कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-ञ्चतुर्थकाण्डे चतुर्थः प्रश्नः – पञ्चमचितिशेषनिरूपणं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

र॒श्मिर॑सि॒ क्षया॑य त्वा॒ क्षय॑-ञ्जिन्व॒ प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्म॑-ञ्जि॒न्वान्वि॑तिरसि दि॒वे त्वा॒ दिव॑-ञ्जिन्व स॒न्धिर॑स्य॒न्तरि॑क्षाय त्वा॒-ऽन्तरि॑क्ष-ञ्जिन्व प्रति॒धिर॑सि पृथि॒व्यै त्वा॑ पृथि॒वी-ञ्जि॑न्व विष्ट॒भों॑-ऽसि॒ वृष्ट्यै᳚ त्वा॒ वृष्टि॑-ञ्जिन्व प्र॒वा-ऽस्यह्ने॒ त्वा-ऽह॑र्जिन्वानु॒ वा-ऽसि॒ रात्रि॑यै त्वा॒ रात्रि॑-ञ्जिन्वो॒ शिग॑सि॒ [रात्रि॑-ञ्जिन्वो॒ शिग॑सि, वसु॑भ्यस्त्वा॒] 1

वसु॑भ्यस्त्वा॒ वसू᳚ञ्जिन्व प्रके॒तो॑-ऽसि रु॒द्रेभ्य॑स्त्वा रु॒द्राञ्जि॑न्व सुदी॒तिर॑स्यादि॒त्येभ्य॑स्त्वा ऽऽदि॒त्याञ्जि॒न्वौजो॑-ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄञ्जि॑न्व॒ तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॑न्व पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॑न्व रे॒वद॒स्योष॑धीभ्य॒-स्त्वौष॑धी-र्जिन्वाभि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्र॑-ञ्जि॒न्वाधि॑पतिरसि प्रा॒णाय॑ [प्रा॒णाय॑, त्वा॒ प्रा॒ण-ञ्जि॑न्व] 2

त्वा प्रा॒ण-ञ्जि॑न्व य॒न्ता-ऽस्य॑पा॒नाय॑ त्वा-ऽपा॒न-ञ्जि॑न्व स॒ग्ं॒सर्पो॑-ऽसि॒ चक्षु॑षे त्वा॒ चक्षु॑र्जिन्व वयो॒धा अ॑सि॒ श्रोत्रा॑य त्वा॒ श्रोत्र॑-ञ्जिन्व त्रि॒वृद॑सि प्र॒वृद॑सि सं॒​वृँद॑सि वि॒वृद॑सि सग्ंरो॒हो॑-ऽसि नीरो॒हो॑-ऽसि प्ररो॒हो᳚-ऽस्यनुरो॒हो॑-ऽसि वसु॒को॑-ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिरसि ॥ 3 ॥
(उ॒शिग॑सि – प्रा॒णाय॒ – त्रिच॑त्वारिग्ंशच्च) (अ. 1)

राज्ञ्य॑सि॒ प्राची॒ दिग्वस॑वस्ते दे॒वा अधि॑पतयो॒-ऽग्निर्​हे॑ती॒ना-म्प्र॑तिध॒र्ता॑ त्रि॒वृ-त्त्वा॒ स्तोमः॑ पृथि॒व्याग्​ श्र॑य॒त्वाज्य॑-मु॒क्थमव्य॑थय-थ्स्तभ्नातु रथन्त॒रग्ं साम॒ प्रति॑ष्ठित्यै वि॒राड॑सि दक्षि॒णा दिग्रु॒द्रास्ते॑ दे॒वा अधि॑पतय॒ इन्द्रो॑ हेती॒ना-म्प्र॑तिध॒र्ता प॑ञ्चद॒शस्त्वा॒ स्तोमः॑ पृथि॒व्याग्​ श्र॑यतु॒ प्र-उ॑गमु॒क्थ-मव्य॑थय-थ्स्तभ्नातु बृ॒ह-थ्साम॒ प्रति॑ष्ठित्यै स॒म्राड॑सि प्र॒तीची॒ दि- [दिक्, आ॒दि॒त्यास्ते॑] 4

-गा॑दि॒त्यास्ते॑ दे॒वा अधि॑पतय॒-स्सोमो॑ हेती॒ना-म्प्र॑तिध॒र्ता स॑प्तद॒शस्त्वा॒ स्तोमः॑ पृथि॒व्याग्​ श्र॑यतु मरुत्व॒तीय॑मु॒क्थ-मव्य॑थय-थ्स्तभ्नातु वैरू॒पग्ं साम॒ प्रति॑ष्ठित्यायै स्व॒राड॒स्युदी॑ची॒ दिग् विश्वे॑ ते दे॒वा अधि॑पतयो॒ वरु॑णो हेती॒ना-म्प्र॑तिध॒र्तैक॑वि॒ग्ं॒श स्त्वा॒ स्तोमः॑ पृथि॒व्याग्​ श्र॑यतु॒ निष्के॑वल्य-मु॒क्थमव्य॑थय-थ्स्तभ्नातु वैरा॒जग्ं साम॒ प्रति॑ष्ठित्या॒ अधि॑पत्न्यसि बृह॒ती दिम्म॒रुत॑स्ते दे॒वा अधि॑पतयो॒ [अधि॑पतयः, बृह॒स्पति॑र्​हेती॒-] 5

