नारायणीयं दशक 67

स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीलाः ।असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥1॥ निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः ।इति स्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द् तिरोहितोऽभूः ॥2॥ राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे ।भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥3॥…

Read more

नारायणीयं दशक 66

उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् ।अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥1॥ गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् ।धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥2॥ आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं…

Read more

नारायणीयं दशक 65

गोपीजनाय कथितं नियमावसानेमारोत्सवं त्वमथ साधयितुं प्रवृत्तः ।सान्द्रेण चान्द्रमहसा शिशिरीकृताशेप्रापूरयो मुरलिकां यमुनावनान्ते ॥1॥ सम्मूर्छनाभिरुदितस्वरमण्डलाभिःसम्मूर्छयन्तमखिलं भुवनान्तरालम् ।त्वद्वेणुनादमुपकर्ण्य विभो तरुण्य-स्तत्तादृशं कमपि चित्तविमोहमापुः ॥2॥ ता गेहकृत्यनिरतास्तनयप्रसक्ताःकान्तोपसेवनपराश्च सरोरुहाक्ष्यः ।सर्वं विसृज्य मुरलीरवमोहितास्तेकान्तारदेशमयि कान्ततनो समेताः ॥3॥ काश्चिन्निजाङ्गपरिभूषणमादधानावेणुप्रणादमुपकर्ण्य…

Read more

नारायणीयं दशक 64

आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः ।विश्वेश्वरं त्वामभिमत्य विश्वे नन्दं भवज्जातकमन्वपृच्छन् ॥1॥ गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः ।पूर्वाधिकस्त्वय्यनुराग एषामैधिष्ट तावत् बहुमानभारः ॥2॥ ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या।उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा…

Read more

नारायणीयं दशक 63

ददृशिरे किल तत्क्षणमक्षत-स्तनितजृम्भितकम्पितदिक्तटाः ।सुषमया भवदङ्गतुलां गताव्रजपदोपरि वारिधरास्त्वया ॥1॥ विपुलकरकमिश्रैस्तोयधारानिपातै-र्दिशिदिशि पशुपानां मण्डले दण्ड्यमाने ।कुपितहरिकृतान्नः पाहि पाहीति तेषांवचनमजित श्रृण्वन् मा बिभीतेत्यभाणीः ॥2॥ कुल इह खलु गोत्रो दैवतं गोत्रशत्रो-र्विहतिमिह स रुन्ध्यात् को नु…

Read more

नारायणीयं दशक 62

कदाचिद्गोपालान् विहितमखसम्भारविभवान्निरीक्ष्य त्वं शौरे मघवमदमुद्ध्वंसितुमनाः ।विजानन्नप्येतान् विनयमृदु नन्दादिपशुपा-नपृच्छः को वाऽयं जनक भवतामुद्यम इति ॥1॥ बभाषे नन्दस्त्वां सुत ननु विधेयो मघवतोमखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् ।नृणां वर्षायत्तं निखिलमुपजीव्यं महितलेविशेषादस्माकं…

Read more

नारायणीयं दशक 61

ततश्च वृन्दावनतोऽतिदूरतोवनं गतस्त्वं खलु गोपगोकुलैः ।हृदन्तरे भक्ततरद्विजाङ्गना-कदम्बकानुग्रहणाग्रहं वहन् ॥1॥ ततो निरीक्ष्याशरणे वनान्तरेकिशोरलोकं क्षुधितं तृषाकुलम् ।अदूरतो यज्ञपरान् द्विजान् प्रतिव्यसर्जयो दीदिवियाचनाय तान् ॥2॥ गतेष्वथो तेष्वभिधाय तेऽभिधांकुमारकेष्वोदनयाचिषु प्रभो ।श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिंन किञ्चिदूचुश्च महीसुरोत्तमाः ॥3॥…

Read more

नारायणीयं दशक 60

मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्यया ।यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥1॥ तव नामकथारताः समं सुदृशः प्रातरुपागता नदीम् ।उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥2॥ इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् ।करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥3॥ नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य…

Read more

नारायणीयं दशक 59

त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् ।ब्रह्म तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥1॥ मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः ।गोपिकास्तव न सेहिरे हरे काननोपगतिमप्यहर्मुखे ॥2॥ निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः ।वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाऽभिरेमिरे ॥3॥ काननान्तमितवान् भवानपि स्निग्धपादपतले मनोरमे ।व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत…

Read more