उद्धवगीता – एकादशोऽध्यायःअथ एकादशोऽध्यायः ।श्रीभगवान् उवाच । बद्धः मुक्तः इति व्याख्या गुणतः मे न वस्तुतः । गुणस्य मायामूलत्वात् न मे मोक्षः न बंधनम् ॥ 1॥शोकमोहौ सुखं दुःखं देहापत्तिः च मायया । स्वप्नः यथा आत्मनः ख्यातिः संसृतिः न तु वास्तवी ॥ 2॥विद्या अविद्ये मम तनू विद्धि उद्धव शरीरिणाम् । मोक्षबंधकरी आद्ये मायया मे विनिर्मिते ॥ 3॥एकस्य एव मम अंशस्य जीवस्य एव महामते । बंधः अस्य अविद्यया अनादिः विद्यया च तथा इतरः ॥ 4॥अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते । विरुद्धधर्मिणोः तात स्थितयोः एकधर्मिणि ॥ 5॥सुपर्णौ एतौ सदृशौ सखायौ यदृच्छया एतौ कृतनीडौ च वृक्षे । एकः तयोः खादति पिप्पलान्नम् अन्यः निरन्नः अपि बलेन भूयान् ॥ 6॥आत्मानं अन्यं च सः वेद विद्वान् अपिप्पलादः न तु पिप्पलादः । यः अविद्यया युक् स तु नित्यबद्धः विद्यामयः यः स तु नित्यमुक्तः ॥ 7॥देहस्थः अपि न देहस्थः विद्वान् स्वप्नात् यथा उत्थितः । अदेहस्थः अपि देहस्थः कुमतिः स्वप्नदृक् यथा ॥ 8॥इंद्रियैः इंद्रियार्थेषु गुणैः अपि गुणेषु च । गृह्यमाणेषु अहंकुर्यात् न विद्वान् यः तु अविक्रियः ॥ 9॥दैवाधीने शरीरे अस्मिन् गुणभाव्येन कर्मणा । वर्तमानः अबुधः तत्र कर्ता अस्मि इति निबध्यते ॥ 10॥एवं विरक्तः शयनः आसनाटनमज्जने । दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु ॥ 11॥न तथा बध्यते विद्वान् तत्र तत्र आदयन् गुणान् । प्रकृतिस्थः अपि असंसक्तः यथा खं सविता अनिलः ॥ 12॥वैशारद्येक्षया असंगशितया छिन्नसंशयः । प्रतिबुद्धः इव स्वप्नात् नानात्वात् विनिवर्तते ॥ 13॥यस्य स्युः वीतसंकल्पाः प्राणेंद्रियमनोधियाम् । वृत्तयः सः विनिर्मुक्तः देहस्थः अपि हि तत् गुणैः ॥ 14॥यस्य आत्मा हिंस्यते हिंस्र्यैः येन किंचित् यदृच्छया । अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः ॥ 15॥न स्तुवीत न निंदेत कुर्वतः साधु असाधु वा । वदतः गुणदोषाभ्यां वर्जितः समदृक् मुनिः ॥ 16॥न कुर्यात् न वदेत् किंचित् न ध्यायेत् साधु असाधु वा । आत्मारामः अनया वृत्त्या विचरेत् जडवत् मुनिः ॥ 17॥शब्दब्रह्मणि निष्णातः न निष्णायात् परे यदि । श्रमः तस्य श्रमफलः हि अधेनुं इव रक्षतः ॥ 18॥गां दुग्धदोहां असतीं च भार्याम् देहं पराधीनं असत्प्रजां च । वित्तं तु अतीर्थीकृतं अंग वाचम् हीनां मया रक्षति दुःखदुःखी ॥ 19॥यस्यां न मे पावनं अंग कर्म स्थितिउद्भवप्राण निरोधनं अस्य । लीलावतारीप्सितजन्म वा स्यात् बंध्यां गिरं तां बिभृयात् न धीरः ॥ 20॥एवं जिज्ञासया अपोह्य नानात्वभ्रमं आत्मनि । उपारमेत विरजं मनः मयि अर्प्य सर्वगे ॥ 21॥यदि अनीशः धारयितुं मनः ब्रह्मणि निश्चलम् । मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ 22॥श्रद्धालुः मे कथाः शऋण्वन् सुभद्रा लोकपावनीः । गायन् अनुस्मरन् कर्म जन्म च अभिनयन् मुहुः ॥ 23॥मदर्थे धर्मकामार्थान् आचरन् मदपाश्रयः । लभते निश्चलां भक्तिं मयि उद्धव सनातने ॥ 24॥सत्संगलब्धया भक्त्या मयि मां सः उपासिता । सः वै मे दर्शितं सद्भिः अंजसा विंदते पदम् ॥ 25॥उद्धव उवाच । साधुः तव उत्तमश्लोक मतः कीदृग्विधः प्रभो । भक्तिः त्वयि उपयुज्येत कीदृशी सद्भिः आदृता ॥ 26॥एतत् मे पुरुषाध्यक्ष लोकाध्यक्ष जगत् प्रभो । प्रणताय अनुरक्ताय प्रपन्नाय च कथ्यताम् ॥ 27॥त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः । अवतीर्णः असि भगवन् स्वेच्छाउपात्तपृथक् वपुः ॥ 28॥श्रीभगवान् उवाच । कृपालुः अकृतद्रोहः तितिक्षुः सर्वदेहिनाम् । सत्यसारः अनवद्यात्मा समः सर्वोपकारकः ॥ 29॥कामैः अहतधीः दांतः मृदुः शुचिः अकिंचनः । अनीहः मितभुक् शांतः स्थिरः मत् शरणः मुनिः ॥ 30॥अप्रमत्तः गभीरात्मा धृतिमांजितषड्गुणः । अमानी मानदः कल्पः मैत्रः कारुणिकः कविः ॥ 31॥आज्ञाय एवं गुणान् दोषान्मयादिष्टान् अपि स्वकान् । धर्मान् संत्यज्य यः सर्वान् मां भजेत सः सत्तमः ॥ 32॥ज्ञात्वा अज्ञात्वा अथ ये वै मां यावान् यः च अस्मि यादृशः । भजंति अनन्यभावेन ते मे भक्ततमाः मताः ॥ 33॥मल्लिंगमद्भक्तजनदर्शनस्पर्शनार्चनम् । परिचर्या स्तुतिः प्रह्वगुणकर्म अनुकीर्तनम् ॥ 34॥मत्कथाश्रवणे श्रद्धा मत् अनुध्यानं उद्धव । सर्वलाभ उपहरणं दास्येन आत्मनिवेदनम् ॥ 35॥मज्जन्मकर्मकथनं मम पर्वानुमोदनम् । गीततांडववादित्रगोष्ठीभिः मद्गृह उत्सवः ॥ 36॥यात्रा बलिविधानं च सर्ववार्षिकपर्वसु । वैदिकी तांत्रिकी दीक्षा मदीयव्रतधारणम् ॥ 37॥मम अर्चास्थापने श्रद्धा स्वतः संहत्य च उद्यमः । उद्यान उपवनाक्रीडपुरमंदिरकर्मणि ॥ 38॥संमार्जन उपलेपाभ्यां सेकमंडलवर्तनैः । गृहशुश्रूषणं मह्यं दासवद्यदमायया ॥ 39॥अमानित्वं अदंभित्वं कृतस्य अपरिकीर्तनम् । अपि दीपावलोकं मे न उपयुंज्यात् निवेदितम् ॥ 40॥यत् यत् इष्टतमं लोके यत् च अतिप्रियं आत्मनः । तत् तत् निवेदयेत् मह्यं तत् आनंत्याय कल्पते ॥ 41॥सूर्यः अग्निः ब्राह्मणः गावः वैष्णवः खं मरुत् जलम् । भूः आत्मा सर्वभूतानि भद्र पूजापदानि मे ॥ 42॥सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् । आतिथ्येन तु विप्राग्र्यः गोष्वंग यवसादिना ॥ 43॥वैष्णवे बंधुसत्कृत्या हृदि खे ध्याननिष्ठया । वायौ मुख्यधिया तोये द्रव्यैः तोयपुरस्कृतैः ॥ 44॥स्थंडिले मंत्रहृदयैः भोगैः आत्मानं आत्मनि । क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ 45॥धिष्ण्येषु एषु इति मद्रूपं शंखचक्रगदांबुजैः । युक्तं चतुर्भुजं शांतं ध्यायन् अर्चेत् समाहितः ॥ 46॥इष्टापूर्तेन मां एवं यः यजेत समाहितः । लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया ॥ 47॥प्रायेण भक्तियोगेन सत्संगेन विना उद्धव । न उपायः विद्यते सध्र्यङ् प्रायणं हि सतां अहम् ॥ 48॥अथ एतत् परमं गुह्यं श्रुण्वतः यदुनंदन । सुगोप्यं अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥ 49॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे एकादशपूजाविधानयोगो नाम एकादशोऽध्यायः ॥ 11॥अथ द्वादशोऽध्यायः । श्रीभगवान् उवाच । न रोधयति मां योगः न स्सांख्यं धर्मः एव च । न स्वाध्यायः तपः त्यागः न इष्टापूर्तं न दक्षिणा ॥ 1॥व्रतानि यज्ञः छंदांसि तीर्थानि नियमाः यमाः । यथा अवरुंधे सत्संगः सर्वसंग अपहः हि माम् ॥ 2॥सत्संगेन हि दैतेया यातुधानः मृगाः खगाः । गंधर्व अप्सरसः नागाः सिद्धाः चारणगुह्यकाः ॥ 3॥विद्याधराः मनुष्येषु वैश्याः शूद्राः स्त्रियः अंत्यजाः । रजः तमः प्रकृतयः तस्मिन् तस्मिन् युगे अनघ ॥ 4॥बहवः मत्पदं प्राप्ताः त्वाष्ट्रकायाधवादयः । वृषपर्वा बलिः वाणः मयः च अथ विभीषणः ॥ 5॥सुग्रीवः हनुमान् ऋक्षः गजः गृध्रः वणिक्पथः । व्याधः कुब्जा व्रजे गोप्यः यज्ञपत्न्यः तथा अपरे ॥ 6॥ते न अधितश्रुतिगणाः न उपासितमहत्तमाः । अव्रतातप्ततपसः मत्संगात् मां उपागताः ॥ 7॥केवलेन हि भावेन गोप्यः गावः नगाः मृगाः । ये अन्ये मूढधियः नागाः सिद्धाः मां ईयुः अंजसा ॥ 8॥यं न योगेन सांख्येन दानव्रततपः अध्वरैः । व्याख्याः स्वाध्यायसंन्यासैः प्राप्नुयात् यत्नवान् अपि ॥ 9॥रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मयि अनुरक्तचित्ताः । विगाढभावेन न मे वियोग तीव्राधयः अन्यं ददृशुः सुखाय ॥ 10॥ताः ताः क्षपाः प्रेष्ठतमेन नीताः मया एव वृंदावनगोचरेण । क्षणार्धवत् ताः पुनरंग तासां हीना माया कल्पसमा बभूवुः ॥ 11॥ताः न अविदन् मयि अनुषंगबद्ध धियः स्वमात्मानं अदः तथा इदम् । यथा समाधौ मुनयः अब्धितोये नद्यः प्रविष्टाः इव नामरूपे ॥ 12॥मत्कामा रमणं जारं अस्वरूपविदः अबलाः । ब्रह्म मां परमं प्रापुः संगात् शतसहस्रशः ॥ 13॥तस्मात् त्वं उद्धव उत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतं एव च ॥ 14॥मां एकं एव शरणं आत्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन मया स्याः हि अकुतोभयः ॥ 15॥उद्धवः उवाच । संशयः श्रुण्वतः वाचं तव योगेश्वर ईश्वर । न निवर्ततः आत्मस्थः येन भ्राम्यति मे मनः ॥ 16॥श्रीभगवान् उवाच । सः एष जीवः विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्मं उपेत्य रूपं मात्रा स्वरः वर्णः इति स्थविष्ठः ॥ 17॥यथा अनलः खे अनिलबंधुः ऊष्मा बलेन दारुण्यधिमथ्यमानः । अणुः प्रजातः हविषा समिध्यते तथा एव मे व्यक्तिः इयं हि वाणी ॥ 18॥एवं गदिः कर्मगतिः विसर्गः घ्राणः रसः दृक् स्पर्शः श्रुतिः च । संकल्पविज्ञानं अथ अभिमानः सूत्रं रजः सत्त्वतमोविकारः ॥ 19॥अयं हि जीवः त्रिवृत् अब्जयोनिः अव्यक्तः एकः वयसा सः आद्यः । विश्लिष्टशक्तिः बहुधा एव भाति बीजानि योनिं प्रतिपद्य यद्वत् ॥ 20॥यस्मिन् इदं प्रोतं अशेषं ओतं पटः यथा तंतुवितानसंस्थः । यः एष संसारतरुः पुराणः कर्मात्मकः पुष्पफले प्रसूते ॥ 21॥द्वे अस्य बीजे शतमूलः त्रिनालः पंचस्कंधः पंचरसप्रसूतिः । दश एकशाखः द्विसुपर्णनीडः त्रिवल्कलः द्विफलः अर्कं प्रविष्टः ॥ 22॥अदंति च एकं फलं अस्य गृध्रा ग्रामेचराः एकं अरण्यवासाः । हंसाः यः एकं बहुरूपं इज्यैः मायामयं वेद सः वेद वेदम् ॥ 23॥एवं गुरु उपासनया एकभक्त्या विद्याकुठारेण शितेन धीरः । विवृश्च्य जीवाशयं अप्रमत्तः संपद्य च आत्मानं अथ त्यज अस्त्रम् ॥ 24॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे द्वादशोऽध्यायः ॥ 12॥अथ त्रयोदशोऽध्यायः । श्रीभगवान् उवाच । सत्त्वं रजः तमः इति गुणाः बुद्धेः न च आत्मनः । सत्त्वेन अन्यतमौ हन्यात् सत्त्वं सत्त्वेन च एव हि ॥ 1॥सत्त्वात् धर्मः भवेत् वृद्धात् पुंसः मद्भक्तिलक्षणः । सात्विक उपासया सत्त्वं ततः धर्मः प्रवर्तते ॥ 2॥धर्मः रजः तमः हन्यात् सत्त्ववृद्धिः अनुत्तमः । आशु नश्यति तत् मूलः हि अधर्मः उभये हते ॥ 3॥आगमः अपः प्रजा देशः कालः कर्म च जन्म च । ध्यानं मंत्रः अथ संस्कारः दश एते गुणहेतवः ॥ 4॥तत् तत् सात्विकं एव एषां यत् यत् वृद्धाः प्रचक्षते । निंदंति तामसं तत् तत् राजसं तत् उपेक्षितम् ॥ 5॥सात्त्विकानि एव सेवेत पुमान् सत्त्वविवृद्धये । ततः धर्मः ततः ज्ञानं यावत् स्मृतिः अपोहनम् ॥ 6॥वेणुसंघर्षजः वह्निः दग्ध्वा शाम्यति तत् वनम् । एवं गुणव्यत्ययजः देहः शाम्यति तत् क्रियः ॥ 7॥उद्धवः उवाच । विदंति मर्त्याः प्रायेण विषयान् पदं आपदाम् । तथा अपि भुंजते कृष्ण तत् कथं श्व खर अजावत् ॥ 8॥श्रीभगवान् उवाच । अहं इति अन्यथाबुद्धिः प्रमत्तस्य यथा हृदि । उत्सर्पति रजः घोरं ततः वैकारिकं मनः ॥ 9॥रजोयुक्तस्य मनसः संकल्पः सविकल्पकः । ततः कामः गुणध्यानात् दुःसहः स्यात् हि दुर्मतेः ॥ 10॥करोति कामवशगः कर्माणि अविजितेंद्रियः । दुःखोदर्काणि संपश्यन् रजोवेगविमोहितः ॥ 11। रजः तमोभ्यां यत् अपि विद्वान् विक्षिप्तधीः पुनः । अतंद्रितः मनः युंजन् दोषदृष्टिः न सज्जते ॥ 12॥अप्रमत्तः अनुयुंजीतः मनः मयि अर्पयन् शनैः । अनिर्विण्णः यथाकालं जितश्वासः जितासनः ॥ 13॥एतावान् योगः आदिष्टः मत् शिष्यैः सनक आदिभिः । सर्वतः मनः आकृष्य मय्यद्धा आवेश्यते यथा ॥ 14॥उद्धवः उवाच । यदा त्वं सनक आदिभ्यः येन रूपेण केशव । योगं आदिष्टवान् एतत् रूपं इच्छामि वेदितुम् ॥ 15॥श्रीभगवान् उवाच । पुत्राः हिरण्यगर्भस्य मानसाः सनक आदयः । पप्रच्छुः पितरं सूक्ष्मां योगस्य ऐकांतिकीं गतिम् ॥16॥सनक आदयः ऊचुः । गुणेषु आविशते चेतः गुणाः चेतसि च प्रभो । कथं अन्योन्यसंत्यागः मुमुक्षोः अतितितीर्षोः ॥ 17॥श्रीभगवान् उवाच । एवं पृष्टः महादेवः स्वयंभूः भूतभावनः । ध्यायमानः प्रश्नबीजं न अभ्यपद्यत कर्मधीः ॥ 18॥सः मां अचिंतयत् देवः प्रश्नपारतितीर्षया । तस्य अहं हंसरूपेण सकाशं अगमं तदा ॥ 19॥दृष्ट्वा मां त उपव्रज्य कृत्वा पाद अभिवंदनम् । ब्रह्माणं अग्रतः कृत्वा पप्रच्छुः कः भवान् इति ॥ 20॥इति अहं मुनिभिः पृष्टः तत्त्वजिज्ञासुभिः तदा । यत् अवोचं अहं तेभ्यः तत् उद्धव निबोध मे ॥ 21॥वस्तुनः यदि अनानात्वं आत्मनः प्रश्नः ईदृशः । कथं घटेत वः विप्राः वक्तुः वा मे कः आश्रयः ॥ 22॥पंचात्मकेषु भूतेषु समानेषु च वस्तुतः । कः भवान् इति वः प्रश्नः वाचारंभः हि अनर्थकः ॥ 23॥मनसा वचसा दृष्ट्या गृह्यते अन्यैः अपि इंद्रियैः । अहं एव न मत्तः अन्यत् इति बुध्यध्वं अंजसा ॥ 24॥गुणेषु आविशते चेतः गुणाः चेतसि च प्रजाः । जीवस्य देहः उभयं गुणाः चेतः मत् आत्मनः ॥ 25॥गुणेषु च आविशत् चित्तं अभीक्ष्णं गुणसेवया । गुणाः च चित्तप्रभवाः मत् रूपः उभयं त्यजेत् ॥ 26॥जाग्रत् स्वप्नः सुषुप्तं च गुणतः बुद्धिवृत्तयः । तासां विलक्षणः जीवः साक्षित्वेन विनिश्चितः ॥ 27॥यः हि संसृतिबंधः अयं आत्मनः गुणवृत्तिदः । मयि तुर्ये स्थितः जह्यात् त्यागः तत् गुणचेतसाम् ॥ 28॥अहंकारकृतं बंधं आत्मनः अर्थविपर्ययम् । विद्वान् निर्विद्य संसारचिंतां तुर्ये स्थितः त्यजेत् ॥ 29॥यावत् नानार्थधीः पुंसः न निवर्तेत युक्तिभिः । जागर्ति अपि स्वपन् अज्ञः स्वप्ने जागरणं यथा ॥ 30॥असत्त्वात् आत्मनः अन्येषां भावानां तत् कृता भिदा । गतयः हेतवः च अस्य मृषा स्वप्नदृशः यथा ॥ 31॥यो जागरे बहिः अनुक्षणधर्मिणः अर्थान् भुंक्ते समस्तकरणैः हृदि तत् सदृक्षान् । स्वप्ने सुषुप्तः उपसंहरते सः एकः स्मृति अन्वयात् त्रिगुणवृत्तिदृक् इंद्रिय ईशः ॥ 32॥एवं विमृश्य गुणतः मनसः त्र्यवस्था मत् मायया मयि कृता इति निश्चितार्थाः । संछिद्य हार्दं अनुमानस्त् उक्तितीक्ष्ण ज्ञानासिना भजतः मा अखिलसंशयाधिम् ॥ 33॥