ओम् ॥ जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेदः॑ ।
स नः॑ पर्-ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धु॑-न्दुरि॒ता-ऽत्य॒ग्निः ॥

ताम॒ग्निव॑र्णा॒-न्तप॑सा ज्वल॒न्तीं-वैँ॑रोच॒नी-ङ्क॑र्मफ॒लेषु॒ जुष्टा᳚म् ।
दु॒र्गा-न्दे॒वीग्ं शर॑णम॒ह-म्प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः॑ ॥

अग्ने॒ त्व-म्पा॑रया॒ नव्यो॑ अ॒स्मान्​थ्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ ।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं​योँः ॥

विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒-स्सिन्धु॒न्न ना॒वा दु॑रि॒ता-ऽति॑पर्-षि ।
अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नो᳚-ऽस्माक॑-म्बोध्यवि॒ता त॒नूना᳚म् ॥

पृ॒त॒ना॒ जित॒ग्ं॒ सह॑मानमु॒ग्रम॒ग्निग्ं हु॑वेम पर॒माथ्स॒धस्था᳚त् ।
स नः॑ पर्-ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो अति॑ दुरि॒ता-ऽत्य॒ग्निः ॥

प्र॒त्नोषि॑ क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ ।
स्वाञ्चा᳚-ऽग्ने त॒नुव॑-म्पि॒प्रय॑स्वा॒स्मभ्य॑-ञ्च॒ सौभ॑ग॒माय॑जस्व ॥

गोभि॒र्जुष्ट॑मयुजो॒ निषि॑क्त॒-न्तवे᳚न्द्र विष्णो॒रनु॒सञ्च॑रेम ।
नाक॑स्य पृ॒ष्ठम॒भि सं॒​वँसा॑नो॒ वैष्ण॑वीं-लोँ॒क इ॒ह मा॑दयन्ताम् ॥

ओ-ङ्का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि । तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥

ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