कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्पञ्चमकाण्डे सप्तमः प्रश्नः-उपानुवाक्यावशिष्टकर्मनिरूपणं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

यो वा अय॑थादेवतम॒ग्नि-ञ्चि॑नु॒त आ दे॒वता᳚भ्यो वृश्च्यते॒ पापी॑या-न्भवति॒ यो य॑थादेव॒त-न्न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑या-न्भवत्याग्ने॒य्या गा॑यत्रि॒या प्र॑थ॒मा-ञ्चिति॑म॒भि मृ॑शे-त्त्रि॒ष्टुभा᳚ द्वि॒तीया॒-ञ्जग॑त्या तृ॒तीया॑मनु॒ष्टुभा॑ चतु॒र्थी-म्प॒ङ्क्त्या प॑ञ्च॒मीं-यँ॑थादेव॒तमे॒वाग्नि-ञ्चि॑नुते॒ न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑या-न्भव॒तीडा॑यै॒ वा ए॒षा विभ॑क्तिः प॒शव॒ इडा॑ प॒शुभि॑रेन- [प॒शुभि॑रेनम्, चि॒नु॒ते॒ यो वै] 1

-ञ्चिनुते॒ यो वै प्र॒जाप॑तये प्रति॒ प्रोच्या॒ग्नि-ञ्चि॒नोति॒ ना-ऽऽर्ति॒मार्च्छ॒-त्यश्वा॑व॒भित॑स्तिष्ठेता-ङ्कृ॒ष्ण उ॑त्तर॒त-श्श्वे॒तो दक्षि॑ण॒स्तावा॒लभ्येष्ट॑का॒ उप॑ दद्ध्यादे॒तद्वै प्र॒जाप॑ते रू॒प-म्प्रा॑जाप॒त्यो-ऽश्वः॑ सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्नि-ञ्चि॑नोति॒ ना-ऽऽर्ति॒मार्च्छ॑त्ये॒तद्वा अह्नो॑ रू॒पं-यँच्छ्वे॒तो-ऽश्वो॒ रात्रि॑यै कृ॒ष्ण ए॒तदह्नो॑ [ए॒तदह्नः॑, रू॒पं-यँदिष्ट॑का॒] 2

रू॒पं-यँदिष्ट॑का॒ रात्रि॑यै॒ पुरी॑ष॒मिष्ट॑का उपधा॒स्यञ्छ्वे॒त-मश्व॑म॒भि मृ॑शे॒-त्पुरी॑षमुपधा॒स्यन् कृ॒ष्णम॑होरा॒त्राभ्या॑मे॒वैन॑-ञ्चिनुते हिरण्य पा॒त्र-म्मधोः᳚ पू॒र्ण-न्द॑दाति मध॒व्यो॑ ऽसा॒नीति॑ सौ॒र्या चि॒त्रव॒त्या-ऽवे᳚क्षते चि॒त्रमे॒व भ॑वति म॒द्ध्यन्दि॒ने-ऽश्व॒मव॑ घ्रापयत्य॒सौ वा आ॑दि॒त्य इन्द्र॑ ए॒ष प्र॒जाप॑तिः प्राजाप॒त्यो-ऽश्व॒स्तमे॒व सा॒क्षादृ॑द्ध्नोति ॥ 3 ॥
(ए॒न॒ – मे॒तदह्नो॒ – ऽष्टाच॑त्वारिग्ंशच्च) (अ. 1)

त्वाम॑ग्ने वृष॒भ-ञ्चेकि॑तान॒-म्पुन॒र्युवा॑न-ञ्ज॒नय॑न्नु॒पागा᳚म् । अ॒स्थू॒रि णो॒ गार्​ह॑पत्यानि सन्तु ति॒ग्मेन॑ नो॒ ब्रह्म॑णा॒ सग्ं शि॑शाधि ॥ प॒शवो॒ वा ए॒ते यदिष्ट॑का॒श्चित्या᳚-ञ्चित्यामृष॒भमुप॑ दधाति मिथु॒नमे॒वास्य॒ त-द्य॒ज्ञे क॑रोति प्र॒जन॑नाय॒ तस्मा᳚-द्यू॒थेयू॑थ ऋष॒भः ॥ सं॒​वँ॒थ्स॒रस्य॑ प्रति॒मां-याँ-न्त्वा॑ रात्र्यु॒पास॑ते । प्र॒जाग्ं सु॒वीरा᳚-ङ्कृ॒त्वा विश्व॒मायु॒र्व्य॑श्ञवत् ॥ प्रा॒जा॒प॒त्या- [प्रा॒जा॒प॒त्याम्, ए॒तामुप॑] 4

-मे॒तामुप॑ दधाती॒यं-वाँ वैषैका᳚ष्ट॒का यदे॒वैका᳚ष्ट॒काया॒मन्न॑-ङ्क्रि॒यते॒ तदे॒वैतयाव॑ रुन्ध ए॒षा वै प्र॒जाप॑तेः काम॒दुघा॒ तयै॒व यज॑मानो॒-ऽमुष्मि॑-​ल्लोँ॒के᳚-ऽग्नि-न्दु॑हे॒ येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्॒ येना॑-ऽऽदि॒त्या वस॑वो॒ येन॑ रु॒द्राः । येनाङ्गि॑रसो महि॒मान॑-मान॒शुस्तेनै॑तु॒ यज॑मान-स्स्व॒स्ति ॥ सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ [लो॒काय॑, ची॒य॒ते॒ यद॒ग्निर्येन॑] 5

चीयते॒ यद॒ग्निर्येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्नित्युख्य॒ग्ं॒ समि॑न्ध॒ इष्ट॑का ए॒वैता उप॑ धत्ते वानस्प॒त्या-स्सु॑व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै श॒तायु॑धाय श॒तवी᳚र्याय श॒तोत॑ये ऽभिमाति॒षाहे᳚ । श॒तं-योँ नः॑ श॒रदो॒ अजी॑ता॒निन्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा᳚ ॥ ये च॒त्वारः॑ प॒थयो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । तेषां॒-योँ अज्या॑नि॒- मजी॑ति-मा॒वहा॒-त्तस्मै॑ नो देवाः॒ [नो देवाः, परि॑ दत्ते॒ह सर्वे᳚ ।] 6

परि॑ दत्ते॒ह सर्वे᳚ ॥ ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑ वस॒न्त-श्श॒र-द्व॒र्॒षा-स्सु॑वि॒तन्नो॑ अस्तु । तेषा॑मृतू॒नाग्ं श॒त शा॑रदाना-न्निवा॒त ए॑षा॒मभ॑ये स्याम ॥ इ॒दु॒व॒थ्स॒राय॑ परिवथ्स॒राय॑ सं​वँञ्​थ्स॒राय॑ कृणुता बृ॒हन्नमः॑ । तेषां᳚-वँ॒यग्ं सु॑म॒तौ य॒ज्ञिया॑ना॒-ञ्ज्योगजी॑ता॒ अह॑ता-स्स्याम ॥ भ॒द्रान्न॒-श्श्रेय॒-स्सम॑नैष्ट देवा॒स्त्वया॑-ऽव॒सेन॒ सम॑शीमहि त्वा । स नो॑ मयो॒ भूः पि॑तो॒ [मयो॒ भूः पि॑तो, आ वि॑शस्व॒] 7

