अथ द्वितीयोऽध्यायः ।
श्रीशुकः उवाच ।
गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीत् नारदः अभीक्ष्णं कृष्णौपासनलालसः ॥ 1॥
को नु राजन् इन्द्रियवान् मुकुन्दचरणाम्बुजम् ।
न भजेत् सर्वतः मृत्युः उपास्यं अमरौत्तमैः ॥ 2॥
तं एकदा देवर्षिं वसुदेवः गृह आगतम् ।
अर्चितं सुखं आसीनं अभिवाद्य इदं अब्रवीत् ॥ 3॥
वसुदेवः उवाच ।
भगवन् भवतः यात्रा स्वस्तये सर्वदेहिनाम् ।
कृपणानां यथा पित्रोः उत्तमश्लोकवर्त्मनाम् ॥ 4॥
भूतानां देवचरितं दुःखाय च सुखाय च ।
सुखाय एव हि साधूनां त्वादृशां अच्युत आत्मनाम् ॥ 5॥
भजन्ति ये यथा देवान् देवाः अपि तथा एव तान् ।
छाया इव कर्मसचिवाः साधवः दीनवत्सलाः ॥ 6॥
ब्रह्मन् तथा अपि पृच्छामः धर्मान् भागवतान् तव ।
यान् श्रुत्वा श्रद्धया मर्त्यः मुच्यते सर्वतः भयात् ॥ 7॥
अहं किल पुरा अनन्तं प्रजार्थः भुवि मुक्तिदम् ।
अपूजयं न मोक्षाय मोहितः देवमायया ॥ 8॥
यया विचित्रव्यसनात् भवद्भिः विश्वतः भयात् ।
मुच्येम हि अञ्जसा एव अद्धा तथा नः शाधि सुव्रत ॥ 9॥
श्रीशुकः उवाच ।
राजन् एवं कृतप्रश्नः वसुदेवेन धीमता ।
प्रीतः तं आह देवर्षिः हरेः संस्मारितः गुणैः ॥ 10॥
नारदः उवाच ।
सम्यक् एतत् व्यवसितं भवता सात्वतर्षभ ।
यत् पृच्छसे भागवतान् धर्मान् त्वं विश्वभावनान् ॥
11॥
श्रुतः अनुपठितः ध्यातः आदृतः वा अनुमोदितः ।
सद्यः पुनाति सद्धर्मः देवविश्वद्रुहः अपि ॥ 12॥
त्वया परमकल्याणः पुण्यश्रवणकीर्तनः ।
स्मारितः भगवान् अद्य देवः नारायणः मम ॥ 13॥
अत्र अपि उदाहरन्ति इमं इतिहासं पुरातनम् ।
आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ 14॥
प्रियव्रतः नाम सुतः मनोः स्वायम्भुवस्य यः ।
तस्य अग्नीध्रः ततः नाभिः ऋषभः तत् सुतः स्मृतः ॥ 15॥
तं आहुः वासुदेवांशं मोक्षधर्मविवक्षया ।
अवतीर्णं सुतशतं तस्य आसीत् वेदपारगम् ॥ 16॥
तेषां वै भरतः ज्येष्ठः नारायणपरायणः ।
विख्यातं वर्षं एतत् यत् नाम्ना भारतं अद्भुतम् ॥ 17॥
सः भुक्तभोगां त्यक्त्वा इमां निर्गतः तपसा हरिम् ।
उपासीनः तत् पदवीं लेभे वै जन्मभिः त्रिभिः ॥ 18॥
तेषां नव नवद्वीपपतयः अस्य समन्ततः ।
कर्मतन्त्रप्रणेतारः एकाशीतिः द्विजातयः ॥ 19॥
नव अभवन् महाभागाः मुनयः हि अर्थशंसिनः ।
श्रमणाः वातः अशनाः आत्मविद्याविशारदाः ॥ 20॥
कविः हरिः अन्तरिक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रः अथ द्रुमिलः चमसः करभाजनः ॥ 21॥