बृह॒स्पति॑र्​हेती॒ना-म्प्र॑तिध॒र्ता त्रि॑णवत्रयस्त्रि॒ग्ं॒शौ त्वा॒ स्तोमौ॑ पृथि॒व्याग्​ श्र॑यतां-वैँश्वदेवाग्निमारु॒ते उ॒क्थे अव्य॑थयन्ती स्तभ्नीताग्ं शाक्वररैव॒ते साम॑नी॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्षा॒यर्​ष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ सं​विँदा॒ना नाक॑स्य पृ॒ष्ठे सु॑व॒र्गे लो॒के यज॑मान-ञ्च सादयन्तु ॥ 6 ॥
(प्र॒तीची॒ दिं – म॒रुत॑स्ते दे॒वा अधि॑पतय – श्चत्वारि॒ग्ं॒शच्च॑) (अ. 2)

अ॒य-म्पु॒रो हरि॑केश॒-स्सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒थ्सश्च॒ रथौ॑जाश्च सेनानि ग्राम॒ण्यौ॑ पुञ्जिकस्थ॒ला च॑ कृतस्थ॒ला चा᳚फ्स॒रसौ॑ यातु॒धाना॑ हे॒ती रक्षाग्ं॑सि॒ प्रहे॑ति र॒य-न्द॑क्षि॒णा वि॒श्व क॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानि ग्राम॒ण्यौ॑ मेन॒का च॑ सहज॒न्या चा᳚फ्स॒रसौ॑ दं॒णवः॑ प॒शवो॑ हे॒तिः पौरु॑षेयो व॒धः प्रहे॑ति र॒य-म्प॒श्चा-द्वि॒श्वव्य॑चा॒ स्तस्य॒ रथ॑ प्रोत॒श्चा-स॑मरथश्च सेनानि ग्राम॒ण्यौ᳚ प्र॒म्लोच॑न्ती चा- [प्र॒म्लोच॑न्ती च, अ॒नु॒म्लोच॑न्ती-] 7

-ऽनु॒म्लोच॑न्ती-चाफ्स॒रसौ॑ स॒र्पा हे॒ति र्व्या॒घ्राः प्रहे॑ति र॒य मु॑त्त॒रा-थ्सं॒​यँञ्द्- व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानि ग्राम॒ण्यौ॑ वि॒श्वाची॑ च घृ॒ताची॑ चाफ्स॒रसा॒ वापो॑ हे॒ति र्वातः॒ प्रहे॑ति र॒यमु॒पर्य॒ र्वाग्व॑-सु॒स्तस्य॒ तार्क्ष्य॒-श्चारि॑ष्ट-नेमिश्च सेनानि ग्राम॒ण्या॑ वु॒र्वशी॑ च पू॒र्वचि॑त्तिश्चा-फ्स॒रसौ॑ वि॒द्युद्धे॒तिर॑-व॒स्फूर्ज॒-न्प्रहे॑ति॒ स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते य- [ते यम्, द्वि॒ष्मो] 8

-न्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं-वोँ॒ जम्भे॑ दधाम्या॒योस्त्वा॒ सद॑ने सादया॒म्यव॑त श्छा॒याया॒-न्नमः॑ समु॒द्राय॒ नमः॑ समु॒द्रस्य॒ चक्ष॑से परमे॒ष्ठी त्वा॑ सादयतु दि॒वः पृ॒ष्ठे व्यच॑स्वती॒-म्प्रथ॑स्वतीं-विँ॒भूम॑ती-म्प्र॒भूम॑ती-म्परि॒भूम॑ती॒-न्दिवं॑-यँच्छ॒ दिव॑-न्दृग्ंह॒ दिव॒-म्मा हिग्ं॑सी॒र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य॒ सूर्य॑स्त्वा॒-ऽभि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ प्रोथ॒दश्वो॒ न यव॑से अवि॒ष्यन्. य॒दा म॒ह-स्स॒​वँर॑णा॒-द्व्यस्था᳚त् । आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑न-ङ्कृ॒ष्णम॑स्ति ॥ 9 ॥
(प्र॒म्लोच॑न्ती च॒ – यग्ग्​ – स्व॒स्त्या – ऽष्टाविग्ं॑शतिश्च) (अ. 3)

अ॒ग्निर्मू॒र्धा दि॒वः क॒कु-त्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पाग्ं रेताग्ं॑सि जिन्वति ॥ त्वाम॑ग्ने॒ पुष्क॑रा॒दद्ध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥ अ॒यम॒ग्नि-स्स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ । मू॒र्धा क॒वी र॑यी॒णाम् ॥ भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒-स्सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धान॑-न्दधिषे सुव॒र्॒षा-ञ्जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह᳚म् ॥ अबो᳚द्ध्य॒ग्नि-स्स॒मिधा॒ जना॑ना॒- [जना॑नाम्, प्रति॑] 10

