Print Friendly, PDF & Email

सरस्वती महाभद्रा महामाया वरप्रदा ।
श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रिका ॥ 1 ॥

शिवानुजा पुस्तकहस्ता ज्ञानमुद्रा रमा च वै ।
कामरूपा महाविद्या महापातकनाशिनी ॥ 2 ॥

महाश्रया मालिनी च महाभोगा महाभुजा ।
महाभागा महोत्साहा दिव्याङ्गा सुरवन्दिता ॥ 3 ॥

महाकाली महापाशा महाकारा महाङ्कुशा ।
सीता च विमला विश्वा विद्युन्माला च वैष्णवी ॥ 4 ॥

चन्द्रिका चन्द्रलेखाविभूषिता च महाफला ।
सावित्री सुरसादेवी दिव्यालङ्कारभूषिता ॥ 5 ॥

वाग्देवी वसुधा तीव्रा महाभद्रा च भोगदा ।
गोविन्दा भारती भामा गोमती जटिला तथा ॥ 6 ॥

विन्ध्यवासा चण्डिका च सुभद्रा सुरपूजिता ।
विनिद्रा वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना ॥ 7 ॥

सौदामिनी सुधामूर्ति स्सुवीणा च सुवासिनी ।
विद्यारूपा ब्रह्मजाया विशाला पद्मलोचना ॥ 8 ॥

शुम्भासुरप्रमथिनी दूम्रलोचनमर्दना ।
सर्वात्मिका त्रयीमूर्ति श्शुभदा शास्त्ररूपिणी ॥ 9 ॥

सर्वदेवस्तुता सौम्या सुरासुरनमस्कृता ।
रक्तबीजनिहन्त्री च चामुण्डा मुण्डकाम्बिका ॥ 10 ।

कालरात्रिः प्रहरणा कलाधारा निरञ्जना ।
वरारोहा च वाग्देवी वाराही वारिजासना ॥ 11 ॥

चित्राम्बरा चित्रगन्धा चित्रमाल्यविभूषिता ।
कान्ता कामप्रदा वन्द्या रूपसौभाग्यदायिनी ॥ 12 ॥

श्वेतासना रक्तमध्या द्विभुजा सुरपूजिता ।
निरञ्जना नीलजङ्घा चतुर्वर्गफलप्रदा ॥ 13 ॥

चतुराननसाम्राज्ञी ब्रह्मविष्णुशिवात्मिका ।
हंसानना महाविद्या मन्त्रविद्या सरस्वती ॥ 14 ॥

महासरस्वती तन्त्रविद्या ज्ञानैकतत्परा ।

इति श्री सरस्वत्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