कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां षष्ठकाण्डे पञ्चमः प्रश्नः – सोममन्त्रब्राह्मणनिरूपणं
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छ॒-थ्स वृ॒त्रो वज्रा॒दुद्य॑तादबिभे॒-थ्सो᳚-ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒द-म्मयि॑ वी॒र्यं॑ त-त्ते॒ प्र दा᳚स्या॒मीति॒ तस्मा॑ उ॒क्थ्य॑-म्प्राय॑च्छ॒-त्तस्मै᳚ द्वि॒तीय॒मुद॑यच्छ॒-थ्सो᳚-ऽब्रवी॒न्मा म॒ प्र हा॒रस्ति॒ वा इ॒द-म्मयि॑ वी॒र्य॑-न्त-त्ते॒ प्र दा᳚स्या॒मीति॒ [प्र दा᳚स्या॒मीति॑, तस्मा॑ उ॒क्थ्य॑मे॒व] 1
तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒-त्तस्मै॑ तृ॒तीय॒मुद॑यच्छ॒-त्तं-विँष्णु॒रन्व॑तिष्ठत ज॒हीति॒ सो᳚-ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒द-म्मयि॑ वी॒र्य॑-न्त-त्ते॒ प्र दा᳚स्या॒मीति॒ तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒-त्त-न्निर्मा॑य-म्भू॒तम॑हन्. य॒ज्ञो हि तस्य॑ मा॒या-ऽऽसी॒-द्यदु॒क्थ्यो॑ गृ॒ह्यत॑ इन्द्रि॒यमे॒व [ ] 2
त-द्वी॒र्यं॑-यँज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्त॒ इन्द्रा॑य त्वा बृ॒ह-द्व॑ते॒ वय॑स्वत॒ इत्या॒हेन्द्रा॑य॒ हि स त-म्प्राय॑च्छ॒-त्तस्मै᳚ त्वा॒ विष्ण॑वे॒ त्वेत्या॑ह॒ यदे॒व विष्णु॑र॒न्वति॑ष्ठत ज॒हीति॒ तस्मा॒-द्विष्णु॑म॒न्वाभ॑जति॒ त्रिर्निर्गृ॑ह्णाति॒ त्रिर्हि स त-न्तस्मै॒ प्राय॑च्छदे॒ष ते॒ योनिः॒ पुन॑र्हविर॒सीत्या॑ह॒ पुनः॑पुन॒- [पुनः॑पुनः, ह्य॑स्मा-] 3
र्-ह्य॑स्मा-न्निर्गृ॒ह्णाति॒ चक्षु॒र्वा ए॒त-द्य॒ज्ञस्य॒ यदु॒क्थ्य॑-स्तस्मा॑दु॒क्थ्यग्ं॑ हु॒तग्ं सोमा॑ अ॒न्वाय॑न्ति॒ तस्मा॑दा॒त्मा चक्षु॒रन्वे॑ति॒ तस्मा॒देकं॒-यँन्त॑-म्ब॒हवो-ऽनु॑ यन्ति॒ तस्मा॒देको॑ बहू॒ना-म्भ॒द्रो भ॑वति॒ तस्मा॒देको॑ ब॒ह्वीर्जा॒या वि॑न्दते॒ यदि॑ का॒मये॑ता-द्ध्व॒र्यु-रा॒त्मानं॑-यँज्ञ यश॒सेना᳚-र्पयेय॒-मित्य॑न्त॒रा-ऽऽह॑व॒नीय॑-ञ्च हवि॒र्धान॑-ञ्च॒ तिष्ठ॒न्नव॑ नये- [नयेत्, आ॒त्मान॑मे॒व] 4
-दा॒त्मान॑मे॒व य॑ज्ञयश॒सेना᳚र्पयति॒ यदि॑ का॒मये॑त॒ यज॑मानं-यँज्ञ यश॒सेना᳚र्पयेय॒-मित्य॑न्त॒रा स॑दोहविर्धा॒ने तिष्ठ॒न्नव॑ नये॒-द्यज॑मानमे॒व य॑ज्ञयश॒सेना᳚-र्पयति॒ यदि॑ का॒मये॑त सद॒स्यान्॑ यज्ञ यश॒सेना᳚-र्पयेय॒मिति॒ सद॑ आ॒लभ्याव॑ नये-थ्सद॒स्या॑ने॒व य॑ज्ञयश॒सेना᳚र्पयति ॥ 5 ॥
(इती᳚ – न्द्रि॒यमे॒व – पुनः॑ पुन – र्नये॒त् – त्रय॑स्त्रिग्ंशच्च) (अ. 1)
आयु॒र्वा ए॒त-द्य॒ज्ञस्य॒ य-द्ध्रु॒व उ॑त्त॒मो ग्रहा॑णा-ङ्गृह्यते॒ तस्मा॒-दायुः॑ प्रा॒णाना॑-मुत्त॒म-म्मू॒र्धान॑-न्दि॒वो अ॑र॒ति-म्पृ॑थि॒व्या इत्या॑ह मू॒र्धान॑-मे॒वैनग्ं॑ समा॒नाना᳚-ङ्करोति वैश्वान॒र-मृ॒ताय॑ जा॒त-म॒ग्नि-मित्या॑ह वैश्वान॒रग्ं हि दे॒वत॒या-ऽऽयु॑-रुभ॒यतो॑ वैश्वानरो गृह्यते॒ तस्मा॑-दुभ॒यतः॑ प्रा॒णा अ॒धस्ता᳚-च्चो॒परि॑ष्टा-च्चा॒र्धिनो॒-ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒-ऽर्धी ध्रु॒व-स्तस्मा॑- [ध्रु॒व-स्तस्मा᳚त्, अ॒र्ध्यवा᳚-] 6
