षमा॒शया॒ मद्ध्यं॒-यँ ए॒वं-विँ॒द्वान॒ग्नि-ञ्चि॑नु॒त ऋ॒तुभि॑रे॒वैन॑-ञ्चिनु॒ते-ऽथो॑ ए॒तदे॒व सर्व॒मव॑ – [सर्व॒मव॑, रु॒न्धे॒ शृ॒ण्वन्त्ये॑न] 39
रुन्धे शृ॒ण्वन्त्ये॑न-म॒ग्नि-ञ्चि॑क्या॒नमत्त्यन्न॒ग्ं॒ रोच॑त इ॒यं-वाँव प्र॑थ॒मा चिति॒रोष॑धयो॒ वन॒स्पत॑यः॒ पुरी॑षम॒न्तरि॑क्ष-न्द्वि॒तीया॒ वयाग्ं॑सि॒ पुरी॑षम॒सौ तृ॒तीया॒ नक्ष॑त्राणि॒ पुरी॑षं-यँ॒ज्ञश्च॑तु॒र्थी दक्षि॑णा॒ पुरी॑षं॒-यँज॑मानः पञ्च॒मी प्र॒जा पुरी॑षं॒-यँ-त्त्रिचि॑तीक-ञ्चिन्वी॒त य॒ज्ञ-न्दक्षि॑णामा॒त्मान॑-म्प्र॒जाम॒न्तरि॑या॒-त्तस्मा॒-त्पञ्च॑चितीकश्चेत॒व्य॑ ए॒तदे॒व सर्वग्ग्॑ स्पृणोति॒ य-त्ति॒स्रश्चित॑य- [य-त्ति॒स्रश्चित॑यः, त्रि॒वृद्ध्य॑ग्निर्य-द्द्वे] 40
-स्त्रि॒वृद्ध्य॑ग्निर्य-द्द्वे द्वि॒पा-द्यज॑मानः॒ प्रति॑ष्ठित्यै॒ पञ्च॒ चित॑यो भवन्ति॒ पाङ्क्तः॒ पुरु॑ष आ॒त्मान॑मे॒व स्पृ॑णोति॒ पञ्च॒ चित॑यो भवन्ति प॒ञ्चभिः॒ पुरी॑षैर॒भ्यू॑हति॒ दश॒ स-म्प॑द्यन्ते॒ दशा᳚क्षरो॒ वै पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तग्ग् स्पृ॑णो॒त्यथो॒ दशा᳚क्षरा वि॒राडन्नं॑-विँ॒रा-ड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति संवँथ्स॒रो वै ष॒ष्ठी चिति॑र्-ऋ॒तवः॒ पुरी॑ष॒ग्ं॒ षट् चित॑यो भवन्ति॒ षट् पुरी॑षाणि॒ द्वाद॑श॒ स-म्प॑द्यन्ते॒ द्वाद॑श॒ मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒र ए॒व प्रति॑ तिष्ठति ॥ 41 ॥
(अव॒ – चित॑यः॒ – पुरी॑षं॒ – पञ्च॑दश च) (अ. 10)
रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते प्रा॑जाप॒त्या ब॒भ्रुर॑रु॒णब॑भ्रु॒-श्शुक॑बभ्रु॒स्ते रौ॒द्रा-श्श्येतः॑ श्येता॒क्ष-श्श्येत॑ग्रीव॒स्ते पि॑तृदेव॒त्या᳚स्ति॒स्रः कृ॒ष्णा व॒शा वा॑रु॒ण्य॑स्ति॒स्र-श्श्वे॒ता व॒शा-स्सौ॒र्यो॑ मैत्राबार्हस्प॒त्या धू॒म्रल॑लामास्तूप॒राः ॥ 42 ॥
(रोहि॑तः॒-षड्वग्ं॑शतिः) (अ. 11)
पृश्ञि॑-स्तिर॒श्चीन॑-पृश्ञिरू॒र्ध्व-पृ॑श्ञि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी ब॑ल॒क्षी ता-स्सा॑रस्व॒त्यः॑ पृष॑ती स्थू॒लपृ॑षती क्षु॒द्रपृ॑षती॒ ता वै᳚श्वदे॒व्य॑स्ति॒स्र-श्श्या॒मा व॒शाः पौ॒ष्णिय॑स्ति॒स्रो रोहि॑णीर्व॒शा मै॒त्रिय॑ ऐन्द्राबार्हस्प॒त्या अ॑रु॒णल॑लामास्तूप॒राः ॥ 43 ॥
(पृश्ञिः॒ – षड्विग्ं॑शतिः) (अ. 12)
