नारायणीयं दशक 58

त्वयि विहरणलोले बालजालैः प्रलम्ब-प्रमथनसविलम्बे धेनवः स्वैरचाराः ।तृणकुतुकनिविष्टा दूरदूरं चरन्त्यःकिमपि विपिनमैषीकाख्यमीषाम्बभूवुः ॥1॥ अनधिगतनिदाघक्रौर्यवृन्दावनान्तात्बहिरिदमुपयाताः काननं धेनवस्ताः ।तव विरहविषण्णा ऊष्मलग्रीष्मताप-प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥2॥ तदनु सह सहायैर्दूरमन्विष्य शौरेगलितसरणिमुञ्जारण्यसञ्जातखेदम् ।पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारा-त्त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥3॥…

Read more

नारायणीयं दशक 57

रामसखः क्वापि दिने कामद भगवन् गतो भवान् विपिनम् ।सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः ॥1॥ सन्दर्शयन् बलाय स्वैरं वृन्दावनश्रियं विमलाम् ।काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥2॥ तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः ।दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥3॥…

Read more

नारायणीयं दशक 56

रुचिरकम्पितकुण्डलमण्डलः सुचिरमीश ननर्तिथ पन्नगे ।अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥1॥ नमति यद्यदमुष्य शिरो हरे परिविहाय तदुन्नतमुन्नतम् ।परिमथन् पदपङ्करुहा चिरं व्यहरथाः करतालमनोहरम् ॥2॥ त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि ।फणिपताववसीदति सन्नतास्तदबलास्तव माधव पादयोः ॥3॥ अयि पुरैव…

Read more

नारायणीयं दशक 55

अथ वारिणि घोरतरं फणिनंप्रतिवारयितुं कृतधीर्भगवन् ।द्रुतमारिथ तीरगनीपतरुंविषमारुतशोषितपर्णचयम् ॥1॥ अधिरुह्य पदाम्बुरुहेण च तंनवपल्लवतुल्यमनोज्ञरुचा ।ह्रदवारिणि दूरतरं न्यपतःपरिघूर्णितघोरतरङ्ग्गणे ॥2॥ भुवनत्रयभारभृतो भवतोगुरुभारविकम्पिविजृम्भिजला ।परिमज्जयति स्म धनुश्शतकंतटिनी झटिति स्फुटघोषवती ॥3॥ अथ दिक्षु विदिक्षु परिक्षुभित-भ्रमितोदरवारिनिनादभरैः ।उदकादुदगादुरगाधिपति-स्त्वदुपान्तमशान्तरुषाऽन्धमनाः ॥4॥…

Read more

नारायणीयं दशक 54

त्वत्सेवोत्कस्सौभरिर्नाम पूर्वंकालिन्द्यन्तर्द्वादशाब्दं तपस्यन् ।मीनव्राते स्नेहवान् भोगलोलेतार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥1॥ त्वद्वाहं तं सक्षुधं तृक्षसूनुंमीनं कञ्चिज्जक्षतं लक्षयन् सः ।तप्तश्चित्ते शप्तवानत्र चेत्त्वंजन्तून् भोक्ता जीवितं चापि मोक्ता ॥2॥ तस्मिन् काले कालियः क्ष्वेलदर्पात्सर्पारातेः कल्पितं भागमश्नन्…

Read more

नारायणीयं दशक 53

अतीत्य बाल्यं जगतां पते त्वमुपेत्य पौगण्डवयो मनोज्ञम् ।उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥1॥ उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश तव प्रवृत्तिः ।गोत्रापरित्राणकृतेऽवतीर्णस्तदेव देवाऽऽरभथास्तदा यत् ॥2॥ कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन् सुखेन ।श्रीदामनाम्नः…

Read more

नारायणीयं दशक 52

अन्यावतारनिकरेष्वनिरीक्षितं तेभूमातिरेकमभिवीक्ष्य तदाघमोक्षे ।ब्रह्मा परीक्षितुमनाः स परोक्षभावंनिन्येऽथ वत्सकगणान् प्रवितत्य मायाम् ॥1॥ वत्सानवीक्ष्य विवशे पशुपोत्करे ता-नानेतुकाम इव धातृमतानुवर्ती ।त्वं सामिभुक्तकबलो गतवांस्तदानींभुक्तांस्तिरोऽधित सरोजभवः कुमारान् ॥2॥ वत्सायितस्तदनु गोपगणायितस्त्वंशिक्यादिभाण्डमुरलीगवलादिरूपः ।प्राग्वद्विहृत्य विपिनेषु चिराय सायंत्वं माययाऽथ…

Read more

नारायणीयं दशक 51

कदाचन व्रजशिशुभिः समं भवान्वनाशने विहितमतिः प्रगेतराम् ।समावृतो बहुतरवत्समण्डलैःसतेमनैर्निरगमदीश जेमनैः ॥1॥ विनिर्यतस्तव चरणाम्बुजद्वया-दुदञ्चितं त्रिभुवनपावनं रजः ।महर्षयः पुलकधरैः कलेबरै-रुदूहिरे धृतभवदीक्षणोत्सवाः ॥2॥ प्रचारयत्यविरलशाद्वले तलेपशून् विभो भवति समं कुमारकैः ।अघासुरो न्यरुणदघाय वर्तनीभयानकः सपदि शयानकाकृतिः…

Read more

नारायणीयं दशक 50

तरलमधुकृत् वृन्दे वृन्दावनेऽथ मनोहरेपशुपशिशुभिः साकं वत्सानुपालनलोलुपः ।हलधरसखो देव श्रीमन् विचेरिथ धारयन्गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥1॥ विहितजगतीरक्षं लक्ष्मीकराम्बुजलालितंददति चरणद्वन्द्वं वृन्दावने त्वयि पावने ।किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी-सलिलधरणीगोत्रक्षेत्रादिकं कमलापते ॥2॥ विलसदुलपे कान्तारान्ते समीरणशीतलेविपुलयमुनातीरे गोवर्धनाचलमूर्धसु…

Read more

नारायणीयं दशक 49

भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे ।अहेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ॥1॥ तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् ।इतः प्रतीच्यां विपिनं मनोज्ञं वृन्दावनं नाम विराजतीति ॥2॥ बृहद्वनं तत् खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन ।त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता…

Read more