निरुपमनित्यनिरंशकेऽप्यखण्डे –
मयि चिति सर्वविकल्पनादिशून्ये ।
घटयति जगदीशजीवभेदं –
त्वघटितघटनापटीयसी माया ॥ 1 ॥
श्रुतिशतनिगमान्तशोधकान-
प्यहह धनादिनिदर्शनेन सद्यः ।
कलुषयति चतुष्पदाद्यभिन्ना-
नघटितघटनापटीयसी माया ॥ 2 ॥
सुखचिदखण्डविबोधमद्वितीयं –
वियदनलादिविनिर्मिते नियोज्य ।
भ्रमयति भवसागरे नितान्तं –
त्वघटितघटनापटीयसी माया ॥ 3 ॥
अपगतगुणवर्णजातिभेदे –
सुखचिति विप्रविडाद्यहङ्कृतिं च ।
स्फुटयति सुतदारगेहमोहं –
त्वघटितघटनापटीयसी माया ॥ 4 ॥
विधिहरिहरविभेदमप्यखण्डे –
बत विरचय्य बुधानपि प्रकामम् ।
भ्रमयति हरिहरभेदभावा-
नघटितघटनापटीयसी माया ॥ 5 ॥