-द॒र्ध्यवा᳚-म्प्रा॒णो᳚-ऽन्येषा᳚-म्प्रा॒णाना॒-मुपो᳚प्ते॒-ऽन्ये ग्रहा᳚-स्सा॒द्यन्ते-ऽनु॑पोप्ते ध्रु॒वस्तस्मा॑-द॒स्थ्नान्याः प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति मा॒ग्ं॒सेना॒न्या असु॑रा॒ वा उ॑त्तर॒तः पृ॑थि॒वी-म्प॒र्याचि॑कीर्ष॒-न्ता-न्दे॒वा ध्रु॒वेणा॑दृग्ंह॒-न्त-द्ध्रु॒वस्य॑ ध्रुव॒त्वं-यँ-द्ध्रु॒व उ॑त्तर॒त-स्सा॒द्यते॒ धृत्या॒ आयु॒र्वा ए॒त-द्य॒ज्ञस्य॒ य-द्ध्रु॒व आ॒त्मा होता॒ यद्धो॑तृचम॒से ध्रु॒व-म॑व॒नय॑त्या॒त्मन्ने॒व य॒ज्ञस्या- [य॒ज्ञस्य॑, आयु॑-र्दधाति] 7
-ऽऽयु॑-र्दधाति पु॒रस्ता॑-दु॒क्थस्या॑-ऽव॒नीय॒ इत्या॑हुः पु॒रस्ता॒द्ध्यायु॑षो भु॒ङ्क्ते म॑द्ध्य॒तो॑-ऽव॒नीय॒ इत्या॑हुर्मद्ध्य॒मेन॒ ह्यायु॑षो भु॒ङ्क्त उ॑त्तरा॒र्धे॑-ऽव॒नीय॒ इत्या॑हुरुत्त॒मेन॒ ह्यायु॑षो भु॒ङ्क्ते वै᳚श्वदे॒व्यामृ॒चि श॒स्यमा॑नाया॒मव॑ नयति वैश्वदे॒व्यो॑ वै प्र॒जाः प्र॒जास्वे॒वा-ऽऽयु॑र्दधाति ॥ 8 ॥
(ध्रु॒वस्तस्मा॑ – दे॒व य॒ज्ञस्यै – का॒न्नच॑त्वारि॒ग्ं॒शच्च॑) (अ. 2)
य॒ज्ञेन॒ वै दे॒वा-स्सु॑व॒र्गं-लोँ॒कमा॑य॒-न्ते॑-ऽमन्यन्त मनु॒ष्या॑ नो॒-ऽन्वाभ॑विष्य॒न्तीति॒ ते सं॑वँथ्स॒रेण॑ योपयि॒त्वा सु॑व॒र्गं-लोँ॒कमा॑य॒-न्तमृष॑य ऋतुग्र॒हैरे॒वानु॒ प्राजा॑न॒न्॒. यदृ॑तुग्र॒हा गृ॒ह्यन्ते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै॒ द्वाद॑श गृह्यन्ते॒ द्वाद॑श॒ मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रस्य॒ प्रज्ञा᳚त्यै स॒ह प्र॑थ॒मौ गृ॑ह्येते स॒होत्त॒मौ तस्मा॒-द्द्वौद्वा॑वृ॒तू उ॑भ॒यतो॑मुख-मृतुपा॒त्र-म्भ॑वति॒ को [म्भ॑वति॒ कः, हि त-द्वेद॒] 9
हि त-द्वेद॒ यत॑ ऋतू॒ना-म्मुख॑मृ॒तुना॒ प्रेष्येति॒ ष-ट्कृत्व॑ आह॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णात्यृ॒तुभि॒रिति॑ च॒तुश्चतु॑ष्पद ए॒व प॒शू-न्प्री॑णाति॒ द्विः पुन॑र्-ऋ॒तुना॑-ऽऽह द्वि॒पद॑ ए॒व प्री॑णात्यृ॒तुना॒ प्रेष्येति॒ ष-ट्कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुस्तस्मा॒-च्चतु॑ष्पादः प॒शव॑ ऋ॒तूनुप॑ जीवन्ति॒ द्विः [द्विः, पुन॑र्-ऋ॒तुना॑-ऽऽह॒] 10
पुन॑र्-ऋ॒तुना॑-ऽऽह॒ तस्मा᳚-द्द्वि॒पाद॒श्चतु॑ष्पदः प॒शूनुप॑ जीवन्त्यृ॒तुना॒ प्रेष्येति॒ ष-ट्कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुर्द्विः पुन॑र्-ऋ॒तुना॑-ऽऽहा॒ ऽऽक्रम॑णमे॒व त-थ्सेतुं॒-यँज॑मानः कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ नान्यो᳚-ऽन्यमनु॒ प्रप॑द्येत॒ यद॒न्यो᳚-ऽन्यम॑नु प्र॒पद्ये॑त॒र्तुर्-ऋ॒तुमनु॒ प्रप॑द्येत॒र्तवो॒ मोहु॑का-स्स्युः॒ [मोहु॑का-स्स्युः, प्रसि॑द्धमे॒वा-] 11
प्रसि॑द्धमे॒वा-द्ध्व॒र्यु-र्दक्षि॑णेन॒ प्रप॑द्यते॒ प्रसि॑द्ध-म्प्रतिप्रस्था॒तोत्त॑रेण॒ तस्मा॑-दादि॒त्य-ष्षण्मा॒सो दक्षि॑णेनैति॒ षडुत्त॑रेणो-पया॒मगृ॑हीतो-ऽसि स॒ग्ं॒ सर्पो᳚-ऽस्यग्ंहस्प॒त्याय॒ त्वेत्या॒हास्ति॑ त्रयोद॒शो मास॒ इत्या॑हु॒स्त-मे॒व त-त्प्री॑णाति ॥ 12 ॥
