श्री गणेशाय नमः ॥
श्रीसुदर्शन परब्रह्मणे नमः ॥
अथ श्रीसुदर्शन सहस्रनाम स्तोत्रम् ॥
कैलासशिखरे रम्ये मुक्तामाणिक्य मण्डपे ।
रक्तसिंहासनासीनं प्रमथैः परिवारितम् ॥ 1॥
बद्धाञ्जलिपुटा भूत्वा पप्रच्छ विनयान्विता ।
भर्तारं सर्वधर्मज्ञं पार्वती परमेश्वरम् ॥ 2॥
पार्वती —
यत् त्वयोक्तं जगन्नाथ सुभ्रुशं क्षेममिच्छताम् ।
सौदर्शनं रुते शास्त्रं नास्तिचान्यदिति प्रभो ॥ 3॥
तत्र काचित् विवक्षास्थि तमर्थं प्रति मे प्रभो ।
एवमुक्तस्त्वहिर्बुद्ध्न्यः पार्वतीं प्रत्युवाच ताम् ॥ 4॥
अहिर्बुद्ध्न्य —
संशयो यदि ते तत्र तं ब्रूहि त्वं वरानने ।
इत्येवमुक्ता गिरिजा गिरिशेन महात्मना ॥ 5॥
पुनः प्रोवाच सर्वज्ञं ज्ञानमुद्राधरं पतिम् ॥
पार्वत्युवाच —
लोके सौदर्शनं मन्त्रं यन्त्रन्तत्तत् प्रयोगवत् ॥ 6॥
सर्वं विज्ञातुमभ्यत्र यथावत् समनुष्ठितुम् ।
अतिवेलमशक्तानां तं मार्गं भृशमीछ्ताम् ॥ 7॥
को मार्गः का कथिस्तेषां कार्यसिद्धिः कथं भवेत् ।
एतन्मे ब्रूहि लोकेश त्वदन्यः को वदेतमुम् ॥ 8॥
ईश्वर उवाच —
अहं ते कथयिश्यामि सर्व सिद्धिकरं शुभम् ।
अनायासेन यज्जप्त्वा नरस्सिद्धिमवाप्नुयात् ॥ 9॥
तश्च सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् ।
नियमात् पठतां नॄणां चिन्तितार्थ प्रदायकम् ॥ 10॥
तस्य नामसहस्रस्य सोऽहमेव ऋषिः स्मृतः ।
छन्दोनुष्टुप् देवता तु परमात्मा सुदर्शनः ॥ 11॥
श्रीं बीजं ह्रीं तु शक्तिस्सा क्लीं कीलकमुदाहृतम् ।
समस्ताभीष्ट सिध्यर्थे विनियोग उदाहृतः ॥ 12॥
शङ्खं चक्रं च चापादि ध्यानमस्य समीरितम् ॥
ध्यानं —
शङ्खं चक्रं च चापं परशुमसिमिशुं शूल पाशाङ्कुशाब्जम्
बिभ्राणं वज्रखेटौ हल मुसल गदा कुन्दमत्युग्र दंष्ट्रम् ।
ज्वाला केशं त्रिनेत्रं ज्वल दलननिभं हार केयूर भूषम्
ध्यायेत् षट्कोण संस्थं सकल रिपुजन प्राण संहारि चक्रम् ॥
॥ हरिः ओम् ॥
श्रीचक्रः श्रीकरः श्रीशः श्रीविष्णुः श्रीविभावनः ।
श्रीमदान्त्य हरः श्रीमान् श्रीवत्सकृत लक्षणः ॥ 1॥
श्रीनिधिः श्रीवरः स्रग्वी श्रीलक्ष्मी करपूजितः ।
श्रीरतः श्रीविभुः सिन्धुकन्यापतिः अधोक्षजः ॥ 2॥
अच्युतश्चाम्बुजग्रीवः सहस्रारः सनातनः ।