-म्प्रति॑ धे॒नुमि॑वा य॒तीमु॒षास᳚म् । य॒ह्वा इ॑व॒ प्रव॒या मु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥ अवो॑चाम क॒वये॒ मेद्ध्या॑य॒ वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे᳚ । गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वीव॑ रु॒क्ममु॒र्व्यञ्च॑मश्रेत् ॥ जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्नि-स्सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से । घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा᳚ द्यु॒मद्वि भा॑ति भर॒तेभ्य॒-श्शुचिः॑ ॥ त्वाम॑ग्ने॒ अङ्गि॑रसो॒ [अङ्गि॑रसः, गुहा॑ हि॒तमन्व॑-] 11

गुहा॑ हि॒तमन्व॑-विन्दञ्छिश्रिया॒णं-वँने॑वने । स जा॑यसे म॒थ्यमा॑न॒-स्सहो॑ म॒ह-त्त्वामा॑हु॒-स्सह॑सस्पु॒त्रम॑ङ्गिरः ॥ य॒ज्ञस्य॑ के॒तु-म्प्र॑थ॒म-म्पु॒रोहि॑तम॒ग्नि-न्नर॑स्त्रिषध॒स्थे समि॑न्धते । इन्द्रे॑ण दे॒वै-स्स॒रथ॒ग्ं॒ स ब॒र्॒हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतुः॑ ॥ त्वा-ञ्चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तवः॑ । शो॒चिष्के॑श-म्पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोढ॑वे ॥ सखा॑य॒-स्सं​वः॑ ँस॒म्यञ्च॒-मिष॒ग्ग्॒- [-मिष᳚म्, स्तोम॑-ञ्चा॒ग्नये᳚ ।] 12

-स्तोम॑-ञ्चा॒ग्नये᳚ । वर्​षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥ सग्ंस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ । इ॒डस्प॒दे समि॑द्ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥ ए॒ना वो॑ अ॒ग्नि-न्नम॑सो॒र्जो नपा॑त॒मा हु॑वे । प्रि॒य-ञ्चेति॑ष्ठमर॒तिग्ग्​ स्व॑द्ध्व॒रं-विँश्व॑स्य दू॒तम॒मृत᳚म् ॥ स यो॑जते अरु॒षो वि॒श्वभो॑जसा॒ स दु॑द्रव॒-थ्स्वा॑हुतः । सु॒ब्रह्मा॑ य॒ज्ञ-स्सु॒शमी॒ [य॒ज्ञ-स्सु॒शमी᳚, वसू॑ना-] 13

वसू॑ना-न्दे॒वग्ं राधो॒ जना॑नाम् ॥ उद॑स्य शो॒चिर॑स्थादा॒-जुह्वा॑नस्य मी॒ढुषः॑ । उद्ध॒मासो॑ अरु॒षासो॑ दिवि॒स्पृश॒-स्सम॒ग्निमि॑न्धते॒ नरः॑ ॥ अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑न-स्सहसो यहो । अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रवः॑ ॥ स इ॑धा॒नो वसु॑ष्क॒वि-र॒ग्निरी॒डेन्यो॑ गि॒रा । रे॒वद॒स्मभ्य॑-म्पुर्वणीक दीदिहि ॥ क्ष॒पो रा॑जन्नु॒त त्मना-ऽग्ने॒ वस्तो॑रु॒तोषसः॑ । स ति॑ग्मजम्भ [ ] 14

र॒क्षसो॑ दह॒ प्रति॑ ॥ आ ते॑ अग्न इधीमहि द्यु॒मन्त॑-न्देवा॒जर᳚म् । यद्ध॒ स्या ते॒ पनी॑यसी स॒मि-द्दी॒दय॑ति॒ द्यवीषग्ग्॑ स्तो॒तृभ्य॒ आ भ॑र ॥ आ ते॑ अग्न ऋ॒चा ह॒वि-श्शु॒क्रस्य॑ ज्योतिषस्पते । सुश्च॑न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒-ट्तुभ्यग्ं॑ हूयत॒ इषग्ग्॑ स्तो॒तृभ्य॒ आ भ॑र ॥ उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी᳚ श्रीणीष आ॒सनि॑ । उ॒तो न॒ उ-त्पु॑पूर्या [उ-त्पु॑पूर्याः, उ॒क्थेषु॑] 15

उ॒क्थेषु॑ शवसस्पत॒ इषग्ग्॑ स्तो॒तृभ्य॒ आ भ॑र ॥ अग्ने॒ तम॒द्याश्व॒-न्न स्तोमैः॒ क्रतु॒-न्न भ॒द्रग्ं हृ॑दि॒स्पृश᳚म् । ऋ॒द्ध्यामा॑ त॒ ओहैः᳚ ॥ अधा॒ ह्य॑ग्ने॒ क्रतो᳚र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः । र॒थीर्-ऋ॒तस्य॑ बृह॒तो ब॒भूथ॑ ॥ आ॒भिष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णन्तो-ऽग्ने॒ दाशे॑म । प्र ते॑ दि॒वो न स्त॑नयन्ति॒ शुष्माः᳚ ॥ ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वा- [अ॒र्वाङ्, सुव॒र्न ज्योतिः॑ ।] 16

