Print Friendly, PDF & Email

प्रह्लादनारदपराशरपुण्डरीक-
व्यासाम्बरीषशुकशौनकभीष्मकाव्याः ।
रुक्माङ्गदार्जुनवसिष्ठविभीषणाद्या
एतानहं परमभागवतान् नमामि ॥ 1॥

लोमहर्षण उवाच ।
धर्मो विवर्धति युधिष्ठिरकीर्तनेन
पापं प्रणश्यति वृकोदरकीर्तनेन ।
शत्रुर्विनश्यति धनञ्जयकीर्तनेन
माद्रीसुतौ कथयतां न भवन्ति रोगाः ॥ 2॥

ब्रह्मोवाच ।
ये मानवा विगतरागपराऽपरज्ञा
नारायणं सुरगुरुं सततं स्मरन्ति ।
ध्यानेन तेन हतकिल्बिष चेतनास्ते
मातुः पयोधररसं न पुनः पिबन्ति ॥ 3॥

इन्द्र उवाच ।
नारायणो नाम नरो नराणां
प्रसिद्धचौरः कथितः पृथिव्याम् ।
अनेकजन्मार्जितपापसञ्चयं
हरत्यशेषं स्मृतमात्र एव यः ॥ 4॥

युधिष्ठिर उवाच ।
मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् ॥ 5॥

भीम उवाच ।
जलौघमग्ना सचराऽचरा धरा
विषाणकोट्याऽखिलविश्वमूर्तिना ।
समुद्धृता येन वराहरूपिणा
स मे स्वयम्भूर्भगवान् प्रसीदरु ॥ 6॥

अर्जुन उवाच ।
अचिन्त्यमव्यक्तमनन्तमव्ययं
विभुं प्रभुं भावितविश्वभावनम् ।
त्रैलोक्यविस्तारविचारकारकं
हरिं प्रपन्नोऽस्मि गतिं महात्मनाम् ॥ 7॥

नकुल उवाच ।
यदि गमनमधस्तात् कालपाशानुबन्धाद्
यदि च कुलविहीने जायते पक्षिकीटे ।
कृमिशतमपि गत्वा ध्यायते चान्तरात्मा
मम भवतु हृदिस्था केशवे भक्तिरेका ॥ 8॥

सहदेव उवाच ।
तस्य यज्ञवराहस्य विष्णोरतुलतेजसः ।
प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः ॥ 9॥

कुन्ती उवाच ।
स्वकर्मफलनिर्दिष्टां यां यां योनिं व्रजाम्यहम् ।
तस्यां तस्यां हृषीकेश त्वयि भक्तिर्दृढाऽस्तु मे ॥ 10॥

माद्री उवाच ।
कृष्णे रताः कृष्णमनुस्मरन्ति
रात्रौ च कृष्णं पुनरुत्थिता ये ।
ते भिन्नदेहाः प्रविशन्ति कृष्णे
हविर्यथा मन्त्रहुतं हुताशे ॥ 11॥

द्रौपदी उवाच ।
कीटेषु पक्षिषु मृगेषु सरीसृपेषु
रक्षःपिशाचमनुजेष्वपि यत्र यत्र ।
जातस्य मे भवतु केशव त्वत्प्रसादात्
त्वय्येव भक्तिरचलाऽव्यभिचारिणी च ॥ 12॥

सुभद्रा उवाच ।
एकोऽपि कृष्णस्य कृतः प्रणामो
दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म
कृष्णप्रणामी न पुनर्भवाय ॥ 13॥

अभिमन्युरुवाच ।
गोविन्द गोविन्द हरे मुरारे
गोविन्द गोविन्द मुकुन्द कृष्ण
गोविन्द गोविन्द रथाङ्गपाणे ।
गोविन्द गोविन्द नमामि नित्यम् ॥ 14॥

धृष्टद्युम्न उवाच ।
श्रीराम नारायण वासुदेव
गोविन्द वैकुण्ठ मुकुन्द कृष्ण ।
श्रीकेशवानन्त नृसिंह विष्णो
मां त्राहि संसारभुजङ्गदष्टम् ॥ 15॥