समर्चितो वेदमूर्तिः समतीत सुराग्रजः ॥ 3॥
षट्कोण मध्यगो वीरः सर्वगोऽष्टभुजः प्रभुः ।
चण्डवेगो भीमरवः शिपिविष्टार्चितो हरिः ॥ 4॥
शाश्वतः सकलः श्यामः श्यामलः शकटार्थनः ।
दैत्यारिः शारदस्कन्धः सकटाक्षः शिरीषगः ॥ 5॥
शरपारिर्भक्तवश्यः शशाङ्को वामनोव्ययः ।
वरूथीवारिजः कञ्जलोचनो वसुधादिपः ॥ 6॥
वरेण्यो वाहनोऽनन्तः चक्रपाणिर्गदाग्रजः ।
गभीरो गोलकाधीशो गदापणिस्सुलोचनः ॥ 7॥
सहस्राक्षः चतुर्बाहुः शङ्खचक्र गदाधरः ।
भीषणो भीतिदो भद्रो भीमाभीष्ट फलप्रदः ॥ 8॥
भीमार्चितो भीमसेनो भानुवंश प्रकाशकः ।
प्रह्लादवरदः बाललोचनो लोकपूजितः ॥ 9॥
उत्तरामानदो मानी मानवाभीष्ट सिद्धिदः ।
भक्तपालः पापहारी बलदो दहनध्वजः ॥ 10॥
करीशः कनको दाता कामपाल पुरातनः ।
अक्रूरः क्रूरजनकः क्रूरदंष्ट्रः कुलादिपः ॥ 11॥
क्रूरकर्मा क्रूररूपि क्रूरहारी कुशेशयः ।
मन्दरो मानिनीकान्तो मधुहा माधवप्रियः ॥ 12॥
सुप्रतप्त स्वर्णरूपी बाणासुर भुजान्तकृत् ।
धराधरो दानवारिर्दनुजेन्द्रारि पूजितः ॥ 13॥
भाग्यप्रदो महासत्त्वो विश्वात्मा विगतज्वरः ।
सुराचार्यार्चितो वश्यो वासुदेवो वसुप्रदः ॥ 14॥
प्रणतार्तिहरः श्रेष्टः शरण्यः पापनाशनः ।
पावको वारणाद्रीशो वैकुण्ठो विगतकल्मषः ॥ 15॥
वज्रदंष्ट्रो वज्रनखो वायुरूपी निराश्रयः ।
निरीहो निस्पृहो नित्यो नीतिज्ञो नीतिपावनः ॥ 16॥
नीरूपो नारदनुतो नकुलाचल वासकृत् ।
नित्यानन्दो बृहद्भानुः बृहदीशः पुरातनः ॥ 17॥
निधिनामधिपोऽनन्दो नरकार्णव तारकः ।
अगाधोऽविरलो मर्त्यो ज्वालाकेशः ककार्च्चितः ॥ 18॥
तरुणस्तनुकृत् भक्तः परमः चित्तसम्भवः ।
चिन्त्यस्सत्वनिधिः साग्रस्चिदानन्दः शिवप्रियः ॥ 19॥
शिन्शुमारश्शतमखः शातकुम्भ निभप्रभः ।
भोक्तारुणेशो बलवान् बालग्रह निवारकः ॥ 20॥
सर्वारिष्ट प्रशमनो महाभय निवारकः ।
बन्धुः सुबन्धुः सुप्रीतस्सन्तुष्टस्सुरसन्नुतः ॥ 21॥
बीजकेश्यो बको भानुः अमितार्चिर्पाम्पतिः ।
सुयज्ञो ज्योतिषश्शान्तो विरूपाक्षः सुरेश्वरः ॥ 22॥
वह्निप्राकार संवीतो रक्तगर्भः प्रभाकरः ।
सुशीलः सुभगः स्वक्षः सुमुखः सुखदः सुखी ॥ 23॥
महासुरः शिरच्छेता पाकशासन वन्दितः ।
शतमूर्ति सहस्रारो हिरण्य ज्योतिरव्ययः ॥ 24॥
