कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां षष्ठकाण्डे प्रथमः प्रश्नः – सोममन्त्रब्राह्मणनिरूपणं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

प्रा॒चीन॑वग्ंश-ङ्करोति देवमनु॒ष्या दिशो॒ व्य॑भजन्त॒ प्राची᳚-न्दे॒वा द॑क्षि॒णा पि॒तरः॑ प्र॒तीची᳚-म्मनु॒ष्या॑ उदी॑चीग्ं रु॒द्रा य-त्प्रा॒चीन॑वग्ंश-ङ्क॒रोति॑ देवलो॒कमे॒व त-द्यज॑मान उ॒पाव॑र्तते॒ परि॑ श्रयत्य॒न्तर्​हि॑तो॒हि दे॑वलो॒को म॑नुष्यलो॒का-न्नास्माल्लो॒का-थ्स्वे॑तव्यमि॒वेत्या॑हुः॒ को हि त-द्वेद॒ य-द्य॒मुष्मि॑​ल्लोँ॒के-ऽस्ति॑ वा॒ न वेति॑ दि॒क्ष्व॑ती का॒शान् क॑रो- [दि॒क्ष्व॑ती का॒शान् क॑रोति, उ॒भयो᳚] 1

-त्यु॒भयो᳚-र्लो॒कयो॑-र॒भिजि॑त्यै केशश्म॒श्रु व॑पते न॒खानि॒ नि कृ॑न्तते मृ॒ता वा ए॒षा त्वग॑मे॒द्ध्या य-त्के॑शश्म॒श्रु मृ॒तामे॒व त्वच॑म-मे॒द्ध्याम॑प॒हत्य॑ य॒ज्ञियो॑ भू॒त्वा मेध॒मुपै॒त्यङ्गि॑रस-स्सुव॒र्गं-लोँ॒कं-यँन्तो॒-ऽफ्सु दी᳚क्षात॒पसी॒ प्रावे॑शयन्न॒फ्सु स्ना॑ति सा॒क्षादे॒व दी᳚क्षात॒पसी॒ अव॑ रुन्धे ती॒र्थे स्ना॑ति ती॒र्थे हि ते ता-म्प्रावे॑शय-न्ती॒र्थे स्ना॑ति [ ] 2

ती॒र्थमे॒व स॑मा॒नाना᳚-म्भवत्य॒पो᳚-ऽश्ञात्यन्तर॒त ए॒व मेद्ध्यो॑ भवति॒ वास॑सा दीक्षयति सौ॒म्यं-वैँ क्षौम॑-न्दे॒वत॑या॒ सोम॑मे॒ष दे॒वता॒मुपै॑ति॒ यो दीक्ष॑ते॒ सोम॑स्य त॒नूर॑सि त॒नुव॑-म्मे पा॒हीत्या॑ह॒ स्वामे॒व दे॒वता॒मुपै॒त्यथो॑ आ॒शिष॑मे॒वैतामा शा᳚स्ते॒ ऽग्नेस्तू॑षा॒धानं॑-वाँ॒योर्वा॑त॒पान॑-म्पितृ॒णा-न्नी॒वि-रोष॑धीना-म्प्रघा॒त [-रोष॑धीना-म्प्रघा॒तः, आ॒दि॒त्याना᳚-म्प्राचीनता॒नो] 3

आ॑दि॒त्याना᳚-म्प्राचीनता॒नो विश्वे॑षा-न्दे॒वाना॒मोतु॒ र्नक्ष॑त्राणा-मतीका॒शास्तद्वा ए॒त-थ्स॑र्व देव॒त्यं॑-यँ-द्वासो॒ य-द्वास॑सा दी॒क्षय॑ति॒ सर्वा॑भिरे॒वैन॑-न्दे॒वता॑भि-र्दीक्षयति ब॒हिःप्रा॑णो॒ वै म॑नु॒ष्य॑स्त-स्याश॑न-म्प्रा॒णो᳚-ऽश्ञाति॒ सप्रा॑ण ए॒व दी᳚क्षत॒ आशि॑तो भवति॒ यावा॑ने॒वास्य॑ प्रा॒णस्तेन॑ स॒ह मेध॒मुपै॑ति घृ॒त-न्दे॒वाना॒-म्मस्तु॑ पितृ॒णा-न्निष्प॑क्व-म्मनु॒ष्या॑णा॒-न्तद्वा [-म्मनु॒ष्या॑णा॒-न्तद्वै, ए॒त-थ्स॑र्वदेव॒त्यं॑] 4

ए॒त-थ्स॑र्वदेव॒त्यं॑-यँन्नव॑नीतं॒-यँन्नव॑नीतेनाभ्य॒ङ्क्ते सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति॒ प्रच्यु॑तो॒ वा ए॒षो᳚-ऽस्माल्लो॒कादग॑तो देवलो॒कं-योँ दी᳚क्षि॒तो᳚ ऽन्त॒रेव॒ नव॑नीत॒-न्तस्मा॒-न्नव॑नीतेना॒भ्य॑ङ्क्ते ऽनुलो॒मं-यँजु॑षा॒ व्यावृ॑त्त्या॒ इन्द्रो॑ वृ॒त्रम॑ह॒-न्तस्य॑ क॒नीनि॑का॒ परा॑-ऽपत॒-त्तदाञ्ज॑नम-भव॒द्यदा॒ङ्क्ते चक्षु॑रे॒व भ्रातृ॑व्यस्य वृङ्क्ते॒ दक्षि॑ण॒-म्पूर्व॒मा-ऽङ्क्ते॑ [दक्षि॑ण॒-म्पूर्व॒मा-ऽङ्क्ते᳚, स॒व्यग्ं हि] 5

स॒व्यग्ं हि पूर्व॑-म्मनु॒ष्या॑ आ॒ञ्जते॒ न नि धा॑वते॒ नीव॒ हि म॑नु॒ष्या॑ धाव॑न्ते॒ पञ्च॒ कृत्व॒ आ-ऽङ्क्ते॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्धे॒ परि॑मित॒माङ्क्ते ऽप॑रिमित॒ग्ं॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॒ सतू॑ल॒या-ऽऽङ्क्ते- ऽप॑तूलया॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॒ व्यावृ॑त्त्यै॒ यदप॑तूलयाञ्जी॒त वज्र॑ इव स्या॒-थ्सतू॑ल॒या-ऽऽङ्क्ते॑ मित्र॒त्वाये- [मित्र॒त्वाय॑, इन्द्रो॑] 6

-न्द्रो॑ वृ॒त्रम॑ह॒न्​थ्सो᳚-ऽ(1॒)पो᳚-ऽ(1॒)भ्य॑-म्रियत॒ तासां॒-यँन्मेद्ध्यं॑-यँ॒ज्ञिय॒ग्ं॒ सदे॑व॒मासी॒-त्तद॒पोद॑क्राम॒-त्ते द॒र्भा अ॑भव॒न्॒. यद्द॑र्भपुञ्जी॒लैः प॒वय॑ति॒ या ए॒व मेद्ध्या॑ य॒ज्ञिया॒-स्सदे॑वा॒ आप॒स्ताभि॑रे॒वैन॑-म्पवयति॒ द्वाभ्या᳚-म्पवयत्य-होरा॒त्राभ्या॑मे॒वैन॑-म्पवयति त्रि॒भिः प॑वयति॒ त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनं॑-लोँ॒कैः प॑वयति प॒ञ्चभिः॑ [प॒ञ्चभिः॑, प॒व॒य॒ति॒ पञ्चा᳚क्षरा] 7

पवयति॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञायै॒वैन॑-म्पवयति ष॒ड्भिः प॑वयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑-म्पवयति स॒प्तभिः॑ पवयति स॒प्त छन्दाग्ं॑सि॒ छन्दो॑भिरे॒वैन॑-म्पवयति न॒वभिः॑ पवयति॒ नव॒ वै पुरु॑षे प्रा॒णा-स्सप्रा॑णमे॒वैन॑-म्पवय॒त्येक॑विग्ंशत्या पवयति॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॑ आ॒त्मैक॑वि॒ग्ं॒शो यावा॑ने॒व पुरु॑ष॒स्त-मप॑रिवर्ग- [पुरु॑ष॒स्त-मप॑रिवर्गम्, प॒व॒य॒ति॒ चि॒त्पति॑स्त्वा] 8

-म्पवयति चि॒त्पति॑स्त्वा पुना॒त्वित्या॑ह॒ मनो॒ वै चि॒त्पति॒र्मन॑सै॒वैन॑-म्पवयति वा॒क्पति॑स्त्वा पुना॒त्वित्या॑ह वा॒चैवैन॑-म्पवयति दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैन॑-म्पवयति॒ तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ क-म्पु॒ने तच्छ॑केय॒मित्या॑-हा॒-ऽऽशिष॑मे॒वैतामा शा᳚स्ते ॥ 9 ॥
(अ॒ती॒का॒शान् क॑रो॒त्य – वे॑शय-न्ति॒र्थ स्ना॑ति – प्रघा॒तो – म॑नु॒ष्या॑णा॒-न्तद्वा – आ-ऽङ्क्ते॑ – मित्र॒त्वाय॑ – प॒ञ्चभि॒ – रप॑रिवर्ग – म॒ष्टाच॑त्वारिग्ंशच्च) (अ. 1)

याव॑न्तो॒ वै दे॒वा य॒ज्ञायापु॑नत॒ त ए॒वाभ॑व॒न्॒. य ए॒वं-विँ॒द्वान्. य॒ज्ञाय॑ पुनी॒ते भव॑त्ये॒व ब॒हिः प॑वयि॒त्वा-ऽन्तः प्र पा॑दयति मनुष्यलो॒क ए॒वैन॑-म्पवयि॒त्वा पू॒त-न्दे॑वलो॒क-म्प्र ण॑य॒त्यदी᳚क्षित॒ एक॒या-ऽऽहु॒त्येत्या॑हु-स्स्रु॒वेण॒ चत॑स्रो जुहोति दीक्षित॒त्वाय॑ स्रु॒चा प॑ञ्च॒मी-म्पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्ध॒ आकू᳚त्यै प्र॒युजे॒-ऽग्नये॒ [प्र॒युजे॒-ऽग्नये᳚, स्वाहेत्या॒हा] 10

