व्यूहलक्ष्मी तन्त्रः
दयालोल तरङ्गाक्षी पूर्णचन्द्र निभानना ।
जननी सर्वलोकानां महालक्ष्मीः हरिप्रिया ॥ 1 ॥

सर्वपाप हरासैव प्रारब्धस्यापि कर्मणः ।
संहृतौ तु क्षमासैव सर्व सम्पत्प्रदायिनी ॥ 2 ॥

तस्या व्यूह प्रभेदास्तु लक्षीः सर्वपाप प्रणाशिनी ।
तत्रया व्यूहलक्ष्मी सा मुग्धाः कारुण्य विग्रह ॥ 3 ॥

अनायासेन सा लक्ष्मीः सर्वपाप प्रणाशिनी ।
सर्वैश्वर्य प्रदा नित्यं तस्या मन्त्रमिमं शृणु ॥ 4 ॥

वेदादिमायै मात्रे च लक्ष्म्यै नति पदं वदेत् ।
परमेति पदं चोक्त्रा लक्ष्म्या इति पदं ततः ॥ 5 ॥

विष्णु वक्षः स्थितायै स्यात् माया श्रीतारिका ततः ।
वह्नि जायान्त मन्त्रोयं अभीष्टार्थ सुरद्रुमः ॥ 6 ॥

द्विभूजा व्यूहलक्षीस्स्यात्, बध्ध पद्मासन प्रिया ।
श्रीनिवासाङ्ग मध्यस्था सुतरां केशवप्रिया ॥ 7 ॥

तामेव शरणं गछ्छ सर्वभावेन सत्वरम् ।
इति मन्त्रं उपादिश्य ददृशे न कुत्रचित् ॥

व्यूहलक्ष्मी मन्त्रः
वेदादिमायै मात्रे च लक्ष्म्यै नति पदं वदेत् ।
परमेति पदं चोक्त्रा लक्ष्म्या इति पदं ततः ॥

विष्णु वक्षः स्थितायै स्यात् माया श्रीतारिका ततः ।
वह्नि जायान्त मन्त्रोयं अभीष्टार्थ सुरद्रुमः ॥

व्यूहलक्ष्मी मन्त्रः (बीजाक्षर सहितम्)
ॐ श्री ॐ नमः ॥
परमलक्ष्म्मै, विष्णु-वक्षस्थितायै, रमायै, आश्रित-तारकायै नमो, वह्निजायै नमः ॥