(को – जी॑वन्ति॒ द्विः – स्यु॒ – श्चतु॑स्त्रिग्ंशच्च) (अ. 3)
सु॒व॒र्गाय॒ वा ए॒ते लो॒काय॑ गृह्यन्ते॒ यदृ॑तुग्र॒हा ज्योति॑-रिन्द्रा॒ग्नी यदै᳚न्द्रा॒ग्न-मृ॑तुपा॒त्रेण॑ गृ॒ह्णाति॒ ज्योति॑-रे॒वा-ऽस्मा॑ उ॒परि॑ष्टा-द्दधाति सुव॒र्गस्य॑ लो॒कस्या-ऽनु॑ख्यात्या ओजो॒भृतौ॒ वा ए॒तौ दे॒वानां॒-यँदि॑न्द्रा॒ग्नी यदै᳚न्द्रा॒ग्नो गृ॒ह्यत॒ ओज॑ ए॒वाव॑ रुन्धे वैश्वदे॒वग्ं शु॑क्रपा॒त्रेण॑ गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जा अ॒सावा॑दि॒त्य-श्शु॒क्रो य-द्वै᳚श्वदे॒वग्ं शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ तस्मा॑-द॒सा-वा॑दि॒त्य- [तस्मा॑-द॒सा-वा॑दि॒त्यः, सर्वाः᳚] 13
-स्सर्वाः᳚ प्र॒जाः प्र॒त्यङ्ङुदे॑ति॒ तस्मा॒-थ्सर्व॑ ए॒व म॑न्यते॒ मा-म्प्रत्युद॑गा॒दिति॑ वैश्वदे॒वग्ं शु॑क्रपा॒त्रेण॑ गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जास्तेजः॑ शु॒क्रो य-द्वै᳚श्वदे॒वग्ं शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॑ प्र॒जास्वे॒व तेजो॑ दधाति ॥ 14 ॥
(तस्मा॑द॒सावा॑दि॒त्य – स्त्रि॒ग्ं॒शच्च॑) (अ. 4)
इन्द्रो॑ म॒रुद्भि॒-स्सांविँ॑द्येन॒ माद्ध्य॑न्दिने॒ सव॑ने वृ॒त्रम॑ह॒न्॒. यन्माद्ध्य॑न्दिने॒ सव॑ने मरुत्व॒तीया॑ गृ॒ह्यन्ते॒ वार्त्र॑घ्ना ए॒व ते यज॑मानस्य गृह्यन्ते॒ तस्य॑ वृ॒त्र-ञ्ज॒घ्नुष॑ ऋ॒तवो॑-ऽमुह्य॒न्थ्स ऋ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑नगृह्णा॒-त्ततो॒ वै स ऋ॒तू-न्प्राजा॑ना॒-द्यदृ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑ गृ॒ह्यन्त॑ ऋतू॒ना-म्प्रज्ञा᳚त्यै॒ वज्रं॒-वाँ ए॒तं-यँज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ यन्म॑रुत्व॒तीया॒ उदे॒व प्र॑थ॒मेन॑ [उदे॒व प्र॑थ॒मेन॑, य॒च्छ॒ति॒ प्र ह॑रति] 15
यच्छति॒ प्र ह॑रति द्वि॒तीये॑न स्तृणु॒ते तृ॒तीये॒ना-ऽऽयु॑धं॒-वाँ ए॒त-द्यज॑मान॒-स्सग्ग् स्कु॑रुते॒ यन्म॑रुत्व॒तीया॒ धनु॑रे॒व प्र॑थ॒मो ज्या द्वि॒तीय॒ इषु॑स्तृ॒तीयः॒ प्रत्ये॒व प्र॑थ॒मेन॑ धत्ते॒ विसृ॑जति द्वि॒तीये॑न॒ विद्ध्य॑ति तृ॒तीये॒नेन्द्रो॑ वृ॒त्रग्ं ह॒त्वा परा᳚-म्परा॒वत॑-मगच्छ॒-दपा॑राध॒मिति॒ मन्य॑मान॒-स्स हरि॑तो-ऽभव॒-थ्स ए॒ता-न्म॑रुत्व॒तीया॑-नात्म॒स्पर॑णा-नपश्य॒-त्तान॑गृह्णीत [ ] 16
प्रा॒णमे॒व प्र॑थ॒मेना᳚-स्पृणुतापा॒न-न्द्वि॒तीये॑ना॒-ऽऽत्मान॑-न्तृ॒तीये॑ना-ऽऽत्म॒स्पर॑णा॒ वा ए॒ते यज॑मानस्य गृह्यन्ते॒ यन्म॑रुत्व॒तीयाः᳚ प्रा॒णमे॒व प्र॑थ॒मेन॑ स्पृणुते-ऽपा॒न-न्द्वि॒तीये॑ना॒-ऽऽत्मान॑-न्तृ॒तीये॒नेन्द्रो॑ वृ॒त्रम॑ह॒-न्त-न्दे॒वा अ॑ब्रुव-न्म॒हान्. वा अ॒यम॑भू॒द्यो वृ॒त्रमव॑धी॒दिति॒ तन्म॑हे॒न्द्रस्य॑ महेन्द्र॒त्वग्ं स ए॒त-म्मा॑हे॒न्द्र-मु॑द्धा॒र-मुद॑हरत वृ॒त्रग्ं ह॒त्वा-ऽन्यासु॑ दे॒वता॒स्व धि॒ यन्मा॑हे॒न्द्रो गृ॒ह्यत॑ उद्धा॒रमे॒व तं-यँज॑मान॒ उद्ध॑रते॒-ऽन्यासु॑ प्र॒जास्वधि॑ शुक्रपा॒त्रेण॑ गृह्णाति यजमानदेव॒त्यो॑ वै मा॑हे॒न्द्रस्तेजः॑ शु॒क्रो यन्मा॑हे॒न्द्रग्ं शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ यज॑मान ए॒व तेजो॑ दधाति ॥ 17 ॥