ईक्षेत विभ्रमं इदं मनसः विलासम् दृष्टं विनष्टं अतिलोलं अलातचक्रम् । विज्ञानं एकं उरुधा इव विभाति माया स्वप्नः त्रिधा गुणविसर्गकृतः विकल्पः ॥ 34॥दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्णः तूष्णीं भवेत् निजसुख अनुभवः निरीहः । संदृश्यते क्व च यदि इदं अवस्तुबुद्ध्या त्यक्तं भ्रमाय न भवेत् स्मृतिः आनिपातात् ॥ 35॥देहं च नश्वरं अवस्थितं उत्थितं वा सिद्धः न पश्यति यतः अध्यगमत्स्वरूपम् । दैवात् अपेतं उत दैवशात् उपेतम् वासः यथा परिकृतं मदिरामदांधः ॥ 36॥देहः अपि दैववशगः खलु कर्म यावत् स्वारंभकं प्रतिसमीक्षतः एव सासुः । तं अप्रपंचं अधिरूढसमाधियोगः स्वाप्नं पुनः न भजते प्रतिबुद्धवस्तुः ॥ 37॥मया एतत् उक्तं वः विप्राः गुह्यं यत् सांख्ययोगयोः । जानीतं आगतं यज्ञं युष्मत् धर्मविवक्षया ॥ 38॥अहं योगस्य सांख्यस्य सत्यस्यर्तस्य तेजसः । परायणं द्विजश्रेष्ठाः श्रियः कीर्तेः दमस्य च ॥ 39॥मां भजंति गुणाः सर्वे निर्गुणं निरपेक्षकम् । सुहृदं प्रियं आत्मानं साम्य असंग आदयः गुणाः ॥ 40॥इति मे छिन्नसंदेहाः मुनयः सनक आदयः । सभाजयित्वा परया भक्त्या अगृणत संस्तवैः ॥ 41॥तैः अहं पूजितः सम्यक् संस्तुतः परम ऋषिभिः । प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ 42॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे हंसगीतानिरूपणं नाम त्रयोदशोऽध्यायः ॥ 13॥अथ चतुर्दशोऽध्यायः । उद्धवः उवाच । वदंति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः । तेषां विकल्पप्राधान्यं उत अहो एकमुख्यता ॥ 1॥भवत् उदाहृतः स्वामिन् भक्तियोगः अनपेक्षितः । निरस्य सर्वतः संगं येन त्वयि आविशेत् मनः ॥ 2॥श्रीभगवान् उवाच । कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता । मया आदौ ब्रह्मणे प्रोक्ता धर्मः यस्यां मदात्मकः ॥ 3॥तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा । ततः भृगु आदयः अगृह्णन् सप्तब्रह्ममहर्षयः ॥ 4॥तेभ्यः पितृभ्यः तत् पुत्राः देवदानवगुह्यकाः । मनुष्याः सिद्धगंधर्वाः सविद्याधरचारणाः ॥ 5॥किंदेवाः किन्नराः नागाः रक्षः किंपुरुष आदयः । बह्व्यः तेषां प्रकृतयः रजःसत्त्वतमोभुवः ॥ 6॥याभिः भूतानि भिद्यंते भूतानां मतयः तथा । यथाप्रकृति सर्वेषां चित्राः वाचः स्रवंति हि ॥ 7॥एवं प्रकृतिवैचित्र्यात् भिद्यंते मतयः नृणाम् । पारंपर्येण केषांचित् पाखंडमतयः अपरे ॥ 8॥मन्मायामोहितधियः पुरुषाः पुरुषर्षभ । श्रेयः वदंति अनेकांतं यथाकर्म यथारुचि ॥ 9॥धर्मं एके यशः च अन्ये कामं सत्यं दमं शमम् । अन्ये वदंति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् । केचित् यज्ञतपोदानं व्रतानि नियम अन्यमान् ॥ 10॥आदि अंतवंतः एव एषां लोकाः कर्मविनिर्मिताः । दुःख उदर्काः तमोनिष्ठाः क्षुद्र आनंदाः शुच अर्पिताः ॥11॥मयि अर्पित मनः सभ्य निरपेक्षस्य सर्वतः । मया आत्मना सुखं यत् तत् कुतः स्यात् विषय आत्मनाम् ॥12॥अकिंचनस्य दांतस्य शांतस्य समचेतसः । मया संतुष्टमनसः सर्वाः सुखमयाः दिशः ॥ 13॥न पारमेष्ठ्यं न महेंद्रधिष्ण्यम् न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीः अपुनर्भवं वा मयि अर्पित आत्मा इच्छति मत् विना अन्यत् ॥ 14॥न तथा मे प्रियतमः आत्मयोनिः न शंकरः । न च संकर्षणः न श्रीः न एव आत्मा च यथा भवान् ॥ 15॥निरपेक्षं मुनिं शातं निर्वैरं समदर्शनम् । अनुव्रजामि अहं नित्यं पूयेयेति अंघ्रिरेणुभिः ॥ 16॥निष्किंचना मयि अनुरक्तचेतसः शांताः महांतः अखिलजीववत्सलाः । कामैः अनालब्धधियः जुषंति यत् तत् नैरपेक्ष्यं न विदुः सुखं मम ॥ 17॥बाध्यमानः अपि मद्भक्तः विषयैः अजितेंद्रियः । प्रायः प्रगल्भया भक्त्या विषयैः न अभिभूयते ॥ 18॥यथा अग्निः सुसमृद्ध अर्चिः करोति एधांसि भस्मसात् । तथा मद्विषया भक्तिः उद्धव एनांसि कृत्स्नशः ॥ 19॥न साधयति मां योगः न सांख्यं धर्मः उद्धव । न स्वाध्यायः तपः त्यागः यथा भक्तिः मम ऊर्जिता ॥ 20॥भक्त्या अहं एकया ग्राह्यः श्रद्धया आत्मा प्रियः सताम् । भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि संभवात् ॥ 21॥धर्मः सत्यदया उपेतः विद्या वा तपसान्विता । मद्भ्क्त्यापेतं आत्मानं न सम्यक् प्रपुनाति हि ॥ 22॥कथं विना रोमहर्षं द्रवता चेतसा विना । विनानंद अश्रुकलया शुध्येत् भक्त्या विनाशयः ॥ 23॥वाक् गद्गदा द्रवते यस्य चित्तम् रुदति अभीक्ष्णं हसति क्वचित् च । विलज्जः उद्गायति नृत्यते च मद्भक्तियुक्तः भुवनं पुनाति ॥ 24॥यथा अग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् । आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजति अथः माम् ॥ 25॥यथा यथा आत्मा परिमृज्यते असौ मत्पुण्यगाथाश्रवण अभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मम् चक्षुः यथा एव अंजनसंप्रयुक्तम् ॥ 26॥विषयान् ध्यायतः चित्तं विषयेषु विषज्जते । मां अनुस्मरतः चित्तं मयि एव प्रविलीयते ॥ 27॥तस्मात् असत् अभिध्यानं यथा स्वप्नमनोरथम् । हित्वा मयि समाधत्स्व मनः मद्भावभावितम् ॥ 28॥स्त्रीणां स्त्रीसंगिनां संगं त्यक्त्वा दूरतः आत्मवान् । क्षेमे विविक्तः आसीनः चिंतयेत् मां अतंद्रितः ॥ 29॥न तथा अस्य भवेत् क्लेशः बंधः च अन्यप्रसंगतः । योषित् संगात् यथा पुंसः यथा तत् संगिसंगतः ॥ 30॥उद्धवः उवाच । यथा त्वां अरविंदाक्ष यादृशं वा यदात्मकम् । ध्यायेत् मुमुक्षुः एतत् मे ध्यानं मे वक्तुं अर्हसि ॥ 31॥श्रीभगवान् उवाच । समः आसनः आसीनः समकायः यथासुखम् । हस्तौ उत्संगः आधाय स्वनासाग्रकृत ईक्षणः ॥ 32॥प्राणस्य शोधयेत् मार्गं पूरकुंभकरेचकैः । विपर्ययेण अपि शनैः अभ्यसेत् निर्जितेंद्रियः ॥ 33॥हृदि अविच्छिन्नं ॐकारं घंटानादं बिसोर्णवत् । प्राणेन उदीर्य तत्र अथ पुनः संवेशयेत् स्वरम् ॥ 34॥एवं प्रणवसंयुक्तं प्राणं एव समभ्यसेत् । दशकृत्वः त्रिषवणं मासात् अर्वाक् जित अनिलः ॥35॥हृत्पुंडरीकं अंतस्थं ऊर्ध्वनालं अधोमुखम् । ध्यात्वा ऊर्ध्वमुखं उन्निद्रं अष्टपत्रं सकर्णिकम् ॥ 36॥कर्णिकायां न्यसेत् सूर्यसोमाग्नीन् उत्तरोत्तरम् । वह्निमध्ये स्मरेत् रूपं मम एतत् ध्यानमंगलम् ॥ 37॥समं प्रशांतं सुमुखं दीर्घचारुचतुर्भुजम् । सुचारुसुंदरग्रीवं सुकपोलं शुचिस्मितम् ॥ 38॥समान कर्ण विन्यस्त स्फुरन् मकर कुंडलम् । हेम अंबरं घनश्यामं श्रीवत्स श्रीनिकेतनम् ॥ 39॥शंख चक्र गदा पद्म वनमाला विभूषितम् । नूपुरैः विलसत् पादं कौस्तुभ प्रभया युतम् ॥ 40॥द्युमत् किरीट कटक कटिसूत्र अंगद अयुतम् । सर्वांग सुंदरं हृद्यं प्रसाद सुमुख ईक्षणम् ॥ 41॥सुकुमारं अभिध्यायेत् सर्वांगेषु मनः दधत् । इंद्रियाणि इंद्रियेभ्यः मनसा आकृष्य तत् मनः । बुद्ध्या सारथिना धीरः प्रणयेत् मयि सर्वतः ॥ 42॥तत् सर्व व्यापकं चित्तं आकृष्य एकत्र धारयेत् । न अन्यानि चिंतयेत् भूयः सुस्मितं भावयेत् मुखम् ॥ 43॥तत्र लब्धपदं चित्तं आकृष्य व्योम्नि धारयेत् । तत् च त्यक्त्वा मदारोहः न किंचित् अपि चिंतयेत् ॥ 44॥एवं समाहितमतिः मां एव आत्मानं आत्मनि । विचष्टे मयि सर्वात्मत् ज्योतिः ज्योतिषि संयुतम् ॥ 45॥ध्यानेन इत्थं सुतीव्रेण युंजतः योगिनः मनः । संयास्यति आशु निर्वाणं द्रव्य ज्ञान क्रिया भ्रमः ॥ 46॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे भक्तिरहस्यावधारणयोगो नाम चतुर्दशोऽध्यायः ॥ 14॥अथ पंचदशोऽध्यायः । श्रीभगवान् उवाच । जितेंद्रियस्य युक्तस्य जितश्वासस्य योगिनः मयि धारयतः चेतः उपतिष्ठंति सिद्धयः ॥ 1॥उद्धवः उवाच । कया धारणया कास्वित् कथंस्वित् सिद्धिः अच्युत । कति वा सिद्धयः ब्रूहि योगिनां सिद्धिदः भवान् ॥ 2॥श्रीभगवान् उवाच । सिद्धयः अष्टादश प्रोक्ता धारणायोगपारगैः । तासां अष्टौ मत् प्रधानाः दशः एव गुणहेतवः ॥ 3॥अणिमा महिमा मूर्तेः लघिमा प्राप्तिः इंद्रियैः । प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणं ईशिता ॥ 4॥गुणेषु असंगः वशिता यत् कामः तत् अवस्यति । एताः मे सिद्धयः सौम्य अष्टौ उत्पत्तिकाः मताः ॥ 5॥अनूर्मिमत्त्वं देहे अस्मिन् दूरश्रवणदर्शनम् । मनोजवः कामरूपं परकायप्रवेशनम् ॥ 6॥स्वच्छंदमृत्युः देवानां सहक्रीडानुदर्शनम् । यथासंकल्पसंसिद्धिः आज्ञाप्रतिहता गतिः ॥ 7॥त्रिकालज्ञत्वं अद्वंद्वं परचित्तादि अभिज्ञता । अग्नि अर्क अंबु विष आदीनां प्रतिष्टंभः अपराजयः ॥ 8॥एताः च उद्देशतः प्रोक्ता योगधारणसिद्धयः । यया धारणया या स्यात् यथा वा स्यात् निबोध मे ॥ 9॥भूतसूक्ष्म आत्मनि मयि तन्मात्रं धारयेत् मनः । अणिमानं अवाप्नोति तन्मात्र उपासकः मम ॥ 10॥महति आत्मन् मयि परे यथासंस्थं मनः दधत् । महिमानं अवाप्नोति भूतानां च पृथक् पृथक् ॥ 11॥परमाणुमये चित्तं भूतानां मयि रंजयन् । कालसूक्ष्मात्मतां योगी लघिमानं अवाप्नुयात् ॥ 12॥धारयन् मयि अहंतत्त्वे मनः वैकारिके अखिलम् । सर्वेंद्रियाणां आत्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥ 13॥महति आत्मनि यः सूत्रे धारयेत् मयि मानसम् । प्राकाम्यं पारमेष्ठ्यं मे विंदते अव्यक्तजन्मनः ॥ 14॥विष्णौ त्र्यधि ईश्वरे चित्तं धारयेत् कालविग्रहे । सः ईशित्वं अवाप्नोति क्षेत्रक्षेत्रज्ञचोदनाम् ॥ 15॥नारायणे तुरीयाख्ये भगवत् शब्दशब्दिते । मनः मयि आदधत् योगी मत् धर्माः वहितां इयात् ॥ 16॥निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः । परमानंदं आप्नोति यत्र कामः अवसीयते ॥ 17॥श्वेतदीपपतौ चित्तं शुद्धे धर्ममये मयि । धारयन् श्वेततां याति षडूर्मिरहितः नरः ॥ 18॥मयि आकाश आत्मनि प्राणे मनसा घोषं उद्वहन् । तत्र उपलब्धा भूतानां हंसः वाचः श्रुणोति असौ ॥ 19॥चक्षुः त्वष्टरि संयोज्य त्वष्टारं अपि चक्षुषि । मां तत्र मनसा ध्यायन् विश्वं पश्यति सूक्ष्मदृक् ॥ 20॥मनः मयि सुसंयोज्य देहं तदनु वायुना । मद्धारण अनुभावेन तत्र आत्मा यत्र वै मनः ॥ 21॥यदा मनः उपादाय यत् यत् रूपं बुभूषति । तत् तत् भवेत् मनोरूपं मद्योगबलं आश्रयः ॥ 22॥परकायं विशन् सिद्धः आत्मानं तत्र भावयेत् । पिंडं हित्वा विशेत् प्राणः वायुभूतः षडंघ्रिवत् ॥ 23॥पार्ष्ण्या आपीड्य गुदं प्राणं हृत् उरः कंठ मूर्धसु । आरोप्य ब्रह्मरंध्रेण ब्रह्म नीत्वा उत्सृजेत् तनुम् ॥ 24॥विहरिष्यन् सुराक्रीडे मत्स्थं सत्त्वं विभावयेत् । विमानेन उपतिष्ठंति सत्त्ववृत्तीः सुरस्त्रियः ॥ 25॥यथा संकल्पयेत् बुद्ध्या यदा वा मत्परः पुमान् । मयि सत्ये मनः युंजन् तथा तत् समुपाश्नुते ॥ 26॥यः वै मद्भावं आपन्नः ईशितुः वशितुः पुमान् । कुतश्चित् न विहन्येत तस्य च आज्ञा यथा मम ॥ 27॥मद्भक्त्या शुद्धसत्त्वस्य योगिनः धारणाविदः । तस्य त्रैकालिकी बुद्धिः जन्म मृत्यु उपबृंहिता ॥ 28॥अग्नि आदिभिः न हन्येत मुनेः योगं अयं वपुः । मद्योगश्रांतचित्तस्य यादसां उदकं यथा ॥ 29॥मद्विभूतिः अभिध्यायन् श्रीवत्स अस्त्रबिभूषिताः । ध्वजातपत्रव्यजनैः सः भवेत् अपराजितः ॥ 30॥उपासकस्य मां एवं योगधारणया मुनेः । सिद्धयः पूर्वकथिताः उपतिष्ठंति अशेषतः ॥ 31॥जितेंद्रियस्य दांतस्य जितश्वास आत्मनः मुनेः । मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा ॥ 32॥अंतरायान् वदंति एताः युंजतः योगं उत्तमम् । मया संपद्यमानस्य कालक्षेपणहेतवः ॥ 33॥जन्म ओषधि तपो मंत्रैः यावतीः इह सिद्धयः । योगेन आप्नोति ताः सर्वाः न अन्यैः योगगतिं व्रजेत् ॥ 34॥सर्वासां अपि सिद्धीनां हेतुः पतिः अहं प्रभुः । अहं योगस्य सांख्यस्य धर्मस्य ब्रह्मवादिनाम् ॥ 35॥अहं आत्मा अंतरः बाह्यः अनावृतः सर्वदेहिनाम् । यथा भूतानि भूतेषु बहिः अंतः स्वयं तथा ॥ 36॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे सिद्धनिरूपणयोगो नाम पंचदशोऽध्यायः ॥ 15॥अथ षोडशोऽध्यायः । उद्धवः उवाच । त्वं ब्रह्म परमं साक्षात् अनादि अनंतं अपावृतम् । सर्वेषां अपि भावानां त्राणस्थिति अप्यय उद्भवः ॥ 1॥उच्चावचेषु भूतेषु दुर्ज्ञेयं अकृत आत्मभिः । उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः ॥ 2॥येषु येषु च भावेषु भक्त्या त्वां परमर्षयः । उपासीनाः प्रपद्यंते संसिद्धिं तत् वदस्व मे ॥ 3॥गूढः चरसि भूतात्मा भूतानां भूतभावन । न त्वां पश्यंति भूतानि पश्यंतं मोहितानि ते ॥ 4॥याः काः च भूमौ दिवि वै रसायाम् विभूतयः दिक्षु महाविभूते । ताः मह्यं आख्याहि अनुभाविताः ते नमामि ते तीर्थ पद अंघ्रिपद्मम् ॥ 5॥श्रीभगवान् उवाच । एवं एतत् अहं पृष्टः प्रश्नं प्रश्नविदां वर । युयुत्सुना विनशने सपत्नैः अर्जुनेन वै ॥ 6॥ज्ञात्वा ज्ञातिवधं गर्ह्यं अधर्मं राज्यहेतुकम् । ततः निवृत्तः हंता अहं हतः अयं इति लौकिकः ॥ 7॥सः तदा पुरुषव्याघ्रः युक्त्या मे प्रतिबोधितः । अभ्यभाषत मां एवं यथा त्वं रणमूर्धनि ॥ 8॥अहं आत्मा उद्धव आमीषां भूतानां सुहृत् ईश्वरः । अहं सर्वाणि भूतानि तेषां स्थिति उद्भव अप्ययः ॥ 9॥अहं गतिः गतिमतां कालः कलयतां अहम् । गुणानां च अपि अहं साम्यं गुणिन्या उत्पत्तिकः गुणः ॥ 10॥गुणिनां अपि अहं सूत्रं महतां च महान् अहम् । सूक्ष्माणां अपि अहं जीवः दुर्जयानां अहं मनः ॥ 11॥हिरण्यगर्भः वेदानां मंत्राणां प्रणवः त्रिवृत् । अक्षराणां अकारः अस्मि पदानि छंदसां अहम् ॥ 12॥इंद्रः अहं सर्वदेवानां वसूनामस्मि हव्यवाट् । आदित्यानां अहं विष्णू रुद्राणां नीललोहितः ॥ 13॥ब्रह्मर्षीणां भृगुः अहं राजर्षीणां अहं मनुः । देवर्षिणां नारदः अहं हविर्धानि अस्मि धेनुषु ॥ 14॥सिद्धेश्वराणां कपिलः सुपर्णः अहं पतत्रिणाम् । प्रजापतीनां दक्षः अहं पितॄणां अहं अर्यमा ॥ 15॥