आ वि॑शस्व॒ श-न्तो॒काय॑ त॒नुवे᳚ स्यो॒नः ॥ अज्या॑नीरे॒ता उप॑ दधात्ये॒ता वै दे॒वता॒ अप॑राजिता॒स्ता ए॒व प्र वि॑शति॒ नैव जी॑यते ब्रह्मवा॒दिनो॑ वदन्ति॒ यद॑र्धमा॒सा मासा॑ ऋ॒तवः॑ सं​वँथ्स॒र ओष॑धीः॒ पच॒न्त्यथ॒ कस्मा॑द॒न्याभ्यो॑ दे॒वता᳚भ्य आग्रय॒ण-न्निरु॑प्यत॒ इत्ये॒ता हि त-द्दे॒वता॑ उ॒दज॑य॒न्॒ यदृ॒तुभ्यो॑ नि॒र्वपे᳚-द्दे॒वता᳚भ्य-स्स॒मद॑-न्दद्ध्यादाग्रय॒ण-न्नि॒रुप्यै॒ता आहु॑ती र्जुहोत्यर्धमा॒साने॒व मासा॑नृ॒तून्-थ्सं॑​वँथ्स॒र-म्प्री॑णाति॒ न दे॒वता᳚भ्य-स्स॒मद॑-न्दधाति भ॒द्रान्न॒-श्श्रेय॒-स्सम॑नैष्ट देवा॒ इत्या॑ह हु॒ताद्या॑य॒ यज॑मान॒स्या-ऽप॑राभावाय ॥ 8 ॥
(प्र॒जा॒प॒त्यां – ​लोँ॒काय॑ – देवाः – पितो – दध्यादाग्रय॒णं – पञ्च॑विग्ंशतिश्च) (अ. 2)

इन्द्र॑स्य॒ वज्रो॑-ऽसि॒ वार्त्र॑घ्नस्तनू॒पा नः॑ प्रतिस्प॒शः । यो नः॑ पु॒रस्ता᳚-द्दक्षिण॒तः प॒श्चा-दु॑त्तर॒तो॑-ऽघा॒युर॑भि॒दास॑त्ये॒तग्ं सो-ऽश्मा॑नमृच्छतु ॥ दे॒वा॒सु॒रा-स्सं​यँ॑त्ता आस॒-न्ते-ऽसु॑रा दि॒ग्भ्य आ-ऽबा॑धन्त॒ ता-न्दे॒वा इष्वा॑ च॒ वज्रे॑ण॒ चापा॑नुदन्त॒ य-द्व॒ज्रिणी॑रुप॒दधा॒तीष्वा॑ चै॒व त-द्वज्रे॑ण च॒ यज॑मानो॒ भ्रातृ॑व्या॒नप॑ नुदते दि॒क्षूप॑ [दि॒क्षूप॑, द॒धा॒ति॒ दे॒व॒पु॒रा] 9

दधाति देवपु॒रा ए॒वैतास्त॑नू॒पानीः॒ पर्यू॑ह॒ते ऽग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वा॒गिंरः॑ । द्यु॒म्नैर्वाजे॑भि॒रा ग॑तम् ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ यन्न दे॒वता॑यै॒ जुह्व॒त्यथ॑ कि-न्देव॒त्या॑ वसो॒र्धारेत्य॒ग्नि-र्वसु॒स्तस्यै॒षा धारा॒ विष्णु॒-र्वसु॒स्तस्यै॒षा धारा᳚ ऽऽग्नावैष्ण॒व्यर्चा वसो॒र्धारा᳚-ञ्जुहोति भाग॒धेये॑नै॒वैनौ॒ सम॑र्धय॒त्यथो॑ ए॒ता- [ए॒ताम्, ए॒वा-ऽऽहु॑ति-] 10

-मे॒वा-ऽऽहु॑ति-मा॒यत॑नवती-ङ्करोति॒ यत्का॑म एना-ञ्जु॒होति॒ तदे॒वाव॑ रुन्धे रु॒द्रो वा ए॒ष यद॒ग्निस्तस्यै॒ते त॒नुवौ॑ घो॒रा-ऽन्या शि॒वा-ऽन्या यच्छ॑तरु॒द्रीय॑-ञ्जु॒होति॒ यैवास्य॑ घो॒रा त॒नूस्ता-न्तेन॑ शमयति॒ य-द्वसो॒र्धारा᳚-ञ्जु॒होति॒ यैवास्य॑ शि॒वा त॒नूस्ता-न्तेन॑ प्रीणाति॒ यो वै वसो॒र्धारा॑यै [वसो॒र्धारा॑यै, प्र॒ति॒ष्ठां-वेँद॒] 11

प्रति॒ष्ठां-वेँद॒ प्रत्ये॒व ति॑ष्ठति॒ यदाज्य॑मु॒च्छिष्ये॑त॒ तस्मि॑-न्ब्रह्मौद॒न-म्प॑चे॒-त्त-म्ब्रा᳚ह्म॒णाश्च॒त्वारः॒ प्रा-ऽश्ञी॑युरे॒ष वा अ॒ग्निर्वै᳚श्वान॒रो यद्ब्रा᳚ह्म॒ण ए॒षा खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूर्य-द्वै᳚श्वान॒रः प्रि॒याया॑मे॒वैना᳚-न्त॒नुवा॒-म्प्रति॑ ष्ठापयति॒ चत॑स्रो धे॒नूर्द॑द्या॒-त्ताभि॑रे॒व यज॑मानो॒-ऽमुष्मि॑-​ल्लोँ॒के᳚-ऽग्नि-न्दु॑हे ॥ 12 ॥
(उपै॒ – तां – धारा॑यै॒ – षट्च॑त्वारिग्ंशच्च) (अ. 3)

चित्ति॑-ञ्जुहोमि॒ मन॑सा घृ॒तेनेत्या॒हादा᳚भ्या॒ वै नामै॒षा-ऽऽहु॑तिर्वैश्वकर्म॒णी नैन॑-ञ्चिक्या॒न-म्भ्रातृ॑व्यो दभ्नो॒त्यथो॑ दे॒वता॑ ए॒वाव॑ रु॒न्धे ऽग्ने॒ तम॒द्येति॑ प॒ङ्क्त्या जु॑होति प॒ङ्क्त्या-ऽऽहु॑त्या यज्ञमु॒खमा र॑भते स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्तजि॒ह्वा इत्या॑ह॒ होत्रा॑ ए॒वाव॑ रुन्धे॒ ऽग्निर्दे॒वेभ्यो-ऽपा᳚क्रा-ऽम-द्भाग॒धेय॑- [-ऽपा᳚क्रा-ऽम-द्भाग॒धेय᳚म्, इ॒च्छमा॑न॒स्तस्मा॑] 13

-मि॒च्छमा॑न॒स्तस्मा॑ ए॒त-द्भा॑ग॒धेय॒-म्प्राय॑च्छन्ने॒तद्वा अ॒ग्नेर॑ग्निहो॒त्रमे॒तर्​हि॒ खलु॒ वा ए॒ष जा॒तो यर्​हि॒ सर्व॑श्चि॒तो जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ स ए॑न-म्प्री॒तः प्री॑णाति॒ वसी॑या-न्भवति ब्रह्मवा॒दिनो॑ वदन्ति॒ यदे॒ष गार्​ह॑पत्यश्ची॒यते-ऽथ॒ क्वा᳚स्या-ऽऽहव॒नीय॒ इत्य॒सावा॑दि॒त्य इति॑ ब्रूयादे॒तस्मि॒न्॒ःइ सर्वा᳚भ्यो दे॒वता᳚भ्यो॒ जुह्व॑ति॒ [जुह्व॑ति, य ए॒वं-विँ॒द्वान॒ग्नि-] 14