(प्र॒थ॒मेना॑ – गृह्णीत – दे॒वता᳚स्व॒ – ष्टाविग्ं॑शतिश्च) (अ. 5)
अदि॑तिः पु॒त्रका॑मा सा॒द्ध्येभ्यो॑ दे॒वेभ्यो᳚ ब्रह्मौद॒नम॑पच॒-त्तस्या॑ उ॒च्छेष॑णमददु॒स्त-त्प्रा-ऽऽश्ञा॒-थ्सा रेतो॑-ऽधत्त॒ तस्यै॑ च॒त्वार॑ आदि॒त्या अ॑जायन्त॒ सा द्वि॒तीय॑मपच॒-थ्सा-ऽम॑न्यतो॒च्छेष॑णान्म इ॒मे᳚-ऽज्ञत॒ यदग्रे᳚ प्राशि॒ष्यामी॒तो मे॒ वसी॑याग्ंसो जनिष्यन्त॒ इति॒ सा-ऽग्रे॒ प्रा-ऽऽश्ञा॒-थ्सा रेतो॑-ऽधत्त॒ तस्यै॒ व्यृ॑द्धमा॒ण्डम॑जायत॒ सा-ऽऽदि॒त्येभ्य॑ ए॒व [ ] 18
तृ॒तीय॑मपच॒-द्भोगा॑य म इ॒दग्ग् श्रा॒न्तम॒स्त्विति॒ ते᳚-ऽब्रुव॒न् वरं॑-वृँणामहै॒ यो-ऽतो॒ जाया॑ता अ॒स्माक॒ग्ं॒ स एको॑-ऽस॒द्यो᳚-ऽस्य प्र॒जाया॒मृद्ध्या॑ता अ॒स्माक॒-म्भोगा॑य भवा॒दिति॒ ततो॒ विव॑स्वानादि॒त्यो॑ ऽजायत॒ तस्य॒ वा इ॒य-म्प्र॒जा यन्म॑नु॒ष्या᳚स्तास्वेक॑ ए॒वर्धो यो यज॑ते॒ स दे॒वाना॒-म्भोगा॑य भवति दे॒वा वै य॒ज्ञा- [य॒ज्ञात्, रु॒द्र-म॒न्त-] 19
-द्रु॒द्र-म॒न्त-रा॑य॒न्-थ्स आ॑दि॒त्यान॒न्वाक्र॑मत॒ ते द्वि॑देव॒त्या᳚-न्प्राप॑द्यन्त॒ ता-न्न प्रति॒ प्राय॑च्छ॒-न्तस्मा॒दपि॒ वद्ध्य॒-म्प्रप॑न्न॒-न्न प्रति॒ प्रय॑च्छन्ति॒ तस्मा᳚-द्द्विदेव॒त्ये᳚भ्य आदि॒त्यो निर्गृ॑ह्यते॒ यदु॒च्छेष॑णा॒-दजा॑यन्त॒ तस्मा॑-दु॒च्छेष॑णा-द्गृह्यते ति॒सृभि॑र्-ऋ॒ग्भिर्गृ॑ह्णाति मा॒ता पि॒ता पु॒त्रस्तदे॒व तन्मि॑थु॒न-मुल्ब॒-ङ्गर्भो॑ ज॒रायु॒ तदे॒व त- [तदे॒व तत्, मि॒थु॒न-म्प॒शवो॒] 20
-न्मि॑थु॒न-म्प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ऊर्ग्दधि॑ द॒द्ध्ना म॑द्ध्य॒त-श्श्री॑णा॒त्यूर्ज॑मे॒व प॑शू॒ना-म्म॑द्ध्य॒तो द॑धाति शृतात॒ङ्क्ये॑न मेद्ध्य॒त्वाय॒ तस्मा॑दा॒मा प॒क्व-न्दु॑हे प॒शवो॒ वा ए॒ते यदा॑दि॒त्यः प॑रि॒श्रित्य॑ गृह्णाति प्रति॒रुद्ध्यै॒वा-ऽस्मै॑ प॒शू-न्गृ॑ह्णाति प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निः प॑रि॒श्रित्य॑ गृह्णाति रु॒द्रादे॒व प॒शू-न॒न्त-र्द॑धा- [-न॒न्त-र्द॑धाति, ए॒ष वै] 21
-त्ये॒ष वै विव॑स्वानादि॒त्यो यदु॑पाग्ं शु॒सव॑न॒-स्स ए॒तमे॒व सो॑मपी॒थ-म्परि॑ शय॒ आ तृ॑तीयसव॒ना-द्विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थ इत्या॑ह॒ विव॑स्वन्त-मे॒वा-ऽऽदि॒त्यग्ं सो॑मपी॒थेन॒ सम॑र्धयति॒ या दि॒व्या वृष्टि॒स्तया᳚ त्वा श्रीणा॒मीति॒ वृष्टि॑कामस्य श्रीणीया॒-द्वृष्टि॑मे॒वाव॑ रुन्धे॒ यदि॑ ता॒ज-क्प्र॒स्कन्दे॒-द्वर्षु॑कः प॒र्जन्यः॑ स्या॒द्यदि॑ चि॒रमव॑र्षुको॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑-ट्करोति॒ यद॑नुवषट्कु॒र्या–द्रु॒द्र-म्प्र॒जा अ॒न्वव॑सृजे॒न्न हु॒त्वान्वी᳚क्षेत॒ यद॒न्वीक्षे॑त॒ चक्षु॑रस्य प्र॒मायु॑कग्ग् स्या॒-त्तस्मा॒न्नान्वीक्ष्यः॑ ॥ 22 ॥