मण्डली मण्डलाकारः चन्द्रसूर्याग्नि लोचनः ।
प्रभञ्जनः तीक्ष्णधारः प्रशान्तः शारदप्रियः ॥ 25॥
भक्तप्रियो बलिहरो लावण्योलक्षणप्रियः ।
विमलो दुर्लभस्सोम्यस्सुलभो भीमविक्रमः ॥ 26॥
जितमन्युः जितारातिः महाक्षो भृगुपूजितः ।
तत्त्वरूपः तत्त्ववेदिः सर्वतत्व प्रतिष्ठितः ॥27॥
भावज्ञो बन्धुजनको दीनबन्धुः पुराणवित् ।
शस्त्रेशो निर्मतो नेता नरो नानासुरप्रियः ॥ 28॥
नाभिचक्रो नतामित्रो नधीश करपूजितः ।
दमनः कालिकः कर्मी कान्तः कालार्थनः कविः ॥ 29॥
वसुन्धरो वायुवेगो वराहो वरुणालयः ।
कमनीयकृतिः कालः कमलासन सेवितः ।
कृपालुः कपिलः कामी कामितार्थ प्रदायकः ॥ 30॥
धर्मसेतुर्धर्मपालो धर्मी धर्ममयः परः ।
ज्वालाजिम्हः शिखामौलीः सुरकार्य प्रवर्तकः ॥ 31॥
कलाधरः सुरारिघ्नः कोपहा कालरूपदृक् ।
दाताऽऽनन्दमयो दिव्यो ब्रह्मरूपी प्रकाशकृत् ॥ 32 ।
सर्वयज्ञमयो यज्ञो यज्ञभुक् यज्ञभावनः ।
वह्निध्वजो वह्निसखो वञ्जुलद्रुम मूलकः ॥ 33॥
दक्षहा दानकारी च नरो नारायणप्रियः ।
दैत्यदण्डधरो दान्तः शुभ्राङ्गः शुभदायकः ॥ 34॥
लोहिताक्षो महारौद्रौ मायारूपधरः खगः ।
उन्नतो भानुजः साङ्गो महाचक्रः पराक्रमी ॥ 35॥
अग्नीशोऽग्निमयः द्वग्निलोचनोग्नि समप्रभः ।
अग्निमानग्निरसनो युद्धसेवी रविप्रियः ॥ 36॥
आश्रित घौघ विध्वंसी नित्यानन्द प्रदायकः ।
असुरघ्नो महाबाहूर्भीमकर्मा शुभप्रदः ॥ 37॥
शशाङ्क प्रणवाधारः समस्थाशी विषापहः ।
तर्को वितर्को विमलो बिलको बादरायणः ॥ 38॥
बदिरग्नस्चक्रवालः षट्कोणान्तर्गतस्शिखीः ।
दृतधन्वा शोडषाक्षो दीर्घबाहूर्दरीमुखः ॥ 39॥
प्रसन्नो वामजनको निम्नो नीतिकरः शुचिः ।
नरभेदि सिंहरूपी पुराधीशः पुरन्दरः ॥ 40॥
रविस्तुतो यूतपालो युतपारिस्सताङ्गतिः ।
हृषिकेशो द्वित्रमूर्तिः द्विरष्टायुदभृत् वरः ॥ 41॥
दिवाकरो निशानाथो दिलीपार्चित विग्रहः ।
धन्वन्तरिस्श्यामलारिर्भक्तशोक विनाशकः ॥ 42॥
रिपुप्राण हरो जेता शूरस्चातुर्य विग्रहः ।
विधाता सच्चिदानन्दस्सर्वदुष्ट निवारकः ॥ 43॥
उल्को महोल्को रक्तोल्कस्सहस्रोल्कस्शतार्चिषः ।
बुद्धो बौद्धहरो बौद्ध जनमोहो बुधाश्रयः ॥ 44 ॥
पूर्णबोधः पूर्णरूपः पूर्णकामो महाद्युतिः ।