स्वाहेत्या॒हा-ऽऽकू᳚त्या॒ हि पुरु॑षो य॒ज्ञम॒भि प्र॑यु॒ङ्क्ते यजे॒येति॑ मे॒धायै॒ मन॑से॒-ऽग्नये॒ स्वाहेत्या॑ह मे॒धया॒ हि मन॑सा॒ पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति॒ सर॑स्वत्यै पू॒ष्णे᳚-ऽग्नये॒ स्वाहेत्या॑ह॒ वाग्वै सर॑स्वती पृथि॒वी पू॒षा वा॒चैव पृ॑थि॒व्या य॒ज्ञ-म्प्रयु॑ङ्क्त॒ आपो॑ देवी-र्बृहती-र्विश्वशम्भुव॒ इत्या॑ह॒ या वै वर्​ष्या॒स्ता [या वै वर्​ष्या॒स्ताः, आपो॑ दे॒वी-र्बृ॑ह॒ती-] 11

आपो॑ दे॒वी-र्बृ॑ह॒ती-र्वि॒श्वश॑भुं​वोँ॒ यदे॒त-द्यजु॒र्न ब्रू॒या-द्दि॒व्या आपो-ऽशा᳚न्ता इ॒मं-लोँ॒कमा ग॑च्छेयु॒रापो॑ देवी-र्बृहती-र्विश्वशम्भुव॒ इत्या॑हा॒स्मा ए॒वैना॑ लो॒काय॑ शमयति॒ तस्मा᳚च्छा॒न्ता इ॒मं-लोँ॒कमा ग॑च्छन्ति॒ द्यावा॑पृथि॒वी इत्या॑ह॒ द्यावा॑पृथि॒व्योर्​हि य॒ज्ञ उ॒र्व॑न्तरि॑क्ष॒-मित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञो बृह॒स्पति॑र्नो ह॒विषा॑ वृधा॒- [ह॒विषा॑ वृधातु, इत्या॑ह॒ ब्रह्म॒ वै] 12

-त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पति॒-र्ब्रह्म॑णै॒वास्मै॑ य॒ज्ञमव॑ रुन्धे॒ यद्- ब्रू॒या-द्वि॑धे॒रिति॑ यज्ञस्था॒णुमृ॑च्छे-द्वृधा॒त्वित्या॑ह यज्ञस्था॒णुमे॒व परि॑ वृणक्ति प्र॒जाप॑ति-र्य॒ज्ञम॑सृजत॒ सो᳚-ऽस्मा-थ्सृ॒ष्टः परां॑ऐ॒-थ्स प्र यजु॒रव्ली॑ना॒-त्प्र साम॒ तमृगुद॑यच्छ॒-द्यदृगु॒दय॑च्छ॒-त्तदौ᳚-द्ग्रह॒णस्यौ᳚-द्ग्रहण॒त्व मृ॒चा [मृ॒चा, जु॒हो॒ति॒ य॒ज्ञस्योद्य॑त्या] 13

जु॑होति य॒ज्ञस्योद्य॑त्या अनु॒ष्टुप्-छन्द॑सा॒-मुद॑यच्छ॒दित्या॑-हु॒स्तस्मा॑दनु॒ष्टुभा॑ जुहोति य॒ज्ञस्योद्य॑त्यै॒ द्वाद॑श वाथ्सब॒न्धान्युद॑यच्छ॒-न्नित्या॑हु॒-स्तस्मा᳚द्- द्वाद॒शभि॑-र्वाथ्सबन्ध॒विदो॑ दीक्षयन्ति॒ सा वा ए॒षर्ग॑नु॒ष्टुग्-वाग॑नु॒ष्टुग्-यदे॒तय॒र्चा दी॒क्षय॑ति वा॒चैवैन॒ग्ं॒ सर्व॑या दीक्षयति॒ विश्वे॑ दे॒वस्य॑ ने॒तुरित्या॑ह सावि॒त्र्ये॑तेन॒ मर्तो॑ वृणीत स॒ख्य- [स॒ख्यम्, इत्या॑ह] 14

-मित्या॑ह पितृदेव॒त्यै॑तेन॒ विश्वे॑ रा॒य इ॑षुद्ध्य॒सीत्या॑ह वैश्वदे॒व्ये॑तेन॑ द्यु॒म्नं-वृँ॑णीत पु॒ष्यस॒ इत्या॑ह पौ॒ष्ण्ये॑तेन॒ सा वा ए॒षर्ख्स॑र्वदेव॒त्या॑ यदे॒तय॒र्चा दी॒क्षय॑ति॒ सर्वा॑भिरे॒वैन॑-न्दे॒वता॑भिर्दीक्षयति स॒प्ताक्ष॑र-म्प्रथ॒म-म्प॒दम॒ष्टाक्ष॑राणि॒ त्रीणि॒ यानि॒ त्रीणि॒ तान्य॒ष्टावुप॑ यन्ति॒ यानि॑ च॒त्वारि॒ तान्य॒ष्टौ यद॒ष्टाक्ष॑रा॒ तेन॑ [तेन॑, गा॒य॒त्री यदेका॑दशाक्षरा॒] 15

गाय॒त्री यदेका॑दशाक्षरा॒ तेन॑ त्रि॒ष्टुग्य-द्द्वाद॑शाक्षरा॒ तेन॒ जग॑ती॒ सा वा ए॒षर्ख्सर्वा॑णि॒ छन्दाग्ं॑सि॒ यदे॒तय॒र्चा दी॒क्षय॑ति॒ सर्वे॑भिरे॒वैन॒-ञ्छन्दो॑भिर्दीक्षयति स॒प्ताक्ष॑र-म्प्रथ॒म-म्प॒दग्ं स॒प्तप॑दा॒ शक्व॑री प॒शव॒-श्शक्व॑री प॒शूने॒वाव॑ रुन्ध॒ एक॑स्माद॒क्षरा॒दना᳚प्त-म्प्रथ॒म-म्प॒द-न्तस्मा॒-द्य-द्वा॒चो-ऽना᳚प्त॒-न्तन्म॑नु॒ष्या॑ उप॑ जीवन्ति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जाना॒ग्ं॒ सृष्ट्यै᳚ ॥ 16 ॥
(अ॒ग्नये॒ – ता – वृ॑धात्वृ॒ – चा – स॒ख्यं – तेन॑ – जुहोति॒ – पञ्च॑दश च) (अ. 2)

ऋ॒-ख्सा॒मे वै दे॒वेभ्यो॑ य॒ज्ञाया-ऽति॑ष्ठमाने॒ कृष्णो॑ रू॒प-ङ्कृ॒त्वा- ऽप॒क्रम्या॑तिष्ठता॒-न्ते॑-ऽमन्यन्त॒ यं-वाँ इ॒मे उ॑पाव॒र्थ्स्यत॒-स्स इ॒द-म्भ॑विष्य॒तीति॒ ते उपा॑मन्त्रयन्त॒ ते अ॑होरा॒त्रयो᳚-र्महि॒मान॑-मपनि॒धाय॑ दे॒वानु॒पाव॑र्तेतामे॒ष वा ऋ॒चो वर्णो॒ यच्छु॒क्ल-ङ्कृ॑ष्णाजि॒नस्यै॒ष साम्नो॒ य-त्कृ॒ष्णमृ॑ख्सा॒मयो॒-श्शिल्पे᳚ स्थ॒ इत्या॑हर्ख्सा॒मे ए॒वा-ऽव॑ रुन्ध ए॒ष [ए॒वा-ऽव॑ रुन्ध ए॒षः, वा अह्नो॒] 17

वा अह्नो॒ वर्णो॒ यच्छु॒क्ल-ङ्कृ॑ष्णाजि॒नस्यै॒ष रात्रि॑या॒ य-त्कृ॒ष्णं-यँदे॒वैन॑यो॒स्तत्र॒ न्य॑क्त॒-न्तदे॒वाव॑ रुन्धे कृष्णाजि॒नेन॑ दीक्षयति॒ ब्रह्म॑णो॒ वा ए॒त-द्रू॒पं-यँ-त्कृ॑ष्णाजि॒न-म्ब्रह्म॑णै॒वैन॑-न्दीक्षयती॒मा-न्धिय॒ग्ं॒ शिक्ष॑माणस्य दे॒वेत्या॑ह यथाय॒जुरे॒वैत-द्गर्भो॒ वा ए॒ष य-द्दी᳚क्षि॒त उल्बं॒-वाँसः॒ प्रोर्णु॑ते॒ तस्मा॒- [तस्मा᳚त्, गर्भाः॒ प्रावृ॑ता] 18

-द्गर्भाः॒ प्रावृ॑ता जायन्ते॒ न पु॒रा सोम॑स्य क्र॒यादपो᳚र्ण्वीत॒ य-त्पु॒रा सोम॑स्य क्र॒याद॑पोर्ण्वी॒त गर्भाः᳚ प्र॒जाना᳚-म्परा॒पातु॑का-स्स्युः क्री॒ते सोमे-ऽपो᳚र्णुते॒ जाय॑त ए॒व तदथो॒ यथा॒ वसी॑याग्ं स-म्प्रत्यपोर्णु॒ते ता॒दृगे॒व तदङ्गि॑रस-स्सुव॒र्गं-लोँ॒कं-यँन्त॒ ऊर्जं॒-व्यँ॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ ते श॒रा अ॑भव॒न्नूर्ग्वै श॒रा यच्छ॑र॒मयी॒ [यच्छ॑र॒मयी᳚, मेख॑ला॒] 19