य ए॒वं-विँ॒द्वान॒ग्नि-ञ्चि॑नु॒ते सा॒क्षादे॒व दे॒वता॑ ऋद्ध्नो॒त्यग्ने॑ यशस्वि॒न्॒ यश॑से॒ मम॑र्प॒येन्द्रा॑वती॒ मप॑चिती मि॒हा-ऽऽव॑ह । अ॒य-म्मू॒र्धा प॑रमे॒ष्ठी सु॒वर्चा᳚-स्समा॒नाना॑मुत्त॒म श्लो॑को अस्तु ॥ भ॒द्र-म्पश्य॑न्त॒ उप॑ सेदु॒रग्रे॒ तपो॑ दी॒क्षामृष॑य-स्सुव॒र्विदः॑ । ततः॑ क्ष॒त्र-म्बल॒मोज॑श्च जा॒त-न्तद॒स्मै दे॒वा अ॒भि स-न्न॑मन्तु ॥ धा॒ता वि॑धा॒ता प॑र॒मो- [प॑र॒मा, उ॒त स॒न्दृ-क्प्र॒जाप॑तिः] 15

-त स॒न्दृ-क्प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा᳚ । स्तोमा॒-श्छन्दाग्ं॑सि नि॒विदो॑ म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि स-न्न॑माम ॥ अ॒भ्याव॑र्तद्ध्व॒मुप॒ मेत॑ सा॒कम॒यग्ं शा॒स्ता-ऽधि॑पतिर्वो अस्तु । अ॒स्य वि॒ज्ञान॒मनु॒ सग्ं र॑भद्ध्वमि॒म-म्प॒श्चादनु॑ जीवाथ॒ सर्वे᳚ ॥ रा॒ष्ट्र॒भृत॑ ए॒ता उप॑ दधात्ये॒षा वा अ॒ग्नेश्चिती॑ राष्ट्र॒भृ-त्तयै॒वास्मि॑-न्रा॒ष्ट्र-न्द॑धाति रा॒ष्ट्रमे॒व भ॑वति॒ नास्मा᳚-द्रा॒ष्ट्र-म्भ्रग्ं॑शते ॥ 16 ॥
(भा॒ग॒धेयं॒ – जुह्व॑ति – पर॒मा – रा॒ष्ट्र-न्द॑धाति – स॒प्त च॑) (अ. 4)

यथा॒ वै पु॒त्रो जा॒तो म्रि॒यत॑ ए॒वं-वाँ ए॒ष म्रि॑यते॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति॒ यन्नि॑र्म॒न्थ्य॑-ङ्कु॒र्या-द्विच्छि॑न्द्या॒-द्भ्रातृ॑व्यमस्मै जनये॒-थ्स ए॒व पुनः॑ प॒रीद्ध्य॒-स्स्वादे॒वैनं॒-योँने᳚र्जनयति॒ नास्मै॒ भ्रातृ॑व्य-ञ्जनयति॒ तमो॒ वा ए॒त-ङ्गृ॑ह्णाति॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति मृ॒त्युस्तमः॑ कृ॒ष्णं-वाँसः॑ कृ॒ष्णा धे॒नुर्दक्षि॑णा॒ तम॑सै॒- [तम॑सा, ए॒व तमो॑] 17

-व तमो॑ मृ॒त्युमप॑ हते॒ हिर॑ण्य-न्ददाति॒ ज्योति॒र्वै हिर॑ण्य॒-ञ्ज्योति॑षै॒व तमो-ऽप॑ ह॒ते-ऽथो॒ तेजो॒ वै हिर॑ण्य॒-न्तेज॑ ए॒वा-ऽऽत्म-न्ध॑त्ते॒ सुव॒र्न घ॒र्म-स्स्वाहा॒ सुव॒र्ना-ऽर्क-स्स्वाहा॒ सुव॒र्न शु॒क्र-स्स्वाहा॒ सुव॒र्न ज्योति॒-स्स्वाहा॒ सुव॒र्न सूर्य॒-स्स्वाहा॒ ऽर्को वा ए॒ष यद॒ग्नि-र॒सा-वा॑दि॒त्यो᳚- [यद॒ग्नि-र॒सा-वा॑दि॒त्यः, आ॒श्व॒मे॒धो यदे॒ता] 18

-ऽश्वमे॒धो यदे॒ता आहु॑ती र्जु॒होत्य॑र्का-श्वमे॒धयो॑रे॒व ज्योतीग्ं॑षि॒ स-न्द॑धात्ये॒ष ह॒ त्वा अ॑र्काश्वमे॒धी यस्यै॒तद॒ग्नौ क्रि॒यत॒ आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒-थ्स ए॒ता-म्प्र॒जाप॑तिः प्रथ॒मा-ञ्चिति॑मपश्य॒-त्तामुपा॑धत्त॒ तदि॒यम॑भव॒-त्तं-विँ॒श्वक॑र्मा-ऽब्रवी॒दुप॒ त्वा-ऽऽया॒नीति॒ नेह लो॒को᳚-ऽस्तीत्य॑- [लो॒को᳚-ऽस्तीति॑, अ॒ब्र॒वी॒-थ्स] 19

-त्यब्रवी॒-थ्स ए॒ता-न्द्वि॒तीया॒-ञ्चिति॑मपश्य॒-त्तामुपा॑धत्त॒ तद॒न्तरि॑क्षमभव॒-थ्स य॒ज्ञः प्र॒जाप॑तिमब्रवी॒दुप॒ त्वा-ऽऽया॒नीति॒ नेह लो॒को᳚-ऽस्तीत्य॑ब्रवी॒-थ्स वि॒श्वक॑र्माण-मब्रवी॒दुप॒ त्वा-ऽऽया॒नीति॒ केन॑ मो॒पैष्य॒सीति॒ दिश्या॑भि॒रित्य॑ब्रवी॒-त्त-न्दिश्या॑भिरु॒पै-त्ता उपा॑धत्त॒ ता दिशो॑- [ता दिशः॑, अ॒भ॒व॒न्-थ्स] 20

-ऽभव॒न्-थ्स प॑रमे॒ष्ठी प्र॒जाप॑तिमब्रवी॒दुप॒ त्वा-ऽऽया॒नीति॒ नेह लो॒को᳚-ऽस्तीत्य॑ब्रवी॒-थ्स वि॒श्वक॑र्माण-ञ्च य॒ज्ञ-ञ्चा᳚ब्रवी॒दुप॑ वा॒मा ऽया॒नीति॒ नेह लो॒को᳚-ऽस्तीत्य॑ब्रूता॒ग्ं॒ स ए॒ता-न्तृ॒तीया॒-ञ्चिति॑मपश्य॒-त्तामुपा॑धत्त॒ तद॒साव॑भव॒-थ्स आ॑दि॒त्यः प्र॒जाप॑ति-मब्रवी॒दुप॒ त्वा- [-मब्रवी॒दुप॒ त्वा, आया॒नीति॒] 21