पूर्णमन्त्रः पूर्णगात्रः पूर्णषाड्गुण्य विग्रहः ॥ 45॥
पूर्णनेमिः पूर्ननाभिः पूर्णाशी पूर्णमानसः ।
पूर्णसारः पूर्णशक्तिः रङ्गसेवि रणप्रियः ॥ 46॥
पूरिताशोऽरिष्टदाति पूर्णार्थः पूर्णभूषणः ।
पद्मगर्भः पारिजातः परमित्रस्शराकृतिः ॥ 47॥
भूबृत्वपुः पुण्यमूर्ति भूभृतां पतिराशुकः ।
भाग्योदयो भक्तवश्यो गिरिजावल्लभप्रियः ॥ 48॥
गविष्टो गजमानीशो गमनागमन प्रियः ।
ब्रह्मचारि बन्धुमानी सुप्रतीकस्सुविक्रमः ॥ 49॥
शङ्कराभीष्टदो भव्यः साचिव्यस्सव्यलक्षणः ।
महाहंसस्सुखकरो नाभाग तनयार्चितः ॥ 50॥
कोटिसूर्यप्रभो दीप्तो विद्युत्कोटि समप्रभः ।
वज्रकल्पो वज्रसखो वज्रनिर्घात निस्वनः ॥ 51॥
गिरीशो मानदो मान्यो नारायण करालयः ।
अनिरुद्धः परामर्षी उपेन्द्रः पूर्णविग्रहः ॥ 52॥
आयुधेशस्शतारिघ्नः शमनः शतसैनिकः ।
सर्वासुर वधोद्युक्तः सूर्य दुर्मान भेदकः ॥ 53॥
राहुविप्लोषकारी च काशीनगर दाहकः ।
पीयुषांशु परञ्ज्योतिः सम्पूर्ण क्रतुभुक् प्रभुः ॥ 54॥
मान्धातृ वरदस्शुद्धो हरसेव्यस्शचीष्टदः ।
सहिष्णुर्बलभुक् वीरो लोकभृल्लोकनायकः ॥55॥
दुर्वासोमुनि दर्पघ्नो जयतो विजयप्रियः ।
पुराधीशोऽसुरारातिः गोविन्द करभूषणः ॥ 56॥
रथरूपी रथाधीशः कालचक्र कृपानिधिः ।
चक्ररूपधरो विष्णुः स्थूलसूक्ष्मश्शिखिप्रभः ॥ 57॥
शरणागत सन्त्राता वेतालारिर्महाबलः ।
ज्ञानदो वाक्पतिर्मानी महावेगो महामणिः ॥ 58॥
विद्युत् केशो विहारेशः पद्मयोनिः चतुर्भुजः ।
कामात्मा कामदः कामी कालनेमि शिरोहरः ॥ 59॥
शुभ्रस्शुचीस्शुनासीरः शुक्रमित्रः शुभाननः ।
वृषकायो वृषारातिः वृषभेन्द्र सुपूजितः ॥ 60॥
विश्वम्भरो वीतिहोत्रो वीर्यो विश्वजनप्रियः ।
विश्वकृत् विश्वभो विश्वहर्ता साहसकर्मकृत् ॥ 61॥
बाणबाहूहरो ज्योतिः परात्मा शोकनाशनः ।
विमलादिपतिः पुण्यो ज्ञाता ज्ञेयः प्रकाशकः ॥ 62॥
म्लेच्छ प्रहारी दुष्टघ्नः सूर्यमण्डलमध्यगः ।
दिगम्बरो वृशाद्रीशो विविधायुध रूपकः ॥ 63॥
सत्ववान् सत्यवागीशः सत्यधर्म परायणः ।
रुद्रप्रीतिकरो रुद्र वरदो रुग्विभेदकः ॥ 64॥
नारायणो नक्रभेदी गजेन्द्र परिमोक्षकः ।
धर्मप्रियः षडाधारो वेदात्मा गुणसागरः ॥ 65॥
गदामित्रः पृथुभुजो रसातल विभेदकः ।