मां विद्धि उद्धव दैत्यानां प्रह्लादं असुरेश्वरम् । सोमं नक्षत्र ओषधीनां धनेशं यक्षरक्षसाम् ॥ 16॥ऐरावतं गजेंद्राणां यादसां वरुणं प्रभुम् । तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥ 17॥उच्चैःश्रवाः तुरंगाणां धातूनां अस्मि कांचनम् । यमः संयमतां च अहं सर्पाणां अस्मि वासुकिः ॥ 18॥नागेंद्राणां अनंतः अहं मृगेंद्रः शऋंगिदंष्ट्रिणाम् । आश्रमाणां अहं तुर्यः वर्णानां प्रथमः अनघ ॥ 19॥तीर्थानां स्रोतसां गंगा समुद्रः सरसां अहम् । आयुधानां धनुः अहं त्रिपुरघ्नः धनुष्मताम् ॥ 20॥धिष्ण्यानां अस्मि अहं मेरुः गहनानां हिमालयः । वनस्पतीनां अश्वत्थः ओषधीनां अहं यवः ॥ 21॥पुरोधसां वसिष्ठः अहं ब्रह्मिष्ठानां बृहस्पतिः । स्कंदः अहं सर्वसेनान्यां अग्रण्यां भगवान् अजः ॥ 22॥यज्ञानां ब्रह्मयज्ञः अहं व्रतानां अविहिंसनम् । वायु अग्नि अर्क अंबु वाक् आत्मा शुचीनां अपि अहं शुचिः ॥ 23॥योगानां आत्मसंरोधः मंत्रः अस्मि विजिगीषताम् । आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ 24॥स्त्रीणां तु शतरूपा अहं पुंसां स्वायंभुवः मनुः । नारायणः मुनीनां च कुमारः ब्रह्मचारिणाम् ॥ 25॥धर्माणां अस्मि संन्यासः क्षेमाणां अबहिः मतिः । गुह्यानां सूनृतं मौनं मिथुनानां अजः तु अहम् ॥ 26॥संवत्सरः अस्मि अनिमिषां ऋतूनां मधुमाधवौ । मासानां मार्गशीर्षः अहं नक्षत्राणां तथा अभिजित् ॥ 27॥अहं युगानां च कृतं धीराणां देवलः असितः । द्वैपायनः अस्मि व्यासानां कवीनां काव्यः आत्मवान् ॥ 28॥वासुदेवः भगवतां त्वं भागवतेषु अहम् । किंपुरुषाणां हनुमान् विद्याघ्राणां सुदर्शनः ॥ 29॥रत्नानां पद्मरागः अस्मि पद्मकोशः सुपेशसाम् । कुशः अस्मि दर्भजातीनां गव्यं आज्यं हविष्षु अहम् ॥30॥व्यवसायिनां अहं लक्ष्मीः कितवानां छलग्रहः । तितिक्षा अस्मि तितिक्षणां सत्त्वं सत्त्ववतां अहम् ॥ 31॥ओजः सहोबलवतां कर्म अहं विद्धि सात्त्वताम् । सात्त्वतां नवमूर्तीनां आदिमूर्तिः अहं परा ॥ 32॥विश्वावसुः पूर्वचित्तिः गंधर्व अप्सरसां अहम् । भूधराणां अहं स्थैर्यं गंधमात्रं अहं भुवः ॥ 33॥अपां रसः च परमः तेजिष्ठानां विभावसुः । प्रभा सूर्य इंदु ताराणां शब्दः अहं नभसः परः ॥ 34॥ब्रह्मण्यानां बलिः अहं विराणां अहं अर्जुनः । भूतानां स्थितिः उत्पत्तिः अहं वै प्रतिसंक्रमः ॥ 35॥गति उक्ति उत्सर्ग उपादानं आनंद स्पर्श लक्षणम् । आस्वाद श्रुति अवघ्राणं अहं सर्वेंद्रिय इंद्रियम् ॥ 36॥पृथिवी वायुः आकाशः आपः ज्योतिः अहं महान् । विकारः पुरुषः अव्यक्तं रजः सत्त्वं तमः परम् । अहं एतत् प्रसंख्यानं ज्ञानं सत्त्वविनिश्चयः ॥ 37॥मया ईश्वरेण जीवेन गुणेन गुणिना विना । सर्वात्मना अपि सर्वेण न भावः विद्यते क्वचित् ॥ 38॥संख्यानं परमाणूनां कालेन क्रियते मया । न तथा मे विभूतीनां सृजतः अंडानि कोटिशः ॥ 39॥तेजः श्रीः कीर्तिः ऐश्वर्यं ह्रीः त्यागः सौभगं भगः । वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मे अंशकः ॥ 40॥एताः ते कीर्तिताः सर्वाः संक्षेपेण विभूतयः । मनोविकाराः एव एते यथा वाचा अभिधीयते ॥ 41॥वाचं यच्छ मनः यच्छ प्राणानि यच्छ इंद्रियाणि च । आत्मानं आत्मना यच्छ न भूयः कल्पसे अध्वने ॥ 42॥यः वै वाक् मनसि सम्यक् असंयच्छन् धिया यतिः । तस्य व्रतं तपः दानं स्रवत्यामघटांबुवत् ॥ 43॥तस्मात् मनः वचः प्राणान् नियच्छेत् मत् परायणः । मत् भक्ति युक्तया बुद्ध्या ततः परिसमाप्यते ॥ 44॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे विभूतियोगो नाम षोडशोऽध्यायः ॥ 16॥अथ सप्तदशोऽध्यायः । उद्धवः उवाच । यः त्वया अभितः पूर्वं धर्मः त्वत् भक्तिलक्षणः । वर्णाश्रम आचारवतां सर्वेषां द्विपदां अपि ॥ 1॥यथा अनुष्ठीयमानेन त्वयि भक्तिः नृणां भवेत् । स्वधर्मेण अरविंदाक्ष तत् समाख्यातुं अर्हसि ॥ 2॥पुरा किल महाबाहो धर्मं परमकं प्रभो । यत् तेन हंसरूपेण ब्रह्मणे अभ्यात्थ माधव ॥ 3॥सः इदानीं सुमहता कालेन अमित्रकर्शन । न प्रायः भविता मर्त्यलोके प्राक् अनुशासितः ॥ 4॥वक्ता कर्ता अविता न अन्यः धर्मस्य अच्युत ते भुवि । सभायां अपि वैरिंच्यां यत्र मूर्तिधराः कलाः ॥ 5॥कर्त्रा अवित्रा प्रवक्त्रा च भवता मधुसूदन । त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ 6॥तत्त्वं नः सर्वधर्मज्ञ धर्मः त्वत् भक्तिलक्षणः । यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ 7॥श्रीशुकः उवाच । इत्थं स्वभृत्यमुख्येन पृष्टः सः भगवान् हरिः । प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥ 8॥श्रीभगवान् उवाच । धर्म्यः एष तव प्रश्नः नैःश्रेयसकरः नृणाम् । वर्णाश्रम आचारवतां तं उद्धव निबोध मे ॥ 9॥आदौ कृतयुगे वर्णः नृणां हंसः इति स्मृतः । कृतकृत्याः प्रजाः जात्याः तस्मात् कृतयुगं विदुः ॥ 10॥वेदः प्रणवः एव अग्रे धर्मः अहं वृषरूपधृक् । उपासते तपोनिष्ठां हंसं मां मुक्तकिल्बिषाः ॥ 11॥त्रेतामुखे महाभाग प्राणात् मे हृदयात् त्रयी । विद्या प्रादुः अभूत् तस्याः अहं आसं त्रिवृन्मखः ॥ 12॥विप्र क्षत्रिय विट् शूद्राः मुख बाहु उरु पादजाः । वैराजात् पुरुषात् जाताः यः आत्माचारलक्षणाः ॥ 13॥गृहाश्रमः जघनतः ब्रह्मचर्यं हृदः मम । वक्षःस्थानात् वने वासः न्यासः शीर्षणि संस्थितः ॥ 14॥वर्णानां आश्रमाणां च जन्मभूमि अनुसारिणीः । आसन् प्रकृतयः नॄणां नीचैः नीच उत्तम उत्तमाः ॥ 15॥शमः दमः तपः शौचं संतोषः क्षांतिः आर्जवम् । मद्भक्तिः च दया सत्यं ब्रह्मप्रकृतयः तु इमाः ॥ 16॥तेजः बलं धृतिः शौर्यं तितिक्षा औदार्यं उद्यमः । स्थैर्यं ब्रह्मणि अत ऐश्वर्यं क्षत्रप्रकृतयः तु इमाः ॥17॥आस्तिक्यं दाननिष्ठा च अदंभः ब्रह्मसेवनम् । अतुष्टिः अर्थ उपचयैः वैश्यप्रकृतयः तु इमाः ॥ 18॥शुश्रूषणं द्विजगवां देवानां च अपि अमायया । तत्र लब्धेन संतोषः शूद्रप्रकृतयः तु इमाः ॥ 19॥अशौचं अनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः । कामः क्रोधः च तर्षः च स्वभावः अंतेवसायिनाम् ॥ 20॥अहिंसा सत्यं अस्तेयं अकामक्रोधलोभता । भूतप्रियहितेहा च धर्मः अयं सार्ववर्णिकः ॥ 21॥द्वितीयं प्राप्य अनुपूर्व्यात् जन्म उपनयनं द्विजः । वसन् गुरुकुले दांतः ब्रह्म अधीयीत च आहुतः ॥ 22॥मेखला अजिन दंड अक्ष ब्रह्मसूत्र कमंडलून् । जटिलः अधौतदद्वासः अरक्तपीठः कुशान् दधत् ॥ 23॥स्नान भोजन होमेषु जप उच्चारे च वाग्यतः । न च्छिंद्यात् नख रोमाणि कक्ष उपस्थगतानि अपि ॥ 24॥रेतः न अवरिकेत् जातु ब्रह्मव्रतधरः स्वयम् । अवकीर्णे अवगाह्य अप्सु यतासुः त्रिपदीं जपेत् ॥ 25॥अग्नि अर्क आचार्य गो विप्र गुरु वृद्ध सुरान् शुचिः । समाहितः उपासीत संध्ये च यतवाक् जपन् ॥ 26॥आचार्यं मां विजानीयात् न अवमन्येत कर्हिचित् । न मर्त्यबुद्धि आसूयेत सर्वदेवमयः गुरुः ॥ 27॥सायं प्रातः उपानीय भैक्ष्यं तस्मै निवेदयेत् । यत् च अन्यत् अपि अनुज्ञातं उपयुंजीत संयतः ॥ 28॥शुश्रूषमाणः आचार्यं सदा उपासीत नीचवत् । यान शय्या आसन स्थानैः न अतिदूरे कृतांजलिः ॥ 29॥एवंवृत्तः गुरुकुले वसेत् भोगविवर्जितः । विद्या समाप्यते यावत् बिभ्रत् व्रतं अखंडितम् ॥ 30॥यदि असौ छंदसां लोकं आरोक्ष्यन् ब्रह्मविष्टपम् । गुरवे विन्यसेत् देहं स्वाध्यायार्थं वृहत् व्रतः ॥ 31॥अग्नौ गुरौ आत्मनि च सर्वभूतेषु मां परम् । अपृथक् धीः उपासीत ब्रह्मवर्चस्वी अकल्मषः ॥ 32॥स्त्रीणां निरीक्षण स्पर्श संलाप क्ष्वेलन आदिकम् । प्राणिनः मिथुनीभूतान् अगृहस्थः अग्रतः त्यजेत् ॥ 33॥शौचं आचमनं स्नानं संध्या उपासनं आर्जवम् । तीर्थसेवा जपः अस्पृश्य अभक्ष्य असंभाष्य वर्जनम् ॥34॥सर्व आश्रम प्रयुक्तः अयं नियमः कुलनंदन। मद्भावः सर्बभूतेषु मनोवाक्काय संयमः ॥ 35॥एवं बृहत् व्रतधरः ब्राह्मणः अग्निः इव ज्वलन् । मद्भक्तः तीव्रतपसा दग्धकर्म आशयः अमलः ॥ 36॥अथ अनंतरं आवेक्ष्यन् यथा जिज्ञासित आगमः । गुरवे दक्षिणां दत्त्वा स्नायत् गुरु अनुमोदितः ॥ 37॥गृहं वनं वा उपविशेत् प्रव्रजेत् वा द्विज उत्तमः । आश्रमात् आश्रमं गच्छेत् न अन्यथा मत्परः चरेत् ॥ 38॥गृहार्थी सदृशीं भार्यां उद्वहेत् अजुगुप्सिताम् । यवीयसीं तु वयसा यां सवर्णां अनुक्रमात् ॥ 39॥इज्य अध्ययन दानानि सर्वेषां च द्विजन्मनाम् । प्रतिग्रहः अध्यापनं च ब्राह्मणस्य एव याजनम् ॥ 40॥प्रतिग्रहं मन्यमानः तपः तेजोयशोनुदम् । अन्याभ्यां एव जीवेत शिलैः वा दोषदृक् तयोः ॥ 41॥ब्राह्मणस्य हि देहः अयं क्षुद्रकामाय न इष्यते । कृच्छ्राय तपसे च इह प्रेत्य अनंतसुखाय च ॥ 42॥शिलोंछवृत्त्या परितुष्टचित्तः धर्मं महांतं विरजं जुषाणः । मयि अर्पितात्मा गृहः एव तिष्ठन् न अतिप्रसक्तः समुपैति शांतिम् ॥ 43॥समुद्धरंति ये विप्रं सीदंतं मत्परायणम् । तान् उद्धरिष्ये न चिरात् आपद्भ्यः नौः इव अर्णवात् ॥ 44॥सर्वाः समुद्धरेत् राजा पिता इव व्यसनात् प्रजाः । आत्मानं आत्मना धीरः यथा गजपतिः गजान् ॥ 45॥एवंविधः नरपतिः विमानेन अर्कवचसा । विधूय इह अशुभं कृत्स्नं इंद्रेण सह मोदते ॥ 46॥सीदन् विप्रः वणिक् वृत्त्या पण्यैः एव आपदं तरेत् । खड्गेन वा आपदाक्रांतः न श्ववृत्त्या कथंचन ॥ 47॥वैश्यवृत्त्या तु राजन् यः जीवेत् मृगयया आपदि । चरेत् वा विप्ररूपेण न श्ववृत्त्या कथंचन ॥ 48॥शूद्रवृत्तिं भजेत् वैश्यः शूद्रः कारुकटप्रियाम् । कृच्छ्रात् मुक्तः न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ 49॥वेद अध्याय स्वधा स्वाहा बलि अन्न आद्यैः यथा उदयम् । देवर्षि पितृभूतानि मद्रूपाणि अन्वहं यजेत् ॥ 50॥यदृच्छया उपपन्नेन शुक्लेन उपार्जितेन वा । धनेन अपीडयन् भृत्यान् न्यायेन एव आहरेत् क्रतून् ॥ 51॥कुटुंबेषु न सज्जेत न प्रमाद्येत् कुटुंबि अपि । विपश्चित् नश्वरं पश्येत् अदृष्टं अपि दृष्टवत् ॥ 52॥पुत्र दारा आप्त बंधूनां संगमः पांथसंगमः । अनुदेहं वियंति एते स्वप्नः निद्रानुगः यथा ॥ 53॥इत्थं परिमृशन् मुक्तः गृहेषु अतिथिवत् वसन् । न गृहैः अनुबध्येत निर्ममः निरहंकृतः ॥ 54॥कर्मभिः गृहं एधीयैः इष्ट्वा मां एव भक्तिमान् । तिष्ठेत् वनं वा उपविशेत् प्रजावान् वा परिव्रजेत् ॥ 55॥यः तु आसक्तं अतिः गेहे पुत्र वित्तैषण आतुरः । स्त्रैणः कृपणधीः मूढः मम अहं इति बध्यते ॥ 56॥अहो मे पितरौ वृद्धौ भार्या बालात्मजा आत्मजाः । अनाथाः मां ऋते दीनाः कथं जीवंति दुःखिताः ॥ 57॥एवं गृह आशय आक्षिप्त हृदयः मूढधीः अयम् । अतृप्तः तान् अनुध्यायन् मृतः अंधं विशते तमः ॥ 58॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे ब्रह्मचर्यगृहस्थकर्मधर्मनिरूपणे सप्तदशोऽध्यायः ॥17॥अथ अष्टादशोऽध्यायः । श्रीभगवान् उवाच । वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सह एव वा । वनः एव वसेत् शांतः तृतीयं भागं आयुषः ॥ 1॥कंदमूलफलैः वन्यैः मेध्यैः वृत्तिं प्रकल्पयेत् । वसीत वल्कलं वासः तृणपर्ण अजिनानि च ॥ 2॥केशरोमनखश्मश्रुमलानि बिभृयात् अतः । न धावेत् अप्सु मज्जेत त्रिकालं स्थंडिलेशयः ॥ 3॥ग्रीष्मे तप्येत पंचाग्नीन् वर्षास्वासारषाड् जले । आकंठमग्नः शिशिरः एवंवृत्तः तपश्चरेत् ॥ 4॥अग्निपक्वं समश्नीयात् कालपक्वं अथ अपि वा । उलूखल अश्मकुट्टः वा दंत उलूखलः एव वा ॥ 5॥स्वयं संचिनुयात् सर्वं आत्मनः वृत्तिकारणम् । देशकालबल अभिज्ञः न आददीत अन्यदा आहृतम् ॥ 6॥वन्यैः चरुपुरोडाशैः निर्वपेत् कालचोदितान् । न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ 7॥अग्निहोत्रं च दर्शः च पूर्णमासः च पूर्ववत् । चातुर्मास्यानि च मुनेः आम्नातानि च नैगमैः ॥ 8॥एवं चीर्णेन तपसा मुनिः धमनिसंततः । मां तपोमयं आराध्य ऋषिलोकात् उपैति माम् ॥ 9॥यः तु एतत् कृच्छ्रतः चीर्णं तपः निःश्रेयसं महत् । कामाय अल्पीयसे युंज्यात् वालिशः कः अपरः ततः ॥ 10॥यदा असौ नियमे अकल्पः जरया जातवेपथुः । आत्मनि अग्नीन् समारोप्य मच्चित्तः अग्निं समाविशेत् ॥ 11॥यदा कर्मविपाकेषु लोकेषु निरय आत्मसु । विरागः जायते सम्यक् न्यस्त अग्निः प्रव्रजेत् ततः ॥ 12॥इष्ट्वा यथा उपदेशं मां दत्त्वा सर्वस्वं ऋत्विजे । अग्नीन् स्वप्राणः आवेश्य निरपेक्षः परिव्रजेत् ॥ 13॥विप्रस्य वै संन्यसतः देवाः दारादिरूपिणः । विघ्नान् कुर्वंति अयं हि अस्मान् आक्रम्य समियात् परम् ॥ 14॥बिभृयात् चेत् मुनिः वासः कौपीन आच्छादनं परम् । त्यक्तं न दंडपात्राभ्यां अन्यत् किंचित् अनापदि ॥ 15॥दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेत् जलम् । सत्यपूतां वदेत् वाचं मनःपूतं समाचरेत् ॥ 16॥मौन अनीहा अनिल आयामाः दंडाः वाक् देह चेतसाम् । नहि एते यस्य संति अंगः वेणुभिः न भवेत् यतिः ॥ 17॥भिक्षां चतुषु वर्णेषु विगर्ह्यान् वर्जयन् चरेत् । सप्तागारान् असंक्लृप्तान् तुष्येत् लब्धेन तावता ॥ 18॥बहिः जलाशयं गत्वा तत्र उपस्पृश्य वाग्यतः । विभज्य पावितं शेषं भुंजीत अशेषं आहृतम् ॥ 19॥एकः चरेत् महीं एतां निःसंगः संयतेंद्रियः । आत्मक्रीडः आत्मरतः आत्मवान् समदर्शनः ॥ 20॥विविक्तक्षेमशरणः मद्भावविमलाशयः । आत्मानं चिंतयेत् एकं अभेदेन मया मुनिः ॥ 21॥अन्वीक्षेत आत्मनः बंधं मोक्षं च ज्ञाननिष्ठया । बंधः इंद्रियविक्षेपः मोक्षः एषां च संयमः ॥ 22॥तस्मात् नियम्य षड्वर्गं मद्भावेन चरेत् मुनिः । विरक्तः क्षुल्लकामेभ्यः लब्ध्वा आत्मनि सुखं महत् ॥ 23॥पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशन् चरेत् । पुण्यदेशसरित् शैलवन आश्रमवतीं महीम् ॥ 24॥वानप्रस्थ आश्रम पदेषु अभीक्ष्णं भैक्ष्यं आचरेत् । संसिध्यत्याश्वसंमोहः शुद्धसत्त्वः शिलांधसा ॥ 