मेख॑ला॒ भव॒त्यूर्ज॑मे॒वाव॑ रुन्धे मद्ध्य॒त-स्सन्न॑ह्यति मद्ध्य॒त ए॒वास्मा॒ ऊर्ज॑-न्दधाति॒ तस्मा᳚न्मद्ध्य॒त ऊ॒र्जा भु॑ञ्जत ऊ॒र्ध्वं-वैँ पुरु॑षस्य॒ नाभ्यै॒ मेद्ध्य॑-मवा॒चीन॑-ममे॒द्ध्यं-यँन्म॑द्ध्य॒त-स्स॒नंह्य॑ति॒ मेद्ध्य॑-ञ्चै॒वास्या॑मे॒द्ध्य-ञ्च॒ व्याव॑र्तय॒तीन्द्रो॑ वृ॒त्राय॒ वज्र॒-म्प्राह॑र॒-थ्स त्रे॒धा व्य॑भव॒-थ्स्फ्यस्तृती॑य॒ग्ं॒ रथ॒स्तृती॑यं॒-यूँप॒स्तृती॑यं॒- [-यूप॒स्तृती॑य॒म्, ये᳚-ऽन्त-श्श॒रा] 20

-​येँ᳚-ऽन्त-श्श॒रा अशी᳚र्यन्त॒ ते श॒रा अ॑भव॒-न्तच्छ॒राणाग्ं॑ शर॒त्वं-वँज्रो॒ वै श॒राः, क्षु-त्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यच्छ॑र॒मयी॒ मेख॑ला॒ भव॑ति॒ वज्रे॑णै॒व सा॒क्षा-त्क्षुध॒-म्भ्रातृ॑व्य-म्मद्ध्य॒तो-ऽप॑ हते त्रि॒वृ-द्भ॑वति त्रि॒वृद्वै प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒ण-म्म॑द्ध्य॒तो यज॑माने दधाति पृ॒थ्वी भ॑वति॒ रज्जू॑नां॒-व्याँवृ॑त्यै॒ मेख॑लया॒ यज॑मान-न्दीक्षयति॒ योक्त्रे॑ण॒ पत्नी᳚-म्मिथुन॒त्वाय॑ [ ] 21

य॒ज्ञो दक्षि॑णाम॒भ्य॑द्ध्याय॒-त्ताग्ं सम॑भव॒-त्तदिन्द्रो॑-ऽचाय॒-थ्सो॑-ऽमन्यत॒ यो वा इ॒तो ज॑नि॒ष्यते॒ स इ॒द-म्भ॑विष्य॒तीति॒ ता-म्प्रावि॑श॒-त्तस्या॒ इन्द्र॑ ए॒वाजा॑यत॒ सो॑-ऽमन्यत॒ यो वै मदि॒तो ऽप॑रो जनि॒ष्यते॒ स इ॒द-म्भ॑विष्य॒तीति॒ तस्या॑ अनु॒मृश्य॒ योनि॒मा-ऽच्छि॑न॒-थ्सा सू॒तव॑शा-ऽभव॒-त्त-थ्सू॒तव॑शायै॒ जन्म॒ [जन्म॑, ताग्ं हस्ते॒ न्य॑वेष्टयत॒] 22

ताग्ं हस्ते॒ न्य॑वेष्टयत॒ ता-म्मृ॒गेषु॒ न्य॑दधा॒-थ्सा कृ॑ष्णविषा॒णा- ऽभ॑व॒दिन्द्र॑स्य॒ योनि॑रसि॒ मा मा॑ हिग्ंसी॒रिति॑ कृष्णविषा॒णा-म्प्र य॑च्छति॒ सयो॑निमे॒व य॒ज्ञ-ङ्क॑रोति॒ सयो॑नि॒-न्दक्षि॑णा॒ग्ं॒ सयो॑नि॒मिन्द्रग्ं॑ सयोनि॒त्वाय॑ कृ॒ष्यै त्वा॑ सुस॒स्याया॒ इत्या॑ह॒ तस्मा॑दकृष्टप॒च्या ओष॑धयः पच्यन्ते सुपिप्प॒लाभ्य॒-स्त्वौष॑धीभ्य॒ इत्या॑ह॒ तस्मा॒दोष॑धयः॒ फल॑-ङ्गृह्णन्ति॒ यद्धस्ते॑न [यद्धस्ते॑न, क॒ण्डू॒येत॑] 23

कण्डू॒येत॑ पामन॒-म्भावु॑काः प्र॒जा-स्स्यु॒र्य-थ्स्मये॑त नग्न॒-म्भावु॑काः कृष्णविषा॒णया॑ कण्डूयते-ऽपि॒गृह्य॑ स्मयते प्र॒जाना᳚-ङ्गोपी॒थाय॒ न पु॒रा दक्षि॑णाभ्यो॒ नेतोः᳚ कृष्णविषा॒णामव॑ चृते॒द्य-त्पु॒रा दक्षि॑णाभ्यो॒ नेतोः᳚ कृष्णविषा॒णा-म॑वचृ॒ते-द्योनिः॑ प्र॒जाना᳚-म्परा॒पातु॑का स्यान्नी॒तासु॒ दक्षि॑णासु॒ चात्वा॑ले कृष्णविषा॒णा-म्प्रास्य॑ति॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लं॒-योँनिः॑ कृष्णविषा॒णा योना॑वे॒व योनि॑-न्दधाति य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ॥ 24 ॥
(रु॒न्ध॒ ए॒ष – तस्मा᳚ – च्छर॒मयी॒ – यूप॒स्तृती॑यं – मिथुन॒त्वाय॒ – जन्म॒ – हस्ते॑ना॒ – ऽष्टाच॑त्वारिग्ंशच्च) (अ. 3)

वाग्वै दे॒वेभ्यो ऽपा᳚क्राम-द्य॒ज्ञायाति॑ष्ठमाना॒ सा वन॒स्पती॒-न्प्रावि॑श॒-थ्सैषा वाग्वन॒स्पति॑षु वदति॒ या दु॑न्दु॒भौ या तूण॑वे॒ या वीणा॑यां॒-यँ-द्दी᳚क्षितद॒ण्ड-म्प्र॒यच्छ॑ति॒ वाच॑मे॒वाव॑ रुन्ध॒ औदु॑बंरो भव॒त्यूर्ग्वा उ॑दु॒बंर॒ ऊर्ज॑मे॒वाव॑ रुन्धे॒ मुखे॑न॒ सम्मि॑तो भवति मुख॒त ए॒वास्मा॒ ऊर्ज॑-न्दधाति॒ तस्मा᳚-न्मुख॒त ऊ॒र्जा भु॑ञ्जते [ ] 25

क्री॒ते सोमे॑ मैत्रावरु॒णाय॑ द॒ण्ड-म्प्र य॑च्छति मैत्रावरु॒णो हि पु॒रस्ता॑-दृ॒त्विग्भ्यो॒ वाचं॑-विँ॒भज॑ति॒ तामृ॒त्विजो॒ यज॑माने॒ प्रति॑ ष्ठापयन्ति॒ स्वाहा॑ य॒ज्ञ-म्मन॒सेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ -मित्या॑ह॒ द्यावा॑पृथि॒व्योर्​हि य॒ज्ञ-स्स्वाहो॒रोर॒-न्तरि॑क्षा॒ -दित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञ-स्स्वाहा॑ य॒ज्ञं-वाँता॒दा र॑भ॒ इत्या॑हा॒-ऽयं- [इत्या॑हा॒-ऽयम्, वाव यः पव॑ते॒] 26

-​वाँव यः पव॑ते॒ स य॒ज्ञस्तमे॒व सा॒क्षादा र॑भते मु॒ष्टी क॑रोति॒ वाचं॑-यँच्छति य॒ज्ञस्य॒ धृत्या॒ अदी᳚क्षिष्टा॒य-म्ब्रा᳚ह्म॒ण इति॒ त्रिरु॑पा॒ग्॒श्वा॑ह दे॒वेभ्य॑ ए॒वैन॒-म्प्रा-ऽऽह॒ त्रिरु॒च्चैरु॒भये᳚भ्य ए॒वैन॑-न्देवमनु॒ष्येभ्यः॒ प्रा-ऽऽह॒ न पु॒रा नक्ष॑त्रेभ्यो॒ वाचं॒-विँ सृ॑जे॒-द्यत्पु॒रा नक्ष॑त्रेभ्यो॒ वाचं॑-विँसृ॒जे-द्य॒ज्ञं-विँच्छि॑न्द्या॒- [-​विँच्छि॑न्द्यात्, उदि॑तेषु॒] 27

-दुदि॑तेषु॒ नक्ष॑त्रेषु व्र॒त-ङ्कृ॑णु॒तेति॒ वाचं॒-विँ सृ॑जति य॒ज्ञव्र॑तो॒ वै दी᳚क्षि॒तो य॒ज्ञमे॒वाभि वाचं॒-विँ सृ॑जति॒ यदि॑ विसृ॒जे-द्वै᳚ष्ण॒वीमृच॒मनु॑ ब्रूया-द्य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञग्ं स-न्त॑नोति॒ दैवी॒-न्धिय॑-म्मनामह॒ इत्या॑ह य॒ज्ञमे॒व तन्म्र॑दयति सुपा॒रा नो॑ अस॒द्वश॒ इत्या॑ह॒ व्यु॑ष्टिमे॒वाव॑ रुन्धे [रुन्धे, ब्र॒ह्म॒वा॒दिनो॑ वदन्ति] 28