-ङ्ख्सुव॒र्न ज्योतिः॑ । अग्ने॒ विश्वे॑भि-स्सु॒मना॒ अनी॑कैः ॥ अ॒ग्निग्ं होता॑र-म्मन्ये॒ दास्व॑न्तं॒-वँसो᳚-स्सू॒नुग्ं सह॑सो जा॒तवे॑दसम् । विप्र॒-न्न जा॒तवे॑दसम् । य ऊ॒र्ध्वया᳚ स्वद्ध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा । घृ॒तस्य॒ विभ्रा᳚ष्टि॒मनु॑ शु॒क्रशो॑चिष आ॒जुह्वा॑नस्य स॒र्पिषः॑ ॥ अग्ने॒ त्व-न्नो॒ अन्त॑मः । उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्यः॑ ॥ त-न्त्वा॑ शोचिष्ठ दीदिवः । सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥ वसु॑र॒ग्निर्वसु॑श्रवाः । अच्छा॑ नक्षि द्यु॒मत्त॑मो र॒यि-न्दाः᳚ ॥ 17 ॥
(जना॑ना॒ – मङ्गि॑रस॒ – इषग्ं॑ – सु॒शमी॑ – तिग्मजम्भ – पुपूर्या – अ॒र्वां – वसु॑श्रवाः॒ – पञ्च॑ च) (अ. 4)

इ॒न्द्रा॒ग्निभ्या᳚-न्त्वा स॒युजा॑ यु॒जा यु॑नज्म्या घा॒राभ्या॒-न्तेज॑सा॒ वर्च॑सो॒ क्थेभि॒-स्स्तोमे॑भि॒ श्छन्दो॑भी र॒य्यै पोषा॑य सजा॒ताना᳚-म्मद्ध्यम॒स्थेया॑य॒ मया᳚ त्वा स॒युजा॑ यु॒जा यु॑नज्म्य॒बा-न्दु॒ला नि॑त॒त्नि र॒भ्रय॑न्ती मे॒घय॑न्ती व॒र्॒षय॑न्ती चुपु॒णीका॒ नामा॑सि प्र॒जाप॑तिना त्वा॒ विश्वा॑भिर्धी॒भिरुप॑ दधामि पृथि॒व्यु॑दपु॒रमन्ने॑न वि॒ष्टा म॑नु॒ष्या᳚स्ते गो॒प्तारो॒ ऽग्निर्विय॑त्तो-ऽस्या॒-न्ताम॒ह-म्प्र॑ पद्ये॒ सा [ ] 18

मे॒ शर्म॑ च॒ वर्म॑ चा॒स्त्वधि॑ द्यौर॒न्तरि॑क्ष॒-म्ब्रह्म॑णा वि॒ष्टा म॒रुत॑स्ते गो॒प्तारो॑ वा॒युर्विय॑त्तो-ऽस्या॒-न्ताम॒ह-म्प्र प॑द्ये॒ सा मे॒ शर्म॑ च॒ वर्म॑ चास्तु॒ द्यौरप॑राजिता॒-ऽमृते॑न वि॒ष्टा-ऽऽदि॒त्यास्ते॑ गो॒प्तार॒-स्सूर्यो॒ विय॑त्तो-ऽस्या॒-न्ताम॒ह-म्प्र प॑द्ये॒ सा मे॒ शर्म॑ च॒ वर्म॑ चास्तु ॥ 19 ॥
(सा – ऽष्टाच॑त्वारिग्ंशच्च) (अ. 5)

बृह॒स्पति॑स्त्वा सादयतु पृथि॒व्याः पृ॒ष्ठे ज्योति॑ष्मतीं॒-विँश्व॑स्मै प्रा॒णाया॑पा॒नाय॒ विश्व॒-ञ्ज्योति॑र्यच्छा॒- ग्निस्ते-ऽधि॑पति र्वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे ज्योति॑ष्मतीं॒-विँश्व॑स्मै प्रा॒णाया॑पा॒नाय॒ विश्व॒-ञ्ज्योति॑र्यच्छ वा॒युस्ते-ऽधि॑पतिः प्र॒जाप॑तिस्त्वा सादयतु दि॒वः पृ॒ष्ठे ज्योति॑ष्मतीं॒-विँश्व॑स्मै प्रा॒णाया॑पा॒नाय॒ विश्व॒-ञ्ज्योति॑र्यच्छ परमे॒ष्ठी ते-ऽधि॑पतिः पुरोवात॒सनि॑रस्य भ्र॒सनि॑रसि विद्यु॒थ्सनि॑- [विद्यु॒थ्सनिः॑, अ॒सि॒ स्त॒न॒यि॒त्नु॒सनि॑रसि] 20