25॥न एतत् वस्तुतया पश्येत् दृश्यमानं विनश्यति । असक्तचित्तः विरमेत् इह अमुत्र चिकीर्षितात् ॥ 26॥यत् एतत् आत्मनि जगत् मनोवाक्प्राणसंहतम् । सर्वं माया इति तर्केण स्वस्थः त्यक्त्वा न तत् स्मरेत् ॥ 27॥ज्ञाननिष्ठः विरक्तः वा मद्भक्तः वा अनपेक्षकः । सलिंगान् आश्रमां त्यक्त्वा चरेत् अविधिगोचरः ॥ 28॥बुधः बालकवत् क्रीडेत् कुशलः जडवत् चरेत् । वदेत् उन्मत्तवत् विद्वान् गोचर्यां नैगमः चरेत् ॥ 29॥वेदवादरतः न स्यात् न पाखंडी न हैतुकः । शुष्कवादविवादे न कंचित् पक्षं समाश्रयेत् ॥ 30॥न उद्विजेत जनात् धीरः जनं च उद्वेजयेत् न तु । अतिवादान् तितिक्षेत न अवमन्येत कंचन । देहं उद्दिश्य पशुवत् वैरं कुर्यात् न केनचित् ॥ 31॥एकः एव परः हि आत्मा भूतेषु आत्मनि अवस्थितः । यथा इंदुः उदपात्रेषु भूतानि एकात्मकानि च ॥ 32॥अलब्ध्वा न विषीदेत काले काले अशनं क्वचित् । लब्ध्वा न हृष्येत् धृतिं आनुभयं दैवतंत्रितम् ॥ 33॥आहारार्थं समीहेत युक्तं तत् प्राणधारणम् । तत्त्वं विमृश्यते तेन तत् विज्ञाय विमुच्यते ॥ 34॥यत् ऋच्छया उपपन्नात् अन्नं अद्यात् श्रेष्ठं उत अपरम् । तथा वासः तथा शय्यां प्राप्तं प्राप्तं भजेत् मुनिः ॥ 35॥शौचं आचमनं स्नानं न तु चोदनया चरेत् । अन्यान् च नियमान् ज्ञानी यथा अहं लीलया ईश्वरः ॥ 36॥नहि तस्य विकल्पाख्या या च मद्वीक्षया हता । आदेहांतात् क्वचित् ख्यातिः ततः संपद्यते मया ॥ 37॥दुःख उदर्केषु कामेषु जातनिर्वेदः आत्मवान् । अजिज्ञासित मद्धर्मः गुरुं मुनिं उपाव्रजेत् ॥ 38॥तावत् परिचरेत् भक्तः श्रद्धावान् अनसूयकः । यावत् ब्रह्म विजानीयात् मां एव गुरुं आदृतः ॥ 39॥यः तु असंयत षड्वर्गः प्रचंड इंद्रिय सारथिः । ज्ञान वैराग्य रहितः त्रिदंडं उपजीवति ॥ 40॥सुरान् आत्मानं आत्मस्थं निह्नुते मां च धर्महा । अविपक्व कषायः अस्मात् उष्मात् च विहीयते ॥ 41॥भिक्षोः धर्मः शमः अहिंसा तपः ईक्षा वनौकसः । गृहिणः भूतरक्ष इज्याः द्विजस्य आचार्यसेवनम् ॥ 42॥ब्रह्मचर्यं तपः शौचं संतोषः भूतसौहृदम् । गृहस्थस्य अपि ऋतौ गंतुः सर्वेषां मदुपासनम् ॥ 43॥इति मां यः स्वधर्मेण भजन् नित्यं अनन्यभाक् । सर्वभूतेषु मद्भावः मद्भक्तिं विंदते अचिरात् ॥ 44॥भक्त्या उद्धव अनपायिन्या सर्वलोकमहेश्वरम् । सर्व उत्पत्ति अपि अयं ब्रह्म कारणं मा उपयाति सः ॥ 45॥इति स्वधर्म निर्णिक्त सत्त्वः निर्ज्ञात् मद्गतिः । ज्ञान विज्ञान संपन्नः न चिरात् समुपैति माम् ॥ 46॥वर्णाश्रमवतां धर्मः एषः आचारलक्षणः । सः एव मद्भक्तियुतः निःश्रेयसकरः परः ॥ 47॥एतत् ते अभिहितं साधो भवान् पृच्छति यत् च माम् । यथा स्वधर्मसंयुक्तः भक्तः मां समियात् परम् ॥ 48॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे वानप्रस्थसंन्यासधर्मनिरूपणं नामाष्टादशोऽध्यायः ॥ 18॥अथ एकोनविंशः अध्यायः । श्रीभगवान् उवाच । यः विद्याश्रुतसंपन्नः आत्मवान् न अनुमानिकः । मायामात्रं इदं ज्ञात्वा ज्ञानं च मयि संन्यसेत् ॥ 1॥ज्ञानिनः तु अहं एव इष्टः स्वार्थः हेतुः च संमतः । स्वर्गः च एव अपवर्गः च न अन्यः अर्थः मदृते प्रियः ॥ 2॥ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुः मम । ज्ञानी प्रियतमः अतः मे ज्ञानेन असौ बिभर्ति माम् ॥ 3॥तपः तीर्थं जपः दानं पवित्राणि इतराणि च । न अलं कुर्वंति तां सिद्धिं या ज्ञानकलया कृता ॥ 4॥तस्मात् ज्ञानेन सहितं ज्ञात्वा स्वात्मानं उद्धव । ज्ञानविज्ञानसंपन्नः भज मां भक्तिभावतः ॥ 5॥ज्ञानविज्ञानयज्ञेन मां इष्ट्वा आत्मानं आत्मनि । सर्वयज्ञपतिं मां वै संसिद्धिं मुनयः अगमन्॥ 6॥त्वयि उद्धव आश्रयति यः त्रिविधः विकारः मायांतरा आपतति न आदि अपवर्गयोः यत् । जन्मादयः अस्य यत् अमी तव तस्य किं स्युः आदि अंतयोः यत् असतः अस्ति तत् एव मध्ये ॥ 7॥उद्धवः उवाच । ज्ञानं विशुद्धं विपुलं यथा एतत् वैराग्यविज्ञानयुतं पुराणम् । आख्याहि विश्वेश्वर विश्वमूर्ते त्वत् भक्तियोगं च महत् विमृग्यम् ॥ 8॥तापत्रयेण अभिहतस्य घोरे संतप्यमानस्य भवाध्वनीश । पश्यामि न अन्यत् शरणं तवांघ्रि द्वंद्व आतपत्रात् अमृत अभिवर्षात् ॥ 9॥दष्टं जनं संपतितं बिले अस्मिन् कालाहिना क्षुद्रसुखोः उतर्षम् । समुद्धर एनं कृपया अपवर्ग्यैः वचोभिः आसिंच महानुभाव ॥ 10॥श्रीभगवान् उवाच । इत्थं एतत् पुरा राजा भीष्मं धर्मभृतां वरम् । अजातशत्रुः पप्रच्छ सर्वेषां नः अनुश्रुण्वताम् ॥ 11॥निवृत्ते भारते युद्धे सुहृत् निधनविह्वलः । श्रुत्वा धर्मान् बहून् पश्चात् मोक्षधर्मान् अपृच्छत ॥12॥तान् अहं ते अभिधास्यामि देवव्रतमुखात् श्रुतान् । ज्ञानवैराग्यविज्ञानश्रद्धाभक्ति उपबृंहितान् ॥ 13॥नव एकादश पंच त्रीन् भावान् भूतेषु येन वै । ईक्षेत अथ एकं अपि एषु तत् ज्ञानं मम निश्चितम् ॥ 14॥एतत् एव हि विज्ञानं न तथा एकेन येन यत् । स्थिति उत्पत्ति अपि अयान् पश्येत् भावानां त्रिगुण आत्मनाम् ॥15॥आदौ अंते च मध्ये च सृज्यात् सृज्यं यत् अन्वियात् । पुनः तत् प्रतिसंक्रामे यत् शिष्येत तत् एव सत् ॥ 16॥श्रुतिः प्रत्यक्षं ऐतिह्यं अनुमानं चतुष्टयम् । प्रमाणेषु अनवस्थानात् विकल्पात् सः विरज्यते ॥ 17॥कर्मणां परिणामित्वात् आविरिंचात् अमंगलम् । विपश्चित् नश्वरं पश्येत् अदृष्टं अपि दृष्टवत् ॥ 18॥भक्तियोगः पुरा एव उक्तः प्रीयमाणाय ते अनघ । पुनः च कथयिष्यामि मद्भक्तेः कारणं परम् ॥ 19॥श्रद्धा अमृतकथायां मे शश्वत् मत् अनुकीर्तनम् । परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ 20॥आदरः परिचर्यायां सर्वांगैः अभिवंदनम् । मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः ॥ 21॥मदर्थेषु अंगचेष्टा च वचसा मद्गुणेरणम् । मय्यर्पणं च मनसः सर्वकामविवर्जनम् ॥ 22॥मदर्थे अर्थ परित्यागः भोगस्य च सुखस्य च । इष्टं दत्तं हुतं जप्तं मदर्थं यत् व्रतं तपः ॥ 23॥एवं धर्मैः मनुष्याणां उद्धव आत्मनिवेदिनाम् । मयि संजायते भक्तिः कः अन्यः अर्थः अस्य अवशिष्यते ॥ 24॥यदा आत्मनि अर्पितं चित्तं शांतं सत्त्व उपबृंहितम् । धर्मं ज्ञानं सवैराग्यं ऐश्वर्यं च अभिपद्यते ॥ 25॥यत् अर्पितं तत् विकल्पे इंद्रियैः परिधावति । रजस्वलं च आसन् निष्ठं चित्तं विद्धि विपर्ययम् ॥ 26॥धर्मः मद्भक्तिकृत् प्रोक्तः ज्ञानं च एकात्म्यदर्शनम् । गुणेषु असंगः वैराग्यं ऐश्वर्यं च अणिं आदयः ॥ 27॥उद्धवः उवाच । यमः कतिविधः प्रोक्तः नियमः वा अरिकर्शन । कः शमः कः दमः कृष्ण का तितिक्षा धृतिः प्रभो ॥ 28॥किं दानं किं तपः शौर्यं किं सत्यं ऋतं उच्यते । कः त्यागः किं धनं चेष्टं कः यज्ञः का च दक्षिणा ॥29॥पुंसः किंस्वित् बलं श्रीमन् भगः लाभः च केशव । का विद्या ह्रीः परा का श्रीः किं सुखं दुःखं एव च ॥30॥कः पंडितः कः च मूर्खः कः पंथाः उत्पथः च कः । कः स्वर्गः नरकः कः स्वित् कः बंधुः उत किं गृहम् ॥ 31॥कः आढ्यः कः दरिद्रः वा कृपणः कः ईश्वरः । एतान् प्रश्नान् मम ब्रूहि विपरीतान् च सत्पते ॥ 32॥श्रीभगवान् उवाच । अहिंसा सत्यं अस्तेयं असंगः ह्रीः असंचयः । आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमा अभयम् ॥33। शौचं जपः तपः होमः श्रद्धा आतिथ्यं मत् अर्चनम् । तीर्थाटनं परार्थेहा तुष्टिः आचार्यसेवनम् ॥ 34॥एते यमाः सनियमाः उभयोः द्वादश स्मृताः । पुंसां उपासिताः तात यथाकामं दुहंति हि ॥ 35॥शमः मत् निष्ठता बुद्धेः दमः इंद्रियसंयमः । तितिक्षा दुःखसंमर्षः जिह्वा उपस्थजयः धृतिः ॥ 36॥दंडन्यासः परं दानं कामत्यागः तपः स्मृतम् । स्वभावविजयः शौर्यं सत्यं च समदर्शनम् ॥ 37॥ऋतं च सूनृता वाणी कविभिः परिकीर्तिता । कर्मस्वसंगमः शौचं त्यागः संन्यासः उच्यते ॥ 38॥धर्मः इष्टं धनं नॄणां यज्ञः अहं भगवत्तमः । दक्षिणा ज्ञानसंदेशः प्राणायामः परं बलम् ॥ 39॥भगः मे ऐश्वरः भावः लाभः मद्भक्तिः उत्तमः । विद्या आत्मनि भिद अबाधः जुगुप्सा ह्रीः अकर्मसु ॥ 40॥श्रीः गुणाः नैरपेक्ष्य आद्याः सुखं दुःखसुख अत्ययः । दुःखं कामसुख अपेक्षा पंडितः बंधमोक्षवित् ॥ 41॥मूर्खः देह आदि अहं बुद्धिः पंथाः मत् निगमः स्मृतः । उत्पथः चित्तविक्षेपः स्वर्गः सत्त्वगुण उअदयः ॥ 42॥नरकः तमः उन्नहः बंधुः गुरुः अहं सखे । गृहं शरीरं मानुष्यं गुणाढ्यः हि आढ्यः उच्यते ॥ 43॥दरिद्रः यः तु असंतुष्टः कृपणः यः अजितेंद्रियः । गुणेषु असक्तधीः ईशः गुणसंगः विपर्ययः ॥ 44॥एतः उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः । किं वर्णितेन बहुना लक्षणं गुणदोषयोः । गुणदोष दृशिः दोषः गुणः तु उभयवर्जितः ॥ 45॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे भगवदुधवसंवादे एकोनविंशोऽध्यायः ॥ 19॥अथ विंशः अध्यायः । उद्धवः उवाच । विधिः च प्रतिषेधः च निगमः हि ईश्वरस्य ते । अवेक्षते अरविंदाक्ष गुणं दोषं च कर्मणाम् ॥ 1॥वर्णाश्रम विकल्पं च प्रतिलोम अनुलोमजम् । द्रव्य देश वयः कालान् स्वर्गं नरकं एव च ॥ 2॥गुण दोष भिदा दृष्टिं अंतरेण वचः तव । निःश्रेयसं कथं नॄणां निषेध विधि लक्षणम् ॥ 3॥पितृदेवमनुष्याणां वेदः चक्षुः तव ईश्वर । श्रेयः तु अनुपलब्धे अर्थे साध्यसाधनयोः अपि ॥ 4॥गुणदोषभिदादृष्टिः निगमात् ते न हि स्वतः । निगमेन अपवादः च भिदायाः इति हि भ्रमः ॥ 5॥श्रीभगवान् उवाच । योगाः त्रयः मया प्रोक्ता नॄणां श्रेयोविधित्सया । ज्ञानं कर्म च भक्तिः च न उपायः अन्यः अस्ति कुत्रचित् ॥6॥निर्विण्णानां ज्ञानयोगः न्यासिनां इह कर्मसु । तेषु अनिर्विण्णचित्तानां कर्मयोगः ति कामिनाम् ॥ 7॥यदृच्छया मत् कथा आदौ जातश्रद्धः तु यः पुमान् । न निर्विण्णः न अतिसक्तः भक्तियोगः अस्य सिद्धिदः ॥ 8॥तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत् कथाश्रवण आदौ वा श्रद्धा यावत् न जायते ॥ 9॥स्वधर्मस्थः यजन्यज्ञैः अनाशीः कामः उद्धव । न याति स्वर्गनरकौ यदि अन्यत्र समाचरेत् ॥ 10॥अस्मिन् लोके वर्तमानः स्वधर्मस्थः अनघः शुचिः । ज्ञानं विशुद्धं आप्नोति मद्भक्तिं वा यदृच्छया ॥ 11॥स्वर्गिणः अपि एतं इच्छंति लोकं निरयिणः तथा । साधकं ज्ञानभक्तिभ्यां उभयं तत् असाधकम् ॥ 12॥न नरः स्वर्गतिं कांक्षेत् नारकीं वा विचक्षणः । न इमं लोकं च कांक्षेत देह आवेशात् प्रमाद्यति ॥ 13॥एतत् विद्वान् पुरा मृत्योः अभवाय घटेत सः । अप्रमत्तः इदं ज्ञात्वा मर्त्यं अपि अर्थसिद्धिदम् ॥ 14॥छिद्यमानं यमैः एतैः कृतनीडं वनस्पतिम् । खगः स्वकेतं उत्सृज्य क्षेमं याति हि अलंपटः ॥ 15॥अहोरात्रैः छिद्यमानं बुद्ध्वायुः भयवेपथुः । मुक्तसंगः परं बुद्ध्वा निरीह उपशाम्यति ॥ 16॥नृदेहं आद्यं सुलभं सुदुर्लभम् प्लवं सुकल्पं गुरुकर्णधारम् । मया अनुकूलेन नभस्वतेरितम् पुमान् भवाब्धिं न तरेत् सः आत्महा ॥ 17॥यदा आरंभेषु निर्विण्णः विरक्तः संयतेंद्रियः । अभ्यासेन आत्मनः योगी धारयेत् अचलं मनः ॥ 18॥धार्यमाणं मनः यः हि भ्राम्यदाशु अनवस्थितम् । अतंद्रितः अनुरोधेन मार्गेण आत्मवशं नयेत् ॥ 19॥मनोगतिं न विसृजेत् जितप्राणः जितेंद्रियः । सत्त्वसंपन्नया बुद्ध्या मनः आत्मवशं नयेत् ॥ 20॥एषः वै परमः योगः मनसः संग्रहः स्मृतः । हृदयज्ञत्वं अन्विच्छन् दम्यस्य एव अर्वतः मुहुः ॥ 21॥सांख्येन सर्वभावानां प्रतिलोम अनुलोमतः । भव अपि अयौ अनुध्ययेत् मनः यावत् प्रसीदति ॥ 22॥निर्विण्णस्य विरक्तस्य पुरुषस्य उक्तवेदिनः । मनः त्यजति दौरात्म्यं चिंतितस्य अनुचिंतया ॥ 23॥यम आदिभिः योगपथैः आन्वीक्षिक्या च विद्यया । मम अर्चोपासनाभिः वा न अन्यैः योग्यं स्मरेत् मनः ॥ 24॥यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् । योगेन एव दहेत् अंहः न अन्यत् तत्र कदाचन ॥ 25॥स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः । कर्मणां जाति अशुद्धानां अनेन नियमः कृतः । गुणदोषविधानेन संगानां त्याजनेच्छया ॥ 26॥जातश्रद्दः मत्कथासु निर्विण्णः सर्वकर्मसु । वेद दुःखात्मकान् कामान् परित्यागे अपि अनीश्वरः ॥ 27॥ततः भजेत मां प्रीतः श्रद्धालुः दृढनिश्चयः । जुषमाणः च तान् कामान् दुःख उदर्कान् च गर्हयन् ॥ 28॥प्रोक्तेन भक्तियोगेन भजतः मा असकृत् मुनेः । कामाः हृदय्याः नश्यंति सर्वे मयि हृदि स्थिते ॥ 29॥भिद्यते हृदयग्रंथिः छिद्यंते सर्वसंशयाः । क्षीयंते च अस्य कर्माणि मयि दृष्टे अखिल आत्मनि ॥ 30॥तस्मात् मद्भक्तियुक्तस्य योगिनः वै मत् आत्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयः भवेत् इह ॥ 31॥यत् कर्मभिः यत् तपसा ज्ञानवैराग्यतः च यत् । योगेन दानधर्मेण श्रेयोभिः इतरैः अपि ॥ 32॥सर्वं मद्भक्तियोगेन मद्भक्तः लभते अंजसा । स्वर्ग अपवर्गं मत् धाम कथंचित् यदि वांछति ॥ 33॥न किंचित् साधवः धीराः भक्ताः हि एकांतिनः मम । वांछति अपि मया दत्तं कैवल्यं अपुनर्भवम् ॥ 34॥नैरपेक्ष्यं परं प्राहुः निःश्रेयसं अनल्पकम् । तस्मात् निराशिषः भक्तिः निरपेक्षस्य मे भवेत् ॥ 35॥न मयि एकांतभक्तानां गुणदोष उद्भवाः गुणाः । साधूनां समचित्तानां बुद्धेः परं उपेयुषाम् ॥ 36॥एवं एतत् मया आदिष्टान् अनुतिष्ठंति मे पथः । क्षेमं विंदंति मत् स्थानं यत् ब्रह्म परमं विदुः ॥ 37॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे भगवदुद्धवसंवादे वेदत्रयीविभागयोगो नाम विंशोऽध्यायः ॥ 20॥अथ एकविंशः अध्यायः । श्रीभगवान् उवाच । यः एतान् मत्पथः हित्वा भक्तिज्ञानक्रियात्मकान् । क्षुद्रान् कामान् चलैः प्राणैः जुषंतः संसरंति ते ॥ 1॥स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः । विपर्ययः तु दोषः स्यात् उभयोः एषः निश्चयः ॥ 