(ए॒व – य॒ज्ञा – ज्ज॒रायु॒ तदे॒व तद॒ – न्तर्द॑धाति॒ – न – स॒प्तविग्ं॑शतिश्च) (अ. 6)
अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्र-मा᳚ग्रय॒णा-द्गृ॑ह्णाति प्र॒जाप॑ति॒र्वा ए॒ष यदा᳚ग्रय॒णः प्र॒जाना᳚-म्प्र॒जन॑नाय॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑-ट्करोति॒ यद॑नुवषट्कु॒र्या-द्रु॒द्र-म्प्र॒जा अ॒न्वव॑सृजे-दे॒ष वै गा॑य॒त्रो दे॒वानां॒-यँ-थ्स॑वि॒तैष गा॑यत्रि॒यै लो॒के गृ॑ह्यते॒ यदा᳚ग्रय॒णो यद॑न्तर्यामपा॒त्रेण॑ सावि॒त्र-मा᳚ग्रय॒णा-द्गृ॒ह्णाति॒ स्वा-दे॒वैनं॒-योँने॒-र्निर्गृ॑ह्णाति॒ विश्वे॑ [विश्वे᳚, दे॒वा-स्तृ॒तीय॒ग्ं॒] 23
दे॒वा-स्तृ॒तीय॒ग्ं॒ सव॑न॒-न्नोद॑यच्छ॒-न्ते स॑वि॒तार॑-म्प्रातस्सव॒नभा॑ग॒ग्ं॒ सन्त॑-न्तृतीयसव॒नम॒भि पर्य॑णय॒-न्ततो॒ वै ते तृ॒तीय॒ग्ं॒ सव॑न॒-मुद॑यच्छ॒न्॒. य-त्तृ॑तीयसव॒ने सा॑वि॒त्रो गृ॒ह्यते॑ तृ॒तीय॑स्य॒ सव॑न॒स्योद्य॑त्यै सवितृपा॒त्रेण॑ वैश्वदे॒व-ङ्क॒लशा᳚-द्गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जा वै᳚श्वदे॒वः क॒लशः॑ सवि॒ता प्र॑स॒वाना॑मीशे॒ य-थ्स॑वितृपा॒त्रेण॑ वैश्वदे॒व-ङ्क॒लशा᳚-द्गृ॒ह्णाति॑ सवि॒तृप्र॑सूत ए॒वास्मै᳚ प्र॒जाः प्र [प्र॒जाः प्र, ज॒न॒य॒ति॒ सोमे॒ सोम॑म॒भि] 24
ज॑नयति॒ सोमे॒ सोम॑म॒भि गृ॑ह्णाति॒ रेत॑ ए॒व त-द्द॑धाति सु॒शर्मा॑-ऽसि सुप्रतिष्ठा॒न इत्या॑ह॒ सोमे॒ हि सोम॑मभिगृ॒ह्णाति॒ प्रति॑ष्ठित्या ए॒तस्मि॒न् वा अपि॒ ग्रहे॑ मनु॒ष्ये᳚भ्यो दे॒वेभ्यः॑ पि॒तृभ्यः॑ क्रियते सु॒शर्मा॑-ऽसि सुप्रतिष्ठा॒न इत्या॑ह मनु॒ष्ये᳚भ्य ए॒वैतेन॑ करोति बृ॒हदित्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोति॒ नम॒ इत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोत्ये॒ ताव॑ती॒ र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒ग्ं॒ सर्वा᳚भ्यो गृह्णात्ये॒ष ते॒ योनि॒र्विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह वैश्वदे॒वो ह्ये॑षः ॥ 25 ॥
(विश्वे॒ – प्र – पि॒तृभ्य॑ ए॒वैतेन॑ करो॒त्ये – का॒न्नविग्ं॑श॒तिश्च॑) (अ. 7)
प्रा॒णो वा ए॒ष यदु॑पा॒ग्ं॒शु-र्यदु॑पाग्ंशुपा॒त्रेण॑ प्रथ॒मश्चो᳚त्त॒मश्च॒ ग्रहौ॑ गृ॒ह्येते᳚ प्रा॒णमे॒वानु॑ प्र॒यन्ति॑ प्रा॒णमनूद्य॑न्ति प्र॒जाप॑ति॒र्वा ए॒ष यदा᳚ग्रय॒णः प्रा॒ण उ॑पा॒ग्ं॒शुः पत्नीः᳚ प्र॒जाः प्र ज॑नयन्ति॒ यदु॑पाग्ंशुपा॒त्रेण॑ पात्नीव॒तमा᳚ग्रय॒णा-द्गृ॒ह्णाति॑ प्र॒जाना᳚-म्प्र॒जन॑नाय॒ तस्मा᳚-त्प्रा॒ण-म्प्र॒जा अनु॒ प्र जा॑यन्ते दे॒वा वा इ॒त इ॑तः॒ पत्नी᳚-स्सुव॒र्गं- [पत्नी᳚-स्सुव॒र्गम्, लो॒क-म॑जिगाग्ंस॒-न्ते] 26
-लोँ॒क-म॑जिगाग्ंस॒-न्ते सु॑व॒र्गं-लोँ॒क-न्न प्राजा॑न॒-न्त ए॒त-म्पा᳚त्नीव॒तम॑पश्य॒-न्तम॑गृह्णत॒ ततो॒ वै ते सु॑व॒र्गं-लोँ॒क-म्प्राजा॑न॒न्॒. य-त्पा᳚त्नीव॒तो गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै॒ स सोमो॒ नाति॑ष्ठत स्त्री॒भ्यो गृ॒ह्यमा॑ण॒स्त-ङ्घृ॒तं-वँज्र॑-ङ्कृ॒त्वा-ऽघ्न॒-न्त-न्निरि॑न्द्रिय-म्भू॒तम॑गृह्ण॒-न्तस्मा॒-थ्स्त्रियो॒ निरि॑न्द्रिया॒ अदा॑यादी॒रपि॑ पा॒पा-त्पु॒ग्ं॒स उप॑स्तितरं- [उप॑स्तितरम्, व॒द॒न्ति॒ य-द्घृ॒तेन॑] 27