-रसि स्तनयित्नु॒सनि॑रसि वृष्टि॒सनि॑रस्य॒-ग्नेर्यान्य॑सि दे॒वाना॑मग्ने॒ यान्य॑सि वा॒योर्यान्य॑सि दे॒वानां᳚-वाँयो॒यान्य॑स्य॒न्तरि॑क्षस्य॒ यान्य॑सि दे॒वाना॑- मन्तरिक्ष॒यान्य॑स्य॒-न्तरि॑क्षमस्य॒न्तरि॑क्षाय त्वा सलि॒लाय॑ त्वा॒ सर्णी॑काय त्वा॒ सती॑काय त्वा॒ केता॑य त्वा॒ प्रचे॑तसे त्वा॒ विव॑स्वते त्वा दि॒वस्त्वा॒ ज्योति॑ष आदि॒त्येभ्य॑स्त्व॒र्चे त्वा॑ रु॒चे त्वा᳚ द्यु॒ते त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा यशो॒दा-न्त्वा॒ यश॑सि तेजो॒दा-न्त्वा॒ तेज॑सि पयो॒दा-न्त्वा॒ पय॑सि वर्चो॒दा-न्त्वा॒ वर्च॑सि द्रविणो॒दा-न्त्वा॒ द्रवि॑णे सादयामि॒ तेनर्​षि॑णा॒ तेन॒ ब्रह्म॑णा॒ तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 21 ॥
(वि॒द्यु॒थ्सनि॑ – र्द्यु॒ते त्वै – का॒न्न त्रि॒ग्ं॒शच्च॑) (अ. 6)

भू॒य॒स्कृद॑सि वरिव॒स्कृद॑सि॒ प्राच्य॑स्यू॒र्ध्वा-ऽस्य॑-न्तरिक्ष॒सद॑स्य॒-न्तरि॑क्षे सीदा-फ्सु॒षद॑सि श्येन॒सद॑सि गृद्ध्र॒सद॑सि सुपर्ण॒सद॑सि नाक॒सद॑सि पृथि॒व्यास्त्वा॒ द्रवि॑णे सादयाम्य॒-न्तरि॑क्षस्य त्वा॒ द्रवि॑णे सादयामि दि॒वस्त्वा॒ द्रवि॑णे सादयामि दि॒शा-न्त्वा॒ द्रवि॑णे सादयामि द्रविणो॒दा-न्त्वा॒ द्रवि॑णे सादयामि प्रा॒ण-म्मे॑ पाह्य-पा॒न-म्मे॑ पाहि व्या॒न-म्मे॑ [व्या॒न-म्मे᳚, पा॒ह्यायु॑र्मे पाहि] 22

पा॒ह्यायु॑र्मे पाहि वि॒श्वायु॑र्मे पाहि स॒र्वायु॑र्मे पा॒ह्यग्ने॒ य-त्ते॒ पर॒ग्ं॒ हृन्नाम॒ तावेहि॒ सग्ं र॑भावहै॒ पाञ्च॑ जन्ये॒ष्व-प्ये᳚द्ध्यग्ने॒ यावा॒ अया॑वा॒ एवा॒ ऊमा॒-स्सब्द॒-स्सग॑र-स्सु॒मेकः॑ ॥ 23 ॥
(व्या॒न-म्मे॒-द्वात्रिग्ं॑शच्च) (अ. 7)

अ॒ग्निना॑ विश्वा॒षाट् सूर्ये॑ण स्व॒रा-ट्क्रत्वा॒ शची॒पति॑र्-ऋष॒भेण॒ त्वष्टा॑ य॒ज्ञेन॑ म॒घवा॒-न्दक्षि॑णया सुव॒र्गो म॒न्युना॑ वृत्र॒हा सौहा᳚र्द्येन तनू॒धा अन्ने॑न॒ गयः॑ पृथि॒व्या-ऽस॑नो दृ॒ग्भिर॑न्ना॒दो व॑षट्का॒रेण॒र्ध-स्साम्ना॑ तनू॒पा वि॒राजा॒ ज्योति॑ष्मा॒-न्ब्रह्म॑णा सोम॒पा गोभि॑र्य॒ज्ञ-न्दा॑धार क्ष॒त्रेण॑ मनु॒ष्या॑-नश्वे॑न च॒ रथे॑न च व॒ज्र्यृ॑तुभिः॑ प्र॒भु-स्सं॑​वँथ्स॒रेण॑ परि॒भू स्तप॒सा-ऽना॑धृष्ट॒-स्सूर्य॒-स्स-न्त॒नूभिः॑ ॥ 24 ॥
(अ॒ग्नि – रैका॒न्न प॑ञ्चा॒शत्) (अ. 8)

प्र॒जाप॑ति॒र्मन॒सा ऽन्धो-ऽच्छे॑तो धा॒ता दी॒क्षायाग्ं॑ सवि॒ता भृ॒त्या-म्पू॒षा सो॑म॒क्रय॑ण्यां॒-वँरु॑ण॒ उप॑न॒द्धो ऽसु॑रः क्री॒यमा॑णो मि॒त्रः क्री॒त-श्शि॑पिवि॒ष्ट आसा॑दितो न॒रन्धि॑षः प्रो॒ह्यमा॒णो ऽधि॑पति॒राग॑तः प्र॒जाप॑तिः प्रणी॒यमा॑नो॒ ऽग्निराग्नी᳚द्ध्रे॒ बृह॒स्पति॒राग्नी᳚द्ध्रा-त्प्रणी॒यमा॑न॒ इन्द्रो॑ हवि॒र्धाने ऽदि॑ति॒रासा॑दितो॒ विष्णु॑रुपावह्रि॒यमा॒णो ऽथ॒र्वोपो᳚त्तो य॒मो॑-ऽभिषु॑तो ऽपूत॒पा आ॑धू॒यमा॑नो वा॒युः पू॒यमा॑नो मि॒त्रः, क्षी॑र॒श्रीर्म॒न्थी स॑क्तु॒श्रीर्वै᳚श्वदे॒व उन्नी॑तो रु॒द्र आहु॑तो वा॒युरावृ॑त्तो नृ॒चक्षाः॒ प्रति॑ख्यातो भ॒क्ष आग॑तः पितृ॒णा-न्ना॑राश॒ग्ं॒सो ऽसु॒रात्त॒-स्सिन्धु॑र-वभृ॒थम॑वप्र॒यन्-थ्स॑मु॒द्रो ऽव॑गत-स्सलि॒लः प्रप्लु॑त॒-स्सुव॑रु॒दृच॑-ङ्ग॒तः ॥ 25 ॥
(रु॒द्र – एक॑विग्ंशतिश्च) (अ. 9)