2॥शुद्धि अशुद्धी विधीयेते समानेषु अपि वस्तुषु । द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभ अशुभौ ॥ 3॥धर्मार्थं व्यवहारार्थं यात्रार्थं इति च अनघ । दर्शितः अयं मया आचारः धर्मं उद्वहतां धुरम् ॥ 4॥भूमि अंबु अग्नि अनिल आकाशाः भूतानां पंच धातवः । आब्रह्म स्थावर आदीनां शरीराः आत्मसंयुताः ॥ 5॥वेदेन नामरूपाणि विषमाणि समेषु अपि । धातुषु उद्धव कल्प्यंतः एतेषां स्वार्थसिद्धये ॥ 6॥देश काल आदि भावानां वस्तूनां मम सत्तम । गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥ 7॥अकृष्णसारः देशानां अब्रह्मण्यः अशुचिः भवेत् । कृष्णसारः अपि असौवीर कीकट असंस्कृतेरिणम् ॥ 8॥कर्मण्यः गुणवान् कालः द्रव्यतः स्वतः एव वा । यतः निवर्तते कर्म सः दोषः अकर्मकः स्मृतः ॥ 9॥द्रव्यस्य शुद्धि अशुद्धी च द्रव्येण वचनेन च । संस्कारेण अथ कालेन महत्त्व अल्पतया अथवा ॥ 10॥शक्त्या अशक्त्या अथवा बुद्ध्या समृद्ध्या च यत् आत्मने । अघं कुर्वंति हि यथा देश अवस्था अनुसारतः ॥ 11॥धान्य दारु अस्थि तंतूनां रस तैजस चर्मणाम् । काल वायु अग्नि मृत्तोयैः पार्थिवानां युत अयुतैः ॥ 12॥अमेध्यलिप्तं यत् येन गंधं लेपं व्यपोहति । भजते प्रकृतिं तस्य तत् शौचं तावत् इष्यते ॥ 13॥स्नान दान तपः अवस्था वीर्य संस्कार कर्मभिः । मत् स्मृत्या च आत्मनः शौचं शुद्धः कर्म आचरेत् द्विजः ॥ 14॥मंत्रस्य च परिज्ञानं कर्मशुद्धिः मदर्पणम् । धर्मः संपद्यते षड्भिः अधर्मः तु विपर्ययः ॥ 15॥क्वचित् गुणः अपि दोषः स्यात् दोषः अपि विधिना गुणः । गुणदोषार्थनियमः तत् भिदां एव बाधते ॥ 16॥समानकर्म आचरणं पतितानां न पातकम् । औत्पत्तिकः गुणः संगः न शयानः पतति अधः ॥ 17॥यतः यतः निवर्तेत विमुच्येत ततः ततः । एषः धर्मः नॄणां क्षेमः शोकमोहभय अपहः ॥ 18॥विषयेषु गुणाध्यासात् पुंसः संगः ततः भवेत् । संगात् तत्र भवेत् कामः कामात् एव कलिः नॄणाम् ॥ 19॥कलेः दुर्विषहः क्रोधः तमः तं अनुवर्तते । तमसा ग्रस्यते पुंसः चेतना व्यापिनी द्रुतम् ॥ 20॥तया विरहितः साधो जंतुः शून्याय कल्पते । ततः अस्य स्वार्थविभ्रंशः मूर्च्छितस्य मृतस्य च ॥ 21॥विषयाभिनिवेशेन न आत्मानं वेद न अपरम् । वृक्षजीविकया जीवन् व्यर्थं भस्त्र इव यः श्वसन् ॥ 22॥फलश्रुतिः इयं नॄणां न श्रेयः रोचनं परम् । श्रेयोविवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥ 23॥उत्पत्ति एव हि कामेषु प्राणेषु स्वजनेषु च । आसक्तमनसः मर्त्या आत्मनः अनर्थहेतुषु ॥ 24॥न तान् अविदुषः स्वार्थं भ्राम्यतः वृजिनाध्वनि । कथं युंज्यात् पुनः तेषु तान् तमः विशतः बुधः ॥ 25॥एवं व्यवसितं केचित् अविज्ञाय कुबुद्धयः । फलश्रुतिं कुसुमितां न वेदज्ञाः वदंति हि ॥ 26॥कामिनः कृपणाः लुब्धाः पुष्पेषु फलबुद्धयः । अग्निमुग्धा धुमतांताः स्वं लोकं न विंदंति ते ॥ 27॥न ते मां अंगः जानंति हृदिस्थं यः इदं यतः । उक्थशस्त्राः हि असुतृपः यथा नीहारचक्षुषः ॥ 28॥ते मे मतं अविज्ञाय परोक्षं विषयात्मकाः । हिंसायां यदि रागः स्यात् यज्ञः एव न चोदना ॥ 29॥हिंसाविहाराः हि अलब्धैः पशुभिः स्वसुखेच्छया । यजंते देवताः यज्ञैः पितृभूतपतीन् खलाः ॥ 30॥स्वप्न् उपमं अमुं लोकं असंतं श्रवणप्रियम् । आशिषः हृदि संकल्प्य त्यजंति अर्थान् यथा वणिक् ॥ 31॥रजःसत्त्वतमोनिष्ठाः रजःसत्त्वतमोजुषः । उपासतः इंद्रमुख्यान् देवादीन् न तथा एव माम् ॥ 32॥इष्ट्वा इह देवताः यज्ञैः गत्वा रंस्यामहे दिवि । तस्य अंतः इह भूयास्मः महाशाला महाकुलाः ॥ 33॥एवं पुष्पितया वाचा व्याक्षिप्तमनसां नॄणाम् । मानिनान् च अतिस्तब्धानां मद्वार्ता अपि न रोचते ॥ 34॥वेदाः ब्रह्मात्मविषयाः त्रिकांडविषयाः इमे । परोक्षवादाः ऋषयः परोक्षं मम च प्रियम् ॥ 35॥शब्दब्रह्म सुदुर्बोधं प्राण इंद्रिय मनोमयम् । अनंतपारं गंभीरं दुर्विगाह्यं समुद्रवत् ॥ 36॥मया उपबृंहितं भूम्ना ब्रह्मणा अनंतशक्तिना । भूतेषु घोषरूपेण बिसेषु ऊर्ण इव लक्ष्यते ॥ 37॥यथा ऊर्णनाभिः हृदयात् ऊर्णां उद्वमते मुखात् । आकाशात् घोषवान् प्राणः मनसा स्पर्शरूपिणा ॥ 38॥छंदोमयः अमृतमयः सहस्रपदवीं प्रभुः । ॐकारात् व्यंजित स्पर्श स्वर उष्म अंतस्थ भूषिताम् ॥39॥विचित्रभाषाविततां छंदोभिः चतुर उत्तरैः । अनंतपारां बृहतीं सृजति आक्षिपते स्वयम् ॥ 40॥गायत्री उष्णिक् अनुष्टुप् च बृहती पंक्तिः एव च । त्रिष्टुप् जगती अतिच्छंदः हि अत्यष्टि अतिजगत् विराट् ॥ 41॥किं विधत्ते किं आचष्टे किं अनूद्य विकल्पयेत् । इति अस्याः हृदयं लोके न अन्यः मत् वेद कश्चन ॥42॥मां विधत्ते अभिधत्ते मां विकल्प्य अपोह्यते तु अहम् । एतावान् सर्ववेदार्थः शब्दः आस्थाय मां भिदाम् । मायामात्रं अनूद्य अंते प्रतिषिध्य प्रसीदति ॥ 43॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे भगवद्द्धवसंवादे वेदत्रयविभागनिरूपणं नाम एकविंशोऽध्यायः ॥ 21॥अथ द्वाविंशः अध्यायः । उद्धवः उवाच । कति तत्त्वानि विश्वेश संख्यातानि ऋषिभिः प्रभो । नव एकादश पंच त्रीणि आत्थ त्वं इह शुश्रुम ॥ 1॥केचित् षड्विंशतिं प्राहुः अपरे पंचविंशतिम् । सप्त एके नव षट् केचित् चत्वारि एकादश अपरे । केचित् सप्तदश प्राहुः षोडश एके त्रयोदश ॥ 2॥एतावत् त्वं हि संख्यानां ऋषयः यत् विवक्षया । गायंति पृथक् आयुष्मन् इदं नः वक्तुं अर्हसि ॥ 3॥श्रीभगवान् उवाच । युक्तं च संति सर्वत्र भाषंते ब्राह्मणाः यथा । मायां मदीयां उद्गृह्य वदतां किं नु दुर्घटम् ॥ 4॥न एतत् एवं यथा आत्थ त्वं यत् अहं वच्मि तत् तथा । एवं विवदतां हेतुं शक्तयः मे दुरत्ययाः ॥ 5॥यासां व्यतिकरात् आसीत् विकल्पः वदतां पदम् । प्राप्ते शमदमे अपि एति वादस्तमनु शाम्यति ॥ 6॥परस्परान् अनुप्रवेशात् तत्त्वानां पुरुषर्षभ । पौर्व अपर्य प्रसंख्यानं यथा वक्तुः विवक्षितम् ॥ 7॥एकस्मिन् अपि दृश्यंते प्रविष्टानि इतराणि च । पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः ॥ 8॥पौर्व अपर्यं अतः अमीषां प्रसंख्यानं अभीप्सताम् । यथा विविक्तं यत् वक्त्रं गृह्णीमः युक्तिसंभवात् ॥ 9॥अनादि अविद्यायुक्तस्य पुरुषस्य आत्मवेदनम् । स्वतः न संभवात् अन्यः तत्त्वज्ञः ज्ञानदः भवेत् ॥ 10॥पुरुष ईश्वरयोः अत्र न वैलक्षण्यं अणु अपि । तत् अन्यकल्पनापार्था ज्ञानं च प्रकृतेः गुणः ॥ 11॥प्रकृतिः गुणसाम्यं वै प्रकृतेः न आत्मनः गुणाः । सत्त्वं रजः तमः इति स्थिति उत्पत्ति अंतहेतवः ॥ 12॥सत्त्वं ज्ञानं रजः कर्म तमः अज्ञानं इह उच्यते । गुणव्यतिकरः कालः स्वभावः सूत्रं एव च ॥ 13॥पुरुषः प्रकृतिः व्यक्तं अहंकारः नभः अनिलः । ज्योतिः आपः क्षितिः इति तत्त्वानि उक्तानि मे नव ॥ 14॥श्रोत्रं त्वक् दर्शनं घ्राणः जिह्वा इति ज्ञानशक्तयः । वाक् पाणि उपस्थ पायु अंघ्रिः कर्माण्यंग उभयं मनः ॥ 15॥शब्दः स्पर्शः रसः गंधः रूपं च इति अर्थजातयः । गति उक्ति उत्सर्ग शिल्पानि कर्म आयतन सिद्धयः ॥ 16॥सर्ग आदौ प्रकृतिः हि अस्य कार्य कारण रूपिणी । सत्त्व आदिभिः गुणैः धत्ते पुरुषः अव्यक्तः ईक्षते ॥ 17॥व्यक्त आदयः विकुर्वाणाः धातवः पुरुष ईक्षया । लब्धवीर्याः सृजंति अंडं संहताः प्रकृतेः बलात् ॥ 18॥सप्त एव धातवः इति तत्र अर्थाः पंच खादयः । ज्ञानं आत्मा उभय आधारः ततः देह इंद्रिय आसवः ॥ 19॥षड् इति अत्र अपि भूतानि पंच षष्ठः परः पुमान् । तैः युक्तः आत्मसंभूतैः सृष्ट्वा इदं समुपाविशत् ॥ 20॥चत्वारि एव इति तत्र अपि तेजः आपः अन्नं आत्मनः । जातानि तैः इदं जातं जन्म अवयविनः खलु ॥ 21॥संख्याने सप्तदशके भूतमात्र इंद्रियाणि च । पंचपंच एक मनसा आत्मा सप्तदशः स्मृतः ॥ 22॥तद्वत् षोडशसंख्याने आत्मा एव मनः उच्यते । भूतेंद्रियाणि पंच एव मनः आत्मा त्रयोदशः ॥ 23॥एकादशत्वः आत्मा असौ महाभूतेंद्रियाणि च । अष्टौ प्रकृतयः च एव पुरुषः च नव इति अथ ॥ 24॥इति नाना प्रसंख्यानं तत्त्वानां ऋषिभिः कृतम् । सर्वं न्याय्यं युक्तिमत्वात् विदुषां किं अशोभनम् ॥ 25॥उद्धवः उवाच । प्रकृतिः पुरुषः च उभौ यदि अपि आत्मविलक्षणौ । अन्योन्य अपाश्रयात् कृष्ण दृश्यते न भिदा तयोः । प्रकृतौ लक्ष्यते हि आत्मा प्रकृतिः च तथा आत्मनि ॥ 26॥एवं मे पुंडरीकाक्ष महांतं संशयं हृदि । छेत्तुं अर्हसि सर्वज्ञ वचोभिः नयनैपुणैः ॥ 27॥त्वत्तः ज्ञानं हि जीवानां प्रमोषः ते अत्र शक्तितः । त्वं एव हि आत्म मायाया गतिं वेत्थ न च अपरः ॥ 28॥श्रीभगवान् उवाच । प्रकृतिः पुरुषः च इति विकल्पः पुरुषर्षभ । एषः वैकारिकः सर्गः गुणव्यतिकरात्मकः ॥ 29॥मम अंग माया गुणमयी अनेकधा विकल्पबुद्धीः च गुणैः विधत्ते । वैकारिकः त्रिविधः अध्यात्मं एकम् अथ अधिदैवं अधिभूतं अन्यत् ॥ 30॥दृक् रूपं आर्कं वपुः अत्र रंध्रे परस्परं सिध्यति यः स्वतः खे । आत्मा यत् एषं अपरः यः आद्यः स्वया अनुभूत्य अखिलसिद्धसिद्धिः । एवं त्वक् आदि श्रवणादि चक्षुः जिह्व आदि नास आदि च चित्तयुक्तम् ॥ 31॥यः असौ गुणक्षोभकृतौ विकारः प्रधानमूलात् महतः प्रसूतः । अहं त्रिवृत् मोहविकल्पहेतुः वैकारिकः तामसः ऐंद्रियः च ॥ 32॥आत्मापरिज्ञानमयः विवादः हि अस्ति इति न अस्ति इति भिदार्थनिष्ठः । व्यर्थः अपि न एव उपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् ॥ 33॥उद्धवः उवाच । त्वत्तः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो । उच्च अवचान् यथा देहान् गृह्णंति विसृजंति च ॥ 34॥तत् मम आख्याहि गोविंद दुर्विभाव्यं अनात्मभिः । न हि एतत् प्रायशः लोके विद्वांसः संति वंचिताः ॥ 35॥श्रीभगवान् उवाच । मनः कर्ममयं नृणां इंद्रियैः पंचभिः युतम् । लोकात् लोकं प्रयाति अन्यः आत्मा तत् अनुवर्तते ॥ 36॥ध्यायन् मनः अनुविषयान् दृष्टान् वा अनुश्रुतान् अथ । उद्यत् सीदत् कर्मतंत्रं स्मृतिः तत् अनुशाम्यति ॥ 37॥विषय अभिनिवेशेन न आत्मानं यत् स्मरेत् पुनः । जंतोः वै कस्यचित् हेतोः मृत्युः अत्यंतविस्मृतिः ॥ 38॥जन्म तु आत्मतया पुंसः सर्वभावेन भूरिद । विषय स्वीकृतिं प्राहुः यथा स्वप्नमनोरथः ॥ 39॥स्वप्नं मनोरथं च इत्थं प्राक्तनं न स्मरति असौ । तत्र पूर्वं इव आत्मानं अपूर्वं च अनुपश्यति ॥ 40॥इंद्रिय आयन सृष्ट्या इदं त्रैविध्यं भाति वस्तुनि । बहिः अंतः भिदाहेतुः जनः असत् जनकृत् यथा ॥ 41॥नित्यदा हि अंगः भूतानि भवंति न भवंति च । कालेन अल्क्ष्यवेगेन सूक्ष्मत्वात् तत् न दृश्यते ॥ 42॥यथा अर्चिषां स्रोतसां च फलानां वा वनस्पतेः । तथा एव सर्वभूतानां वयः अवस्था आदयः कृताः ॥ 43॥सः अयं दीपः अर्चिषां यद्वत् स्रोतसां तत् इदं जलम् । सः अयं पुमान् इति नृणां मृषाः गीः धीः मृषा आयुषाम् ॥ 44॥मा स्वस्य कर्मबीजेन जायते सः अपि अयं पुमान् । म्रियते वामरः भ्रांत्या यथा अग्निः दारु संयुतः ॥ 45॥निषेकगर्भजन्मानि बाल्यकौमारयौवनम् । वयोमध्यं जरा मृत्युः इति अवस्थाः तनोः नव ॥ 46॥एताः मनोरथमयीः हि अन्यस्य उच्चावचाः तनूः । गुणसंगात् उपादत्ते क्वचित् कश्चित् जहाति च ॥ 47॥आत्मनः पितृपुत्राभ्यां अनुमेयौ भवाप्ययौ । न भवाप्ययवस्तूनां अभिज्ञः द्वयलक्षणः ॥ 48॥तरोः बीजविपाकाभ्यां यः विद्वात् जन्मसंयमौ । तरोः विलक्षणः द्रष्टा एवं द्रष्टा तनोः पृथक् ॥ 49॥प्रकृतेः एवं आत्मानं अविविच्य अबुधः पुमान् । तत्त्वेन स्पर्शसंमूढः संसारं प्रतिपद्यते ॥ 50॥सत्त्वसंगात् ऋषीन् देवान् रजसा असुरमानुषान् । तमसा भूततिर्यक्त्वं भ्रामितः याति कर्मभिः ॥ 51॥नृत्यतः गायतः पश्यन् यथा एव अनुकरोति तान् । एवं बुद्धिगुणान् पश्यन् अनीहः अपि अनुकार्यते ॥ 52॥यथा अंभसा प्रचलता तरवः अपि चलाः इव । चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमति इव भूः ॥ 53॥यथा मनोरथधियः विषयानुभवः मृषा । स्वप्नदृष्टाः च दाशार्ह तथा संसारः आत्मनः ॥ 54॥अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते । ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा ॥ 55॥तस्मात् उद्धव मा भुंक्ष्व विषयान् असत् इंद्रियैः । आत्मा अग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम् ॥ 56॥क्षिप्तः अवमानितः असद्भिः प्रलब्धः असूयितः अथवा । ताडितः संनिबद्धः वा वृत्त्या वा परिहापितः ॥ 57॥निष्ठितः मूत्रितः बहुधा एवं प्रकंपितः । श्रेयस्कामः कृच्छ्रगतः आत्मना आत्मानं उद्धरेत् ॥ 58॥उद्धवः उवाच । यथा एवं अनुबुद्ध्येयं वद नः वदतां वर । सुदुःसहं इमं मन्यः आत्मनि असत् अतिक्रमम् ॥ 59॥विदुषं अपि विश्वात्मन् प्रकृतिः हि बलीयसी । ऋते त्वत् धर्मनिरतान् शांताः ते चरणालयान् ॥ 60॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे भगवदुद्धवसंवादे द्वाविंशोऽध्यायः ॥ 22॥अथ त्रयोविंशः अध्यायः । बादरायणिः उवाच । सः एवं आशंसितः उद्धवेन भागवतमुख्येन दाशार्हमुख्यः । सभाजयन् बृत्यवचः मुकुंदः तं आबभाषे श्रवणीयवीर्यः ॥ 1॥श्रीभगवान् उवाच । बर्हस्पत्य सः वै न अत्र साधुः वै दुर्जन् ईरितैः । दुरुक्तैः भिन्नं आत्मानं यः समाधातुं ईश्वरः ॥ 2॥न तथा तप्यते विद्धः पुमान् बाणैः सुमर्मगैः । यथा तुदंति मर्मस्थाः हि असतां परुषेषवः ॥ 3॥कथयंति महत्पुण्यं इतिहासं इह उद्धव । तं अहं वर्णयिष्यामि निबोध सुसमाहितः ॥ 4॥केनचित् भिक्षुणा गीतं परिभूतेन दुर्जनैः । स्मरताः धृतियुक्तेन विपाकं निजकर्मणाम् ॥ 5॥अवनिषु द्विजः कश्चित् आसीत् आढ्यतमः श्रिया । वार्तावृत्तिः कदर्यः तु कामी लुब्धः अतिकोपनः ॥ 6॥ज्ञातयः अतिथयः तस्य वाङ्मात्रेण अपि न अर्चिताः । शून्य अवसथः आत्मा अपि काले कामैः अनर्चितः ॥ 