नारायणीयं दशक 91

श्रीकृष्ण त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टे-र्मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मनैव ।यत्तावत् त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गेधावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन् ॥1॥ भूमन् कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मायद्यत् कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि ।जात्यापीह श्वपाकस्त्वयि निहितमनःकर्मवागिन्द्रियार्थ-प्राणो…

Read more

नारायणीयं दशक 90

वृकभृगुमुनिमोहिन्यम्बरीषादिवृत्ते-ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् ।स्थितमिह परमात्मन् निष्कलार्वागभिन्नंकिमपि यदवभातं तद्धि रूपं तवैव ॥1॥ मूर्तित्रयेश्वरसदाशिवपञ्चकं यत्प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् ।तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेवत्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥2॥ तत्रापि सात्त्विकतनुं तव विष्णुमाहु-र्धाता तु सत्त्वविरलो…

Read more

नारायणीयं दशक 89

रमाजाने जाने यदिह तव भक्तेषु विभवोन सद्यस्सम्पद्यस्तदिह मदकृत्त्वादशमिनाम् ।प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलंप्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥1॥ सद्यः प्रसादरुषितान् विधिशङ्करादीन्केचिद्विभो निजगुणानुगुणं भजन्तः ।भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्यास्पष्टं वृकासुर उदाहरणं…

Read more

नारायणीयं दशक 88

प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षांकाङ्क्षन्त्या मातुरुक्त्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् ।धातुः शापाद्धिरण्यान्वितकशिपुभवान् शौरिजान् कंसभग्ना-नानीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान् मरीचेः ॥1॥ श्रुतदेव इति श्रुतं द्विजेन्द्रंबहुलाश्वं नृपतिं च भक्तिपूर्णम् ।युगपत्त्वमनुग्रहीतुकामोमिथिलां प्रापिथं तापसैः समेतः ॥2॥ गच्छन् द्विमूर्तिरुभयोर्युगपन्निकेत-मेकेन…

Read more

नारायणीयं दशक 87

कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः ।त्वदेकरागेण धनादिनिस्स्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥1॥ समानशीलाऽपि तदीयवल्लभा तथैव नो चित्तजयं समेयुषी ।कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥2॥ इतीरितोऽयं…

Read more

नारायणीयं दशक 86

साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद्विमानंविन्दन् सौभं स मायी त्वयि वसति कुरुंस्त्वत्पुरीमभ्यभाङ्क्षीत् ।प्रद्युम्नस्तं निरुन्धन्निखिलयदुभटैर्न्यग्रहीदुग्रवीर्यंतस्यामात्यं द्युमन्तं व्यजनि च समरः सप्तविंशत्यहान्तः ॥1॥ तावत्त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यंसौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत्ते ।मायातातं व्यहिंसीदपि…

Read more

नारायणीयं दशक 85

ततो मगधभूभृता चिरनिरोधसङ्क्लेशितंशताष्टकयुतायुतद्वितयमीश भूमीभृताम् ।अनाथशरणाय ते कमपि पूरुषं प्राहिणो-दयाचत स मागधक्षपणमेव किं भूयसा ॥1॥ यियासुरभिमागधं तदनु नारदोदीरिता-द्युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः ।विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवेशशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥2॥ अशेषदयितायुते त्वयि समागते धर्मजोविजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः ।श्रियं…

Read more

नारायणीयं दशक 84

क्वचिदथ तपनोपरागकाले पुरि निदधत् कृतवर्मकामसूनू ।यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥1॥ बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्य तीर्थतोयम् ।द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ॥2॥ तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा ।तदुदितभवदाहृतिप्रकारैः अतिमुमुदे सममन्यभामिनीभिः…

Read more

नारायणीयं दशक 83

रामेऽथ गोकुलगते प्रमदाप्रसक्तेहूतानुपेतयमुनादमने मदान्धे ।स्वैरं समारमति सेवकवादमूढोदूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः ॥1॥ नारायणोऽहमवतीर्ण इहास्मि भूमौधत्से किल त्वमपि मामकलक्षणानि ।उत्सृज्य तानि शरणं व्रज मामिति त्वांदूतो जगाद सकलैर्हसितः सभायाम् ॥2॥ दूतेऽथ यातवति यादवसैनिकैस्त्वंयातो…

Read more

नारायणीयं दशक 82

प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तंहत्वा रत्या सहाप्तो निजपुरमहरद्रुक्मिकन्यां च धन्याम् ।तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रींतत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥1॥ बाणस्य सा बलिसुतस्य सहस्रबाहो-र्माहेश्वरस्य महिता दुहिता किलोषा ।त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वंस्वप्नेऽनुभूय भगवन्…

Read more