कृत्ति॑का॒ नक्ष॑त्र-म॒ग्निर्दे॒वता॒-ऽग्ने रुचः॑ स्थ प्र॒जाप॑तेर्धा॒तु-स्सोम॑स्य॒र्चे त्वा॑ रु॒चे त्वा᳚ द्यु॒ते त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा रोहि॒णी नक्ष॑त्र-म्प्र॒जाप॑तिर्दे॒वता॑ मृगशी॒र्॒ष॑-न्नक्ष॑त्र॒ग्ं॒ सोमो॑ दे॒वता॒ ऽऽर्द्रा नक्ष॑त्रग्ं रु॒द्रो दे॒वता॒ पुन॑र्वसू॒ नक्ष॑त्र॒मदि॑तिर्दे॒वता॑- ति॒ष्यो॑ नक्ष॑त्र॒-म्बृह॒स्पति॑र्दे॒वता᳚ ऽऽश्रे॒षा नक्ष॑त्रग्ं स॒र्पा दे॒वता॑ म॒घा नक्ष॑त्र-म्पि॒तरो॑ दे॒वता॒ फल्गु॑नी॒ नक्ष॑त्र- [नक्ष॑त्रम्, अ॒र्य॒मा] 26

-मर्य॒मा दे॒वता॒ फल्गु॑नी॒ नक्ष॑त्र॒-म्भगो॑ दे॒वता॒ हस्तो॒ नक्ष॑त्रग्ं सवि॒ता दे॒वता॑ चि॒त्रा नक्ष॑त्र॒मिन्द्रो॑ दे॒वता᳚ स्वा॒ती नक्ष॑त्रं-वाँ॒युर्दे॒वता॒ विशा॑खे॒ नक्ष॑त्रमिन्द्रा॒ग्नी दे॒वता॑ ऽनूरा॒धा नक्ष॑त्र-म्मि॒त्रो दे॒वता॑ रोहि॒णी नक्ष॑त्र॒मिन्द्रो॑ दे॒वता॑ वि॒चृतौ॒ नक्ष॑त्र-म्पि॒तरो॑ दे॒वता॑ ऽषा॒ढा नक्ष॑त्र॒मापो॑ दे॒वता॑ ऽषा॒ढा नक्ष॑त्रं॒-विँश्वे॑ दे॒वा दे॒वता᳚ श्रो॒णा नक्ष॑त्रं॒-विँष्णु॑र्दे॒वता॒ श्रवि॑ष्ठा॒ नक्ष॑त्रं॒-वँस॑वो [नक्ष॑त्रं॒-वँस॑वः, दे॒वता॑] 27

दे॒वता॑ श॒तभि॑ष॒-न्नक्ष॑त्र॒मिन्द्रो॑ दे॒वता᳚ प्रोष्ठप॒दा नक्ष॑त्रम॒ज एक॑पा-द्दे॒वता᳚ प्रोष्ठप॒दा नक्ष॑त्र॒महि॑र्बु॒द्ध्नियो॑ दे॒वता॑ रे॒वती॒ नक्ष॑त्र-म्पू॒षा दे॒वता᳚ ऽश्व॒युजौ॒ नक्ष॑त्रम॒श्विनौ॑ दे॒वता॑ ऽप॒भर॑णी॒र्नक्ष॑त्रं-यँ॒मो दे॒वता॑, पू॒र्णा प॒श्चाद्य-त्ते॑ दे॒वा अद॑धुः ॥ 28 ॥
(फल्गु॑नी॒ नक्ष॑त्रं॒ – ​वँस॑व॒ – स्त्रय॑स्त्रिग्ंशच्च) (अ. 10)

मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिकावृ॒तू शु॒क्रश्च॒ शुचि॑श्च॒ ग्रैष्मा॑वृ॒तू नभ॑श्च नभ॒स्य॑श्च॒ वार्​षि॑कावृ॒तू इ॒षश्चो॒र्जश्च॑ शार॒दावृ॒तू सह॑श्च सह॒स्य॑श्च॒ हैम॑न्तिकावृ॒तू तप॑श्च तप॒स्य॑श्च शैशि॒रावृ॒तू अ॒ग्नेर॑न्त-श्श्ले॒षो॑-ऽसि॒ कल्पे॑ता॒-न्द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धीः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒म्मम॒ ज्यैष्ठ्य॑य॒ सव्र॑ता॒ [सव्र॑ताः, ये᳚-ऽग्नय॒-] 29