तमोवैरी महातेजाः महाराजो महातपाः ॥ 66॥
समस्तारिहरः शान्त क्रूरो योगेश्वरेश्वरः ।
स्थविरस्स्वर्ण वर्णाङ्गः शत्रुसैन्य विनाशकृत् ॥ 67॥
प्राज्ञो विश्वतनुत्राता शऋतिस्मृतिमयः कृति ।
व्यक्ताव्यक्त स्वरूपांसः कालचक्रः कलानिधिः ॥ 68॥
महाध्युतिरमेयात्मा वज्रनेमिः प्रभानिधिः ।
महास्फुलिङ्ग धारार्चिः महायुद्ध कृतच्युतः ॥ 69॥
कृतज्ञस्सहनो वाग्मी ज्वालामाला विभूषणः ।
चतुर्मुखनुतः श्रीमान् भ्राजिष्णुर्भक्तवत्सलः ॥ 70॥
चातुर्यगमनश्चक्री चातुर्वर्ग प्रदायकः ।
विचित्रमाल्याभरणः तीक्ष्णधारः सुरार्चितः ॥ 71॥
युगकृत् युगपालश्च युगसन्धिर्युगान्तकृत् ।
सुतीक्ष्णारगणो गम्यो बलिध्वंसी त्रिलोकपः ॥ 72॥
त्रिनेत्रस्त्रिजगद्वन्ध्यः तृणीकृत महासुरः ।
त्रिकालज्ञस्त्रिलोकज्ञः त्रिनाभिः त्रिजगत्प्रियः ॥ 73॥
सर्वयन्त्रमयो मन्त्रस्सर्वशत्रु निबर्हणः ।
सर्वगस्सर्ववित् सौम्यस्सर्वलोकहितङ्करः ॥74॥
आदिमूलः सद्गुणाढ्यो वरेण्यस्त्रिगुणात्मकः ।
ध्यानगम्यः कल्मषघ्नः कलिगर्व प्रभेदकः ॥ 75॥
कमनीय तनुत्राणः कुण्डली मण्डिताननः ।
सुकुण्ठीकृत चण्डेशः सुसन्त्रस्थ षडाननः ॥ 76॥
विषाधीकृत विघ्नेशो विगतानन्द नन्दिकः ।
मथित प्रमथव्यूहः प्रणत प्रमदाधिपः ॥ 77॥
प्राणभिक्षा प्रदोऽनन्तो लोकसाक्षी महास्वनः ।
मेधावी शाश्वथोऽक्रूरः क्रूरकर्माऽपराजितः ॥ 78॥
अरी दृष्टोऽप्रमेयात्मा सुन्दरश्शत्रुतापनः ।
योग योगीश्वराधीशो भक्ताभीष्ट प्रपूरकः ॥ 79॥
सर्वकामप्रदोऽचिन्त्यः शुभाङ्गः कुलवर्धनः ।
निर्विकारोऽन्तरूपो नरनारायणप्रियः ॥ 80॥
मन्त्र यन्त्र स्वरूपात्मा परमन्त्र प्रभेदकः ।
भूतवेताल विध्वंसी चण्ड कूष्माण्ड खण्डनः ॥ 81॥
यक्ष रक्षोगण ध्वंसी महाकृत्या प्रदाहकः ।
सकलीकृत मारीचः भैरव ग्रह भेदकः ॥ 82॥
चूर्णिकृत महाभूतः कबलीकृत दुर्ग्रहः ।
सुदुर्ग्रहो जम्भभेदी सूचीमुख निषूदनः ॥ 83॥
वृकोदरबलोद्धर्त्ता पुरन्दर बलानुगः ।
अप्रमेय बलः स्वामी भक्तप्रीति विवर्धनः ॥ 84॥
महाभूतेश्वरश्शूरो नित्यस्शारदविग्रहः ।
धर्माध्यक्षो विधर्मघ्नः सुधर्मस्थापकश्शिवः ॥ 85॥
विधूमज्वलनो भानुर्भानुमान् भास्वतां पतिः ।
जगन्मोहन पाटीरस्सर्वोपद्रव शोधकः ॥ 86॥