एते वै भगवद्रूपं विश्वं सदसद् आत्मकम् ।
आत्मनः अव्यतिरेकेण पश्यन्तः व्यचरत् महीम् ॥ 22॥
अव्याहत इष्टगतयाः सुरसिद्धसिद्धसाध्य
गन्धर्वयक्षनरकिन्नरनागलोकान् ।
मुक्ताः चरन्ति मुनिचारणभूतनाथ
विद्याधरद्विजगवां भुवनानि कामम् ॥ 23॥
तः एकदा निमेः सत्रं उपजग्मुः यत् ऋच्छया ।
वितायमानं ऋषिभिः अजनाभे महात्मनः ॥ 24॥
तान् दृष्ट्वा सूर्यसङ्काशान् महाभगवतान् नृपः ।
यजमानः अग्नयः विप्राः सर्वः एव उपतस्थिरे ॥ 25॥
विदेहः तान् अभिप्रेत्य नारायणपरायणान् ।
प्रीतः सम्पूजयान् चक्रे आसनस्थान् यथा अर्हतः ॥ 26॥
तान् रोचमानान् स्वरुचा ब्रह्मपुत्रौपमान् नव ।
पप्रच्छ परमप्रीतः प्रश्रय अवनतः नृपः ॥ 27॥
विदेहः उवाच ।
मन्ये भगवतः साक्षात् पार्षदान् वः मधुद्विषः ।
विष्णोः भूतानि लोकानां पावनाय चरन्ति हि ॥ 28॥
दुर्लभः मानुषः देहः देहिनां क्षणभङ्गुरः ।
तत्र अपि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥ 29॥
अतः आत्यन्तिकं कहेमं पृच्छामः भवतः अनघाः ।
संसारे अस्मिन् क्षणार्धः अपि सत्सङ्गः शेवधिः नृणाम् ॥
30॥
धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् ।
यैः प्रसन्नः प्रपन्नाय दास्यति आत्मानं अपि अजः ॥ 31॥
श्रीनारदः उवाच ।
एवं ते निमिना पृष्टा वसुदेव महत्तमाः ।
प्रतिपूज्य अब्रुवन् प्रीत्या ससदसि ऋत्विजं नृपम् ॥ 32॥
कविः उवाच ।
मन्ये अकुतश्चित् भयं अच्युतस्य
पादाम्बुजौपासनं अत्र नित्यम् ।
उद्विग्नबुद्धेः असत् आत्मभावात्
विश्वात्मना यत्र निवर्तते भीः ॥ 33॥
ये वै भगवता प्रोक्ताः उपायाः हि आत्मलब्धये ।
अञ्जः पुंसां अविदुषां विद्धि भागवतान् हि तान् ॥ 34॥
यान् आस्थाय नरः राजन् न प्रमाद्येत कर्हिचित् ।
धावन् निमील्य वा नेत्रे न स्खलेन पतेत् इह ॥ 35॥
कायेन वाचा मनसा इन्द्रियैः वा
बुद्ध्या आत्मना वा अनुसृतस्वभावात् ।
करोति यत् यत् सकलं परस्मै
नारायणाय इति समर्पयेत् तत् ॥ 36॥
भयं द्वितीयाभिनिवेशतः स्यात्
ईशात् अपेतस्य विपर्ययः अस्मृतिः ।
तत् मायया अतः बुधः आभजेत् तं
भक्त्या एक ईशं गुरुदेवतात्मा ॥ 37।
अविद्यमानः अपि अवभाति हि द्वयोः
ध्यातुः धिया स्वप्नमनोरथौ यथा ।
तत् कर्मसङ्कल्पविकल्पकं मनः
बुधः निरुन्ध्यात् अभयं ततः स्यात् ॥ 38॥
श्रुण्वन् सुभद्राणि रथाङ्गपाणेः
जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तत् अर्थकानि