ये᳚-ऽग्नय॒-स्सम॑नसो-ऽन्त॒रा द्यावा॑पृथि॒वी शै॑शि॒रावृ॒तू अ॒भि कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॒भि सं​विँ॑शन्तु सं॒​यँच्च॒ प्रचे॑ताश्चा॒ग्ने-स्सोम॑स्य॒ सूर्य॑स्यो॒-ग्रा च॑ भी॒मा च॑ पितृ॒णां-यँ॒मस्येन्द्र॑स्य ध्रु॒वा च॑ पृथि॒वी च॑ दे॒वस्य॑ सवि॒तुर्म॒रुतां॒-वँरु॑णस्य ध॒र्त्री च॒ धरि॑त्री च मि॒त्रावरु॑णयो र्मि॒त्रस्य॑ धा॒तुः प्राची॑ च प्र॒तीची॑ च॒ वसू॑नाग्ं रु॒द्राणा॑- [रु॒द्राणा᳚म्, आ॒दि॒त्याना॒-न्ते] 30

-मादि॒त्याना॒-न्ते ते-ऽधि॑पतय॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते य-न्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं-वोँ॒ जम्भे॑ दधामि स॒हस्र॑स्य प्र॒मा अ॑सि स॒हस्र॑स्य प्रति॒मा अ॑सि स॒हस्र॑स्य वि॒मा अ॑सि स॒हस्र॑स्यो॒न्मा अ॑सि साह॒स्रो॑-ऽसि स॒हस्रा॑य त्वे॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ स॒न्त्वेका॑ च श॒त-ञ्च॑ स॒हस्र॑-ञ्चा॒युत॑-ञ्च [ ] 31

नि॒युत॑-ञ्च प्र॒युत॒-ञ्चार्बु॑द-ञ्च॒ न्य॑र्बुद-ञ्च समु॒द्रश्च॒ मद्ध्य॒-ञ्चान्त॑श्च परा॒र्धश्चे॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ सन्तु ष॒ष्ठि-स्स॒हस्र॑म॒युत॒-मक्षी॑यमाणा ऋत॒स्था स्थ॑र्ता॒वृधो॑ घृत॒श्चुतो॑ मधु॒श्चुत॒ ऊर्ज॑स्वती-स्स्वधा॒विनी॒स्ता मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ सन्तु वि॒राजो॒ नाम॑ काम॒दुघा॑ अ॒मुत्रा॒मुष्मि॑-​ल्लोँ॒के ॥ 32 ॥
(सव्र॑ता – रु॒द्राणा॑ – म॒युत॑ञ्च॒ – पञ्च॑चत्वारिग्ंशच्च) (अ. 11)

स॒मि-द्दि॒शामा॒शया॑ न-स्सुव॒र्विन्मधो॒रतो॒ माध॑वः पात्व॒स्मान् । अ॒ग्निर्दे॒वो दु॒ष्टरी॑तु॒रदा᳚भ्य इ॒द-ङ्क्ष॒त्रग्ं र॑क्षतु॒ पात्व॒स्मान् ॥ र॒थ॒न्त॒रग्ं साम॑भिः पात्व॒स्मा-न्गा॑य॒त्री छन्द॑सां-विँ॒श्वरू॑पा । त्रि॒वृन्नो॑ वि॒ष्ठया॒ स्तोमो॒ अह्नाग्ं॑ समु॒द्रो वात॑ इ॒दमोजः॑ पिपर्तु ॥ उ॒ग्रा दि॒शाम॒भि-भू॑तिर्वयो॒धा-श्शुचिः॑ शु॒क्रे अह॑न्योज॒सीना᳚ । इन्द्राधि॑पतिः पिपृता॒दतो॑ नो॒ महि॑ [ ] 33

क्ष॒त्रं-विँ॒श्वतो॑ धारये॒दम् ॥ बृ॒ह-थ्साम॑ क्षत्र॒भृ-द्वृ॒द्ध वृ॑ष्णिय-न्त्रि॒ष्टुभौजः॑ शुभि॒त मु॒ग्रवी॑रम् । इन्द्र॒ स्तोमे॑न पञ्चद॒शेन॒ मद्ध्य॑मि॒दं-वाँते॑न॒ सग॑रेण रक्ष ॥ प्राची॑ दि॒शाग्ं स॒हय॑शा॒ यश॑स्वती॒ विश्वे॑ देवाः प्रा॒वृषा ऽह्ना॒ग्ं॒ सुव॑र्वती । इ॒द-ङ्क्ष॒त्र-न्दु॒ष्टर॑म॒स्त्वोजो ऽना॑धृष्टग्ं सह॒स्रिय॒ग्ं॒ सह॑स्वत् ॥ वै॒रू॒पे साम॑न्नि॒ह तच्छ॑केम॒ जग॑त्यैनं-विँ॒क्ष्वा वे॑शयामः । विश्वे॑ देवा-स्सप्तद॒शेन॒ [सप्तद॒शेन॑, वर्च॑ इ॒द-ङ्क्ष॒त्रग्ं] 34