ब्रह्मवा॒दिनो॑ वदन्ति होत॒व्य॑-न्दीक्षि॒तस्य॑ गृ॒हा(3) इ न हो॑त॒व्या(3)मिति॑ ह॒विर्वै दी᳚क्षि॒तो यज्जु॑हु॒या-द्यज॑मानस्याव॒दाय॑ जुहुया॒-द्यन्न जु॑हु॒या-द्य॑ज्ञप॒रुर॒न्तरि॑या॒द्ये दे॒वा मनो॑जाता मनो॒युज॒ इत्या॑ह प्रा॒णा वै दे॒वा मनो॑जाता मनो॒युज॒स्तेष्वे॒व प॒रोक्ष॑-ञ्जुहोति॒ तन्नेव॑ हु॒त-न्नेवाहु॑तग्ग्​ स्व॒पन्तं॒-वैँ दी᳚क्षि॒तग्ं रक्षाग्ं॑सि जिघाग्ंसन्त्य॒ग्निः – [जिघाग्ंसन्त्य॒ग्निः, खलु॒ वै] 29

खलु॒ वै र॑क्षो॒हा-ऽग्ने॒ त्वग्ं सु जा॑गृहि व॒यग्ं सु म॑न्दिषीम॒हीत्या॑हा॒ग्नि-मे॒वाधि॒पा-ङ्कृ॒त्वा स्व॑पिति॒ रक्ष॑सा॒मप॑हत्या अव्र॒त्यमि॑व॒ वा ए॒ष क॑रोति॒ यो दी᳚क्षि॒त-स्स्वपि॑ति॒ त्वम॑ग्ने व्रत॒पा अ॒सीत्या॑हा॒ग्निर्वै दे॒वानां᳚-व्रँ॒तप॑ति॒-स्स ए॒वैनं॑-व्रँ॒तमा ल॑भं​यँति दे॒व आ मर्त्ये॒ष्वेत्या॑ह दे॒वो [दे॒वः, ह्ये॑ष स-न्मर्त्ये॑षु॒] 30

ह्ये॑ष स-न्मर्त्ये॑षु॒ त्वं-यँ॒ज्ञेष्वीड्य॒ इत्या॑है॒तग्ं हि य॒ज्ञेष्वीड॒ते-ऽप॒ वै दी᳚क्षि॒ता-थ्सु॑षु॒पुष॑ इन्द्रि॒य-न्दे॒वताः᳚ क्रामन्ति॒ विश्वे॑ दे॒वा अ॒भि मामा-ऽव॑वृत्र॒-न्नित्या॑-हेन्द्रि॒येणै॒वैन॑-न्दे॒वता॑भि॒-स्स-न्न॑यति॒ यदे॒त-द्यजु॒र्न ब्रू॒या-द्याव॑त ए॒व प॒शून॒भि दीक्षे॑त॒ ताव॑न्तो-ऽस्य प॒शवः॑ स्यू॒ रास्वेय॑- [प॒शवः॑ स्यू॒ रास्वेय॑त्, सो॒मा-ऽऽ भूयो॑] 31

-थ्सो॒मा-ऽऽ भूयो॑ भ॒रेत्या॒हा-प॑रिमिताने॒व प॒शूनव॑ रुन्धे च॒न्द्रम॑सि॒ मम॒ भोगा॑य भ॒वेत्या॑ह यथादेव॒तमे॒वैनाः॒ प्रति॑ गृह्णाति वा॒यवे᳚ त्वा॒ वरु॑णाय॒ त्वेति॒ यदे॒वमे॒ता नानु॑दि॒शेदय॑थादेवत॒-न्दक्षि॑णा गमये॒दा दे॒वता᳚भ्यो वृश्च्येत॒ यदे॒वमे॒ता अ॑नुदि॒शति॑ यथादेव॒तमे॒व दक्षि॑णा गमयति॒ न दे॒वता᳚भ्य॒ आ [न दे॒वता᳚भ्य॒ आ, वृ॒श्च्य॒ते॒ देवी॑रापो] 32

वृ॑श्च्यते॒ देवी॑रापो अपा-न्नपा॒दित्या॑ह॒ यद्वो॒ मेद्ध्यं॑-यँ॒ज्ञिय॒ग्ं॒ सदे॑व॒-न्तद्वो॒ मा-ऽव॑ क्रमिष॒मिति॒ वावैतदा॒हाच्छि॑न्न॒-न्तन्तु॑-म्पृथि॒व्या अनु॑ गेष॒मित्या॑ह॒ सेतु॑मे॒व कृ॒त्वा-ऽत्ये॑ति ॥ 33 ॥
(भु॒ञ्ज॒ते॒ – ऽयं – छि॑न्द्या-द्- रुन्धे॒ – ऽग्नि – रा॑ह दे॒व – इय॑-द्- दे॒वता᳚भ्य॒ आ – त्रय॑स्त्रिग्ंशच्च) (अ. 4)

दे॒वा वै दे॑व॒यज॑न-मद्ध्यव॒साय॒ दिशो॒ न प्राजा॑न॒-न्ते᳚(1॒)-ऽन्यो᳚-ऽन्यमुपा॑धाव॒-न्त्वया॒ प्र जा॑नाम॒ त्वयेति॒ ते-ऽदि॑त्या॒ग्ं॒ सम॑द्ध्रयन्त॒ त्वया॒ प्र जा॑ना॒मेति॒ सा-ऽब्र॑वी॒-द्वरं॑-वृँणै॒ मत्प्रा॑यणा ए॒व वो॑ य॒ज्ञा मदु॑दयना अस॒न्निति॒ तस्मा॑दादि॒त्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीयः॒ पञ्च॑ दे॒वता॑ यजति॒ पञ्च॒ दिशो॑ दि॒शा-म्प्रज्ञा᳚त्या॒ [दि॒शा-म्प्रज्ञा᳚त्यै, अथो॒ पञ्चा᳚क्षरा] 34

अथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्धे॒ पथ्याग्॑ स्व॒स्तिम॑यज॒-न्प्राची॑मे॒व तया॒ दिश॒-म्प्राजा॑नन्न॒ग्निना॑ दक्षि॒णा सोमे॑न प्र॒तीचीग्ं॑ सवि॒त्रोदी॑ची॒-मदि॑त्यो॒र्ध्वा-म्पथ्याग्॑ स्व॒स्तिं ​यँ॑जति॒ प्राची॑मे॒व तया॒ दिश॒-म्प्र जा॑नाति॒ पथ्याग्॑ स्व॒स्तिमि॒ष्ट्वा-ऽग्नीषोमौ॑ यजति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॒ग्नीषोमौ॒ ताभ्या॑मे॒वानु॑ पश्य- [पश्यति, अ॒ग्नीषोमा॑-वि॒ष्ट्वा] 35

-त्य॒ग्नीषोमा॑-वि॒ष्ट्वा स॑वि॒तारं॑-यँजति सवि॒तृप्र॑सूत ए॒वानु॑ पश्यति सवि॒तार॑मि॒ष्ट्वा-ऽदि॑तिं-यँजती॒यं-वाँ अदि॑तिर॒स्यामे॒व प्र॑ति॒ष्ठायानु॑ पश्य॒त्यदि॑तिमि॒ष्ट्वा मा॑रु॒तीमृच॒मन्वा॑ह म॒रुतो॒ वै दे॒वानां॒-विँशो॑ देववि॒श-ङ्खलु॒ वै कल्प॑मान-म्मनुष्यवि॒शमनु॑ कल्पते॒ य-न्मा॑रु॒तीमृच॑म॒न्वाह॑ वि॒शा-ङ्कॢप्त्यै᳚ ब्रह्मवा॒दिनो॑ वदन्ति प्रया॒जव॑दननूया॒ज-म्प्रा॑य॒णीय॑-ङ्का॒र्य॑-मनूया॒जव॑- [-मनूया॒जव॑त्, अ॒प्र॒या॒ज-मु॑दय॒नीय॒] 36

-दप्रया॒ज-मु॑दय॒नीय॒-मिती॒मे वै प्र॑या॒जा अ॒मी अ॑नूया॒जा-स्सैव सा य॒ज्ञस्य॒ सन्त॑ति॒स्त-त्तथा॒ न का॒र्य॑मा॒त्मा वै प्र॑या॒जाः प्र॒जा-ऽनू॑या॒जा य-त्प्र॑या॒जा-न॑न्तरि॒यादा॒त्मान॑म॒-न्तरि॑या॒-द्यद॑नूया॒जा-न॑न्तरि॒या-त्प्र॒जाम॒न्तरि॑या॒द्यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञः परा॑ भवति य॒ज्ञ-म्प॑रा॒भव॑न्तं॒-यँज॑मा॒नो-ऽनु॒ [-​यँज॑मा॒नो-ऽनु॑, परा॑ भवति] 37

परा॑ भवति प्रया॒जव॑दे॒वा-नू॑या॒जव॑-त्प्राय॒णीय॑-ङ्का॒र्य॑-म्प्रया॒जव॑दनूया॒जव॑-दुदय॒नीय॒-न्ना-ऽऽत्मान॑मन्त॒रेति॒ न प्र॒जा-न्न य॒ज्ञः प॑रा॒भव॑ति॒ न यज॑मानः प्राय॒णीय॑स्य निष्का॒स उ॑दय॒नीय॑म॒भि निर्व॑पति॒ सैव सा य॒ज्ञस्य॒ सन्त॑ति॒र्याः प्रा॑य॒णीय॑स्य या॒ज्या॑ य-त्ता उ॑दय॒नीय॑स्य या॒ज्याः᳚ कु॒र्या-त्परां॑अ॒मुं-लोँ॒कमा रो॑हे-त्प्र॒मायु॑क-स्स्या॒द्याः प्रा॑य॒णीय॑स्य पुरो-ऽनुवा॒क्या᳚स्ता उ॑दय॒नीय॑स्य या॒ज्याः᳚ करोत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ॥ 38 ॥
(प्रज्ञा᳚त्यै – पश्यत्य – नूया॒जव॒ – द्यज॑मा॒नो-ऽनु॑ – पुरोनुवा॒क्या᳚स्ता – अ॒ष्टौ च॑) (अ. 5)