-वँदन्ति॒ य-द्घृ॒तेन॑ पात्नीव॒तग्ग् श्री॒णाति॒ वज्रे॑णै॒वैनं॒-वँशे॑ कृ॒त्वा गृ॑ह्णा-त्युपया॒मगृ॑हीतो॒-ऽसीत्या॑हे॒यं-वाँ उ॑पया॒म-स्तस्मा॑दि॒मा-म्प्र॒जा अनु॒ प्र जा॑यन्ते॒ बृह॒स्पति॑सुतस्य त॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पति॒-र्ब्रह्म॑णै॒वास्मै᳚ प्र॒जाः प्र ज॑नयतीन्दो॒ इत्या॑ह॒ रेतो॒ वा इन्दू॒ रेत॑ ए॒व त-द्द॑धातीन्द्रियाव॒ इ- [इति॑, आ॒ह॒ प्र॒जा] 28
-त्या॑ह प्र॒जा वा इ॑न्द्रि॒य-म्प्र॒जा ए॒वास्मै॒ प्र ज॑नय॒त्यग्ना(3) इत्या॑हा॒ग्निर्वै रे॑तो॒धाः पत्नी॑व॒ इत्या॑ह मिथुन॒त्वाय॑ स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोम॑-म्पि॒बेत्या॑ह॒ त्वष्टा॒ वै प॑शू॒ना-म्मि॑थु॒नानाग्ं॑ रूप॒कृ-द्रू॒पमे॒व प॒शुषु॑ दधाति दे॒वा वै त्वष्टा॑रमजिघाग्ंस॒न्-थ्स पत्नीः॒ प्राप॑द्यत॒ त-न्न प्रति॒ प्रा-ऽय॑च्छ॒-न्तस्मा॒दपि॒ [प्रा-ऽय॑च्छ॒-न्तस्मा॒दपि॑, वद्ध्य॒-म्प्रप॑न्न॒-] 29
वद्ध्य॒-म्प्रप॑न्न॒-न्न प्रति॒ प्रय॑च्छन्ति॒ तस्मा᳚-त्पात्नीव॒ते त्वष्ट्रे-ऽपि॑ गृह्यते॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑-ट्करोति॒ यद॑नुवष-ट्कु॒र्या-द्रु॒द्र-म्प्र॒जा अ॒न्वव॑सृजे॒-द्यन्ना-ऽनु॑वषट्कु॒र्या-दशा᳚न्त-म॒ग्नी-थ्सोम॑-म्भक्षये-दुपा॒ग्॒श्वनु॒ वष॑-ट्करोति॒ न रु॒द्र-म्प्र॒जा अ॑न्ववसृ॒जति॑ शा॒न्तम॒ग्नी-थ्सोम॑-म्भक्षय॒त्यग्नी॒-न्नेष्टु॑-रु॒पस्थ॒मा सी॑द॒ [सी॑द, नेष्टः॒ पत्नी॑-] 30
नेष्टः॒ पत्नी॑-मु॒दान॒येत्या॑हा॒-ग्नीदे॒व नेष्ट॑रि॒ रेतो॒ दधा॑ति॒ नेष्टा॒ पत्नि॑यामु-द्गा॒त्रा स-ङ्ख्या॑पयति प्र॒जाप॑ति॒र्वा ए॒ष यदु॑द्गा॒ता प्र॒जाना᳚-म्प्र॒जन॑नाया॒प उप॒ प्र व॑र्तयति॒ रेत॑ ए॒व त-थ्सि॑ञ्चत्यू॒रुणोप॒ प्र व॑र्तयत्यू॒रुणा॒ हि रेतः॑ सि॒च्यते॑ नग्न॒-ङ्कृत्यो॒-रुमुप॒ प्र व॑र्तयति य॒दा हि न॒ग्न ऊ॒रुर्भव॒त्यथ॑ मिथु॒नी भ॑व॒तो-ऽथ॒ रेतः॑ सिच्य॒ते-ऽथ॑ प्र॒जाः प्र जा॑यन्ते ॥ 31 ॥
(पत्नी᳚-स्सुव॒र्ग – मुप॑स्तितर – मिन्द्रियाव॒ इत्य – पि॑ – सीद – मिथु॒न्य॑ – ष्टौ च॑) (अ. 8)
इन्द्रो॑ वृ॒त्रम॑ह॒-न्तस्य॑ शीर्षकपा॒ल-मुदौ᳚ब्ज॒-थ्स द्रो॑णकल॒शो॑-ऽभव॒-त्तस्मा॒-थ्सोम॒-स्सम॑स्रव॒-थ्स हा॑रियोज॒नो॑-ऽभव॒-त्तं-व्यँ॑चिकिथ्स-ज्जु॒हवा॒नी(3) मा हौ॒षा(3)-मिति॒ सो॑-ऽमन्यत॒ यद्धो॒ष्याम्या॒मग्ं हो᳚ष्यामि॒ यन्न हो॒ष्यामि॑ यज्ञवेश॒स-ङ्क॑रिष्या॒मीति॒ तम॑द्ध्रियत॒ होतु॒ग्ं॒ सो᳚-ऽग्नि-र॑ब्रवी॒न्न मय्या॒मग्ं हो᳚ष्य॒सीति॒ त-न्धा॒नाभि॑-रश्रीणा॒- [-रश्रीणात्, तग्ं शृ॒त-] 32