कुलिशाभरणो ज्वालावृतस्सौभाग्य वर्धनः ।
ग्रहप्रध्वंसकः स्वात्मरक्षको धारणात्मकः ॥ 87॥
सन्तापनो वज्रसारस्सुमेधाऽमृत सागरः ।
सन्तान पञ्जरो बाणताटङ्को वज्रमालिकः ॥ 88॥
मेखालग्निशिखो वज्र पञ्जरस्ससुराङ्कुशः ।
सर्वरोग प्रशमनो गान्धर्व विशिखाकृतिः ॥ 89॥
प्रमोह मण्डलो भूत ग्रह शऋङ्खल कर्मकृत् ।
कलावृतो महाशङ्खु धारणस्शल्य चन्द्रिकः ॥ 90॥
छेदनो धारकस्शल्य क्षूत्रोन्मूलन तत्परः ।
बन्धनावरणस्शल्य कृन्तनो वज्रकीलकः ॥ 91॥
प्रतीकबन्धनो ज्वाला मण्डलस्शस्त्रधारणः ।
इन्द्राक्षीमालिकः कृत्या दण्डस्चित्तप्रभेदकः ॥ 92॥
ग्रह वागुरिकस्सर्व बन्धनो वज्रभेदकः ।
लघुसन्तान सङ्कल्पो बद्धग्रह विमोचनः ॥ 93॥
मौलिकाञ्चन सन्धाता विपक्ष मतभेदकः ।
दिग्बन्धन करस्सूची मुखाग्निस्चित्तपातकः ॥ 94॥
चोराग्नि मण्डलाकारः परकङ्काल मर्दनः ।
तान्त्रीकस्शत्रुवंशघ्नो नानानिगल मोचनः ॥ 95॥
समस्थलोक सारङ्गः सुमहा विषदूषणः ।
सुमहा मेरुकोदण्डः सर्व वश्यकरेश्वरः ॥ 96॥
निखिलाकर्षणपटुः सर्व सम्मोह कर्मकृत् ।
संस्थम्बन करः सर्व भूतोच्चाटन तत्परः ॥ 97॥
अहितामय कारी च द्विषन्मारण कारकः ।
एकायन गदामित्र विद्वेषण परायणः ॥ 98॥
सर्वार्थ सिद्धिदो दाता विधाता विश्वपालकः ।
विरूपाक्षो महावक्षाः वरिष्टो माधवप्रियः ॥ 99॥
अमित्रकर्शन शान्तः प्रशान्तः प्रणतार्तिहा ।
रमणीयो रणोत्साहो रक्ताक्षो रणपण्डितः ॥ 100॥
रणान्तकृत् रताकारः रताङ्गो रविपूजितः ।
वीरहा विविधाकारः वरुणाराधितो वशीः ।
सर्व शत्रु वधाकाङ्क्षी शक्तिमान् भक्तमानदः ॥ 101॥
सर्वलोकधरः पुण्यः पुरुषः पुरुषोत्तमः ।
पुराणः पुण्डरीकाक्षः परमर्म प्रभेदकः ॥ 102॥
वीरासनगतो वर्मी सर्वाधारो निरङ्कुशः ।
जगत्रक्षो जगन्मूर्तिः जगदानन्द वर्धनः ॥ 103॥
शारदः शकटारातिः शङ्करस्शकटाकृतिः ।
विरक्तो रक्तवर्णाढ्यो रामसायक रूपदृत् ॥ 104॥
महावराह् दंष्ट्रात्मा नृसिंह नगरात्मकः ।
समदृङ्मोक्षदो वन्ध्यो विहारी वीतकल्मषः ॥ 105॥
गम्भीरो गर्भगो गोप्ता गभस्तिर्गुह्यगोगुरुः ।
श्रीधरः श्रीरतस्श्रान्तः शत्रुघ्नस्शऋतिगोचरः ॥ 106॥
पुराणो विततो वीरः पवित्रस्चरणाह्वयः ।
महाधीरो महावीर्यो महाबल पराक्रमः ॥ 107॥