क॒द्रूश्च॒ वै सु॑प॒र्णी चा᳚-ऽऽत्मरू॒पयो॑रस्पर्धेता॒ग्ं॒ सा क॒द्रू-स्सु॑प॒र्णीम॑जय॒-थ्सा-ऽब्र॑वी-त्तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमा ह॑र॒ तेना॒-ऽऽत्मान॒-न्निष्क्री॑णी॒ष्वेती॒यं-वैँ क॒द्रूर॒सौ सु॑प॒र्णी छन्दाग्ं॑सि सौपर्णे॒या-स्साब्र॑वीद॒स्मै वै पि॒तरौ॑ पु॒त्रा-न्बि॑भृत-स्तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमा ह॑र॒ तेना॒-ऽऽत्मान॒-न्निष्क्री॑णी॒ष्वे- [निष्क्री॑णी॒ष्व, इति॑ मा] 39

-ति॑ मा क॒द्रूर॑वोच॒दिति॒ जग॒त्युद॑पत॒-च्चतु॑र्दशाक्षरा स॒ती सा ऽप्रा᳚प्य॒ न्य॑वर्तत॒ तस्यै॒ द्वे अ॒क्षरे॑ अमीयेता॒ग्ं॒ सा प॒शुभि॑श्च दी॒क्षया॒ चा-ऽग॑च्छ॒-त्तस्मा॒ज्जग॑ती॒ छन्द॑सा-म्पश॒व्य॑तमा॒ तस्मा᳚-त्पशु॒मन्त॑-न्दी॒क्षोप॑ नमति त्रि॒ष्टुगुद॑पत॒-त्त्रयो॑दशाक्षरा स॒ती सा ऽप्रा᳚प्य॒ न्य॑वर्तत॒ तस्यै॒ द्वे अ॒क्षरे॑ अमीयेता॒ग्ं॒ सा दक्षि॑णाभिश्च॒ [दक्षि॑णाभिश्च, तप॑सा॒] 40

तप॑सा॒ चा-ऽग॑च्छ॒-त्तस्मा᳚-त्त्रि॒ष्टुभो॑ लो॒के माद्ध्य॑न्दिने॒ सव॑ने॒ दक्षि॑णा नीयन्त ए॒त-त्खलु॒ वाव तप॒ इत्या॑हु॒र्य-स्स्व-न्ददा॒तीति॑ गाय॒त्र्युद॑पत॒च्चतु॑रक्षरा स॒त्य॑जया॒ ज्योति॑षा॒ तम॑स्या अ॒जा-ऽभ्य॑रुन्ध॒ तद॒जाया॑ अज॒त्वग्ं सा सोम॒-ञ्चा-ऽऽह॑रच्च॒त्वारि॑ चा॒क्षरा॑णि॒ सा-ऽष्टाक्ष॑रा॒ सम॑पद्यत ब्रह्मवा॒दिनो॑ वदन्ति॒ [ब्रह्मवा॒दिनो॑ वदन्ति, कस्मा᳚-थ्स॒त्या-] 41

कस्मा᳚-थ्स॒त्या-द्गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑साग्ं स॒ती य॑ज्ञमु॒ख-म्परी॑या॒येति॒ यदे॒वाद-स्सोम॒मा-ऽह॑र॒-त्तस्मा᳚-द्यज्ञमु॒ख-म्पर्यै॒-त्तस्मा᳚-त्तेज॒स्विनी॑तमा प॒द्भ्या-न्द्वे सव॑ने स॒मगृ॑ह्णा॒-न्मुखे॒नैकं॒-यँन्मुखे॑न स॒मगृ॑ह्णा॒-त्तद॑धय॒-त्तस्मा॒-द्द्वे सव॑ने शु॒क्र॑वती प्रातस्सव॒न-ञ्च॒ माद्ध्य॑न्दिन-ञ्च॒ तस्मा᳚-त्तृतीय सव॒न ऋ॑जी॒षम॒भि षु॑ण्वन्ति धी॒तमि॑व॒ हि मन्य॑न्त [हि मन्य॑न्ते, आ॒शिर॒मव॑ नयति] 42

आ॒शिर॒मव॑ नयति सशुक्र॒त्वायाथो॒ स-म्भ॑रत्ये॒वैन॒-त्तग्ं सोम॑-माह्रि॒यमा॑ण-ङ्गन्ध॒र्वो वि॒श्वाव॑सः॒ पर्य॑मुष्णा॒-थ्स ति॒स्रो रात्रीः॒ परि॑मुषितो-ऽवस॒-त्तस्मा᳚-त्ति॒स्रो रात्रीः᳚ क्री॒त-स्सोमो॑ वसति॒ ते दे॒वा अ॑ब्रुव॒न्-थ्स्त्रीका॑मा॒ वै ग॑न्ध॒र्वा स्स्त्रि॒या निष्क्री॑णा॒मेति॒ ते वाच॒ग्ग्॒ स्त्रिय॒मेक॑हायनी-ङ्कृ॒त्वा तया॒ निर॑क्रीण॒न्-थ्सा रो॒हि-द्रू॒प-ङ्कृ॒त्वा ग॑न्ध॒र्वेभ्यो॑- [ग॑न्ध॒र्वेभ्यः॑, अ॒प॒क्रम्या॑तिष्ठ॒-त्त-द्रो॒हितो॒] 43

-ऽप॒क्रम्या॑तिष्ठ॒-त्त-द्रो॒हितो॒ जन्म॒ ते दे॒वा अ॑ब्रुव॒न्नप॑ यु॒ष्मदक्र॑मी॒-न्नास्मानु॒-पाव॑र्तते॒ वि ह्व॑यामहा॒ इति॒ ब्रह्म॑ गन्ध॒र्वा अव॑द॒न्नगा॑य-न्दे॒वा-स्सा दे॒वा-न्गाय॑त उ॒पाव॑र्तत॒ तस्मा॒-द्गाय॑न्त॒ग्ग्॒ स्त्रियः॑ कामयन्ते॒ कामु॑का एन॒ग्ग्॒ स्त्रियो॑ भवन्ति॒ य ए॒वं-वेँदाथो॒ य ए॒वं-विँ॒द्वानपि॒ जन्ये॑षु॒ भव॑ति॒ तेभ्य॑ ए॒व द॑दत्यु॒त य-द्ब॒हुत॑या॒ [य-द्ब॒हुत॑याः, भव॒न्त्येक॑हायन्या] 44

भव॒न्त्येक॑हायन्या क्रीणाति वा॒चैवैन॒ग्ं॒ सर्व॑या क्रीणाति॒ तस्मा॒देक॑हायना मनु॒ष्या॑ वाचं॑-वँद॒न्त्यकू॑ट॒या ऽक॑र्ण॒या-ऽ का॑ण॒याश्लो॑ण॒या ऽस॑प्तशफया क्रीणाति॒ सर्व॑यै॒वैन॑-ङ्क्रीणाति॒ यच्छ्वे॒तया᳚ क्रीणी॒या-द्दु॒श्चर्मा॒ यज॑मान-स्स्या॒द्य-त्कृ॒ष्णया॑-ऽनु॒स्तर॑णी स्या-त्प्र॒मायु॑को॒ यज॑मान-स्स्या॒द्य-द्द्वि॑रू॒पया॒ वार्त्र॑घ्नी स्या॒-थ्स वा॒-ऽन्य-ञ्जि॑नी॒या-त्तं-वाँ॒-ऽन्यो जि॑नीयादरु॒णया॑ पिङ्गा॒क्ष्या क्री॑णात्ये॒तद्वै सोम॑स्य रू॒पग्ग्​ स्वयै॒वैन॑-न्दे॒वत॑या क्रीणाति ॥ 45 ॥
(निष्क्री॑णीष्व॒ – दक्षि॑णाभिश्च – वदन्ति॒ – मन्य॑न्ते-गन्ध॒र्वेभ्यो॑-ब॒हुत॑याः-पिङ्गा॒क्ष्या-दश॑ च ) (अ. 6)

तद्धिर॑ण्यमभव॒-त्तस्मा॑द॒द्भ्यो हिर॑ण्य-म्पुनन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚-थ्स॒त्याद॑न॒स्थिके॑न प्र॒जाः प्र॒वीय॑न्ते ऽस्थ॒न्वती᳚र्जायन्त॒ इति॒ यद्धिर॑ण्य-ङ्घृ॒ते॑-ऽव॒धाय॑ जु॒होति॒ तस्मा॑दन॒स्थिके॑न प्र॒जाः प्र वी॑यन्ते ऽस्थ॒न्वती᳚र्जायन्त ए॒तद्वा अ॒ग्नेः प्रि॒य-न्धाम॒ य-द्घृ॒त-न्तेजो॒ हिर॑ण्यमि॒यन्ते॑ शुक्र त॒नूरि॒दं-वँर्च॒ इत्या॑ह॒ सते॑जसमे॒वैन॒ग्ं॒ सत॑नु- [सत॑नुम्, क॒रो॒त्यथो॒] 46

-ङ्करो॒त्यथो॒ स-म्भ॑रत्ये॒वैनं॒-यँदब॑द्धम-वद॒द्ध्या-द्गर्भाः᳚ प्र॒जाना᳚-म्परा॒पातु॑का-स्स्युर्ब॒द्धमव॑ दधाति॒ गर्भा॑णा॒-न्धृत्यै॑ निष्ट॒र्क्य॑-म्बद्ध्नाति प्र॒जाना᳚-म्प्र॒जन॑नाय॒ वाग्वा ए॒षा य-थ्सो॑म॒क्रय॑णी॒ जूर॒सीत्या॑ह॒ यद्धि मन॑सा॒ जव॑ते॒ त-द्वा॒चा वद॑ति धृ॒ता मन॒सेत्या॑ह॒ मन॑सा॒ हि वाग्धृ॒ता जुष्टा॒ विष्ण॑व॒ इत्या॑ह [ ] 47