सात्यकिरुवाच ।
अप्रमेय हरे विष्णो कृष्ण दामोदराऽच्युत ।
गोविन्दानन्त सर्वेश वासुदेव नमोऽस्तु ते ॥ 16॥

उद्धव उवाच ।
वासुदेवं परित्यज्य योऽन्यं देवमुपासते ।
तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः ॥ 17॥

धौम्य उवाच ।
अपां समीपे शयनासनस्थिते
दिवा च रात्रौ च यथाधिगच्छता ।
यद्यस्ति किञ्चित् सुकृतं कृतं मया
जनार्दनस्तेन कृतेन तुष्यतु ॥ 18॥

सञ्जय उवाच ।
आर्ता विषण्णाः शिथिलाश्च भीता
घोरेषु व्याघ्रादिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं
विमुक्तदुःखाः सुखिनो भवन्ति ॥ 19॥

अक्रूर उवाच ।
अहं तु नारायणदासदास-
दासस्य दासस्य च दासदासः ।
अन्यो न हीशो जगतो नराणां
तस्मादहं धन्यतरोऽस्मि लोके ॥ 20॥

विराट उवाच ।
वासुदेवस्य ये भक्ताः शान्तास्तद्गतचेतसः ।
तेषां दासस्य दासोऽहं भवेयं जन्मजन्मनि ॥ 21॥

भीष्म उवाच ।
विपरीतेषु कालेषु परिक्षीणेषु बन्धुषु ।
त्राहि मां कृपया कृष्ण शरणागतवत्सल ॥ 22॥

द्रोण उवाच ।
ये ये हताश्चक्रधरेण दैत्यां-
स्त्रैलोक्यनाथेन जनार्दनेन ।
ते ते गता विष्णुपुरीं प्रयाताः
क्रोधोऽपि देवस्य वरेण तुल्यः ॥ 23॥

कृपाचार्य उवाच ।
मज्जन्मनः फलमिदं मधुकैटभारे
मत्प्रार्थनीय मदनुग्रह एष एव ।
त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य-
भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ 24॥

अश्वत्थाम उवाच ।
गोविन्द केशव जनार्दन वासुदेव
विश्वेश विश्व मधुसूदन विश्वरूप ।
श्रीपद्मनाभ पुरुषोत्तम देहि दास्यं
नारायणाच्युत नृसिंह नमो नमस्ते ॥ 25॥

कर्ण उवाच ।
नान्यं वदामि न श‍ऋणोमि न चिन्तयामि
नान्यं स्मरामि न भजामि न चाश्रयामि ।
भक्त्या त्वदीयचरणाम्बुजमादरेण
श्रीश्रीनिवास पुरुषोत्तम देहि दास्यम् ॥ 26॥

धृतराष्ट्र उवाच ।
नमो नमः कारणवामनाय
नारायणायामितविक्रमाय ।
श्रीशार्ङ्गचक्रासिगदाधराय
नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ 27॥

गान्धारी उवाच ।
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ॥ 28॥

द्रुपद उवाच ।
यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥ 29॥

जयद्रथ उवाच ।
नमः कृष्णाय देवाय ब्रह्मणेऽनन्तशक्तये ।
योगेश्वराय योगाय त्वामहं शरणं गतः ॥ 30॥

विकर्ण उवाच ।
कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ 31॥

विराट उवाच ।
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ 32॥

शल्य उवाच ।
अतसीपुष्पसङ्काशं पीतवाससमच्युतम् ।
ये नमस्यन्ति गोविन्दं तेषां न विद्यते भयम् ॥ 33॥

बलभद्र उवाच ।
कृष्ण कृष्ण कृपालो त्वमगतीनां गतिर्भव ।
संसारार्णवमग्नानां प्रसीद पुरुषोत्तम ॥ 34॥

श्रीकृष्ण उवाच ।
कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः ।
जलं भित्वा यथा पद्मं नरकादुद्धराम्यहम् ॥ 35॥