-त्तग्ं शृ॒त-म्भू॒त-म॑जुहो॒द्य-द्धा॒नाभि॑र्-हारियोज॒नग्ग् श्री॒णाति॑ शृत॒त्वाय॑ शृ॒त-मे॒वैन॑-म्भू॒त-ञ्जु॑होति ब॒ह्वीभिः॑ श्रीणात्ये॒ताव॑ती-रे॒वास्या॒-मुष्मि॑-ल्लोँ॒के का॑म॒दुघा॑ भव॒न्त्यथो॒ खल्वा॑हुरे॒ता वा इन्द्र॑स्य॒ पृश्ञ॑यः काम॒दुघा॒ यद्धा॑रियोज॒नीरिति॒ तस्मा᳚-द्ब॒ह्वीभिः॑ श्रीणीयादृख्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ॒ तयोः᳚ परि॒धय॑ आ॒धानं॒-यँदप्र॑हृत्य परि॒धी-ञ्जु॑हु॒या-द॒न्तरा॑धानाभ्या- [-द॒न्तरा॑धानाभ्याम्, घा॒स-म्प्र] 33
-ङ्घा॒स-म्प्र य॑च्छे-त्प्र॒हृत्य॑ परि॒धीञ्जु॑होति॒ निरा॑धानाभ्या-मे॒व घा॒स-म्प्र य॑च्छत्युन्ने॒ता जु॑होति या॒तया॑मेव॒ ह्ये॑तर्ह्य॑द्ध्व॒र्यु-स्स्व॒गाकृ॑तो॒ य-द॑द्ध्व॒र्यु-र्जु॑हु॒या-द्यथा॒ विमु॑क्त॒-म्पुन॑र्यु॒नक्ति॑ ता॒दृगे॒व तच्छी॒र्॒ष-न्न॑धिनि॒धाय॑ जुहोति शीर्ष॒तो हि स स॒मभ॑व-द्वि॒क्रम्य॑ जुहोति वि॒क्रम्य॒ हीन्द्रो॑ वृ॒त्रमह॒न्-थ्समृ॑द्ध्यै प॒शवो॒ वै हा॑रियोज॒नीर्य-थ्स॑भि॒न्न्द्या-दल्पा॑ [-दल्पाः᳚, ए॒न॒-म्प॒शवो॑] 34
एन-म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठेर॒न्॒. यन्न स॑भि॒न्न्द्या-द्ब॒हव॑ एन-म्प॒शवो-ऽभु॑ञ्जन्त॒ उप॑ तिष्ठेर॒-न्मन॑सा॒ स-म्बा॑धत उ॒भय॑-ङ्करोति ब॒हव॑ ए॒वैन॑-म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठन्त उन्ने॒तर्यु॑पह॒व-मि॑च्छन्ते॒ य ए॒व तत्र॑ सोमपी॒थस्त-मे॒वाव॑ रुन्धत उत्तरवे॒द्या-न्निव॑पति प॒शवो॒ वा उ॑त्तरवे॒दिः प॒शवो॑ हारियोज॒नीः प॒शुष्वे॒व प॒शू-न्प्रति॑ ष्ठापयन्ति ॥ 35 ॥
(अ॒श्री॒णा॒ – द॒न्तरा॑धानाभ्या॒ – मल्पाः᳚ – स्थापयन्ति) (अ. 9)
ग्रहा॒न्॒. वा अनु॑ प्र॒जाः प॒शवः॒ प्र जा॑यन्त उपाग्श्वन्तर्या॒-माव॑जा॒वयः॑ शु॒क्राम॒न्थिनौ॒ पुरु॑षा ऋतुग्र॒हा-नेक॑शफा आदित्यग्र॒ह-ङ्गाव॑ आदित्यग्र॒हो भूयि॑ष्ठाभिर्-ऋ॒ग्भिर्गृ॑ह्यते॒ तस्मा॒-द्गावः॑ पशू॒ना-म्भूयि॑ष्ठा॒ य-त्त्रिरु॑पा॒ग्ं॒ शुग्ं हस्ते॑न विगृ॒ह्णाति॒ तस्मा॒-द्द्वौ त्रीन॒जा ज॒नय॒त्यथाव॑यो॒ भूय॑सीः पि॒ता वा ए॒ष यदा᳚ग्रय॒णः पु॒त्रः क॒लशो॒ यदा᳚ग्रय॒ण उ॑प॒दस्ये᳚-त्क॒लशा᳚-द्गृह्णीया॒-द्यथा॑ पि॒ता [ ] 36
पु॒त्र-ङ्क्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तद्य-त्क॒लश॑ उप॒दस्ये॑-दाग्रय॒णा-द्गृ॑ह्णीया॒-द्यथा॑ पु॒त्रः पि॒तर॑-ङ्क्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तदा॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदा᳚ग्रय॒णो यद्ग्रहो॑ वा क॒लशो॑ वोप॒दस्ये॑-दाग्रय॒णा-द्गृ॑ह्णीयादा॒त्मन॑ ए॒वाधि॑ य॒ज्ञ-न्निष्क॑रो॒त्यवि॑ज्ञातो॒ वा ए॒ष गृ॑ह्यते॒ यदा᳚ग्रय॒ण-स्स्था॒ल्या गृ॒ह्णाति॑ वाय॒व्ये॑न जुहोति॒ तस्मा॒- [तस्मा᳚त्, गर्भे॒णा ऽवि॑ज्ञातेन] 37
-द्गर्भे॒णा ऽवि॑ज्ञातेन ब्रह्म॒हा ऽव॑भृ॒थमव॑ यन्ति॒ परा᳚ स्था॒लीरस्य॒न्त्यु-द्वा॑य॒व्या॑नि हरन्ति॒ तस्मा॒-थ्स्त्रिय॑-ञ्जा॒ता-म्परा᳚-ऽस्य॒न्त्यु-त्पुमाग्ं॑ सग्ं हरन्ति॒ य-त्पु॑रो॒रुच॒माह॒ यथा॒ वस्य॑स आ॒हर॑ति ता॒दृगे॒व त-द्य-द्ग्रह॑-ङ्गृ॒ह्णाति॒ यथा॒ वस्य॑स आ॒हृत्य॒ प्रा-ऽऽह॑ ता॒दृगे॒व त-द्य-थ्सा॒दय॑ति॒ यथा॒ वस्य॑स उपनि॒धाया॑-प॒क्राम॑ति ता॒दृगे॒व त-द्य द्वै य॒ज्ञस्य॒ साम्ना॒ यजु॑षा क्रि॒यते॑ शिथि॒ल-न्त-द्यदृ॒चा त-द्दृ॒ढ-म्पु॒रस्ता॑दुपयामा॒ यजु॑षा गृह्यन्त उ॒परि॑ष्टा-दुपयामा ऋ॒चा य॒ज्ञस्य॒ धृत्यै᳚ ॥ 38 ॥