-ऽऽया॒नीति॒ नेह लो॒को᳚-ऽस्तीत्य॑ब्रवी॒-थ्स वि॒श्वक॑र्माण-ञ्च य॒ज्ञ-ञ्चा᳚ब्रवी॒दुप॑ वा॒मा-ऽया॒नीति॒ नेह लो॒को᳚-ऽस्तीत्य॑ब्रूता॒ग्ं॒ स प॑रमे॒ष्ठिन॑मब्रवी॒दुप॒ त्वा-ऽऽया॒नीति॒ केन॑ मो॒पैष्य॒सीति॑ लोक-म्पृ॒णयेत्य॑ब्रवी॒-त्तं-लोँ॑क-म्पृ॒णयो॒पै-त्तस्मा॒दया॑तयाम्नी लोक-म्पृ॒णा-ऽया॑तयामा॒ ह्य॑सा- [ह्य॑सौ, आ॒दि॒त्यस्तानृष॑यो] 22

-वा॑दि॒त्यस्तानृष॑यो ऽब्रुव॒न्नुप॑ व॒ आ-ऽया॒मेति॒ केन॑ न उ॒पैष्य॒थेति॑ भू॒म्नेत्य॑ब्रुव॒-न्ता-न्द्वाभ्या॒-ञ्चिती᳚भ्यामु॒पाय॒न्-थ्स पञ्च॑चितीक॒-स्सम॑पद्यत॒ य ए॒वं-विँ॒द्वान॒ग्नि-ञ्चि॑नु॒ते भूया॑ने॒व भ॑वत्य॒भीमा-​ल्लोँ॒काञ्ज॑यति वि॒दुरे॑न-न्दे॒वा अथो॑ ए॒तासा॑मे॒व दे॒वता॑ना॒ग्ं॒ सायु॑ज्य-ङ्गच्छति ॥ 23 ॥
(तम॑सा – ऽऽदि॒त्यो᳚ – ऽस्तीति॒ – दिश॑ – आदि॒त्यः प्र॒जाप॑तिमब्रवी॒दुप॑ त्वा॒ – ऽसौ – पञ्च॑चत्वारिग्ंशच्च) (अ. 5)

वयो॒ वा अ॒ग्निर्यद॑ग्नि॒चि-त्प॒क्षिणो᳚-ऽश्ञी॒या-त्तमे॒वाग्निम॑द्या॒दा-र्ति॒मार्च्छे᳚-थ्सं​वँथ्स॒रं-व्रँ॒त-ञ्च॑रे-थ्सं​वँथ्स॒रग्ं हि व्र॒त-न्नाति॑ प॒शुर्वा ए॒ष यद॒ग्निर्​हि॒नस्ति॒ खलु॒ वै त-म्प॒शुर्य ए॑न-म्पु॒रस्ता᳚-त्प्र॒त्यञ्च॑मुप॒चर॑ति॒ तस्मा᳚-त्प॒श्चा-त्प्रांउ॑प॒चर्य॑ आ॒त्मनो-ऽहिग्ं॑सायै॒ तेजो॑-ऽसि॒ तेजो॑ मे यच्छ पृथि॒वीं-यँ॑च्छ [पृथि॒वीं-यँ॑च्छ, पृ॒थि॒व्यै मा॑ पाहि॒] 24

पृथि॒व्यै मा॑ पाहि॒ ज्योति॑रसि॒ ज्योति॑र्मे यच्छा॒न्तरि॑क्षं-यँच्छा॒न्तरि॑क्षान्मा पाहि॒ सुव॑रसि॒ सुव॑र्मे यच्छ॒ दिवं॑-यँच्छ दि॒वो मा॑ पा॒हीत्या॑है॒ताभि॒र्वा इ॒मे लो॒का विधृ॑ता॒ यदे॒ता उ॑प॒दधा᳚त्ये॒षां-लोँ॒कानां॒-विँधृ॑त्यै स्वयमातृ॒ण्णा उ॑प॒धाय॑ हिरण्येष्ट॒का उप॑दधाती॒मे वै लो॒का-स्स्व॑यमातृ॒ण्णा ज्योति॒र्॒हिर॑ण्यं॒-यँ-थ्स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ [उ॑प॒धाय॑, हि॒र॒ण्ये॒ष्ट॒का उ॑प॒दधा॑ती॒-] 25

हिरण्येष्ट॒का उ॑प॒दधा॑ती॒मा-ने॒वैताभि॑-र्लो॒का-ञ्ज्योति॑ष्मतः कुरु॒ते-ऽथो॑ ए॒ताभि॑रे॒वास्मा॑ इ॒मे लो॒काः प्र भा᳚न्ति॒ यास्ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभि॒-स्सर्वा॑भी रु॒चे जना॑य नस्कृधि ॥ या वो॑ देवा॒-स्सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ । इन्द्रा᳚ग्नी॒ ताभि॒-स्सर्वा॑भी॒ रुच॑-न्नो धत्त बृहस्पते ॥ रुच॑न्नो धेहि [धेहि, ब्रा॒ह्म॒णेषु॒ रुच॒ग्ं॒] 26

ब्राह्म॒णेषु॒ रुच॒ग्ं॒ राज॑सु नस्कृधि । रुचं॑-विँ॒श्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुच᳚म् ॥ द्वे॒धा वा अ॒ग्नि-ञ्चि॑क्या॒नस्य॒ यश॑ इन्द्रि॒य-ङ्ग॑च्छत्य॒ग्निं-वाँ॑ चि॒तमी॑जा॒नं-वाँ॒ यदे॒ता आहु॑तीर्जु॒होत्या॒त्मन्ने॒व यश॑ इन्द्रि॒य-न्ध॑त्त ईश्व॒रो वा ए॒ष आर्ति॒मार्तो॒र्यो᳚-ऽग्नि-ञ्चि॒न्वन्न॑धि॒ क्राम॑ति॒ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ इति॑ वारु॒ण्यर्चा [इति॑ वारु॒ण्यर्चा, जु॒हु॒या॒च्छान्ति॑-] 27

जु॑हुया॒च्छान्ति॑-रे॒वैषा ऽग्नेर्गुप्ति॑रा॒त्मनो॑ ह॒विष्कृ॑तो॒ वा ए॒ष यो᳚-ऽग्नि-ञ्चि॑नु॒ते यथा॒ वै ह॒वि-स्स्कन्द॑त्ये॒वं-वाँ ए॒ष स्क॑न्दति॒ यो᳚-ऽग्नि-ञ्चि॒त्वा स्त्रिय॑मु॒पैति॑ मैत्रावरु॒ण्या-ऽऽमिक्ष॑या यजेत मैत्रावरु॒णता॑-मे॒वोपै᳚त्या॒त्मनो ऽस्क॑न्दाय॒ यो वा अ॒ग्निमृ॑तु॒स्थां-वेँद॒र्तुर्-ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति सं​वँथ्स॒रो वा अ॒ग्निर्- [वा अ॒ग्निः, ऋ॒तु॒स्था-स्तस्य॑] 28