7॥दुःशीलस्य कदर्यस्य द्रुह्यंते पुत्रबांधवाः । दारा दुहितरः भृत्याः विषण्णाः न आचरन् प्रियम् ॥ 8॥तस्य एवं यक्षवित्तस्य च्युतस्य उभयलोकतः । धर्मकामविहीनस्य चुक्रुधुः पंचभागिनः ॥ 9॥तत् अवध्यान विस्रस्त पुण्य स्कंधस्य भूरिद । अर्थः अपि अगच्छन् निधनं बहु आयास परिश्रमः ॥ 10॥ज्ञातयः जगृहुः किंचित् किंचित् अस्यवः उद्धव । दैवतः कालतः किंचित् ब्रह्मबंधोः नृपार्थिवात् ॥ 11॥सः एवं द्रविणे नष्टे धर्मकामविवर्जितः । उपेक्षितः च स्वजनैः चिंतां आप दुरत्ययाम् ॥ 12॥तस्य एवं ध्यायतः दीर्घं नष्टरायः तपस्विनः । खिद्यतः बाष्पकंठस्य निर्वेदः सुमहान् अभूत् ॥ 13॥सः च आह इदं अहो कष्टं वृथा आत्मा मे अनुतापितः । न धर्माय न कामाय यस्य अर्थ आयासः ईदृशः ॥ 14॥प्रायेण अर्थाः कदर्याणां न सुखाय कदाचन । इह च आत्मोपतापाय मृतस्य नरकाय च ॥ 15॥यशः यशस्विनां शुद्धं श्लाघ्याः ये गुणिनां गुणाः । लोभः स्वल्पः अपि तान् हंति श्वित्रः रूपं इव इप्सितम् ॥ 16॥अर्थस्य साधने सिद्धः उत्कर्षे रक्षणे व्यये । नाश उपभोगः आयासः त्रासः चिंता भ्रमः नृणाम् ॥ 17॥स्तेयं हिंसा अनृतं दंभः कामः क्रोधः स्मयः मदः । भेदः वैरं अविश्वासः संस्पर्धा व्यसनानि च ॥ 18॥एते पंचदशान् अर्थाः हि अर्थमूलाः मताः नृणाम् । तस्मात् अनर्थं अर्थाख्यं श्रेयः अर्थी दूरतः त्यजेत् ॥ 19॥भिद्यंते भ्रातरः दाराः पितरः सुहृदः तथा । एकास्निग्धाः काकिणिना सद्यः सर्वे अरयः कृताः ॥ 20॥अर्थेन अल्पीयसा हि एते संरब्धा दीप्तं अन्यवः । त्यजंति आशु स्पृधः घ्नंति सहसा उत्सृज्य सौहृदम् ॥21॥लब्ध्वा जन्म अमरप्रार्थ्यं मानुष्यं तत् द्विज अग्र्यताम् । तत् अनादृत्य ये स्वार्थं घ्नंति यांति अशुभां गतिम् ॥22॥स्वर्ग अपवर्गयोः द्वारं प्राप्य लोकं इमं पुमान् । द्रविणे कः अनूषज्जेत मर्त्यः अनर्थस्य धामनि ॥ 23॥देवर्षि पितृ भूतानि ज्ञातीन् बंधून् च भागिनः । असंविभज्य च आत्मानं यक्षवित्तः पतति अधः ॥ 24॥व्यर्थया अर्थेहया वित्तं प्रमत्तस्य वयः बलम् । कुशलाः येन सिध्यंति जरठः किं नु साधये ॥ 25॥कस्मात् संक्लिश्यते विद्वान् व्यर्थया अर्थेहया असकृत् । कस्यचित् मायया नूनं लोकः अयं सुविमोहितः ॥ 26॥किं धनैः धनदैः वा किं कामैः वा कामदैः उत । मृत्युना ग्रस्यमानस्य कर्मभिः वा उत जन्मदैः ॥ 27॥नूनं मे भगवान् तुष्टः सर्वदेवमयः हरिः । येन नीतः दशां एतां निर्वेदः च आत्मनः प्लवः ॥ 28॥सः अहं कलौ अशेषेण शोषयिह्ह्ये अंगं आत्मनः । अप्रमत्तः अखिलस्वार्थे यदि स्यात् सिद्धः आत्मनि ॥ 29॥तत्र मां अनुमोदेरन् देवाः त्रिभुवनेश्वराः । मुहूर्तेन ब्रह्मलोकं खट्वांगः समसाधयत् ॥ 30॥श्रीभगवान् उवाच । इति अभिप्रेत्य मनसा हि आवंत्यः द्विजसत्तमः । उन्मुच्य हृदयग्रंथीन् शांतः भिक्षुः अभूत् मुनिः ॥ 31॥सः चचार महीं एतां संयत आत्मेंद्रिय अनिलः । भिक्षार्थं नगर ग्रामान् असंगः अलक्षितः अविशत् ॥ 32॥तं वै प्रवयसं भिक्षुं अवधूतं असज्जनाः । दृष्ट्वा पर्यभवन् भद्रः बह्वीभिः परिभूतिभिः ॥ 33॥केचित् त्रिवेणुं जगृहुः एके पात्रं कमंडलुम् । पीठं च एके अक्षसूत्रं च कंथां चीराणि केचन ॥ 34॥प्रदाय च पुनः तानि दर्शितानि आददुः मुनेः । अन्नं च भैक्ष्यसंपन्नं भुंजानस्य सरित् तटे ॥ 35॥मूत्रयंति च पापिष्ठाः ष्ठीवंति अस्य च मूर्धनि । यतवाचं वाचयंति ताडयंति न वक्ति चेत् ॥ 36॥तर्जयंति अपरे वाग्भिः स्तेनः अयं इति वादिनः । बध्नंति रज्ज्वा तं केचित् बध्यतां बध्यतां इति ॥ 37॥क्षिपंति एके अवजानंतः एषः धर्मध्वजः शठः । क्षीणवित्तः इमां वृत्तिं अग्रहीत् स्वजन उज्झितः ॥ 38॥अहो एषः महासारः धृतिमान् गिरिः आडिव । मौनेन साधयति अर्थं बकवत् दृढनिश्चयः ॥ 39॥इति एके विहसंति एनं एके दुर्वातयंति च । तं बबंधुः निरुरुधुः यथा क्रीडनकं द्विजम् ॥ 40॥एवं सः भौतिकं दुःखं दैविकं दैहिकं च यत् । भोक्तव्यं आत्मनः दिष्टं प्राप्तं प्राप्तं अबुध्यत ॥ 41॥परिभूतः इमां गाथां अगायत नराधमैः । पातयद्भिः स्वधर्मस्थः धृतिं आस्थाय सात्विकीम् ॥ 42॥द्विजः उवाच । न अयं जनः मे सुखदुःखहेतुः न देवतात्मा ग्रहकर्मकालाः । मनः परं कारणं आमनंति संसारचक्रं परिवर्तयेत् यत् ॥ 43॥मनः गुणान् वै सृजते बलीयः ततः च कर्माणि विलक्षणानि । शुक्लानि कृष्णानि अथ लोहितानि तेभ्यः सवर्णाः सृतयः भवंति ॥ 44॥अनीहः आत्मा मनसा समीहता हिरण्मयः मत्सखः उद्विचष्टे । मनः स्वलिंगं परिगृह्य कामान् जुषन् निबद्धः गुणसंगतः असौ ॥ 45॥दानं स्वधर्मः नियमः यमः च श्रुतं च कर्माणि च सद्व्रतानि । सर्वे मनोनिग्रहलक्षणांताः परः हि योगः मनसः समाधि ॥ 46॥समाहितं यस्य मनः प्रशांतम् दानादिभिः किं वद तस्य कृत्यम् । असंयतं यस्य मनः विनश्यत् दानादिभिः चेत् अपरं किमेभिः ॥ 47॥मनोवशे अन्ये हि अभवन् स्म देवाः मनः च न अन्यस्य वशं समेति । भीष्मः हि देवः सहसः सहीयान् युंज्यात् वशे तं सः हि देवदेवः ॥ 48॥तं दुर्जयं शत्रुं असह्यवेगं मरुंतुदं तत् न विजित्य केचित् । कुर्वंति असत् विग्रहं अत्र मर्त्यैः मित्राणि उदासीन रिपून् विमूढाः ॥ 49॥देहं मनोमात्रं इमं गृहीत्वा मम अहं इति अंध धियः मनुष्याः । एषः अहं अन्यः अयं इति भ्रमेण दुरंतपारे तमसि भ्रमंति ॥ 50॥जनः तु हेतुः सुखदुःखयोः चेत् किं आत्मनः च अत्र ह भौमयोः तत् । जिह्वां क्वचित् संदशति स्वदद्भिः तत् वेदनायां कतमाय कुप्येत् ॥ 51॥दुःखस्य हेतुः यदि देवताः तु किं आत्मनः तत्र विकारयोः तत् । यत् अंगं अंगेन निहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ 52॥आत्मा यदि स्यात् सुखदुःखहेतुः किं अन्यतः तत्र निजस्वभावः । न हि आत्मनः अन्यत् यदि तत् मृषा स्यात् क्रुध्येत कस्मात् न सुखं न दुःखम् ॥ 53॥ग्रहाः निमित्तं सुखदुःखयोः चेत् किं आत्मनः अजस्य जनस्य ते वै । ग्रहैः ग्रहस्य एव वदंति पीडाम् क्रुध्येत कस्मै पुरुषः ततः अन्यः ॥ 54॥कर्माः तु हेतुः सुखदुःखयोः चेत् किं आत्मनः तत् हि जडाजडत्वे । देहः तु अचित्पुरुषः अयं सुपर्णः क्रुध्येत कस्मै न हि कर्ममूलम् ॥ 55॥कालः तु हेतुः सुखदुःखयोः चेत् किं आत्मनः तत्र तत् आत्मकः असौ । न अग्नेः हि तापः न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य द्वंद्वम् ॥ 56॥न केनचित् क्व अपि कथंचन अस्य द्वंद्व उपरागः परतः परस्य । यथाहमः संसृतिरूपिणः स्यात् एवं प्रबुद्धः न बिभेति भूतैः ॥ 57॥एतां सः आस्थाय परात्मनिष्ठाम् अध्यासितां पूर्वतमैः महर्षिभिः । अहं तरिष्यामि दुरंतपारम् तमः मुकुंद अंघ्रिनिषेवया एव ॥ 58॥श्रीभगवान् उवाच । निर्विद्य नष्टद्रविणः गतक्लमः प्रव्रज्य गां पर्यटमानः इत्थम् । निराकृतः असद्भिः अपि स्वधर्मात् अकंपितः अमुं मुनिः आह गाथाम् ॥ 59॥सुखदुःखप्रदः न अन्यः पुरुषस्य आत्मविभ्रमः । मित्र उदासीनरिपवः संसारः तमसः कृतः ॥ 60॥तस्मात् सर्वात्मना तात निगृहाण मनो धिया । मयि आवेशितया युक्तः एतावान् योगसंग्रहः ॥ 61॥यः एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः । धारयन् श्रावयन् श्रुण्वन् द्वंद्वैः न एव अभिभूयते ॥ 62॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे भगवदुद्धवसंवादे बिक्षुगीतनिरूपणं नाम त्रयोविंशोऽध्यायः ॥ 23॥अथ चतुर्विंशोऽध्याः । श्रीभगवान् उवाच । अथ ते संप्रवक्ष्यामि सांख्यं पूर्वैः विनिश्चितम् । यत् विज्ञाय पुमान् सद्यः जह्यात् वैकल्पिकं भ्रमम् ॥ 1॥आसीत् ज्ञानं अथः हि अर्थः एकं एव अविकल्पितम् । यदा विवेकनिपुणाः आदौ कृतयुगे अयुगे ॥ 2॥तत् मायाफलरूपेण केवलं निर्विकल्पितम् । वाङ्मनः अगोचरं सत्यं द्विधा समभवत् बृहत् ॥ 3॥तयोः एकतरः हि अर्थः प्रकृतिः सोभयात्मिका । ज्ञानं तु अन्यतरः भावः पुरुषः सः अभिधीयते ॥ 4॥तमः रजः सत्त्वं इति प्रकृतेः अभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुष अनुमतेन च ॥ 5॥तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः । ततः विकुर्वतः जातः यः अहंकारः विमोहनः ॥ 6॥वैकारिकः तैजसः च तामसः च इति अहं त्रिवृत् । तन्मात्र इंद्रिय मनसां कारणं चित् अचित् मयः ॥ 7॥अर्थः तन्मात्रिकात् जज्ञे तामसात् इंद्रियाणि च । तैजसात् देवताः आसन् एकादश च वैकृतात् ॥ 8॥मया संचोदिताः भावाः सर्वे संहति अकारिणः । अंडं उत्पादयामासुः मम आयतनं उत्तमम् ॥ 9॥तस्मिन् अहं समभवं अंडे सलिलसंस्थितौ । मम नाभ्यां अभूत् पद्मं विश्वाख्यं तत्र च आत्मभूः ॥10॥सः असृजत् तपसा युक्तः रजसा मत् अनुग्रहात् । लोकान् सपालान् विश्वात्मा भूः भुवः स्वः इति त्रिधा ॥ 11॥देवानां ओकः आसीत् स्वः भूतानां च भुवः पदम् । मर्त्य आदीनां च भूः लोकः सिद्धानां त्रितयात् परम् ॥12॥अधः असुराणां नागानां भूमेः ओकः असृजत् प्रभुः । त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुण आत्मनाम् ॥ 13॥योगस्य तपसः च एव न्यासस्य गतयः अमलाः । महः जनः तपः सत्यं भक्तियोगस्य मद्गतिः ॥ 14॥मया कालात्मना धात्रा कर्मयुक्तं इदं जगत् । गुणप्रवाहः एतस्मिन् उन्मज्जति निमज्जति ॥ 15॥अणुः बृहत् कृशः स्थूलः यः यः भावः प्रसिध्यति । सर्वः अपि उभयसंयुक्तः प्रकृत्या पुरुषेण च ॥ 16॥यः तु यस्य आदिः अंतः च सः वै मध्यं च तस्य सन् । विकारः व्यवहारार्थः यथा तैजस पार्थिवाः ॥ 17॥यत् उपादाय पूर्वः तु भावः विकुरुते अपरम् । आदिः अंतः यदा यस्य तत् सत्यं अभिधीयते ॥ 18॥प्रकृतिः हि अस्य उपादानं आधारः पुरुषः परः । सतः अभिव्यंजकः कालः ब्रह्म तत् त्रितयं तु अहम् ॥ 19॥सर्गः प्रवर्तते तावत् पौर्व अपर्येण नित्यशः । महान् गुणविसर्ग अर्थः स्थिति अंतः यावत् ईक्षणम् ॥ 20॥विराट् मया आसाद्यमानः लोककल्पविकल्पकः । पंचत्वाय विशेषाय कल्पते भुवनैः सह ॥ 21॥अन्ने प्रलीयते मर्त्यं अन्नं धानासु लीयते । धानाः भूमौ प्रलीयंते भूमिः गंधे प्रलीयते ॥ 22॥अप्सु प्रलीयंते गंधः आपः च स्वगुणे रसे । लीयते ज्योतिषि रसः ज्योती रूपे प्रलीयते ॥ 23॥रूपं वायौ सः च स्पर्शे लीयते सः अपि च अंबरे । अंबरं शब्दतन्मात्रः इंद्रियाणि स्वयोनिषु ॥ 24॥योनिः वैकारिके सौम्य लीयते मनसि ईश्वरे । शब्दः भूतादिं अपि एति भूतादिः महति प्रभुः ॥ 25॥सः लीयते महान् स्वेषु गुणेषु गुणवत्तमः । ते अव्यक्ते संप्रलीयंते तत्कले लीयते अव्यये ॥ 26॥कालः मायामये जीवे जीवः आत्मनि मयि अजे । आत्मा केवलः आत्मस्थः विकल्प अपाय लक्षणः ॥ 27॥एवं अन्वीक्षमाणस्य कथं वैकल्पिकः भ्रमः । मनसः हृदि तिष्ठेत व्योम्नि इव अर्क उदये तमः ॥ 28॥एषः सांख्यविधिः प्रोक्तः संशयग्रंथिभेदनः । प्रतिलोम अनुलोमाभ्यां परावरदृशा मया ॥ 29॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे प्रकृतिपुरुषसांख्ययोगो नाम चतुर्विंशोऽध्यायः ॥ 24॥अथ पंचविंशोऽध्यायः । श्रीभगवानुवाच । गुणानां असमिश्राणां पुमान्येन यथा भवेत् । तन्मे पुरुषवर्य इअदं उपधारय शंसतः ॥ 1॥समः दमः तितिक्षा ईक्षा तपः सत्यं दया स्मृतिः । तुष्टिः त्यागः अस्पृहा श्रद्धा ह्रीः दया आदिः स्वनिर्वृतिः ॥ 2॥कामः ईहा मदः तृष्णा स्तंभः आशीः भिदा सुखम् । मद उत्साहः यशः प्रीतिः हास्यं वीर्यं बल उद्यमः ॥ 3॥क्रोधः लोभः अनृतं हिंसा यांचा दंभः क्लमः कलिः । शोकमोहौ विषादार्ती निद्रा आशा भीः अनुद्यमः ॥ 4॥सत्त्वस्य रजसः च एताः तमसः च अनुमूर्वशः । वृत्तयः वर्णितप्रायाः संनिपातं अथः श्रुणु ॥ 5॥संनिपातः तु अहं इति मम इति उद्धव या मतिः । व्यवहारः संनिपातः मनोमात्र इंद्रियासुभिः ॥ 6॥धर्मे च अर्थे च कामे च यदा असौ परिनिष्ठितः । गुणानां संनिकर्षः अयं श्रद्धाः अतिधनावहः ॥ 7॥प्रवृत्तिलक्षणे निष्ठा पुमान् यः हि गृहाश्रमे । स्वधर्मे च अनुतिष्ठेत गुणानां समितिः हि सा ॥ 8॥पुरुषं सत्त्वसंयुक्तं अनुमीयात् शम आदिभिः । कामादिभी रजोयुक्तं क्रोधाद्यैः तमसा युतम् ॥ 9॥यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः । तं सत्त्वप्रकृतिं विद्यात् पुरुषं स्त्रियं एव वा ॥ 10॥यदा आशिषः आशास्य मां भजेत स्वकर्मभिः । तं रजःप्रकृतिं विद्यात् हिंसां आशास्य तामसम् ॥ 11॥सत्त्वं रजः तमः इति गुणाः जीवस्य न एव मे । चित्तजा यैः तु भूतानां सज्जमानः निबध्यते ॥ 12॥यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् । तदा सुखेन युज्येत धर्मज्ञान आदिभिः पुमान् ॥ 13॥यदा जयेत् तमः सत्त्वं रजः संगं भिदा चलम् । तदा दुःखेन युज्येत कर्मणा यशसा श्रिया ॥ 14॥यदा जयेत् रजः सत्त्वं तमः मूढः लयं जडम् । युज्येत शोकमोहाभ्यां निद्रया हिंसया आशया ॥ 15॥यदा चित्तं प्रसीदेत इंद्रियाणां च निर्वृतिः । देहे अभयं मनोसंगं तत् सत्त्वं विद्धि मत्पदम् ॥ 16॥विकुर्वन् क्रियया च अधीर निर्वृतिः च चेतसाम् । गात्रास्वास्थ्यं मनः भ्रांतं रजः एतैः निशामय ॥ 17॥सीदत् चित्तं विलीयेत चेतसः ग्रहणे अक्षमम् । मनः नष्टं तमः ग्लानिः तमः तत् उपधारय ॥ 18॥एधमाने गुणे सत्त्वे देवानां बलं एधते । असुराणां च रजसि तमसि उद्धव रक्षसाम् ॥ 19॥सत्त्वात् जगरणं विद्यात् रजसा स्वप्नं आदिशेत् । प्रस्वापं तमसा जंतोः तुरीयं त्रिषु संततम् ॥ 20॥उपर्युपरि गच्छंति सत्त्वेन आब्रह्मणः जनाः । तमसा अधः अधः आमुख्यात् रजसा अंतरचारिणः ॥ 21॥सत्त्वे प्रलीनाः स्वः यांति नरलोकं रजोलयाः । तमोलयाः तु निरयं यांति मां एव निर्गुणाः ॥ 22॥मदर्पणं निष्फलं वा सात्विकं निजकर्म तत् । राजसं फलसंकल्पं हिंसाप्रायादि तामसम् ॥ 23॥कैवल्यं सात्विकं ज्ञानं रजः वैकल्पिकं च यत् । प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ 24॥