वर्च॑ इ॒द-ङ्क्ष॒त्रग्ं स॑लि॒लवा॑तमु॒ग्रम् ॥ ध॒र्त्री दि॒शा-ङ्क्ष॒त्रमि॒द-न्दा॑धारोप॒स्था-ऽऽशा॑ना-म्मि॒त्रव॑द॒स्त्वोजः॑ । मित्रा॑वरुणा श॒रदा-ऽह्ना᳚-ञ्चिकित्नू अ॒स्मै रा॒ष्ट्राय॒ महि॒ शर्म॑ यच्छतम् ॥ वै॒रा॒जे साम॒न्नधि॑ मे मनी॒षा-ऽनु॒ष्टुभा॒ सम्भृ॑तं-वीँ॒र्यग्ं॑ सहः॑ । इ॒द-ङ्क्ष॒त्र-म्मि॒त्रव॑दा॒र्द्रदा॑नु॒ मित्रा॑वरुणा॒ रक्ष॑त॒-माधि॑पत्यैः ॥ स॒म्रा-ड्दि॒शाग्ं स॒हसा᳚म्नी॒ सह॑स्वत्यृ॒तुर्​हे॑म॒न्तो वि॒ष्ठया॑ नः पिपर्तु । अ॒व॒स्युवा॑ता [अ॒व॒स्युवा॑ताः, बृ॒ह॒तीर्नु] 35

बृह॒तीर्नु शक्व॑रीरि॒मं-यँ॒ज्ञम॑वन्तु नो घृ॒ताचीः᳚ ॥ सुव॑र्वती सु॒दुघा॑ नः॒ पय॑स्वती दि॒शा-न्दे॒व्य॑वतु नो घृ॒ताची᳚ । त्व-ङ्गो॒पाः पु॑रए॒तोत प॒श्चा-द्बृह॑स्पते॒ याम्यां᳚-युँङ्ग्धि॒ वाच᳚म् ॥ ऊ॒र्ध्वा दि॒शाग्ं रन्ति॒राशौष॑धीनाग्ं सं​वँथ्स॒रेण॑ सवि॒ता नो॒ अह्ना᳚म् । रे॒व-थ्सामाति॑च्छन्दा उ॒ छन्दो-ऽजा॑त शत्रु-स्स्यो॒ना नो॑ अस्तु ॥ स्तोम॑त्रयस्त्रिग्ंशे॒ भुव॑नस्य पत्नि॒ विव॑स्वद्वाते अ॒भि नो॑ [अ॒भि नः॑, गृ॒णा॒हि॒ ।] 36

गृणाहि । घृ॒तव॑ती सवित॒राधि॑पत्यैः॒ पय॑स्वती॒ रन्ति॒राशा॑ नो अस्तु ॥ ध्रु॒वा दि॒शां-विँष्णु॑प॒त्न्यघो॑रा॒-ऽस्येशा॑ना॒ सह॑सो॒ या म॒नोता᳚ । बृह॒स्पति॑ र्मात॒रिश्वो॒त वा॒यु-स्स॑न्धुवा॒ना वाता॑ अ॒भि नो॑ गृणन्तु ॥ वि॒ष्ट॒भो-न्दि॒वो ध॒रुणः॑ पृथि॒व्या अ॒स्येशा॑ना॒ जग॑तो॒ विष्णु॑पत्नी । वि॒श्वव्य॑चा इ॒षय॑न्ती॒ सुभू॑ति-श्शि॒वा नो॑ अ॒स्त्वदि॑तिरु॒पस्थे᳚ ॥ वै॒श्वा॒न॒रो न॑ ऊ॒त्यापृ॒ष्टो दि॒व्यनु॑ नो॒ ऽद्यानु॑मति॒रन्विद॑नुमते॒ त्व-ङ्कया॑ नश्चि॒त्र आभु॑व॒त्को अ॒द्य यु॑ङ्क्ते ॥ 37 ॥
(महि॑ – सप्तद॒शेना॑ – ऽव॒स्युवा॑ता – अ॒भि नो – ऽनु॑ न॒ – श्चतु॑र्दश च) (अ. 12)

(र॒श्मिर॑सि॒ – राज्ञ्य॑स्य॒ – य-म्पु॒रो हरि॑केशो॒ – ऽग्निर्मू॒र्ध – न्द्रा॒ग्निभ्यां॒ – बृह॒स्पति॑ – र्भूय॒स्कृद॑ – स्य॒ग्निना॑ विश्वा॒षाट् – प्र॒जाप॑ति॒र्मन॑सा॒ – कृत्ति॑का॒ – मधु॑श्च – स॒मिद्दि॒शां – द्वाद॑श )

(र॒श्मिर॑सि॒ – प्रति॑ धे॒नु- म॑सि स्तनयित्नु॒सनि॑र – स्यादि॒त्यानाग्ं॑ – स॒प्तत्रिग्ं॑शत् )

(र॒श्मिर॑सि॒, को अ॒द्य यु॑ङ्क्ते)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-ञ्चतुर्थ काण्डे चतुर्थः प्रश्न-स्समाप्तः ॥