सुविग्रहो विग्रहघ्नः सुमानी मानदायकः ।
मायी मायापहो मन्त्री मान्यो मानविवर्धनः ॥ 108॥
शत्रुसंहारकस्शूरः शुक्रारिश्शङ्करार्चितः ।
सर्वाधारः परञ्ज्योतिः प्राणः प्राणभृतच्युतः ॥ 109॥
चन्द्रधामाऽप्रतिद्वन्दः परमात्मा सुदुर्गमः ।
विशुद्धात्मा महातेजाः पुण्यश्लोकः पुराणवित् ॥ 110॥
समस्थ जगदाधारो विजेता विक्रमः क्रमः ।
आदिदेवो ध्रुवो दृश्यः सात्त्विकः प्रीतिवर्धनः ॥ 111॥
सर्वलोकाश्रयस्सेव्यः सर्वात्मा वंशवर्धनः ।
दुराधर्षः प्रकाशात्मा सर्वदृक् सर्ववित्समः ॥ 112॥
सद्गतिस्सत्वसम्पन्नः नित्यसङ्कल्प कल्पकः ।
वर्णी वाचस्पतिर्वाग्मी महाशक्तिः कलानिधिः ॥ 113॥
अन्तरिक्षगतिः कल्यः कलिकालुष्य मोचनः ।
सत्यधर्मः प्रसन्नात्मा प्रकृष्टो व्योमवाहनः ॥ 114॥
शितधारस्शिखि रौद्रो भद्रो रुद्रसुपूजितः ।
दरिमुखाग्निजम्भघ्नो वीरहा वासवप्रियः ॥ 115॥
दुस्तरस्सुदुरारोहो दुर्ज्ञेयो दुष्टनिग्रहः ।
भूतावासो भूतहन्ता भूतेशो भूतभावनः ॥ 116॥
भावज्ञो भवरोगघ्नो मनोवेगी महाभुजः ।
सर्वदेवमयः कान्तः स्मृतिमान् सर्वपावनः ॥ 117॥
नीतिमन् सर्वजित् सौम्यो महर्षीरपराजितः ।
रुद्राम्बरीष वरदो जितमायः पुरातनः ॥ 118॥
अध्यात्म निलयो भोक्ता सम्पूर्णस्सर्वकामदः ।
सत्योऽक्षरो गभीरात्मा विश्वभर्ता मरीचिमान् ॥ 119॥
निरञ्जनो जितभ्रांशुः अग्निगर्भोऽग्नि गोचरः ।
सर्वजित् सम्भवो विष्णुः पूज्यो मन्त्रवितक्रियः ॥ 120॥
शतावर्त्तः कलानाथः कालः कालमयो हरिः ।
अरूपो रूपसम्पन्नो विश्वरूपो विरूपकृत् ॥ 121॥
स्वाम्यात्मा समरश्लाघी सुव्रतो विजयांवितः ।
चण्ड्घ्नस्चण्डकिरणः चतुरस्चारणप्रियः ॥ 122॥
पुण्यकीर्तिः परामर्षी नृसिंहो नाभिमध्यगः ।
यज्ञात्म यज्ञसङ्कल्पो यज्ञकेतुर्महेश्वरः ॥ 123॥
जितारिर्यज्ञनिलयश्शरण्यश्शकटाकृतिः ।
उत्त्मोऽनुत्त्मोनङ्गस्साङ्गस्सर्वाङ्ग शोभनः ॥ 124॥
कालाग्निः कालनेमिघ्नः कामि कारुण्यसागरः ।
रमानन्दकरो रामो रजनीशान्तरस्थितः ॥ 125॥
संवर्धन समरांवेषी द्विषत्प्राण परिग्रहः ।
महाभिमानी सन्धाता सर्वाधीशो महागुरुः ॥ 126
सिद्धः सर्वजगद्योनिः सिद्धार्थस्सर्वसिद्धिदः ।
चतुर्वेदमयश्शास्था सर्वशास्त्र विशारदः ॥ 127 ॥