-ऋ॑तु॒स्था-स्तस्य॑ वस॒न्त-श्शिरो᳚ ग्री॒ष्मो दक्षि॑णः प॒क्षो व॒र्॒षाः पुच्छग्ं॑ श॒रदुत्त॑रः प॒क्षो हे॑म॒न्तो मद्ध्य॑-म्पूर्वप॒क्षा-श्चित॑यो-ऽपरप॒क्षाः पुरी॑ष-महोरा॒त्राणीष्ट॑का ए॒ष वा अ॒ग्निर्-ऋ॑तु॒स्था य ए॒वं-वेँद॒र्तुर्-ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति प्र॒जाप॑ति॒र्वा ए॒त-ञ्ज्यैष्ठ्य॑कामो॒ न्य॑धत्त॒ ततो॒ वै स ज्यैष्ठ्य॑मगच्छ॒द्य ए॒वं-विँ॒द्वान॒ग्नि-ञ्चि॑नु॒ते ज्यैष्ठ्य॑मे॒व ग॑च्छति ॥ 29 ॥
(पृ॒थि॒वीं-यँ॑च्छ॒ – य-थ्स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ – धेह्यृ॒ – चा – ग्नि – श्चि॑नु॒ते – त्रीणि॑ च) (अ. 6)

यदाकू॑ता-थ्स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ सम्भृ॑त॒-ञ्चक्षु॑षो वा । तमनु॒ प्रेहि॑ सुकृ॒तस्य॑ लो॒कं-यँत्रर्​ष॑यः प्रथम॒जा ये पु॑रा॒णाः ॥ ए॒तग्ं स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहा᳚च्छेव॒धि-ञ्जा॒तवे॑दाः । अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर्वो॒ अत्र॒ तग्ग्​ स्म॑ जानीत पर॒मे व्यो॑मन्न् ॥ जा॒नी॒तादे॑न-म्पर॒मे व्यो॑म॒-न्देवा᳚-स्सधस्था वि॒द रू॒पम॑स्य । यदा॒गच्छा᳚- [यदा॒गच्छा᳚त्, प॒थिभि॑-र्देव॒यानै॑] 30

-त्प॒थिभि॑-र्देव॒यानै॑-रिष्टापू॒र्ते कृ॑णुता-दा॒वि-र॑स्मै ॥ स-म्प्र च्य॑वद्ध्व॒-मनु॒ स-म्प्र या॒ताग्ने॑ प॒थो दे॑व॒याना᳚न् कृणुद्ध्वम् । अ॒स्मिन्-थ्स॒धस्थे॒ अद्ध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥ प्र॒स्त॒रेण॑ परि॒धिना᳚ स्रु॒चा वेद्या॑ च ब॒र्॒हिषा᳚ । ऋ॒चेमं-यँ॒ज्ञ-न्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ॥ यदि॒ष्टं-यँ-त्प॑रा॒दानं॒-यँद्द॒त्तं-याँ च॒ दक्षि॑णा । त- [तत्, अ॒ग्नि-] 31

-द॒ग्नि-र्वै᳚श्वकर्म॒ण-स्सुव॑र्दे॒वेषु॑ नो दधत् ॥ येना॑ स॒हस्रं॒-वँह॑सि॒ येना᳚ग्ने सर्ववेद॒सम् । तेने॒मं-यँ॒ज्ञ-न्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ॥ येना᳚ग्ने॒ दक्षि॑णा यु॒क्ता य॒ज्ञं-वँह॑न्त्यृ॒त्विजः॑ । तेने॒मं-यँ॒ज्ञ-न्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ॥ येना᳚-ऽग्ने सु॒कृतः॑ प॒था मधो॒र्धारा᳚ व्यान॒शुः । तेने॒मं-यँ॒ज्ञ-न्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ॥ यत्र॒ धारा॒ अन॑पेता॒ मधो᳚र्घृ॒तस्य॑ च॒ याः । तद॒ग्निर्वै᳚श्वकर्म॒ण-स्सुव॑र्दे॒वेषु॑ नो दधत् ॥ 32 ॥
(आ॒गच्छा॒त् – त – द्वया॑न॒शु स्तेने॒मं-यँ॒ज्ञ-न्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे॒ – चतु॑र्दश च) (अ. 7)

यास्ते॑ अग्ने स॒मिधो॒ यानि॒ धाम॒ या जि॒ह्वा जा॑तवेदो॒ यो अ॒र्चिः । ये ते॑ अग्ने मे॒डयो॒ य इन्द॑व॒स्तेभि॑रा॒त्मान॑-ञ्चिनुहि प्रजा॒नन्न् ॥ उ॒थ्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः किं-वाँ-ऽहै॒तस्य॑ क्रि॒यते॒ किं-वाँ॒ न यद्वा अ॑द्ध्व॒र्यु-र॒ग्नेश्चि॒न्वन्न॑-न्त॒रेत्या॒त्मनो॒ वै तद॒न्तरे॑ति॒ यास्ते॑ अग्ने स॒मिधो॒ यानि॒ [स॒मिधो॒ यानि॑, धामेत्या॑है॒षा] 33

धामेत्या॑है॒षा वा अ॒ग्ने-स्स्व॑य-ञ्चि॒तिर॒ग्निरे॒व तद॒ग्नि-ञ्चि॑नोति॒ नाद्ध्व॒र्युरा॒त्मनो॒-ऽन्तरे॑ति॒ चत॑स्र॒ आशाः॒ प्रच॑रन्त्व॒ग्नय॑ इ॒म-न्नो॑ य॒ज्ञ-न्न॑यतु प्रजा॒नन्न् । घृ॒त-म्पिन्व॑न्न॒जरग्ं॑ सु॒वीर॒-म्ब्रह्म॑ स॒मि-द्भ॑व॒त्याहु॑तीनाम् ॥ सु॒व॒र्गाय॒ वा ए॒ष लो॒कायोप॑ धीयते॒ य-त्कू॒र्मश्चत॑स्र॒ आशाः॒ प्र च॑रन्त्व॒ग्नय॒ इत्या॑ह॒ [इत्या॑ह, दिश॑ ए॒वैतेन॒] 34

दिश॑ ए॒वैतेन॒ प्र जा॑नाती॒म-न्नो॑ य॒ज्ञ-न्न॑यतु प्रजा॒नन्नित्या॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिनी᳚त्यै॒ ब्रह्म॑ स॒मि-द्भ॑व॒त्याहु॑तीना॒-मित्या॑ह॒ ब्रह्म॑णा॒ वै दे॒वा-स्सु॑व॒र्गं-लोँ॒कमा॑य॒न्॒ य-द्ब्रह्म॑ण्वत्योप॒दधा॑ति॒ ब्रह्म॑णै॒व त-द्यज॑मान-स्सुव॒र्गं-लोँ॒कमे॑ति प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्य॑ प्र॒जाः प॒शव॒-श्छन्दाग्ं॑सि रू॒पग्ं सर्वा॒न्॒ वर्णा॒निष्ट॑काना-ङ्कुर्या-द्रू॒पेणै॒व प्र॒जा-म्प॒शून् छन्दा॒ग्॒स्यव॑ रु॒न्धे-ऽथो᳚ प्र॒जाभ्य॑ ए॒वैन॑-म्प॒शुभ्य॒-श्छन्दो᳚भ्यो ऽव॒रुद्ध्य॑ चिनुते ॥ 35 ॥
(यान्य॒ – ग्नय॒ इत्या॒हे – ष्ट॑काना॒ग्ं॒ – षोड॑श च) (अ. 8)

मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निग्ं रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । मयि॑ प्र॒जा-म्मयि॒ वर्चो॑ दधा॒म्यरि॑ष्टा-स्स्याम त॒नुवा॑ सु॒वीराः᳚ ॥ यो नो॑ अ॒ग्निः पि॑तरो हृ॒थ्स्व॑न्तरम॑र्त्यो॒ मर्त्याग्ं॑ आवि॒वेश॑ । तमा॒त्म-न्परि॑ गृह्णीमहे व॒य-म्मा सो अ॒स्माग्ं अ॑व॒हाय॒ परा॑ गात् ॥ यद॑द्ध्व॒र्युरा॒त्मन्न॒ग्निम-गृ॑हीत्वा॒-ऽग्नि-ञ्चि॑नु॒याद्यो᳚-ऽस्य॒ स्वो᳚-ऽग्निस्तमपि॒ [स्वो᳚-ऽग्निस्तमपि॑, यज॑मानाय] 36

यज॑मानाय चिनुयाद॒ग्नि-ङ्खलु॒ वै प॒शवो-ऽनूप॑ तिष्ठन्ते-ऽप॒क्रामु॑का अस्मा-त्प॒शवः॑ स्यु॒र्मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निमित्या॑हा॒-ऽऽत्मन्ने॒व स्वम॒ग्नि-न्दा॑धार॒ नास्मा᳚-त्प॒शवो-ऽप॑ क्रामन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृच्चा-ऽऽप॑श्चा॒ग्ने-र॑ना॒द्य-मथ॒ कस्मा᳚न्मृ॒दा चा॒द्भिश्चा॒-ऽग्निश्ची॑यत॒ इति॒ यद॒द्भि-स्सं॒-यौँ- [यद॒द्भि-स्सं॒-यौँति॑, आपो॒ वै] 37

-त्यापो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒वैन॒ग्ं॒ सग्ं सृ॑जति॒ यन्मृ॒दा चि॒नोती॒यं-वाँ अ॒ग्निर्वै᳚श्वान॒रो᳚-ऽग्निनै॒व तद॒ग्नि-ञ्चि॑नोति ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृ॒दा चा॒द्भिश्चा॒ग्निश्ची॒यते-ऽथ॒ कस्मा॑द॒ग्निरु॑च्यत॒ इति॒ यच्छन्दो॑भि-श्चि॒नोत्य॒ग्नयो॒ वै छन्दाग्ं॑सि॒ तस्मा॑द॒ग्निरु॑च्य॒ते-ऽथो॑ इ॒यं-वाँ अ॒ग्निर्वै᳚श्वान॒रो य- [अ॒ग्निर्वै᳚श्वान॒रो यत्, मृ॒दा चि॒नोति॒] 38

-न्मृ॒दा चि॒नोति॒ तस्मा॑द॒ग्निरु॑च्यते हिरण्येष्ट॒का उप॑ दधाति॒ ज्योति॒र्वै हिर॑ण्य॒-ञ्ज्योति॑रे॒वा-ऽस्मि॑-न्दधा॒त्यथो॒ तेजो॒ वै हिर॑ण्य॒-न्तेज॑ ए॒वा-ऽऽत्म-न्ध॑त्ते॒ यो वा अ॒ग्निग्ं स॒र्वतो॑मुख-ञ्चिनु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒-ऽभि ज॑यति गाय॒त्री-म्पु॒रस्ता॒दुप॑ दधाति त्रि॒ष्टुभ॑-न्दक्षिण॒तो जग॑ती-म्प॒श्चाद॑नु॒ष्टुभ॑मुत्तर॒तः प॒ङ्क्ति-म्मद्ध्य॑ ए॒ष वा अ॒ग्नि-स्स॒र्वतो॑मुख॒स्तं-यँ ए॒वं-विँ॒द्वाग्​श्चि॑नु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒-ऽभि ज॑य॒त्यथो॑ दि॒श्ये॑व दिश॒-म्प्र व॑यति॒ तस्मा᳚-द्दि॒शि दि-क्प्रोता᳚ ॥ 39 ॥
(अपि॑-सं॒​यौँति॑-वैश्वान॒रो य-दे॒ष वै-पञ्च॑विग्ंशतिश्च) (अ. 9)

प्र॒जाप॑ति-र॒ग्नि-म॑सृजत॒ सो᳚-ऽस्मा-थ्सृ॒ष्टः प्रा-म्प्रा-ऽद्र॑व॒-त्तस्मा॒ अश्व॒-म्प्रत्या᳚स्य॒-थ्स द॑क्षि॒णा-ऽऽव॑र्तत॒ तस्मै॑ वृ॒ष्णि-म्प्रत्या᳚स्य॒-थ्स प्र॒त्यङ्ङा-ऽव॑र्तत॒ तस्मा॑ ऋष॒भ-म्प्रत्या᳚स्य॒-थ्स उद॒ङ्ङा-ऽव॑र्तत॒ तस्मै॑ ब॒स्त-म्प्रत्या᳚स्य॒-थ्स ऊ॒र्ध्वो᳚-ऽद्रव॒-त्तस्मै॒ पुरु॑ष॒-म्प्रत्या᳚स्य॒द्य-त्प॑शुशी॒र्॒षाण्यु॑प॒दधा॑ति स॒र्वत॑ ए॒वैन॑- [ए॒वैन᳚म्, अ॒व॒रुद्ध्य॑ चिनुत] 40

-मव॒रुद्ध्य॑ चिनुत ए॒ता वै प्रा॑ण॒भृत॒-श्चक्षु॑ष्मती॒रिष्ट॑का॒ य-त्प॑शुशी॒र्​षाणि॒ य-त्प॑शुशी॒र्​षाण्यु॑प॒दधा॑ति॒ ताभि॑रे॒व यज॑मानो॒-ऽमुष्मि॑-​ल्लोँ॒के प्राणि॒त्यथो॒ ताभि॑रे॒वास्मा॑ इ॒मे लो॒काः प्र भा᳚न्ति मृ॒दा-ऽभि॒लिप्योप॑ दधाति मेद्ध्य॒त्वाय॑ प॒शुर्वा ए॒ष यद॒ग्निरन्न॑-म्प॒शव॑ ए॒ष खलु॒ वा अ॒ग्निर्य-त्प॑शुशी॒र्॒षाणि॒ य-ङ्का॒मये॑त॒ कनी॑यो॒-ऽस्या-ऽन्नग्ग्॑ – [कनी॑यो॒-ऽस्या-ऽन्न᳚म्, स्या॒दिति॑] 41

स्या॒दिति॑ सन्त॒रा-न्तस्य॑ पशुशी॒र्॒षाण्युप॑ दद्ध्या॒-त्कनी॑य ए॒वास्यान्न॑-म्भवति॒ य-ङ्का॒मये॑त स॒माव॑द॒स्यान्नग्ग्॑ स्या॒दिति॑ मद्ध्य॒तस्तस्योप॑ दद्ध्या-थ्स॒माव॑-दे॒वास्यान्न॑-म्भवति॒ य-ङ्का॒मये॑त॒ भूयो॒-ऽस्या-ऽन्नग्ग्॑ स्या॒दित्यन्ते॑षु॒ तस्य॑ व्यु॒दूह्योप॑ दद्ध्यादन्त॒त ए॒वास्मा॒ अन्न॒मव॑ रुन्धे॒ भूयो॒-ऽस्यान्न॑-म्भवति ॥ 42 ॥
(ए॒न॒- म॒स्यान्नं॒ – भूयो॒-ऽस्या-ऽन्न॑-म्भवति) (अ. 10)