(यथा॑ पि॒ता-तस्मा॑-दप॒क्राम॑ति ता॒दृगे॒व त-द्य-द॒ष्टा द॑श च) (अ. 10)
प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒-ऽमुमे॒व तैर्लो॒कम॒भि ज॑यति॒ परा॑ङिव॒ ह्य॑सौ लो॒को यानि॒ पुनः॑ प्रयु॒ज्यन्त॑ इ॒ममे॒व तैर्लो॒कम॒भि ज॑यति॒ पुनः॑पुन-रिव॒ ह्य॑यं-लोँ॒कः प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ परा॑ भवन्ति॒ यानि॒ पुनः॑ [पुनः॑, प्र॒यु॒ज्यन्ते॒] 39
प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ पुन॒रा भ॑वन्ति॒ प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वा॑र॒ण्याः प॒शवो-ऽर॑ण्य॒-मप॑ यन्ति॒ यानि॒ पुनः॑ प्रयु॒ज्यन्ते॒ तान्यनु॑ ग्रा॒म्याः प॒शवो॒ ग्राम॑-मु॒पाव॑यन्ति॒ यो वै ग्रहा॑णा-न्नि॒दानं॒-वेँद॑ नि॒दान॑वा-न्भव॒त्याज्य॒-मित्यु॒क्थ-न्तद्वै ग्रहा॑णा-न्नि॒दानं॒-यँदु॑पा॒ग्ं॒शु शग्ंस॑ति॒ त- [शग्ंस॑ति॒ तत्, उ॒पा॒ग्श्व॒न्त॒र्या॒मयो॒-] 40
-दु॑पाग्श्वन्तर्या॒मयो॒-र्यदु॒च्चै-स्तदित॑रेषा॒-ङ्ग्रहा॑णामे॒तद्वै ग्रहा॑णा-न्नि॒दानं॒-यँ ए॒वं-वेँद॑ नि॒दान॑वा-न्भवति॒ यो वै ग्रहा॑णा-म्मिथु॒नं-वेँद॒ प्र प्र॒जया॑ प॒शुभि॑-र्मिथु॒नै-र्जा॑यते स्था॒लीभि॑-र॒न्ये ग्रहा॑ गृ॒ह्यन्ते॑ वाय॒व्यै॑-र॒न्य ए॒तद्वै ग्रहा॑णा-म्मिथु॒नं-यँ ए॒वं-वेँद॒ प्र प्र॒जया॑ प॒शुभि॑-र्मिथु॒नै-र्जा॑यत॒ इन्द्र॒स्त्वष्टु॒-स्सोम॑-मभी॒षहा॑-ऽपिब॒-थ्स विष्व॒- [विष्वङ्ङ्॑, व्या᳚र्च्छ॒-थ्स] 41
ङ्व्या᳚र्च्छ॒-थ्स आ॒त्मन्ना॒रम॑ण॒-न्नावि॑न्द॒-थ्स ए॒ता-न॑नुसव॒न-म्पु॑रो॒डाशा॑नपश्य॒-त्ता-न्निर॑वप॒-त्तैर्वै स आ॒त्मन्ना॒रम॑ण-मकुरुत॒ तस्मा॑-दनुसव॒न-म्पु॑रो॒डाशा॒ निरु॑प्यन्ते॒ तस्मा॑-दनुसव॒न-म्पु॑रो॒डाशा॑ना॒-म्प्रा-ऽश्ञी॑यादा॒त्म-न्ने॒वा-ऽऽरम॑ण-ङ्कुरुते॒ नैन॒ग्ं॒ सोमो-ऽति॑ पवते ब्रह्मवा॒दिनो॑ वदन्ति॒ नर्चा न यजु॑षा प॒ङ्क्ति-रा᳚प्य॒ते-ऽथ॒ किं यँ॒ज्ञस्य॑ पाङ्क्त॒त्वमिति॑ धा॒नाः क॑र॒म्भः प॑रिवा॒पः पु॑रो॒डाशः॑ पय॒स्या॑ तेन॑ प॒ङ्क्ति-रा᳚प्यते॒ त-द्य॒ज्ञस्य॑ पाङ्क्त॒त्वम् ॥ 42 ॥
(भ॒व॒न्ति॒ यानि॒ पुनः॒ – शग्ंस॑ति॒ त – द्विष्वं॒ – किं – चतु॑र्दश च) (अ. 11)
(इन्द्रो॑ वृ॒त्राय- ऽऽयु॒र्वे – य॒ज्ञेन॑ – सुव॒र्गा – येन्द्रो॑ म॒रुद्भि॒ – रदि॑ति – रन्तर्यामपा॒त्रेण॑ – प्रा॒ण उ॑पाग्ंशु पा॒त्रे – णेन्द्रो॑ वृ॒त्रम॑ह॒-न्तस्य॒ – ग्रहा॒न् – प्रान्या – न्येका॑दश)
(इन्द्रो॑ वृ॒त्राय॒ – पुन॑र्-ऋ॒तुना॑-ऽऽह – मिथु॒न-म्प॒शवो॒ – नेष्टः॒ पत्नी॑ – मुपाग्श्वन्तर्या॒मयो॒ – द्विच॑त्वारिग्ंशत्)
(इन्द्रो॑ वृ॒त्राय॑, पाङ्क्त॒त्वम्)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां षष्ठकाण्डे पञ्चमः प्रश्न-स्समाप्तः ॥