य॒ज्ञो वै विष्णु॑ र्य॒ज्ञायै॒वैना॒-ञ्जुष्टा᳚-ङ्करोति॒ तस्या᳚स्ते स॒त्यस॑वसः प्रस॒व इत्या॑ह सवि॒तृ-प्र॑सूतामे॒व वाच॒मव॑ रुन्धे॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञग्ं रक्षाग्ं॑सि जिघाग्ंसन्त्ये॒ष खलु॒ वा अर॑क्षोहतः॒ पन्था॒ यो᳚-ऽग्नेश्च॒ सूर्य॑स्य च॒ सूर्य॑स्य॒ चक्षु॒रा-ऽरु॑हम॒ग्नेर॒क्ष्णः क॒नीनि॑का॒मित्या॑ह॒ य ए॒वार॑क्षोहतः॒ पन्था॒स्तग्ं स॒मारो॑हति॒ [स॒मारो॑हति, वाग्वा ए॒षा] 48

वाग्वा ए॒षा य-थ्सो॑म॒क्रय॑णी॒ चिद॑सि म॒ना-ऽसीत्या॑ह॒ शास्त्ये॒वैना॑मे॒त-त्तस्मा᳚च्छि॒ष्टाः प्र॒जा जा॑यन्ते॒ चिद॒सीत्या॑ह॒ यद्धि मन॑सा चे॒तय॑ते॒ त-द्वा॒चा वद॑ति म॒ना-ऽसीत्या॑ह॒ यद्धि मन॑सा-ऽभि॒गच्छ॑ति॒ त-त्क॒रोति॒ धीर॒सीत्या॑ह॒ यद्धि मन॑सा॒ ध्याय॑ति॒ त-द्वा॒चा [ ] 49

वद॑ति॒ दक्षि॑णा॒-ऽसीत्या॑ह॒ दक्षि॑णा॒ ह्ये॑षा य॒ज्ञिया॒-ऽसीत्या॑ह य॒ज्ञिया॑मे॒वैना᳚-ङ्करोति क्ष॒त्रिया॒सीत्या॑ह क्ष॒त्रिया॒ ह्ये॑षा ऽदि॑तिरस्युभ॒यत॑श्शी॒र्​ष्णीत्या॑ह॒ यदे॒वा-ऽऽदि॒त्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीय॒-स्तस्मा॑दे॒वमा॑ह॒ यदब॑द्धा॒ स्यादय॑ता स्या॒द्य-त्प॑दिब॒द्धा-ऽनु॒स्तर॑णी स्या-त्प्र॒मायु॑को॒ यज॑मान-स्स्या॒- [यज॑मान-स्स्यात्, य-त्क॑र्णगृही॒ता] 50

-द्य-त्क॑र्णगृही॒ता वार्त्र॑घ्नी स्या॒-थ्स वा॒-ऽन्य-ञ्जि॑नी॒या-त्तं-वाँ॒-ऽन्यो जि॑नीयान्मि॒त्रस्त्वा॑ प॒दि ब॑द्ध्ना॒त्वित्या॑ह मि॒त्रो वै शि॒वो दे॒वाना॒-न्तेनै॒वैना᳚-म्प॒दि ब॑द्ध्नाति पू॒षा-ऽद्ध्व॑नः पा॒त्वित्या॑हे॒यं-वैँ पू॒षेमामे॒वास्या॑ अधि॒पाम॑क॒-स्सम॑ष्ट्या॒ इन्द्रा॒या-द्ध्य॑क्षा॒येत्या॒हेन्द्र॑मे॒वास्या॒ अद्ध्य॑क्ष-ङ्करो॒- [अद्ध्य॑क्ष-ङ्करोति, अनु॑ त्वा मा॒ता] 51

-त्यनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तेत्या॒हा-नु॑मतयै॒वैन॑या क्रीणाति॒ सा दे॑वि दे॒वमच्छे॒हीत्या॑ह दे॒वी ह्ये॑षा दे॒व-स्सोम॒ इन्द्रा॑य॒ सोम॒मित्या॒हेन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒ यदे॒त-द्यजु॒र्न ब्रू॒या-त्परा᳚च्ये॒व सो॑म॒क्रय॑णीया-द्रु॒द्रस्त्वा-ऽऽ व॑र्तय॒त्वित्या॑ह रु॒द्रो वै क्रू॒रो [रु॒द्रो वै क्रू॒रः, दे॒वाना॒-न्तमे॒वास्यै॑] 52

दे॒वाना॒-न्तमे॒वास्यै॑ प॒रस्ता᳚-द्दधा॒त्यावृ॑त्त्यै क्रू॒रमि॑व॒ वा ए॒त-त्क॑रोति॒ य-द्रु॒द्रस्य॑ की॒र्तय॑ति मि॒त्रस्य॑ प॒थेत्या॑ह॒ शान्त्यै॑ वा॒चा वा ए॒ष वि क्री॑णीते॒ य-स्सो॑म॒क्रय॑ण्या स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्येत्या॑ह वा॒चैव वि॒क्रीय॒ पुन॑रा॒त्मन् वाच॑-न्ध॒त्ते-ऽनु॑पदासुका-ऽस्य॒ वाग्भ॑वति॒ य ए॒वं-वेँद॑ ॥ 53 ॥
(सत॑नुं॒ – ​विँष्ण॑व॒ इत्या॑ह – स॒मारो॑हति॒ – ध्याय॑ति॒ त-द्वा॒चा – यज॑मान-स्स्यात् – करोति – क्रू॒रो – वेद॑) (अ. 7)

षट् प॒दान्यनु॒ नि क्रा॑मति षड॒हं-वाँन्नाति॑ वदत्यु॒त सं॑​वँथ्स॒रस्याय॑ने॒ याव॑त्ये॒व वाक्तामव॑ रुन्धे सप्त॒मे प॒दे जु॑होति स॒प्तप॑दा॒ शक्व॑री प॒शव॒-श्शक्व॑री प॒शूने॒वाव॑ रुन्धे स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्ता-ऽऽर॒ण्या-स्स॒प्त छन्दाग्॑-स्यु॒भय॒स्या-व॑रुद्ध्यै॒ वस्व्य॑सि रु॒द्रा-ऽसीत्या॑ह रू॒पमे॒वास्या॑ ए॒त-न्म॑हि॒मानं॒- [ए॒त-न्म॑हि॒मान᳚म्, व्याच॑ष्टे॒ बृह॒स्पति॑स्त्वा] 54

-​व्याँच॑ष्टे॒ बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्व॒त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पति॒-र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्धे रु॒द्रो वसु॑भि॒रा चि॑के॒त्वित्या॒हा-ऽऽवृ॑त्त्यै पृथि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इत्या॑ह पृथि॒व्या ह्ये॑ष मू॒र्धा य-द्दे॑व॒यज॑न॒मिडा॑याः प॒द इत्या॒हेडा॑यै॒ ह्ये॑त-त्प॒दं-यँ-थ्सो॑म॒क्रय॑ण्यै घृ॒तव॑ति॒ स्वाहे- [स्वाहा᳚, इत्या॑ह॒] 55

-त्या॑ह॒ यदे॒वास्यै॑ प॒दा-द्घृ॒तमपी᳚ड्यत॒ तस्मा॑दे॒वमा॑ह॒ यद॑द्ध्व॒र्युर॑न॒ग्नावाहु॑ति-ञ्जुहु॒याद॒न्धो᳚-ऽद्ध्व॒र्यु-स्स्या॒-द्रक्षाग्ं॑सि य॒ज्ञग्ं ह॑न्यु॒र्॒हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो᳚-ऽद्ध्व॒र्यु र्भव॑ति॒ न य॒ज्ञग्ं रक्षाग्ं॑सि घ्नन्ति॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञग्ं रक्षाग्ं॑सि जिघाग्ंसन्ति॒ परि॑लिखित॒ग्ं॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒-मप॑हत्या [रक्ष॑सा॒-मप॑हत्यै, इ॒दम॒हग्ं] 56

इ॒दम॒हग्ं रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ य-ञ्चै॒व द्वेष्टि॒ यश्चै॑न॒-न्द्वेष्टि॒ तयो॑-रे॒वा-ऽन॑न्तराय-ङ्ग्री॒वाः कृ॑न्तति प॒शवो॒ वै सो॑म॒क्रय॑ण्यै प॒दं-याँ॑वत्त्मू॒तग्ं सं-वँ॑पति प॒शूने॒वाव॑ रुन्धे॒-ऽस्मे राय॒ इति॒ सं ​वँ॑पत्या॒त्मान॑-मे॒वाद्ध्व॒र्युः -[-मे॒वाद्ध्व॒र्युः, प॒शुभ्यो॒] 57

प॒शुभ्यो॒ नान्तरे॑ति॒ त्वे राय॒ इति॒ यज॑मानाय॒ प्र य॑च्छति॒ यज॑मान ए॒व र॒यि-न्द॑धाति॒ तोते॒ राय॒ इति॒ पत्नि॑या अ॒र्धो वा ए॒ष आ॒त्मनो॒ य-त्पत्नी॒ यथा॑ गृ॒हेषु॑ निध॒त्ते ता॒दृगे॒व त-त्त्वष्टी॑मती ते सपे॒येत्या॑ह॒ त्वष्टा॒ वै प॑शू॒ना-म्मि॑थु॒नानाग्ं॑ रूप॒कृ-द्रू॒पमे॒व प॒शुषु॑ दधात्य॒स्मै वै लो॒काय॒ गार्​ह॑पत्य॒ आ धी॑यते॒ ऽमुष्मा॑ आहव॒नीयो॒ य-द्गार्​ह॑पत्य उप॒वपे॑द॒स्मि-​ल्लोँ॒के प॑श॒मान्-थ्स्या॒-द्यदा॑हव॒नीये॒ ऽमुष्मि॑-​ल्लोँ॒के प॑शु॒मान्-थ्स्या॑दु॒भयो॒रुप॑ वपत्यु॒भयो॑रे॒वैनं॑-लोँ॒कयोः᳚ पशु॒मन्त॑-ङ्करोति ॥ 58 ॥
(म॒हि॒मान॒ग्ग्॒ – स्वाहा – ऽप॑हत्या – अध्व॒र्यु – धी॑यते॒ – चतु॑र्विग्ंशतिश्च) (अ. 8)