स्ते॒गा-न्दग्ग्​ष्ट्रा᳚भ्या-म्म॒ण्डूका॒न् जम्भ्ये॑भि॒राद॑कां-खा॒देनोर्जग्ं॑ सग्ं सू॒देना-ऽर॑ण्य॒-ञ्जाम्बी॑लेन॒ मृद॑-म्ब॒र्​स्वे॑भि॒-श्शर्क॑राभि॒रव॑का॒मव॑काभि॒-श्शर्क॑रामुथ्सा॒देन॑ जि॒ह्वाम॑वक्र॒न्देन॒ तालु॒ग्ं॒ सर॑स्वती-ञ्जिह्वा॒ग्रेण॑ ॥ 43 ॥
(स्ते॒गान् – द्वाविग्ं॑शतिः) (अ. 11)

वाज॒ग्ं॒ हनू᳚भ्याम॒प आ॒स्ये॑ना-ऽऽदि॒त्या-ञ्छ्मश्रु॑भि-रुपया॒म-मध॑रे॒णोष्ठे॑न॒ सदुत्त॑रे॒णान्त॑रेणा-नूका॒श-म्प्र॑का॒शेन॒ बाह्यग्ग्॑ स्तनयि॒त्नु-न्नि॑र्बा॒धेन॑ सूर्या॒ग्नी चक्षु॑र्भ्यां-विँ॒द्युतौ॑ क॒नान॑काभ्याम॒शनि॑-म्म॒स्तिष्के॑ण॒ बल॑-म्म॒ज्जभिः॑ ॥ 44 ॥
(वाज॒-म्पञ्च॑विग्ंशतिः) (अ. 12)

कू॒र्मा-ञ्छ॒फैर॒च्छला॑भिः क॒पिञ्ज॑ला॒न्​थ्साम॒ कुष्ठि॑काभिर्ज॒व-ञ्जङ्घा॑भिरग॒द-ञ्जानु॑भ्यां-वीँ॒र्य॑-ङ्कु॒हाभ्या᳚-म्भ॒य-म्प्र॑चा॒लाभ्या॒-ङ्गुहो॑पप॒क्षाभ्या॑-म॒श्विना॒वग्ं सा᳚भ्या॒मदि॑तिग्ं शी॒र्​ष्णा निर्-ऋ॑ति॒-न्निर्जा᳚ल्मकेन शी॒र्​ष्णा ॥ 45 ॥
(कू॒र्मान्-त्रयो॑विग्ंशतिः) (अ. 13)

योक्त्र॒-ङ्गृद्ध्रा॑भिर्यु॒गमान॑तेन चि॒त्त-म्मन्या॑भि-स्सङ्क्रो॒शा-न्प्रा॒णैः प्र॑का॒शेन॒ त्वच॑-म्पराका॒शेनान्त॑रा-म्म॒शका॒न् केशै॒रिन्द्र॒ग्ग्॒ स्वप॑सा॒ वहे॑न॒ बृह॒स्पतिग्ं॑ शकुनिसा॒देन॒ रथ॑मु॒ष्णिहा॑भिः ॥ 46 ॥
(योक्त्र॒ – मेक॑विग्ंशतिः) (अ. 14)

मि॒त्रावरु॑णौ॒ श्रोणी᳚भ्यामिन्द्रा॒ग्नी शि॑ख॒ण्डाभ्या॒-मिन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्या॒मिन्द्रा॒विष्णू॑ अष्ठी॒वद्भ्याग्ं॑ सवि॒तार॒-म्पुच्छे॑न गन्ध॒र्वाञ्छेपे॑ना-फ्स॒रसो॑ मु॒ष्काभ्या॒-म्पव॑मान-म्पा॒युना॑ प॒वित्र॒-म्पोत्रा᳚भ्यामा॒क्रम॑णग्ग्​ स्थू॒राभ्या᳚-म्प्रति॒क्रम॑ण॒-ङ्कुष्ठा᳚भ्याम् ॥ 47 ॥
(मि॒त्रावरु॑णौ॒ – द्वाविग्ं॑शतिः) (अ. 15)

इन्द्र॑स्य क्रो॒डो ऽदि॑त्यै पाज॒स्य॑-न्दि॒शा-ञ्ज॒त्रवो॑ जी॒मूता᳚न् हृदयौप॒शाभ्या॑-म॒न्तरि॑क्ष-म्पुरि॒तता॒ नभ॑ उद॒र्ये॑णेन्द्रा॒णी-म्प्ली॒ह्ना व॒ल्मीका᳚न् क्लो॒म्ना गि॒री-न्प्ला॒शिभिः॑ समु॒द्रमु॒दरे॑ण वैश्वान॒र-म्भस्म॑ना ॥ 48 ॥
(इन्द्र॑स्य॒ – द्वावि॑शतिः॒) (अ. 16)

पू॒ष्णो व॑नि॒ष्ठुर॑न्धा॒हे-स्स्थू॑रगु॒दा स॒र्पा-न्गुदा॑भिर्-ऋ॒तू-न्पृ॒ष्टीभि॒र्दिव॑-म्पृ॒ष्ठेन॒ वसू॑ना-म्प्रथ॒मा कीक॑सा रु॒द्राणा᳚-न्द्वि॒तीया॑ ऽऽदि॒त्याना᳚-न्तृ॒तीया ऽङ्गि॑रसा-ञ्चतु॒र्थी सा॒द्ध्याना᳚-म्पञ्च॒मी विश्वे॑षा-न्दे॒वानाग्ं॑ ष॒ष्ठी ॥ 49 ॥
(पू॒ष्ण – श्चतु॑र्विग्ंशतिः) (अ. 17)

ओजो᳚ ग्री॒वाभि॒-र्निर्-ऋ॑तिम॒स्थभि॒रिन्द्र॒ग्ग्॒ स्वप॑सा॒ वहे॑न रु॒द्रस्य॑ विच॒ल-स्स्क॒न्धो॑ ऽहोरा॒त्रयो᳚र्द्वि॒तीयो᳚ ऽर्धमा॒साना᳚-न्तृ॒तीयो॑ मा॒सा-ञ्च॑तु॒र्थ ऋ॑तू॒ना-म्प॑ञ्च॒म-स्सं॑​वँथ्स॒रस्य॑ ष॒ष्ठः ॥ 50 ॥
(ओजो॑ – विग्ंश॒तिः) (अ. 18)

आ॒न॒न्द-न्न॒न्दथु॑ना॒ काम॑-म्प्रत्या॒साभ्या᳚-म्भ॒यग्ं शि॑ती॒मभ्या᳚-म्प्र॒शिष॑-म्प्रशा॒साभ्याग्ं॑ सूर्याचन्द्र॒मसौ॒ वृक्या᳚भ्याग्​ श्यामशब॒लौ मत॑स्नाभ्यां॒-व्युँ॑ष्टिग्ं रू॒पेण॒ निम्रु॑क्ति॒मरू॑पेण ॥ 51 ॥
(आ॒न॒न्दग्ं – षोड॑श) (अ. 19)