गायन् विलज्जः विचरेत् असङ्गः ॥ 39॥
एवं व्रतः स्वप्रियनामकीर्त्या
जातानुरागः द्रुतचित्तः उच्चैः ।
हसति अथः रोदिति रौति गायति
उन्मादवत् नृत्यति लोकबाह्यः ॥ 40॥
खं वायुं अग्निं सलिलं महीं च
ज्योतींषि सत्त्वानि दिशः द्रुमादीन् ।
सरित् समुद्रान् च हरेः शरीरं
यत्किञ्च भूतं प्रणमेत् अनन्यः ॥ 41॥
भक्तिः परेश अनुभवः विरक्तिः
अन्यत्र एष त्रिकः एककालः ।
प्रपद्यमानस्य यथा अश्नतः स्युः
तुष्टिः पुष्टिः क्षुत् अपायः अनुघासम् ॥ 42॥
इति अच्युत अङ्घ्रिं भजतः अनुवृत्त्या
भक्तिः विरक्तिः भगवत् प्रबोधः ।
भवन्ति वै भागवतस्य राजन्
ततः परां शान्तिं उपैति साक्षात् ॥ 43॥
राजा उवाच ।
अथ भागवतं ब्रूत यत् धर्मः यादृशः नृणाम् ।
यथा चरति यत् ब्रूते यैः लिङ्गैः भगवत् प्रियः ॥ 44॥
हरिः उवाच ।
सर्वभूतेषु यः पश्येत् भगवत् भाव आत्मनः ।
भूतानि भागवति आत्मनि एष भागवतौत्तमः ॥ 45॥
ईश्वरे तत् अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेममैत्रीकृपाउपेक्षा यः करोति स मध्यमः ॥ 46॥
अर्चायां एव हरये पूजां यः श्रद्धया ईहते ।
न तत् भक्तेषु च अन्येषु सः भक्तः प्राकृतः स्मृतः ॥
47॥
गृहीत्वा अपि इन्द्रियैः अर्थान्यः न द्वेष्टि न हृष्यति ।
विष्णोः मायां इदं पश्यन् सः वै भागवत उत्तमः ॥ 48॥
देहैन्द्रियप्राणमनःधियां यः
जन्मापिअयक्षुत् भयतर्षकृच्छ्रैः ।
संसारधर्मैः अविमुह्यमानः
स्मृत्या हरेः भागवतप्रधानः ॥ 49॥
न कामकर्मबीजानां यस्य चेतसि सम्भवः ।
वासुदेवेकनिलयः सः वै भागवत उत्तमः ॥ 50॥
न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः ।
सज्जते अस्मिन् अहम्भावः देहे वै सः हरेः प्रियः ॥ 51॥
न यस्य स्वः परः इति वित्तेषु आत्मनि वा भिदा ।
सर्वभूतसमः शान्तः सः वौ भागवत उत्तमः ॥ 52॥
त्रिभुवनविभवहेतवे अपि अकुण्ठस्मृतिः
अजितात्मसुरादिभिः विमृग्यात् ।
न चलति भगवत् पद अरविन्दात्
लवनिमिष अर्धं अपि यः सः वैष्णव अग्र्यः ॥ 53॥
भगवतः उरुविक्रम अङ्घ्रिशाखा
नखमणिचन्द्रिकया निरस्ततापे ।
हृदि कथं उपसीदतां पुनः सः
प्रभवति चन्द्रः इव उदिते अर्कतापः ॥ 54॥
विसृजति हृदयं न यस्य साक्षात्
हरिः अवश अभिहितः अपि अघौघनाशः ।
प्रणयः अशनया धृत अङ्घ्रिपद्मः
सः भवति भागवतप्रधानः उक्तः ॥ 55॥
इति श्रीमत् भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे निमिजायन्तसंवादे द्वितीयः
अध्यायः ॥