श्रीकृष्ण उवाच ।
नित्यं वदामि मनुजाः स्वयमूर्ध्वबाहु-
र्यो मां मुकुन्द नरसिंह जनार्दनेति ।
जीवो जपत्यनुदिनं मरणे रणे वा
पाषाणकाष्ठसदृशाय ददाम्यभीष्टम् ॥ 36॥

ईश्वर उवाच ।
सकृन्नारायणेत्युक्त्वा पुमान् कल्पशतत्रयम् ।
गङ्गादिसर्वतीर्थेषु स्नातो भवति पुत्रक ॥ 37॥

सूत उवाच ।
तत्रैव गङ्गा यमुना च तत्र
गोदावरी सिन्धु सरस्वती च ।
सर्वाणि तीर्थानि वसन्ति तत्र
यत्राच्युतोदार कथाप्रसङ्गः ॥ 38॥

यम उवाच ।
नरके पच्यमानं तु यमेनं परिभाषितम् ।
किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ 35॥

नारद उवाच ।
जन्मान्तरसहस्रेण तपोध्यानसमाधिना ।
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥ 40॥

प्रह्लाद उवाच ।
नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् ।
तेषु तेष्वचला भक्तिरच्युताऽस्तु सदा त्वयि ॥ 41॥

या प्रीतिरविवेकनां विषयेष्वनपायिनि ।
त्वामनुस्मरतः सा मे हृदयान्माऽपसर्पतु ॥ 42॥

विश्वामित्र उवाच ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ।
यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥ 43॥

जमदग्निरुवाच ।
नित्योत्सवो भवेत्तेषां नित्यं नित्यं च मङ्गलम् ।
येषां हृदिस्थो भगवान्मङ्गलायतनं हरिः ॥ 44॥

भरद्वाज उवाच ।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीश्वरश्यामो हृदयस्थो जनार्दनः ॥ 45॥

गौतम उवाच ।
गोकोटिदानं ग्रहणेषु काशी-
प्रयागगङ्गायुतकल्पवासः ।
यज्ञायुतं मेरुसुवर्णदानं
गोविन्दनामस्मरणेन तुल्यम् ॥ 46॥

अग्निरुवाच ।
गोविन्देति सदा स्नानं गोविन्देति सदा जपः ।
गोविन्देति सदा ध्यानं सदा गोविन्दकीर्तनम् ॥ 47॥

त्र्यक्षरं परमं ब्रह्म गोविन्द त्र्यक्षरं परम् ।
तस्मादुच्चारितं येन ब्रह्मभूयाय कल्पते ॥ 48॥

वेदव्यास उवाच ।
अच्युतः कल्पवृक्षोऽसावनन्तः कामधेनु वै ।
चिन्तामणिस्तु गोविन्दो हरेर्नाम विचिन्तयेत् ॥ 49॥

इन्द्र उवाच ।
जयतु जयतु देवो देवकीनन्दनोऽयं
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गो
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ 50॥

पिप्पलायन उवाच ।
श्रीमन्नृसिंहविभवे गरुडध्वजाय
तापत्रयोपशमनाय भवौषधाय ।
कृष्णाय वृश्चिकजलाग्निभुजङ्गरोग-
क्लेशव्ययाय हरये गुरवे नमस्ते ॥ 51॥

आविर्होत्र उवाच ।
कृष्ण त्वदीयपदपङ्कजपञ्जरान्ते
अद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः
कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ 52॥

विदुर उवाच ।
हरेर्नामैव नामैव नामैव मम जीवनम् ।
कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ 53॥

वसिष्ठ उवाच ।
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते ।
भस्मीभवन्ति तस्याशु महापातककोटयः ॥ 54॥

अरुन्धत्युवाच ।
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ 55॥

कश्यप उवाच ।
कृष्णानुस्मरणादेव पापसङ्घट्टपञ्जरम् ।
शतधा भेदमाप्नोति गिरिर्वज्रहतो यथा ॥ 56॥