अह॑र्मा॒ग्ं॒सेन॒ रात्रि॒-म्पीव॑सा॒-ऽपो यू॒षेण॑ घृ॒तग्ं रसे॑न॒ श्यां-वँस॑या दू॒षीका॑भिर्-ह्रा॒दुनि॒-मश्रु॑भिः॒ पृष्वा॒-न्दिवग्ं॑ रू॒पेण॒ नक्ष॑त्राणि॒ प्रति॑रूपेण पृथि॒वी-ञ्चर्म॑णा छ॒वी-ञ्छ॒व्यो॑ पाकृ॑ताय॒ स्वाहा ऽऽल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा᳚ ॥ 52 ॥
(अह॑र॒ – ष्टाविग्ं॑शतिः) (अ. 20)

अ॒ग्नेः प॑क्ष॒ति-स्सर॑स्वत्यै॒ निप॑क्षति॒-स्सोम॑स्य तृ॒तीया॒-ऽपा-ञ्च॑तु॒र्थ्योष॑धीना-म्पञ्च॒मी सं॑​वँथ्स॒रस्य॑ ष॒ष्ठी म॒रुताग्ं॑ सप्त॒मी बृह॒स्पते॑रष्ट॒मी मि॒त्रस्य॑ नव॒मी वरु॑णस्य दश॒मीन्द्र॑स्यैकाद॒शी विश्वे॑षा-न्दे॒वाना᳚-न्द्वाद॒शी द्यावा॑पृथि॒व्योः पा॒र्​श्वं-यँ॒मस्य॑ पाटू॒रः ॥ 53 ॥
(अ॒ग्ने-रेका॒न्न त्रि॒ग्ं॒शत्) (अ. 21)

वा॒योः प॑क्ष॒ति-स्सर॑स्वतो॒ निप॑क्षति-श्च॒न्द्रम॑स-स्तृ॒तीया॒ नक्ष॑त्राणा-ञ्चतु॒र्थी स॑वि॒तुः प॑ञ्च॒मी रु॒द्रस्य॑ ष॒ष्ठी स॒र्पाणाग्ं॑ सप्त॒म्य॑र्य॒म्णो᳚-ऽष्ट॒मी त्वष्टु॑र्नव॒मी धा॒तुर्द॑श॒मीन्द्रा॒ण्या ए॑काद॒श्यदि॑त्यै द्वाद॒शी द्यावा॑पृथि॒व्योः पा॒र्​श्वं-यँ॒म्यै॑ पाटू॒रः ॥ 54 ॥
(वा॒यो – र॒ष्टाविग्ं॑शतिः) (अ. 22)

पन्था॑मनू॒वृग्भ्या॒ग्ं॒ सन्त॑तिग्ग्​ स्नाव॒न्या᳚भ्या॒ग्ं॒ शुका᳚-न्पि॒त्तेन॑ हरि॒माणं॑-यँ॒क्ना हली᳚क्ष्णा-न्पापवा॒तेन॑ कू॒श्माञ्छक॑भि-श्शव॒र्तानूव॑द्ध्येन॒ शुनो॑ वि॒शस॑नेन स॒र्पा-​ल्लोँ॑हितग॒न्धेन॒ वयाग्ं॑सि पक्वग॒न्धेन॑ पि॒पीलि॑काः प्रशा॒देन॑ ॥ 55 ॥
(पन्थां॒ – द्वाविग्ं॑शतिः) (अ. 23)

क्रमै॒रत्य॑क्रमी-द्वा॒जी विश्वै᳚र्दे॒वैर्य॒ज्ञियै᳚-स्सं​विँदा॒नः । स नो॑ नय सुकृ॒तस्य॑ लो॒क-न्तस्य॑ ते व॒यग्ग्​ स्व॒धया॑ मदेम ॥ 56 ॥
(क्रमै॑ – र॒ष्टाद॑श) (अ. 24)

द्यौस्ते॑ पृ॒ष्ठ-म्पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्षग्ं समु॒द्रो योनि॒-स्सूर्य॑स्ते॒ चक्षु॒र्वातः॑ प्रा॒णश्च॒न्द्रमा॒-श्श्रोत्र॒-म्मासा᳚श्चार्धमा॒साश्च॒ पर्वा᳚ण्यृ॒तवोङ्गा॑नि सं​वँथ्स॒रो म॑हि॒मा ॥ 57 ॥
(द्यौ – पञ्च॑विग्ंशतिः) (अ. 25)

अ॒ग्निः प॒शुरा॑सी॒-त्तेना॑यजन्त॒ स ए॒तं-लोँ॒कम॑जय॒-द्यस्मि॑न्न॒ग्नि-स्स ते॑ लो॒कस्त-ञ्जे᳚ष्य॒स्यथाव॑ जिघ्र वा॒युः प॒शुरा॑सी॒-त्तेना॑यजन्त॒ स ए॒तं-लोँ॒कम॑जय॒-द्यस्मि॑न् वा॒यु-स्स ते॑ लो॒कस्तस्मा᳚-त्त्वा॒-ऽन्तरे᳚ष्यामि॒ यदि॒ नाव॒जिघ्र॑स्यादि॒त्यः प॒शुरा॑सी॒-त्तेना॑यजन्त॒ स ए॒तं-लोँ॒कम॑जय॒-द्यस्मि॑-न्नादि॒त्य-स्स ते॑ लो॒कस्त-ञ्जे᳚ष्यसि॒ यद्य॑व॒जिघ्र॑सि ॥ 58 ॥
(यस्मि॑ – न्न॒ष्टौ च॑) (अ. 26)

(यो वा अय॑थादेवत॒ – न्त्वाम॑ग्न॒ – इन्द्र॑स्य॒ – चित्तिं॒ – ​यँथा॒ वै – वयो॒ वै – यदाकू॑ता॒–द्यास्ते॑ अग्ने॒ – मयि॑ गृह्णामि – प्र॒जाप॑ति॒-स्सो᳚-ऽस्माथ् – स्ते॒गान् – वाजं॑ – कू॒र्मान् – योक्त्रं॑ – मि॒त्रावरु॑णा॒ – विन्द्र॑स्य – पू॒ष्ण – ओज॑ – आन॒न्द – मह॑ – र॒ग्ने – र्वा॒योः – पन्थां॒ – क्रमै॒ – र्द्यौस्ते॒ – ऽग्निः प॒शुरा॑सी॒थ् – षड्विग्ं॑शतिः)

(यो वा – ए॒वा-ऽऽहु॑ति – मभवन् – प॒थिभि॑ – रव॒रुध्या॑ – ऽऽन॒न्द – म॒ष्टौ प॑ञ्च॒शत् )

(यो वा अय॑थादेवत॒म्, ​यँद्य॑व॒जिघ्र॑सि)

( सा॒वि॒त्राणि॒ – विष्णु॑मुखा – उथ्सन्नय॒ज्ञो – दे॑वासु॒रा – यदेके॑न॒ – हिर॑ण्यवर्णा॒ – यो वा॑- स॒प्त ) (7)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्पञ्चमकाण्डे सप्तमः प्रश्न-स्समाप्तः ॥