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वि॒चित्य॒-स्सोमा(3) न वि॒चित्या(3) इति॒ सोमो॒ वा ओष॑धीना॒ग्ं॒ राजा॒ तस्मि॒न्॒. यदाप॑न्न-ङ्ग्रसि॒तमे॒वास्य॒ त-द्य-द्वि॑चिनु॒या-द्यथा॒ ऽऽस्या᳚द्ग्रसि॒त-न्नि॑ष्खि॒दति॑ ता॒दृगे॒व तद्यन्न वि॑चिनु॒या-द्यथा॒ ऽक्षन्नाप॑न्नं-विँ॒धाव॑ति ता॒दृगे॒व त-त्क्षोधु॑को ऽद्ध्व॒र्यु-स्स्या-त्क्षोधु॑को॒ यज॑मान॒-स्सोम॑विक्रयि॒न्-थ्सोमग्ं॑ शोध॒येत्ये॒व ब्रू॑या॒-द्यदीत॑रं॒- [ब्रू॑या॒-द्यदीत॑रम्, यदीत॑र-] 59

-​यँदीत॑र-मु॒भये॑नै॒व सो॑मविक्र॒यिण॑-मर्पयति॒ तस्मा᳚-थ्सोमविक्र॒यी क्षोधु॑को ऽरु॒णो ह॑ स्मा॒-ऽऽहौप॑वेशि-स्सोम॒क्रय॑ण ए॒वाह-न्तृ॑तीय सव॒नमव॑ रुन्ध॒ इति॑ पशू॒ना-ञ्चर्म॑-न्मिमीते प॒शूने॒वाव॑ रुन्धे प॒शवो॒ हि तृ॒तीय॒ग्ं॒ सव॑नं॒-यँ-ङ्का॒मये॑ताप॒शु-स्स्या॒-दित्यृ॑क्ष॒त-स्तस्य॑ मिमीत॒र्क्षं-वाँ अ॑पश॒व्य-म॑प॒शुरे॒व भ॑वति॒ य-ङ्का॒मये॑त पशु॒मान्-थ्स्या॒ – [ ] 60

-दिति॑ लोम॒तस्तस्य॑ मिमीतै॒तद्वै प॑शू॒नाग्ं रू॒पग्ं रू॒पेणै॒वा-ऽस्मै॑ प॒शूनव॑ रुन्धे पशु॒माने॒व भ॑वत्य॒पामन्ते᳚ क्रीणाति॒ सर॑समे॒वैन॑-ङ्क्रीणात्य॒-मात्यो॒-ऽसीत्या॑हा॒-ऽमैवैन॑-ङ्कुरुते शु॒क्रस्ते॒ ग्रह॒ इत्या॑ह शु॒क्रो ह्य॑स्य॒ ग्रहो ऽन॒सा-ऽच्छ॑ याति महि॒मान॑-मे॒वास्याच्छ॑ या॒त्यन॒सा- [या॒त्यन॒सा, अच्छ॑] 61

-ऽच्छ॑ याति॒ तस्मा॑-दनोवा॒ह्यग्ं॑ स॒मे जीव॑नं॒-यँत्र॒ खलु॒ वा ए॒तग्ं शी॒र्​ष्णा हर॑न्ति॒ तस्मा᳚च्छीर्​षहा॒र्य॑-ङ्गि॒रौ जीव॑नम॒भि त्य-न्दे॒वग्ं स॑वि॒तार॒मित्यति॑-च्छन्दस॒र्चा मि॑मी॒ते ऽति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाग्ं॑सि॒ सर्वे॑भिरे॒वैन॒-ञ्छन्दो॑भिर्मिमीते॒ वर्​ष्म॒ वा ए॒षा छन्द॑सां॒-यँदति॑च्छन्दा॒ यदति॑च्छन्दस॒र्चा मिमी॑ते॒ वर्​ष्मै॒वैनग्ं॑ समा॒नाना᳚-ङ्करो॒त्येक॑यैकयो॒-थ्सर्ग॑- [-ङ्करो॒त्येक॑यैकयो॒-थ्सर्ग᳚म्, मि॒मी॒ते] 62

-म्मिमी॒ते ऽया॑तयाम्नियायातयाम्नियै॒वैन॑-म्मिमीते॒ तस्मा॒न्नाना॑वीर्या अ॒ङ्गुल॑य॒-स्सर्वा᳚स्वङ्गु॒ष्ठमुप॒ नि गृ॑ह्णाति॒ तस्मा᳚-थ्स॒माव॑द्वीर्यो॒-ऽन्याभि॑-र॒ङ्गुलि॑भि॒स्तस्मा॒-थ्सर्वा॒ अनु॒ स-ञ्च॑रति॒ य-थ्स॒ह सर्वा॑भि॒र्मिमी॑त॒ सग्ग्​श्लि॑ष्टा अ॒ङ्गुल॑यो जायेर॒-न्नेक॑यैकयो॒-थ्सर्ग॑-म्मिमीते॒ तस्मा॒-द्विभ॑क्ता जायन्ते॒ पञ्च॒ कृत्वो॒ यजु॑षा मिमीते॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्धे॒ पञ्च॒ कृत्व॑-स्तू॒ष्णी- [कृत्व॑-स्तू॒ष्णीम्, दश॒ स-म्प॑द्यन्ते॒] 63

-न्दश॒ स-म्प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑-विँ॒रा-ड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे॒ य-द्यजु॑षा॒ मिमी॑ते भू॒तमे॒वाव॑ रुन्धे॒ य-त्तू॒ष्णी-म्भ॑वि॒ष्य-द्य-द्वै तावा॑ने॒व सोम॒-स्स्या-द्याव॑न्त॒-म्मिमी॑ते॒ यज॑मानस्यै॒व स्या॒न्नापि॑ सद॒स्या॑ना-म्प्र॒जाभ्य॒स्त्वेत्युप॒ समू॑हति सद॒स्या॑ने॒वान्वा भ॑जति॒ वास॒सोप॑ नह्यति सर्वदेव॒त्यं॑-वैँ [ ] 64

वास॒-स्सर्वा॑भिरे॒वैन॑-न्दे॒वता॑भि॒-स्सम॑र्धयति प॒शवो॒ वै सोमः॑ प्रा॒णाय॒ त्वेत्युप॑ नह्यति प्रा॒णमे॒व प॒शुषु॑ दधाति व्या॒नाय॒ त्वेत्यनु॑ शृन्थति व्या॒नमे॒व प॒शुषु॑ दधाति॒ तस्मा᳚-थ्स्व॒पन्त॑-म्प्रा॒णा न ज॑हति ॥ 65 ॥
(इत॑रं – पशु॒मान्-थ्स्या᳚–द्या॒त्यन॑सो॒ – थ्सर्गं॑ – तू॒ष्णीग्ं – स॑र्वदेव॒त्यं॑-वैँ – त्रय॑स्त्रिग्ंशच्च) (अ. 9)

य-त्क॒लया॑ ते श॒फेन॑ ते क्रीणा॒नीति॒ पणे॒तागो॑अर्घ॒ग्ं॒ सोम॑-ङ्कु॒र्यादगो॑अर्घं॒-यँज॑मान॒-मगो॑अर्घमद्ध्व॒र्यु-ङ्गोस्तु म॑हि॒मान॒-न्नाव॑ तिरे॒-द्गवा॑ ते क्रीणा॒नीत्ये॒व ब्रू॑या-द्गोअ॒र्घमे॒व सोम॑-ङ्क॒रोति॑ गोअ॒र्घं-यँज॑मान-ङ्गोअ॒र्घम॑द्ध्व॒र्यु-न्न गोर्म॑हि॒मान॒मव॑ तिरत्य॒जया᳚ क्रीणाति॒ सत॑पसमे॒वैन॑-ङ्क्रीणाति॒ हिर॑ण्येन क्रीणाति॒ सशु॑क्रमे॒वै- [सशु॑क्रमे॒व, ए॒न॒-ङ्क्री॒णा॒ति॒ धे॒न्वा क्री॑णाति॒] 66

-न॑-ङ्क्रीणाति धे॒न्वा क्री॑णाति॒ साशि॑रमे॒वैन॑-ङ्क्रीणात्यृष॒भेण॑ क्रीणाति॒ सेन्द्र॑मे॒वैन॑-ङ्क्रीणात्यन॒डुहा᳚ क्रीणाति॒ वह्नि॒र्वा अ॑न॒ड्वान्. वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्य॑ क्रीणाति मिथु॒नाभ्या᳚-ङ्क्रीणाति मिथु॒नस्याव॑-रुद्ध्यै॒ वास॑सा क्रीणाति सर्वदेव॒त्यं॑-वैँ वा॒स-स्सर्वा᳚भ्य ए॒वैन॑-न्दे॒वता᳚भ्यः क्रीणाति॒ दश॒ स-म्प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑-विँ॒रा-ड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे॒ [रुन्धे, तप॑स-स्त॒नूर॑सि] 67

तप॑स-स्त॒नूर॑सि प्र॒जाप॑ते॒-र्वर्ण॒ इत्या॑ह प॒शुभ्य॑ ए॒व तद॑द्ध्व॒-र्युर्नि ह्नु॑त आ॒त्मनो-ऽना᳚व्रस्काय॒ गच्छ॑ति॒ श्रिय॒-म्प्र प॒शूना᳚प्नोति॒ य ए॒वं-वेँद॑ शु॒क्र-न्ते॑ शु॒क्रेण॑ क्रीणा॒मीत्या॑ह यथा य॒जुरे॒वैत-द्दे॒वा वै येन॒ हिर॑ण्येन॒ सोम॒मक्री॑ण॒-न्तद॑भी॒षहा॒ पुन॒रा-ऽद॑दत॒ को हि तेज॑सा विक्रे॒ष्यत॒ इति॒ येन॒ हिर॑ण्येन॒ [हिर॑ण्येन, सोम॑-] 68