तिरस्कृतार्क तेजस्को भास्कराराधितश्शुभः ।
व्यापी विश्वम्भरो व्यग्रः स्वयञ्ज्योतिरनन्तकृत् ॥ 128॥
जयशीलो जयाकाङ्क्षी जातवेदो जयप्रदः ।
कविः कल्याणदः काम्यो मोक्षदो मोहनाकृतिः ॥ 129॥
कुङ्कुमारुण सर्वाङ्ग कमलाक्षः कवीश्वरः ।
सुविक्रमो निष्कलङ्को विश्वक्सेनो विहारकृत् ॥ 130॥
कदम्बासुर विध्वंसी केतनग्रह दाहकः ।
जुगुप्साग्नस्तीक्ष्णधारो वैकुण्ठ भुजवासकृत् ॥ 131॥
सारज्ञः करुणामूर्तिः वैष्णवो विष्णुभक्तिदः ।
सुक्रुतज्ञो महोदारो दुष्कृतघ्नस्सुविग्रहः ॥ 132॥
सर्वाभीष्ट प्रदोऽन्तो नित्यानन्दो गुणाकरः ।
चक्री कुन्दधरः खड्गी परश्वत धरोऽग्निभृत् ॥ 133॥
दृताङ्कुशो दण्डधरः शक्तिहस्थस्सुशङ्खभ्रुत् ।
धन्वी दृतमहापाशो हलि मुसलभूषणः ॥ 134॥
गदायुधधरो वज्री महाशूल लसत्भुजः ।
समस्तायुध सम्पूर्णस्सुदर्शन महाप्रभुः ॥ 135॥
॥ फलशऋतिः ॥
इति सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् ।
सर्वसिद्धिकरं सर्व यन्त्र मन्त्रात्मकं परम् ॥ 136॥
एतन्नाम सहस्रं तु नित्यं यः पठेत् सुधीः ।
शऋणोति वा श्रावयति तस्य सिद्धिः करस्तिता ॥ 137॥
दैत्यानां देवशत्रूणां दुर्जयानां महौजसाम् ।
विनाशार्थमिदं देवि हरो रासाधितं मया ॥ 138॥
शत्रुसंहारकमिदं सर्वदा जयवर्धनम् ।
जल शैल महारण्य दुर्गमेषु महापति ॥ 139॥
भयङ्करेषु शापत्सु सम्प्राप्तेषु महत्सुच ।
यस्सकृत् पठनं कुर्यात् तस्य नैव भवेत् भयम् ॥ 140॥
ब्रह्मघ्नश्च पशुघ्नश्च मातापितॄ विनिन्दकः ।
देवानां दूषकश्चापि गुरुतल्पगतोऽपि वा ॥ 141॥
जप्त्वा सकृतिदं स्तोत्रं मुच्यते सर्वकिल्बिषैः ।
तिष्ठन् गच्छन् स्वपन् भुञ्जन् जाग्रन्नपि हसन्नपि ॥ 142॥
सुदर्शन नृसिंहेति यो वदेत्तु सकृन्नरः ।
स वै न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥ 143॥
आदयो व्यादयस्सर्वे रोगा रोगादिदेवताः ।
शीघ्रं नश्यन्ति ते सर्वे पठनात्तस्य वै नृणाम् ॥ 144॥
बहूनात्र किमुक्तेन जप्त्वेदं मन्त्र पुष्कलम् ।
यत्र मर्त्यश्चरेत् तत्र रक्षति श्रीसुदर्शनः ॥ 145॥
इति श्री विहगेश्वर उत्तरखण्डे उमामहेश्वरसंवादे
मन्त्रविधाने श्री सुदर्शन सहस्रनाम स्तोत्रं नाम
षोडश प्रकाशः ॥