अथ वारिणि घोरतरं फणिनं
प्रतिवारयितुं कृतधीर्भगवन् ।
द्रुतमारिथ तीरगनीपतरुं
विषमारुतशोषितपर्णचयम् ॥1॥

अधिरुह्य पदाम्बुरुहेण च तं
नवपल्लवतुल्यमनोज्ञरुचा ।
ह्रदवारिणि दूरतरं न्यपतः
परिघूर्णितघोरतरङ्ग्गणे ॥2॥

भुवनत्रयभारभृतो भवतो
गुरुभारविकम्पिविजृम्भिजला ।
परिमज्जयति स्म धनुश्शतकं
तटिनी झटिति स्फुटघोषवती ॥3॥

अथ दिक्षु विदिक्षु परिक्षुभित-
भ्रमितोदरवारिनिनादभरैः ।
उदकादुदगादुरगाधिपति-
स्त्वदुपान्तमशान्तरुषाऽन्धमनाः ॥4॥

फणशृङ्गसहस्रविनिस्सृमर-
ज्वलदग्निकणोग्रविषाम्बुधरम् ।
पुरतः फणिनं समलोकयथा
बहुशृङ्गिणमञ्जनशैलमिव ॥5॥

ज्वलदक्षि परिक्षरदुग्रविष-
श्वसनोष्मभरः स महाभुजगः ।
परिदश्य भवन्तमनन्तबलं
समवेष्टयदस्फुटचेष्टमहो ॥6॥

अविलोक्य भवन्तमथाकुलिते
तटगामिनि बालकधेनुगणे ।
व्रजगेहतलेऽप्यनिमित्तशतं
समुदीक्ष्य गता यमुनां पशुपाः ॥7॥

अखिलेषु विभो भवदीय दशा-
मवलोक्य जिहासुषु जीवभरम् ।
फणिबन्धनमाशु विमुच्य जवा-
दुदगम्यत हासजुषा भवता ॥8॥

अधिरुह्य ततः फणिराजफणान्
ननृते भवता मृदुपादरुचा ।
कलशिञ्जितनूपुरमञ्जुमिल-
त्करकङ्कणसङ्कुलसङ्क्वणितम् ॥9॥

जहृषुः पशुपास्तुतुषुर्मुनयो
ववृषुः कुसुमानि सुरेन्द्रगणाः ।
त्वयि नृत्यति मारुतगेहपते
परिपाहि स मां त्वमदान्तगदात् ॥10॥