शि॒ति॒बा॒हु-र॒न्यत॑श्शितिबाहु-स्सम॒न्त शि॑तिबाहु॒स्त ऐ᳚न्द्रवाय॒वा-श्शि॑ति॒रन्ध्रो॒ ऽन्यत॑श्शितिरन्ध्र-स्सम॒न्तशि॑तिरन्ध्र॒स्ते मै᳚त्रावरु॒णा-श्शु॒द्धवा॑ल-स्स॒र्वशु॑द्धवालो म॒णिवा॑ल॒स्त आ᳚श्वि॒नास्ति॒स्र-श्शि॒ल्पा व॒शा वै᳚श्वदे॒व्य॑स्ति॒स्र-श्श्येनीः᳚ परमे॒ष्ठिने॑ सोमापौ॒ष्णा-श्श्या॒मल॑लामास्तूप॒राः ॥ 44 ॥
(शि॒ति॒बा॒हुः पञ्च॑विग्ंशतिः) (अ. 13)
उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ᳚न्द्रावरु॒णा-श्शिति॑ककुच्छितिपृ॒ष्ठ-श्शिति॑भस॒-त्त ऐ᳚न्द्राबार्हस्प॒त्या-श्शि॑ति॒पाच्छि॒त्योष्ठः॑ शिति॒भ्रुस्त ऐ᳚न्द्रावैष्ण॒वास्ति॒स्र-स्सि॒द्ध्मा व॒शा वै᳚श्वकर्म॒ण्य॑स्ति॒स्रो धा॒त्रे पृ॑षोद॒रा ऐ᳚न्द्रापौ॒ष्णा-श्श्येत॑ललामास्तूप॒राः ॥ 45 ॥
(उ॒न्न॒तः पञ्च॑विग्ंशतिः) (अ. 14)
क॒र्णास्त्रयो॑ या॒मा-स्सौ॒म्यास्त्रयः॑ श्विति॒ङ्गा अ॒ग्नये॒ यवि॑ष्ठाय॒ त्रयो॑ नकु॒लास्ति॒स्रो रोहि॑णी॒स्त्र्यव्य॒स्ता वसू॑ना-न्ति॒स्रो॑-ऽरु॒णा दि॑त्यौ॒ह्य॑स्ता रु॒द्राणाग्ं॑ सोमै॒न्द्रा ब॒भ्रुल॑लामास्तूप॒राः ॥ 46 ॥
(क॒र्णास्त्रयो॑ – विग्ंशतिः) (अ. 15)
शु॒ण्ठास्त्रयो॑ वैष्ण॒वा अ॑धीलोध॒कर्णा॒स्त्रयो॒ विष्ण॑व उरुक्र॒माय॑ लफ्सु॒दिन॒स्त्रयो॒ विष्ण॑व उरुगा॒याय॒ पञ्चा॑वीस्ति॒स्र आ॑दि॒त्याना᳚-न्त्रिव॒थ्सा-स्ति॒स्रो-ऽङ्गि॑रसामैन्द्रावैष्ण॒वा गौ॒रल॑लामास्तूप॒राः ॥ 47 ॥
(शु॒ण्ठा – विग्ं॑श॒तिः) (अ. 16)
इन्द्रा॑य॒ राज्ञे॒ त्रयः॑ शितिपृ॒ष्ठा इन्द्रा॑या-धिरा॒जाय॒ त्रय॒-श्शिति॑ककुद॒ इन्द्रा॑य स्व॒राज्ञे॒ त्रय॒-श्शिति॑भस-दस्ति॒स्रस्तु॑र्यौ॒ह्यः॑ सा॒द्ध्याना᳚-न्ति॒स्रः प॑ष्ठौ॒ह्यो॑ विश्वे॑षा-न्दे॒वाना॑माग्ने॒न्द्राः कृ॒ष्णल॑लामास्तूप॒राः ॥ 48 ॥
(इन्द्रा॑य॒ राज्ञे॒ – द्वाविग्ं॑शतिः) (अ. 17)
अदि॑त्यै॒ त्रयो॑ रोहितै॒ता इ॑न्द्रा॒ण्यै त्रयः॑ कृष्णै॒ताः कु॒ह्वै᳚ त्रयो॑-ऽरुणै॒तास्ति॒स्रो धे॒नवो॑ रा॒कायै॒ त्रयो॑-ऽन॒ड्वाहः॑ सिनीवा॒ल्या आ᳚ग्नावैष्ण॒वा रोहि॑तललामास्तूप॒राः ॥ 49 ॥
(अदि॑त्या-अ॒ष्टाद॑श) (अ. 18)
सौ॒म्यास्त्रयः॑ पि॒शङ्गा॒-स्सोमा॑य॒ राज्ञे॒ त्रयः॑ सा॒रङ्गाः᳚ पार्ज॒न्या नभो॑रूपास्ति॒स्रो॑-ऽजा म॒ल॒ःआ इ॑न्द्रा॒ण्यै ति॒स्रो मे॒ष्य॑ आदि॒त्या द्या॑वापृथि॒व्या॑ मा॒लङ्गा᳚स्तूप॒राः ॥ 50 ॥
(सौ॒म्या – एका॒न्नविग्ं॑श॒तिः) (अ. 19)