वनं तु सात्विकः वासः ग्रामः राजसः उच्यते । तामसं द्यूतसदनं मन्निकेतनं तु निर्गुणम् ॥ 25॥सात्विकः कारकः असंगी रागांधः राजसः स्मृतः । तामसः स्मृतिविभ्रष्टः निर्गुणः मदपाश्रयः ॥ 26॥सात्त्विकी आध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी । तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ 27॥पथ्यं पूतं अनायः तं आहार्यं सात्त्विकं स्मृतम् । राजसं च इंद्रियप्रेष्ठं तामसं च आर्तिद अशुचि ॥ 28॥सात्त्विकं सुखं आत्मोत्थं विषयोत्थं तु राजसम् । तामसं मोहदैनोत्थं निर्गुणं मदपाश्रयम् ॥ 29॥द्रव्यं देशः फलं कालः ज्ञानं कर्म च कारकाः । श्रद्धा अवस्था आकृतिः निष्ठा त्रैगुण्यः सर्वः एव हि ॥30॥सर्वे गुणमयाः भावाः पुरुष अव्यक्त धिष्ठिताः ॥ 31॥एताः संसृतयः पुंसः गुणकर्मनिबंधनाः । येन इमे निर्जिताः सौम्य गुणाः जीवेन चित्तजाः । भक्तियोगेन मन्निष्ठः मद्भावाय प्रपद्यते ॥ 32॥तस्मात् अहं इमं लब्ध्वा ज्ञानविज्ञानसंभवम् । गुणसंगं विनिर्धूय मां भजंतु विचक्षणाः ॥ 33॥निःसंगः मां भजेत् विद्वान् अप्रमत्तः जितेंद्रियः । रजः तमः च अभिजयेत् सत्त्वसंसेवया मुनिः ॥ 34॥सत्त्वं च अभिजयेत् युक्तः नैरपेक्ष्येण शांतधीः । संपद्यते गुणैः मुक्तः जीवः जीवं विहाय माम् ॥ 35॥जीवः जीवविनिर्मुक्तः गुणैः च आशयसंभवैः । मया एव ब्रह्मणा पूर्णः न बहिः न अंतरः चरेत् ॥ 36॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे गुणनिर्गुणनिरूपणं नाम पंचविंशोऽध्यायः ॥ 25॥अथ षड्विंशोऽध्यायः । श्रीभगवान् उवाच । मत् लक्षणं इमं कायं लब्ध्वा मद्धर्मः आस्थितः । आनंदं परमात्मानं आत्मस्थं समुपैति माम् ॥1॥गुणमय्याः जीवयोन्याः विमुक्तः ज्ञाननिष्ठया । गुणेषु मायामात्रेषु दृश्यमानेषु अवस्तुतः । वर्तमानः अपि न पुमान् युज्यते अवस्तुभिः गुणैः ॥ 2॥संगं न कुर्यात् असतां शिश्न उदर तृपां क्वचित् । तस्य अनुगतः तमसि अंधे पतति अंध अनुगांधवत् ॥ 3॥ऐलः सम्राट् इमां गाथां अगायत बृहच्छ्रवाः । उर्वशी विरहात् मुह्यन् निर्विण्णः शोकसंयमे ॥ 4॥त्यक्त्वा आत्मानं व्रजंतीं तां नग्नः उन्मत्तवत् नृपः । विलपन् अन्वगात् जाये घोरे तिष्ठ इति विक्लवः ॥ 5॥कामान् अतृप्तः अनुजुषन् क्षुल्लकान् वर्षयामिनीः । न वेद यांतीः न अयांतीः उर्वशी आकृष्टचेअतनः ॥ 6॥ऐलः उवाच । अहो मे मोहविस्तारः कामकष्मलचेतसः । देव्याः गृहीतकंठस्य न आयुःखंडाः इमे स्मृताः ॥ 7॥न अहं वेद अभिनिर्मुक्तः सूर्यः वा अभ्युदितः अमुया । मुषितः वर्षपूगानां बत अहानि गतानि उत ॥ 8॥अहो मे आत्मसंमोहः येन आत्मा योषितां कृतः । क्रीडामृगः चक्रवर्ती नरदेवशिखामणिः ॥ 9॥सपरिच्छदं आत्मानं हित्वा तृणं इव ईश्वरम् । यांतीं स्त्रियं च अन्वगमं नग्नः उन्मत्तवत् रुदन् ॥ 10॥कुतः तस्य अनुभावः स्यात् तेजः ईशत्वं एव वा । यः अन्वगच्छं स्त्रियं यांतीं खरवत् पादताडितः ॥ 11॥किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा । किं विविक्तेन मौनेन स्त्रीभिः यस्य मनः हृतम् ॥ 12॥स्वार्थस्य अकोविदं धिङ् मां मूर्खं पंडित मानिनम् । यः अहं ईश्वरतां प्राप्य स्त्रीभिः गो खरवत् जितः ॥ 13॥सेवतः वर्षपूगात् मे उर्वश्यः अधरासवम् । न तृप्यति आत्मभूः कामः वह्निः आहुतिभिः यथा ॥ 14॥पुंश्चल्या अपहृतं चित्तं कोन्वन्यः मोचितुं प्रभुः । आत्मारामेश्वरं ऋते भगवंतं अधोक्षजम् ॥ 15॥बोधितस्य अपि देव्या मे सूक्तवाक्येन दुर्मतेः । मनोगतः महामोहः न अपयाति अजितात्मनः ॥ 16॥किं एतया नः अपकृतं रज्ज्वा वा सर्पचेतसः । रज्जुस्वरूप अविदुषः यः अहं यत् अजितेंद्रियः ॥ 17॥क्व अयं मलोमसः कायः दौर्गंधि आदि आत्मकः अशुचिः । क्व गुणाः सौमनस्य आद्याः हि अध्यासः अविद्यया कृतः ॥ 18॥पित्रोः किं स्वं नु भार्यायाः स्वामिनः अग्नेः श्वगृध्रयोः । किं आत्मनः किं सुहृदां इति यः न अवसीयते ॥ 19॥तस्मिन् कलेवरे अमेध्ये तुच्छनिष्ठे विषज्जते । अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः ॥ 20॥त्वङ् मांस रुधिर स्नायु मेदो मज्जा अस्थि संहतौ । विण्मूत्रपूये रमतां कृमीणां कियत् अंतरम् ॥ 21॥अथ अपि न उपसज्जेत स्त्रीषु स्त्रैणेषु च अर्थवित् । विषय इंद्रिय संयोगात् मनः क्षुभ्यति न अन्यथा ॥ 22॥अदृष्टात् अश्रुतात् भावात् न भावः उपजायते । असंप्रयुंजतः प्राणान् शाम्यति स्तिमितं मनः ॥ 23॥तस्मात् संगः न कर्तव्यः स्त्रीषु स्त्रैणेषु च इंद्रियैः । विदुषां च अपि अविश्रब्धः षड्वर्गः किमु मादृशाम् ॥24॥श्रीभगवान् उवाच । एवं प्रगायन् नृपदेवदेवः सः उर्वशीलोकं अथः विहाय । आत्मानं आत्मनि अवगम्य मां वै उपारमत् ज्ञानविधूतमोहः ॥ 25॥ततः दुःसंगं उत्सृज्य सत्सु सज्जेत बुद्धिमान् । संतः एतस्य छिंदंति मनोव्यासंगमुक्तिभिः ॥ 26॥संतः अनपेक्षाः मच्चित्ताः प्रशांताः समदर्शिनः । निर्ममाः निरहंकाराः निर्द्वंद्वाः निष्परिग्रहाः ॥ 27॥तेषु नित्यं महाभागः महाभागेषु मत्कथाः । संभवंति हिता नॄणां जुषतां प्रपुनंति अघम् ॥ 28॥ताः ये श्रुण्वंति गायंति हि अनुमोदंति च अदृताः । मत्पराः श्रद्दधानाः च भक्तिं विंदंति ते मयि ॥ 29॥भक्तिं लब्धवतः साधोः किं अन्यत् अवशिष्यते । मयि अनंतगुणे ब्रह्मणि आनंद अनुभव आत्मनि ॥ 30॥यथा उपश्रयमाणस्य भगवंतं विभावसुम् । शीतं भयं तमः अपि एति साधून् संसेवतः तथा ॥ 31॥निमज्ज्य उन्मज्ज्यतां घोरे भवाब्धौ परम अयनम् । संतः ब्रह्मविदः शांताः नौः दृढ इव अप्सु मज्जताम् ॥ 32॥अन्नं हि प्राणिनां प्राणः आर्तानां शरणं तु अहम् । धर्मः वित्तं नृणां प्रेत्य संतः अर्वाक् बिभ्यतः अरणम् ॥33॥संतः दिशंति चक्षूंषि बहिः अर्कः समुत्थितः । देवताः बांधवाः संतः संतः आत्मा अहं एव च ॥ 34॥वैतसेनः ततः अपि एवं उर्वश्या लोकनिःस्पृहः । मुक्तसंगः महीं एतां आत्मारामः चचार ह ॥ 35॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे ऐलगीतं नाम षड्विंशोऽध्यायः ॥ 26॥अथ सप्तविंशोऽध्यायः । उद्धवः उवाच । क्रियायोगं समाचक्ष्व भवत् आराधनं प्रभो । यस्मात् त्वां ये यथा अर्चंति सात्वताः सात्वतर्षभ ॥ 1॥एतत् वदंति मुनयः मुहुः निःश्रेयसं नृणाम् । नारदः भगवान् व्यासः आचार्यः अंगिरसः सुतः ॥ 2॥निःसृतं ते मुखांभोजाद्यत् आह भगवान् अजः । पुत्रेभ्यः भृगुमुख्येभ्यः देव्यै च भगवान् भवः ॥ 3॥एतत् वै सर्ववर्णानां आश्रमाणां च संमतम् । श्रेयसां उत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ 4॥एतत् कमलपत्राक्ष कर्मबंधविमोचनम् । भक्ताय च अनुरक्ताय ब्रूहि विश्वेश्वर ईश्वर ॥ 5॥श्रीभगवान् उवाच । नहि अंतः अनंतपारस्य कर्मकांडस्य च उद्धव । संक्षिप्तं वर्णयिष्यामि यथावत् अनुपूर्वशः ॥ 6॥वैदिकः तांत्रिकः मिश्रः इति मे त्रिविधः मखः । त्रयाणां ईप्सितेन एव विधिना मां समर्चयेत् ॥ 7॥यदा स्वनिगमेन उक्तं द्विजत्वं प्राप्य पूरुषः । यथा यजेत मां भक्त्या श्रद्धया तत् निबोध मे ॥ 8॥अर्चायां स्थंडिले अग्नौ वा सूर्ये वा अप्सु हृदि द्विजः । द्रव्येण भक्तियुक्तः अर्चेत् स्वगुरुं मां अमायया ॥ 9॥पूर्वं स्नानं प्रकुर्वीत धौतदंतः अंगशुद्धये । उभयैः अपि च स्नानं मंत्रैः मृद्ग्रहणादिना ॥ 10॥संध्या उपास्ति आदि कर्माणि वेदेन अचोदितानि मे । पूजां तैः कल्पयेत् सम्यक् संकल्पः कर्मपावनीम् ॥ 11॥शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमा अष्टविधा स्मृता ॥ 12॥चल अचल इति द्विविधा प्रतिष्ठा जीवमंदिरम् । उद्वास आवाहने न स्तः स्थिरायां उद्धव अर्चने ॥ 13॥अस्थिरायां विकल्पः स्यात् स्थंडिले तु भवेत् द्वयम् । स्नपनं तु अविलेप्यायां अन्यत्र परिमार्जनम् ॥ 14॥द्रव्यैः प्रसिद्ध्यैः मत् यागः प्रतिमादिषु अमायिनः । भक्तस्य च यथालब्धैः हृदि भावेन च एव हि ॥ 15॥स्नान अलंकरणं प्रेष्ठं अर्चायां एव तु उद्धव । स्थंडिले तत्त्वविन्यासः वह्नौ आज्यप्लुतं हविः ॥ 16॥सूर्ये च अभ्यर्हणं प्रेष्ठं सलिले सलिल आदिभिः । श्रद्धया उपाहृतं प्रेष्ठं भक्तेन मम वारि अपि ॥ 17॥भूर्यपि अभक्त उपहृतं न मे तोषाय कल्पते । गंधः धूपः सुमनसः दीपः अन्न आद्य च किं पुनः ॥ 18॥शुचिः संभृतसंभारः प्राक् दर्भैः कल्पित आसनः । आसीनः प्राक् उदक् वा अर्चेत् अर्चायां अथ संमुखः ॥ 19॥कृतन्यासः कृतन्यासां मदर्चां पाणिना मृजेत् । कलशं प्रोक्षणीयं च यथावत् उपसाधयेत् ॥ 20॥तत् अद्भिः देवयजनं द्रव्याणि आत्मानं एव च । प्रोक्ष्य पात्राणि त्रीणि अद्भिः तैः तैः द्रव्यैः च साधयेत् ॥ 21॥पाद्य अर्घ आचमनीयार्थं त्रीणि पात्राणि दैशिकः । हृदा शीर्ष्णा अथ शिखया गायत्र्या च अभिमंत्रयेत् ॥22॥पिंडे वायु अग्नि संशुद्धे हृत्पद्मस्थां परां मम । अण्वीं जीवकलां ध्यायेत् नाद अंते सिद्धभाविताम् ॥ 23॥तया आत्मभूतया पिंडे व्याप्ते संपूज्य तन्मयः । आवाह्य अर्च आदिषु स्थाप्य न्यस्त अंगं मां प्रपूजयेत् ॥24॥पाद्य उपस्पर्श अर्हण आदीन् उपचारान् प्रकल्पयेत् । धर्मादिभिः च नवभिः कल्पयित्वा आसनं मम ॥ 25॥पद्मं अष्टदलं तत्र कर्णिकाकेसर उज्ज्वलम् । उभाभ्यां वेदतंत्राभ्यां मह्यं तु उभयसिद्धये ॥ 26॥सुदर्शनं पांचजन्यं गदासीषुधनुः हलान् । मुसलं कौस्तुभं मालां श्रीवत्सं च अनुपूजयेत् ॥ 27॥नंदं सुनंदं गरुडं प्रचंडं चंडं एव च । महाबलं बलं च एव कुमुदं कुमुदेक्षणम् ॥ 28॥दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् । स्वे स्वे स्थाने तु अभिमुखान् पूजयेत् प्रोक्षण आदिभिः ॥ 29॥चंदन उशीर कर्पूर कुंकुम अगरु वासितैः । सलिलैः स्नापयेत् मंत्रैः नित्यदा विभवे सति ॥ 30॥स्वर्णघर्म अनुवाकेन महापुरुषविद्यया । पौरुषेण अपि सूक्तेन सामभीः राजनादिभिः ॥ 31॥वस्त्र उपवीत आभरण पत्र स्रक् गंध लेपनैः । अलंकुर्वीत सप्रेम मद्भक्तः मां यथा उचितम् ॥ 32॥पाद्यं आचमनीयं च गंधं सुमनसः अक्षतान् । धूप दीप उपहार्याणि दद्यात् मे श्रद्धया अर्चकः ॥ 33॥गुडपायससर्पींषि शष्कुलि आपूप मोदकान् । संयाव दधि सूपां च नैवेद्यं सति कल्पयेत् ॥ 34॥अभ्यंग उन्मर्दन आदर्श दंतधौ अभिषेचनम् । अन्नद्य गीत नृत्यादि पर्वणि स्युः उतान्वहम् ॥ 35॥विधिना विहिते कुंडे मेखलागर्तवेदिभिः । अग्निं आधाय परितः समूहेत् पाणिना उदितम् ॥ 36॥परिस्तीर्य अथ पर्युक्षेत् अन्वाधाय यथाविधि । प्रोक्षण्या आसाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ 37॥तप्तजांबूनदप्रख्यं शंखचक्रगदांबुजैः । लसत् चतुर्भुजं शांतं पद्मकिंजल्कवाससम् ॥ 38॥स्फुरत् किरीट कटक कटिसूत्रवर अंगदम् । श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् ॥ 39॥ध्यायन् अभ्यर्च्य दारूणि हविषा अभिघृतानि च । प्रास्य आज्यभागौ आघारौ दत्त्वा च आज्यप्लुतं हविः ॥ 40॥जुहुयात् मूलमंत्रेण षोडशर्च अवदानतः । धर्मादिभ्यः यथान्यायं मंत्रैः स्विष्टिकृतं बुधः ॥ 41॥अभ्यर्च्य अथ नमस्कृत्य पार्षदेभ्यः बलिं हरेत् । मूलमंत्रं जपेत् ब्रह्म स्मरन् नारायण आत्मकम् ॥ 42॥दत्त्वा आचमनं उच्छेषं विष्वक्सेनाय कल्पयेत् । मुखवासं सुरभिमत् तांबूलाद्यं अथ अर्हयेत् ॥ 42॥उपगायन् गृणन् नृत्यन् कर्माणि अभिनयन् मम । मत्कथाः श्रावयन् श्रुण्वन् मुहूर्तं क्षणिकः भवेत् ॥ 44। स्तवैः उच्चावचैः स्तोत्रैः पौराणैः प्रकृतैः अपि । स्तुत्वा प्रसीद भगवन् इति वंदेत दंडवत् ॥ 45॥शिरः मत् पादयोः कृत्वा बाहुभ्यां च परस्परम् । प्रपन्नं पाहि मां ईश भीतं मृत्युग्रह अर्णवात् ॥ 46॥इति शेषां मया दत्तां शिरसि आधाय सादरम् । उद्वासयेत् चेत् उद्वास्यं ज्योतिः ज्योतिषि तत् पुनः ॥ 47॥अर्चादिषु यदा यत्र श्रद्धा मां तत्र च अर्चयेत् । सर्वभूतेषु आत्मनि च सर्व आत्मा अहं अवस्थितः ॥ 48॥एवं क्रियायोगपथैः पुमान् वैदिकतांत्रिकैः । अर्चन् उभयतः सिद्धिं मत्तः विंदति अभीप्सिताम् ॥ 49॥मदर्चां संप्रतिष्ठाप्य मंदिरं कारयेत् दृढम् । पुष्प उद्यानानि रम्याणि पूजा यात्रा उत्सव आश्रितान् ॥ 50॥पूजादीनां प्रवाहार्थं महापर्वसु अथ अन्वहम् । क्षेत्रापणपुरग्रामान् दत्त्वा मत् सार्ष्टितां इयात् ॥ 51॥प्रतिष्ठया सार्वभौमंसद्मना भुवनत्रयम् । पूजादिना ब्रह्मलोकं त्रिभिः मत् साम्यतां इयात् ॥ 52॥मां एव नैरपेक्ष्येण भक्तियोगेन विंदति । भक्तियोगं सः लभते एवं यः पूजयेत माम् ॥ 53॥यः स्वदत्तां परैः दत्तं हरेत सुरविप्रयोः । वृत्तिं सः जायते विड्भुक् वर्षाणां अयुतायुतम् ॥ 54॥कर्तुः च सारथेः हेतोः अनुमोदितुः एव च । कर्मणां भागिनः प्रेत्य भूयः भूयसि तत्फलम् ॥ 55॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे सप्तविंशोऽध्यायः ॥ 27॥अथ अष्टविंशः अध्यायः । श्रीभगवान् उवाच । परस्वभावकर्माणि न प्रशंसेत् न गर्हयेत् । विश्वं एकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ 1॥परस्वभावकर्माणि यः प्रशंसति निंदति । सः आशु भ्रश्यते स्वार्थात् असत्य अभिनिवेशतः ॥ 2॥तैजसे निद्रया आपन्ने पिंडस्थः नष्टचेतनः । मायां प्राप्नोति मृत्युं वा तद्वत् नानार्थदृक् पुमान् ॥ 3॥किं भद्रं किं अभद्रं वा द्वैतस्य अवस्तुनः कियत् । वाचा उदितं तत् अनृतं मनसा ध्यातं एव च ॥ 4॥छायाप्रत्याह्वयाभासा हि असंतः अपि अर्थकारिणः । एवं देहादयः भावाः यच्छंति आमृत्युतः भयम् ॥ 5॥आत्मा एव तत् इदं विश्वं सृज्यते सृजति प्रभुः । त्रायते त्राति विश्वात्मा ह्रियते हरति ईश्वरः ॥ 6॥तस्मात् नहि आत्मनः अन्यस्मात् अन्यः भावः निरूपितः । निरूपितेयं त्रिविधा निर्मूला भातिः आत्मनि । इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ 7॥