सोम॑-ङ्क्रीणी॒या-त्तद॑भी॒षहा॒ पुन॒रा द॑दीत॒ तेज॑ ए॒वा-ऽऽत्म-न्ध॑त्ते॒-ऽस्मे ज्योतिः॑ सोमविक्र॒यिणि॒ तम॒ इत्या॑ह॒ ज्योति॑रे॒व यज॑माने दधाति॒ तम॑सा सोमविक्र॒यिण॑मर्पयति॒ यदनु॑पग्रथ्य ह॒न्या-द्द॑न्द॒शूका॒स्ताग्ं समाग्ं॑ स॒र्पा-स्स्यु॑रि॒दम॒हग्ं स॒र्पाणा᳚-न्दन्द॒शूका॑ना-ङ्ग्री॒वा उप॑ ग्रथ्ना॒मीत्या॒हा-द॑न्दशूका॒स्ताग्ं समाग्ं॑ स॒र्पा भ॑वन्ति॒ तम॑सा सोमविक्र॒यिणं॑-विँद्ध्यति॒ स्वान॒ [स्वान॑, भ्राजेत्या॑है॒ते] 69

भ्राजेत्या॑है॒ते वा अ॒मुष्मि॑-​ल्लोँ॒के सोम॑मरक्ष॒-न्तेभ्यो-ऽधि॒ सोम॒मा-ऽह॑र॒न्॒. यदे॒तेभ्यः॑ सोम॒क्रय॑णा॒-न्नानु॑दि॒शेदक्री॑तो-ऽस्य॒ सोमः॑ स्या॒न्नास्यै॒ते॑ ऽमुष्मि॑-​ल्लोँ॒के सोमग्ं॑ रक्षेयु॒र्यदे॒तेभ्यः॑ सोम॒क्रय॑णाननुदि॒शति॑ क्री॒तो᳚-ऽस्य॒ सोमो॑ भवत्ये॒ते᳚-ऽस्या॒मुष्मि॑-​ल्लोँ॒के सोमग्ं॑ रक्षन्ति ॥ 70 ॥
(सशु॑क्रमे॒व – रु॑न्ध॒ – इति॒ येन॒ हिर॑ण्येन॒ – स्वान॒ – चतु॑श्चत्वारिग्ंशच्च) (अ. 10)

वा॒रु॒णो वै क्री॒त-स्सोम॒ उप॑नद्धो मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इत्या॑ह॒ शान्त्या॒ इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑ण॒मित्या॑ह दे॒वा वै यग्ं सोम॒मक्री॑ण-न्तमिन्द्र॑स्यो॒रौ दक्षि॑ण॒ आ ऽसा॑दयन्ने॒ष खलु॒ वा ए॒तर्​हीन्द्रो॒ यो यज॑ते॒ तस्मा॑दे॒वमा॒होदायु॑षा स्वा॒युषेत्या॑ह दे॒वता॑ ए॒वा-न्वा॒रभ्यो- [ए॒वा-न्वा॒रभ्योत्, ति॒ष्ठ॒त्यु॒-र्व॑न्तरि॑क्ष॒-] 71

-त्ति॑ष्ठत्यु॒-र्व॑न्तरि॑क्ष॒-मन्वि॒हीत्या॑हा-न्तरिक्षदेव॒त्यो᳚(1॒) ह्ये॑तर्​हि॒ सोमो-ऽदि॑त्या॒-स्सदो॒-ऽस्यदि॑त्या॒-स्सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैत-द्वि वा ए॑नमे॒तद॑र्धयति॒ य-द्वा॑रु॒णग्ं सन्त॑-म्मै॒त्र-ङ्क॒रोति॑ वारु॒ण्यर्चा-ऽऽ सा॑दयति॒ स्वयै॒वैन॑-न्दे॒वत॑या॒ सम॑र्धयति॒ वास॑सा प॒र्यान॑ह्यति सर्वदेव॒त्यं॑-वैँ वास॒-स्सर्वा॑भिरे॒वै- [वास॒-स्सर्वा॑भिरे॒व, ए॒न॒-न्दे॒वता॑भि॒-] 72

-न॑-न्दे॒वता॑भि॒-स्सम॑र्धय॒त्यथो॒ रक्ष॑सा॒मप॑हत्यै॒ वने॑षु॒ व्य॑न्तरि॑क्ष-न्तता॒नेत्या॑ह॒ वने॑षु॒ हि व्य॑न्तरि॑क्ष-न्त॒तान॒ वाज॒मर्व॒थ्स्वित्या॑ह॒ वाज॒ग्ग्॒ ह्यर्व॑थ्सु॒ पयो॑ अघ्नि॒यास्वित्या॑ह॒ पयो॒ ह्य॑घ्नि॒यासु॑ हृ॒थ्सु क्रतु॒मित्या॑ह हृ॒थ्सु हि क्रतुं॒-वँरु॑णो वि॒क्ष्व॑ग्निमित्या॑ह॒ वरु॑णो॒ हि वि॒क्ष्व॑ग्नि-न्दि॒वि सूर्य॒- [सूर्य᳚म्, इत्या॑ह दि॒वि हि] 73

-मित्या॑ह दि॒वि हि सूर्य॒ग्ं॒ सोम॒मद्रा॒वित्या॑ह॒ ग्रावा॑णो॒ वा अद्र॑य॒स्तेषु॒ वा ए॒ष सोम॑-न्दधाति॒ यो यज॑ते॒ तस्मा॑दे॒वमा॒होदु॒ त्य-ञ्जा॒तवे॑दस॒मिति॑ सौ॒र्यर्चा कृ॑ष्णाजि॒न-म्प्र॒त्यान॑ह्यति॒ रक्ष॑सा॒मप॑हत्या॒ उस्रा॒वेत॑-न्धूर्​षाहा॒वित्या॑ह यथाय॒जुरे॒वैत-त्प्र च्य॑वस्व भुवस्पत॒ इत्या॑ह भू॒ताना॒ग्॒ ह्ये॑ [भू॒ताना॒ग्ं॒ हि, ए॒ष पति॒-र्विश्वा᳚न्य॒भि] 74

-ष पति॒-र्विश्वा᳚न्य॒भि धामा॒नीत्या॑ह॒ विश्वा॑नि॒ ह्ये᳚(1॒) षो॑-ऽभि धामा॑नि प्र॒च्यव॑ते॒ मा त्वा॑ परिप॒री वि॑द॒दित्या॑ह॒ यदे॒वाद-स्सोम॑माह्रि॒यमा॑ण-ङ्गन्ध॒र्वो वि॒श्वाव॑सुः प॒र्यमु॑ष्णा॒-त्तस्मा॑-दे॒वमा॒हाप॑रिमोषाय॒ यज॑मानस्य स्व॒स्त्यय॑न्य॒सीत्या॑ह॒ यज॑मानस्यै॒वैष य॒ज्ञस्या᳚न्वार॒भों ऽन॑वच्छित्त्यै॒ वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ य- [यत्, क्री॒त-स्सोम॒ उप॑नद्धो॒ नमो॑] 75

-त्क्री॒त-स्सोम॒ उप॑नद्धो॒ नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑स॒ इत्या॑ह॒ शान्त्या॒ आ सोमं॒-वँह॑न्त्य॒ग्निना॒ प्रति॑ तिष्ठते॒ तौ स॒भं​वँ॑न्तौ॒ यज॑मानम॒भि स-म्भ॑वतः पु॒रा खलु॒ वावैष मेधा॑या॒-ऽऽत्मान॑मा॒रभ्य॑ चरति॒ यो दी᳚क्षि॒तो यद॑ग्नीषो॒मीय॑-म्प॒शुमा॒लभ॑त आत्मनि॒ष्क्रय॑ण ए॒वास्य॒ स तस्मा॒-त्तस्य॒ ना-ऽऽश्य॑-म्पुरुषनि॒ष्क्रय॑ण इव॒ ह्यथो॒ खल्वा॑हु र॒ग्नीषोमा᳚भ्यां॒-वाँ इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॒ यद॑ग्नीषो॒मीय॑-म्प॒शुमा॒लभ॑त॒ वार्त्र॑घ्न ए॒वास्य॒ स तस्मा᳚-द्वा॒श्यं॑-वाँरु॒ण्यर्चा परि॑ चरति॒ स्वयै॒वैन॑-न्दे॒वत॑या॒ परि॑ चरति ॥ 76 ॥
(अ॒न्वा॒रभ्योथ् – सर्वा॑भिरे॒व – सूर्यं॑ – भू॒ताना॒ग्॒ ह्ये॑ – ति॒ य – दा॑हुः – स॒प्तविग्ं॑शतिश्च) (अ. 11)

(प्रा॒चीन॑वग्ंशं॒ -​याँव॑न्त – ऋख्सा॒मे – वाग्वै दे॒वेभ्यो॑ – दे॒वा वै दे॑व॒यज॑नं – क॒द्रूश्च॒ – तद्धिर॑ण्य॒ग्ं॒ – षट् प॒दानि॑ – ब्रह्मवा॒दिनो॑ वि॒चित्यो॒ – य-त्क॒लया॑ ते – वारु॒णो वै क्री॒त-स्सोम॒ – एका॑दश)

(प्रा॒चीन॑वग्ंश॒ग्ग्॒ – स्वाहेत्या॑ह॒ – ये᳚-ऽन्त-श्श॒रा – ह्ये॑ष सं – तप॑सा च॒ – यत्क॑र्णगृही॒ – तेति॑ लोम॒तो – वा॑रु॒णः – षट्-थ्स॑प्ततिः )

(प्रा॒चीन॑वग्ं श॒, म्परि॑ चरति)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां षष्ठकाण्डे प्रथमः प्रश्न-स्समाप्तः ॥