द्विरदवदन विषमरद वरद जयेशान शान्तवरसदन ।
सदनवसादन दयया कुरु सादनमन्तरायस्य ॥ 1 ॥

इन्दुकला कलितालिक सालिकशुम्भत्कपोलपालियुग ।
विकटस्फुटकटधाराधारोऽस्यस्य प्रपञ्चस्य ॥ 2 ॥

वरपरशुपाशपाणे पणितपणायापणायितोऽसि यतः ।
आरूह्य वज्रदन्तं आखुं विदधासि विपदन्तम् ॥ 3 ॥

लम्बोदर दूर्वासन शयधृतसामोदमोदकाशनक ।
शनकैरवलोकय मां यमान्तरायापहारिचारुदृशा ॥ 4 ॥

आनन्दतुन्दिलाखिलवृन्दारकवृन्दवन्दिताङ्घ्रियुग ।
सुखधृतदण्डरसालो नागजभालोऽतिभासि विभो ॥ 5 ॥

अगणेयगुणेशात्मज चिन्तकचिन्तामणे गणेशान ।
स्वचरणशरणं करुणावरुणालय देव पाहि मां दीनम् ॥ 6 ॥

रुचिरवचोऽमृतरावोन्नीता नीता दिवं स्तुतिः स्फीता ।
इति षट्पदी मदीया गणपतिपादाम्बुजे विशतु ॥ 7 ॥

इति चिन्तामणिषट्पदी ॥