दुर्योधन उवाच ।
जानामि धर्मं न च मे प्रवृत्ति-
र्जानामि पापं न च मे निवृत्तिः ।
केनापि देवेन हृदि स्थितेन
यथा नियुक्तोऽस्मि तथा करोमि ॥ 57॥

यन्त्रस्य मम दोषेण क्षम्यतां मधुसूदन ।
अहं यन्त्रं भवान् यन्त्री मम दोषो न दीयताम् ॥ 58॥

भृगुरुवाच ।
नामैव तव गोविन्द नाम त्वत्तः शताधिकम् ।
ददात्त्युच्चारणान्मुक्तिः भवानष्टाङ्गयोगतः ॥ 59॥

लोमश उवाच ।
नमामि नारायण पादपङ्कजं
करोमि नारायणपूजनं सदा ।
वदामि नारायणनाम निर्मलं
स्मरामि नारायणतत्त्वमव्ययम् ॥ 60॥

शौनक उवाच ।
स्मृतेः सकलकल्याणं भजनं यस्य जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ 61॥

गर्ग उवाच ।
नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनी ।
तथापि नरके घोरे पतन्तीत्यद्भुतं महत् ॥ 62॥

दाल्भ्य उवाच ।
किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधाके ॥ 63॥

वैशम्पायन उवाच ।
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ 64॥

अग्निरुवाच ।
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥ 65॥

परमेश्वर उवाच ।
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ।
लब्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ 66॥

पुलस्त्य उवाच ।
हे जिह्वे रससारज्ञे सर्वदा मधुरप्रिये ।
नारायणाख्यपीयूषं पिब जिह्वे निरन्तरम् ॥ 67॥

व्यास उवाच ।
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं वदाम्यहम् ।
नास्ति वेदात्परं शास्त्रं न देवः केशवात्परः ॥ 68॥

धन्वन्तरिरुवाच ।
अच्युतानन्त गोविन्द नामोच्चारणभेषजात् ।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ 69॥

मार्कण्डेय उवाच ।
स्वर्गदं मोक्षदं देवं सुखदं जगतो गुरुम् ।
कथं मुहुर्तमपि तं वासुदेवं न चिन्तयेत् ॥ 70॥

अगस्त्य उवाच ।
निमिषं निमिषार्धं वा प्राणिनां विष्णुचिन्तनम् ।
तत्र तत्र कुरुक्षेत्रं प्रयागो नैमिषं वरम् ॥ 71॥

वामदेव उवाच ।
निमिषं निमिषार्धं वा प्राणिनां विष्णुचिन्तनम् ।
कल्पकोटिसहस्राणि लभते वाञ्छितं फलम् ॥ 72॥

शुक उवाच ।
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ 73॥

श्रीमहादेव उवाच ।
शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे ।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥ 74॥

शौनक उवाच ।
भोजनाच्छादने चिन्तां वृथा कुर्वन्ति वैष्णवाः ।
योऽसौ विश्वम्भरो देवः स किं भक्तानुपेक्षते ॥ 75॥

सनत्कुमार उवाच ।
यस्य हस्ते गदा चक्रं गरुडो यस्य वाहनम् ।
शङ्खचक्रगदापद्मी स मे विष्णुः प्रसीदतु ॥ 76॥

एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।
कीर्तयन्ति सुरश्रेष्ठमेवं नारायणं विभुम् ॥ 77॥

इदं पवित्रमायुष्यं पुण्यं पापप्रणाशनम् ।
दुःस्वप्ननाशनं स्तोत्रं पाण्डवैः परिकीर्तितम् ॥ 78॥

यः पठेत्प्रातरुत्थाय शुचिस्तद्गतमानसः ।
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ 79॥

तत्फलं समवाप्नोति यः पठेदिति संस्तवम् ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ 80॥

गङ्गा गीता च गायत्री गोविन्दो गरुडध्वजः ।
गकारैः पञ्चभिर्युक्तः पुनर्जन्म न विद्यते ॥ 81॥

गीतां यः पठते नित्यं श्लोकार्धं श्लोकमेव वा ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ 82॥

इति पाण्डवगीता अथवा प्रपन्नगीता समाप्ता ।

ॐ तत्सत् ।