वा॒रु॒णास्त्रयः॑ कृ॒ष्णल॑लामा॒ वरु॑णाय॒ राज्ञे॒ त्रयो॒ रोहि॑तललामा॒ वरु॑णाय रि॒शाद॑से॒ त्रयो॑-ऽरु॒णल॑लामा-श्शि॒ल्पास्त्रयो॑ वैश्वदे॒वास्त्रयः॒ पृश्ञ॑य-स्सर्वदेव॒त्या॑ ऐन्द्रासू॒रा-श्श्येत॑ललामास्तूप॒राः ॥ 51 ॥
(वा॒रु॒णा – विग्ं॑श॒तिः) (अ. 20)
सोमा॑य स्व॒राज्ञे॑-ऽनोवा॒हाव॑न॒ड्वाहा॑-विन्द्रा॒ग्निभ्या॑-मोजो॒दाभ्या॒मुष्टा॑रा-विन्द्रा॒ग्निभ्या᳚-म्बल॒दाभ्याग्ं॑ सीरवा॒हाववी॒ द्वे धे॒नू भौ॒मी दि॒ग्भ्यो वड॑बे॒ द्वे धे॒नू भौ॒मी वै॑रा॒जी पु॑रु॒षी द्वे धे॒नू भौ॒मी वा॒यव॑ आरोहणवा॒हाव॑न॒ड्वाहौ॑ वारु॒णी कृ॒ष्णे व॒शे अ॑रा॒ड्यौ॑ दि॒व्यावृ॑ष॒भौ प॑रिम॒रौ ॥ 52 ॥
(सोमा॑य स्व॒राज्ञे॒ – चतु॑स्त्रिग्ंशत्) (अ. 21)
एका॑दश प्रा॒तर्ग॒व्याः प॒शव॒ आ ल॑भ्यन्ते छग॒लः क॒ल्माषः॑ किकिदी॒विर्वि॑दी॒गय॒स्ते त्वा॒ष्ट्रा-स्सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्त्याग्ने॒य ऐ᳚न्द्रा॒ग्न आ᳚श्वि॒नस्ते वि॑शालयू॒प आ ल॑भ्यन्ते ॥ 53 ॥
(ऐका॑दश प्रा॒तः – पञ्च॑विग्ंशतिः) (अ. 22)
पि॒शङ्गा॒स्त्रयो॑ वास॒न्ता-स्सा॒रङ्गा॒स्त्रयो॒ ग्रैष्माः॒ पृष॑न्त॒स्त्रयो॒ वार्षि॑काः॒ पृश्ञ॑य॒स्त्रयः॑ शार॒दाः पृ॑श्ञिस॒क्था-स्त्रयो॒ हैम॑न्तिका अवलि॒प्तास्त्रयः॑ शैशि॒रा-स्सं॑वँथ्स॒राय॒ निव॑क्षसः ॥ 54 ॥
(पि॒शङ्गा॑ – विग्ंश॒तिः) (अ. 23)
(रोहि॑तः कृ॒ष्णा धू॒म्रल॑लामाः॒ – पृश्ञिः॑ श्या॒मा अ॑रु॒णल॑लामाः -शितिबा॒हु-श्शि॒ल्पा-श्श्येनी᳚-श्श्या॒मल॑लामा – उन्न॒त-स्सि॒द्ध्मा धा॒त्रे पौ॒ष्णा-श्श्येत॑ललामाः – क॒र्णा ब॒भ्रुल॑लामाः – शु॒ण्ठा गौ॒रल॑लामा॒ – इन्द्रा॑य कृ॒ष्णाल॑लामा॒ – अदि॑त्यै॒ रोहि॑त ललामः -सौ॒म्या मा॒लङ्गा॑ – वारु॒णा-स्सू॒रा-श्श्येत॑ललामा॒ – दश॑ ।)
(हिर॑ण्यवर्णा – अ॒पा-ङ्ग्रहा᳚न् – भूतेष्ट॒काः – स॒जूः – सं॑वँथ्स॒रं – प्र॒जाप॑ति॒-स्स क्षु॒रप॑वि – र॒वग्नेर्वै दी॒क्षया॑ – सुव॒र्गाय॒ तं-यँन्न – सू॒यते᳚ – प्र॒जाप॑तिर्-ऋ॒तुभी॒ – रोहि॑तः॒ – पृञिः॑ – शितिबा॒हु – रु॑न्न॒तः – क॒र्णाः – शु॒ण्ठा – इन्द्रा॒या- दि॑त्यै – सौ॒म्या – वा॑रु॒णाः – सोमा॒यै – का॑दश – पि॒शङ्गा॒ – स्त्रयो॑विग्ंशतिः)
(हिर॑ण्यवर्णा – भूतेष्ट॒काः – छन्दो॒ यत् – कनी॑याग्ंसन्-त्रि॒वृद्ध्य॑ग्नि – र्वा॑रु॒णा – श्चतु॑ष्पञ्चा॒शत् )
(हिर॑ण्यवर्णा॒, निव॑क्षसः)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्पञ्चमकाण्डे षष्ठः प्रश्न-स्समाप्तः ॥