जनक उवाच ॥

मय्यनंतमहांभोधौ विश्वपोत इतस्ततः ।
भ्रमति स्वांतवातेन न ममास्त्यसहिष्णुता ॥ 7-1॥

मय्यनंतमहांभोधौ जगद्वीचिः स्वभावतः ।
उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः ॥ 7-2॥

मय्यनंतमहांभोधौ विश्वं नाम विकल्पना ।
अतिशांतो निराकार एतदेवाहमास्थितः ॥ 7-3॥

नात्मा भावेषु नो भावस्तत्रानंते निरंजने ।
इत्यसक्तोऽस्पृहः शांत एतदेवाहमास्थितः ॥ 7-4॥

अहो चिन्मात्रमेवाहमिंद्रजालोपमं जगत् ।
इति मम कथं कुत्र हेयोपादेयकल्पना ॥ 7-5॥