एतत् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् । न निंदति न च स्तौति लोके चरति सूर्यवत् ॥ 8॥प्रत्यक्षेण अनुमानेन निगमेन आत्मसंविदा । आदि अंतवत् असत् ज्ञात्वा निःसंगः विचरेत् इह ॥ 9॥उद्धवः उवाच । न एव आत्मनः न देहस्य संसृतिः द्रष्टृदृश्ययोः । अनात्मस्वदृशोः ईश कस्य स्यात् उपलभ्यते ॥ 10॥आत्मा अव्ययः अगुणः शुद्धः स्वयंज्योतिः अनावृतः । अग्निवत् दारुवत् देहः कस्य इह संसृतिः ॥ 11॥श्रीभगवान् उवाच । यावत् देह इंद्रिय प्राणैः आत्मनः संनिकर्षणम् । संसारः फलवान् तावत् अपार्थः अपि अविवेकिनः ॥ 12॥अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते । ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा ॥ 13॥यथा हि अप्रतिबुद्धस्य प्रस्वापः बहु अनर्थभृत् । सः एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ 14॥शोक हर्ष भय क्रोध लोभ मोह स्पृहादयः । अहंकारस्य दृश्यंते जन्म मृत्युः च न आत्मनः ॥ 15॥देह इंद्रिय प्राण मनः अभिमानः जीवः अंतरात्मा गुणकर्म मूर्तिः । सूत्रं महान् इति उरुधा इव गीतः संसारः आधावति कालतंत्रः ॥ 16॥अमूलं एतत् बहुरूप रूपितं मनोवचःप्राणशरीरकर्म । ज्ञानासिना उपासनया शितेन छित्त्वा मुनिः गां विचरति अतृष्णः ॥ 17॥ज्ञानं विवेकः निगमः तपः च प्रत्यक्षं ऐतिह्यं अथ अनुमानम् । आदि अंतयोः अस्य यत् एव केवलम् कालः च हेतुः च तत् एव मध्ये ॥ 18॥यथा हिरण्यं स्वकृतं पुरस्तात् पश्चात् च सर्वस्य हिरण्मयस्य । तत् एव मध्ये व्यवहार्यमाणम् नानापदेशैः अहं अस्य तद्वत् ॥ 19॥विज्ञानं एतत् त्रियवस्तं अंग गुणत्रयं कारण कार्य कर्तृ । समन्वयेन व्यतिरेकतः च येन एव तुर्येण तत् एव सत्यम् ॥ 20॥न यत् पुरस्तात् उत यत् न पश्चात् मध्ये च तत् न व्यपदेशमात्रम् । भूतं प्रसिद्धं च परेण यद्यत् तत् एव तत् स्यात् इति मे मनीषा ॥ 21॥अविद्यमानः अपि अवभासते यः वैकारिकः राजससर्गः एषः । ब्रह्म स्वयंज्योतिः अतः विभाति ब्रह्म इंद्रिय अर्थ आत्म विकार चित्रम् ॥ 22॥एवं स्फुटं ब्रह्मविवेकहेतुभिः परापवादेन विशारदेन । छित्त्वा आत्मसंदेहं उपारमेत स्वानंदतुष्टः अखिल कामुकेभ्यः ॥ 23॥न आत्मा वपुः पार्थिवं इंद्रियाणि देवाः हि असुः वायुजलं हुताशः । मनः अन्नमात्रं धिषणा च सत्त्वम् अहंकृतिः खं क्षितिः अर्थसाम्यम् ॥ 24॥समाहितैः कः करणैः गुणात्मभिः गुणः भवेत् मत्सुविविक्तधाम्नः । विक्षिप्यमाणैः उत किं न दूषणम् घनैः उपेतैः विगतैः रवेः किम् ॥ 25॥यथा नभः वायु अनल अंबु भू गुणैः गतागतैः वर्तुगुणैः न सज्जते । तथा अक्षरं सत्त्व रजः तमः मलैः अहंमतेः संसृतिहेतुभिः परम् ॥ 26॥तथापि संगः परिवर्जनीयः गुणेषु मायारचितेषु तावत् । मद्भक्तियोगेन दृढेन यावत् रजः निरस्येत मनःकषायः ॥ 27॥यथा आमयः असाधु चिकित्सितः नृणाम् पुनः पुनः संतुदति प्ररोहन् । एवं मनः अपक्व कषय कर्म कुयोगिनं विध्यति सर्वसंगम् ॥ 28॥कुयोगिनः ये विहित अंतरायैः मनुष्यभूतैः त्रिदश उपसृष्टैः । ते प्राक्तन अभ्यासबलेन भूयः युंजंति योगं न तु कर्मतंत्रम् ॥ 29॥करोति कर्म क्रियते च जंतुः केनापि असौ चोदितः आनिपातात् । न तत्र विद्वान्प्रकृतौ स्थितः अपि निवृत्त तृष्णः स्वसुख अनुभूत्या ॥ 30॥तिष्ठंतं आसीनं उत व्रजंतम् शयानं उक्षंतं अदंतं अन्नम् । स्वभावं अन्यत् किं अपि इहमानम् आत्मानं आत्मस्थमतिः न वेद ॥ 31॥यदि स्म पश्यति असत् इंद्रिय अथ नाना अनुमानेन विरुद्धं अन्यत् । न मन्यते वस्तुतया मनीषी स्वाप्नं यथा उत्थाय तिरोदधानम् ॥ 32॥पूर्वं गृहीतं गुणकर्मचित्रम् अज्ञानं आत्मनि अविविक्तं अंग । निवर्तते तत् पुनः ईक्षया एव न गृह्यते न अपि विसृज्य आत्मा ॥ 33॥यथा हि भानोः उदयः नृचक्षुषाम् तमः निहन्यात् न तु सद्विधत्ते । एवं समीक्षा निपुणा सती मे हन्यात् तमिस्रं पुरुषस्य बुद्धेः ॥ 34॥एषः स्वयंज्योतिः अजः अप्रमेयः महानुभूतिः सकलानुभूतिः । एकः अद्वितीयः वचसां विरामे येन ईशिता वाक् असवः चरंति ॥ 35॥एतावान् आत्मसंमोहः यत् विकल्पः तु केवले । आत्मन् नृते स्वमात्मानं अवलंबः न यस्य हि ॥36॥यत् नाम आकृतिभिः ग्राह्यं पंचवर्णं अबाधितम् । व्यर्थेन अपि अर्थवादः अयं द्वयं पंडितमानिनाम् ॥ 37॥योगिनः अपक्वयोगस्य युंजतः कायः उत्थितैः । उपसर्गैः विहन्येत तत्र अयं विहितः विधिः ॥ 38॥योगधारणया कांश्चित् आसनैः धारण अन्वितैः । तपोमंत्रौषधैः कांश्चित् उपसर्गान् विनिर्दहेत् ॥ 39॥कांश्चित् मम अनुध्यानेन नामसंकीर्तन आदिभिः । योगेश्वर अनुवृत्त्या वा हन्यात् अशुभदान् शनैः ॥ 40॥केचित् देहं इमं धीराः सुकल्पं वयसि स्थिरम् । विधाय विविध उपायैः अथ युंजंति सिद्धये ॥ 41॥न हि तत् कुशलात् दृत्यं तत् आयासः हि अपार्थकः । अंतवत्त्वात् शरीरस्य फलस्य इव वनस्पतेः ॥ 42॥योगं निषेवतः नित्यं कायः चेत् कल्पतां इयात् । तत् श्रद्दध्यात् न मतिमान् योगं उत्सृज्य मत्परः ॥ 43॥योगचर्यां इमां योगी विचरन् मत् व्यपाश्रयः । न अंतरायैः विहन्येत निःस्पृहः स्वसुखानुभूः ॥ 44॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे भगवदुद्धवसंवादे परमार्थनिर्णयो नाम अष्टाविंशोऽध्यायः ॥ 28॥अथ एकोनत्रिंशः अध्यायः । सुदुस्तरां इमां मन्ये योगचर्यां अनात्मनः । यथा अंजसा पुमान् सिह्येत् तत् मे ब्रूहि अंजसा अच्युत ॥ 1॥प्रायशः पुंडरीकाक्ष युंजंतः योगिनः मनः । विषीदंति असमाधानात् मनोनिग्रहकर्शिताः ॥ 2॥अथ अतः आनंददुघं पदांबुजम् हंसाः श्रयेरन् अरविंदलोचन । सुखं नु विश्वेश्वर योगकर्मभिः त्वत् मायया अमी विहताः न मानिनः ॥ 3॥किं चित्रं अच्युत तव एतत् अशेषबंधः दासेषु अनन्यशरणेषु यत् आत्म सात्त्वम् । यः अरोचयत्सह मृगैः स्वयं ईश्वराणाम् श्रीमत् किरीट तट पीडित पाद पीठः ॥ 4॥तं त्वा अखिल आत्मदयित ईश्वरं आश्रितानाम् सर्व अर्थदं स्वकृतवित् विसृजेत कः नु । कः वा भजेत् किं अपि विस्मृतये अनु भूत्यै किं वा भवेत् न तव पादरजोजुषां नः ॥ 5॥न एव उपयंति अपचितिं कवयः तव ईश ब्रह्मायुषा अपि कृतं ऋधमुदः स्मरंतः । यः अंतर्बहिः तनुभृतां अशुभं विधुन्वन् आचार्यचैत्यवपुषा स्वगतं व्यनक्ति ॥ 6॥श्रीशुकः उवाच । इति उद्धवेन अति अनुरक्त चेतसा पृष्टः जगत्क्रीडनकः स्वशक्तिभिः । गृहीत मूर्तित्रयः ईश्वर ईश्वरः जगाद सप्रेम मनोहरस्मितः ॥ 7॥श्रीभगवान् उवाच । हंत ते कथयिष्यामि मम धर्मान् सुमंगलाम् । यान् श्रद्धया आचरन् मर्त्यः मृत्युं जयति दुर्जयम् ॥ 8॥कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् । मयि अर्पित मनः चित्तः मत् धर्म आत्ममनोरतिः ॥ 9॥देशान् पुण्यान् आश्रयेत मद्भक्तैः साधुभिः श्रितान् । देव आसुर मनुष्येषु मद्भक्त आचरितानि च ॥ 10॥पृथक् सत्रेण वा मह्यं पर्वयात्रा महोत्सवान् । कारयेत् गीतनृत्य आद्यैः महाराज विभूतिभिः ॥ 11॥मां एव सर्वभूतेषु बहिः अंतः अपावृतम् । ईक्षेत आत्मनि च आत्मानं यथा खं अमल आशयः ॥ 12॥इति सर्वाणि भूतानि मद्भावेन महाद्युते । सभाजयन् मन्यमानः ज्ञानं केवलं आश्रितः ॥ 13॥ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्ये अर्के स्फुलिंगके । अक्रूरे क्रूरके च एव समदृक् पंडितः मतः ॥ 14॥नरेषु अभीक्ष्णं मद्भावं पुंसः भावयतः अचिरात् । स्पर्धा असूया तिरस्काराः साहंकाराः वियंति हि ॥ 15॥विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् । प्रणमेत् दंडवत् भूमौ आश्व चांडाल गो खरम् ॥ 16॥यावत् सर्वेषु भूतेषु मद्भावः न उपजायते । तावत् एवं उपासीत वाङ् मन काय वृत्तिभिः ॥ 17॥सर्वं ब्रह्मात्मकं तस्य विद्यया आत्म मनीषया । परिपश्यन् उपरमेत् सर्वतः मुक्त संशयः ॥ 18॥अयं हि सर्वकल्पानां सध्रीचीनः मतः मम । मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ 19॥न हि अंग उपक्रमे ध्वंसः मद्धर्मस्य उद्धव अणु अपि । मया व्यवसितः सम्यक् निर्गुणत्वात् अनाशिषः ॥ 20॥यः यः मयि परे धर्मः कल्प्यते निष्फलाय चेत् । तत् आयासः निरर्थः स्यात् भयादेः इव सत्त्म ॥ 21॥एषा बुद्धिमतां बुद्धिः मनीषा च मनीषिणाम् । यत् सत्यं अनृतेन इह मर्त्येन आप्नोति मा अमृतम् ॥ 22॥एष ते अभिहितः कृत्स्नः ब्रह्मवादस्य संग्रहः । समासव्यासविधिना देवानां अपि दुर्गमः ॥ 23॥अभीक्ष्णशः ते गदितं ज्ञानं विस्पष्टयुक्तिमत् । एतत् विज्ञाय मुच्येत पुरुषः नष्टसंशयः ॥ 24॥सुविविक्तं तव प्रश्नं मया एतत् अपि धारयेत् । सनातनं ब्रह्मगुह्यं परं ब्रह्म अधिगच्छति ॥ 25॥यः एतत् मम भक्तेषु संप्रदद्यात् सुपुष्कलम् । तस्य अहं ब्रह्मदायस्य ददामि आत्मानं आत्मना ॥ 26॥यः एतत् समधीयीत पवित्रं परमं शुचि । सः पूयेत अहः अहः मां ज्ञानदीपेन दर्शयन् ॥ 27॥यः एतत् श्रद्धया नित्यं अव्यग्रः श्रुणुयात् नरः । मयि भक्तिं परां कुर्वन् कर्मभिः न सः बध्यते ॥ 28॥अपि उद्धव त्वया ब्रह्म सखे समवधारितम् । अपि ते विगतः मोहः शोकः च असौ मनोभवः ॥ 29॥न एतत् त्वया दांभिकाय नास्तिकाय शठाय च । अशुश्रूषोः अभक्ताय दुर्विनीताय दीयताम् ॥ 30॥एतैः दोषैः विहीनाय ब्रह्मण्याय प्रियाय च । साधवे शुचये ब्रूयात् भक्तिः स्यात् शूद्र योषिताम् ॥ 31॥न एतत् विज्ञाय जिज्ञासोः ज्ञातव्यं अवशिष्यते । पीत्वा पीयूषं अमृतं पातव्यं न अवशिष्यते ॥ 32॥ज्ञाने कर्मणि योगे च वार्तायां दंडधारणे । यावान् अर्थः नृणां तात तावान् ते अहं चतुर्विधः ॥ 33॥मर्त्यः यदा त्यक्त समस्तकर्मा निवेदितात्मा विचिकीर्षितः मे । तदा अमृतत्वं प्रतिपद्यमानः मया आत्मभूयाय च कल्पते वै ॥ 34॥श्रीशुकः उवाच । सः एवं आदर्शित योगमार्गः तदा उत्तम श्लोकवचः निशम्य । बद्ध अंजलिः प्रीति उपरुद्ध कंठः न किंचित् ऊचेः अश्रु परिप्लुत अक्षः ॥ 35॥विष्टभ्य चित्तं प्रणय अवघूर्णम् धैर्येण राजन् बहु मन्यमानः । कृतांजलिः प्राह यदुप्रवीरम् शीर्ष्णा स्पृशन् तत् चरण अरविंदम् ॥ 36॥उद्धवः उवाच । विद्रावितः मोह महा अंधकारः यः आश्रितः मे तव सन्निधानात् । विभावसोः किं नु समीपगस्य शीतं तमः भीः प्रभवंति अज अद्य ॥ 37॥प्रत्यर्पितः मे भवता अनुकंपिना भृत्याय विज्ञानमयः प्रदीपः । हित्वा कृतज्ञः तव पादमूलम् कः अन्यत् समीयात् शरणं त्वदीयम् ॥ 38॥वृक्णः च मे सुदृढः स्नेहपाशः दाशार्ह वृष्णि अंधक सात्वतेषु । प्रसारितः सृष्टिविवृद्धये त्वया स्वमायया हि आत्म सुबोध हेतिना ॥ 39॥नमः अस्तु ते महायोगिन् प्रपन्नं अनुशाधि माम् । यथा त्वत् चरण अंभोजे रतिः स्यात् अनपायिनी ॥ 40॥श्रीभगवान् उवाच । गच्छ उद्धव मया आदिष्टः बदरि आख्यं मम आश्रमम् । तत्र मत् पाद तीर्थोदे स्नान उपस्पर्शनैः शुचिः ॥ 41॥ईक्षया अलकनंदाया विधूत अशेष कल्मषः । वसानः वल्कलानि अंग वन्यभुक् सुख निःस्पृहः ॥ 42॥तितिक्षौः द्वंद्वमात्राणां सुशीलः संयतेंद्रियः । शांतः समाहितधिया ज्ञानविज्ञानसंयुतः ॥ 43॥मत्तः अनुशिक्षितं यत् ते विविक्तमनुभावयन् । मयि आवेशित वाक् चित्तः मद्धर्म निरतः भव । अतिव्रज्य गतीः तिस्रः मां एष्यसि ततः परम् ॥ 44॥श्रीशुकः उवाच । सः एवं उक्तः हरिमेधसा उद्धवः प्रदक्षिणं तं परिसृत्य पादयोः । शिरः निधाय अश्रुकलाभिः आर्द्रधीः न्यषिंचत् अद्वंद्वपरः अपि उपक्रमे ॥ 45॥सुदुस्त्यज स्नेह वियोग कातरः न शक्नुवन् तं परिहातुं आतुरः । कृच्छ्रं ययौ मूर्धनि भर्तृपादुके बिभ्रन् नमस्कृत्य ययौ पुनः पुनः ॥ 46॥ततः तं अंतर्हृदि संनिवेश्य गतः महाभागवतः विशालाम् । यथा उपदिष्टां जगत् एकबंधुना ततः समास्थाय हरेः अगात् गतिम् ॥ 47॥यः एअतत् आनंद समुद्र संभृतम् ज्ञानामृतं भागवताय भाषितम् । कृष्णेण योगेश्वर सेवितांघ्रिणा सच्छ्रद्धया आसेव्य जगत् विमुच्यते ॥ 48॥भवभय अपहंतुं ज्ञानविज्ञानसारम् निगमकृत् उपजहे भृंगवत् वेदसारम् । अमृतं उदधितः च अपाययत् भृत्यवर्गान् पुरुषं ऋषभं आद्यं कृष्णसंज्ञं नतः अस्मि ॥ 49॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे भगवदुद्धवसंवादे परमार्थप्राप्तिसुगमोपायकथनोद्धवबदरिकाश्रमप्रवेशो नाम एकोनत्रिंशोऽध्यायः ॥ 29॥अथ त्रिंशः अध्यायः । राजा उवाच । ततः महाभागवते उद्धवे निर्गते वनम् । द्वारवत्यां किं अकरोत् भगवान् भूतभावनः ॥ 1॥ब्रह्मशाप उपसंसृष्टे स्वकुले यादवर्षभः । प्रेयसीं सर्वनेत्राणां तनुं सः कथं अत्यजत् ॥ 2॥प्रत्याक्रष्टुं नयनं अबला यत्र लग्नं न शेकुः कर्णाविष्टं न सरति ततः यत् सतां आत्मलग्नम् । यत् श्रीः वाचां जनयति रतिं किं नु मानं कवीनाम् दृष्ट्वा जिष्णोः युधि रथगतं यत् च तत् साम्यम् ईयुः ॥ 3॥ऋषिः उवाच । दिवि भुवि अंतरिक्षे च महोत्पातान् समुत्थितान् । दृष्ट्वा आसीनान् सुधर्मायां कृष्णः प्राह यदून् इदम् ॥ 4॥श्रीभगवान् उवाच । एते घोराः महोत्पाताः द्वार्वत्यां यमकेतवः । मुहूर्तं अपि न स्थेयं अत्र नः यदुपुंगवाः ॥ 5॥स्त्रियः बालाः च वृद्धाः च शंखोद्धारं व्रजंत्वितः । वयं प्रभासं यास्यामः यत्र प्रत्यक् सरस्वती ॥ 6॥तत्र अभिषिच्य शुचय उपोष्य सुसमाहिताः । देवताः पूजयिष्यामः स्नपन आलेपन अर्हणैः ॥7॥ब्राह्मणान् तु महाभागान् कृतस्वस्त्ययना वयम् । गो भू हिरण्य वासोभिः गज अश्वरथ वेश्मभिः ॥ 8॥विधिः एषः हि अरिष्टघ्नः मंगल आयनं उत्तमम् । देव द्विज गवां पूजा भूतेषु परमः भवः ॥ 9॥इति सर्वे समाकर्ण्य यदुवृद्धाः मधुद्विषः । तथा इति नौभिः उत्तीर्य प्रभासं प्रययू रथैः ॥ 10॥तस्मिन् भगवता आदिष्टं यदुदेवेन यादवा । चक्रुः परभया भक्त्या सर्वश्रेय उपबृंहितम् ॥ 11॥ततः तस्मिन् महापानं पपुः मैरेयकं मधु । दिष्ट विभ्रंशित धियः यत् द्रवैः भ्रश्यते मतिः ॥ 12॥महापान अभिमत्तानां वीराणां दृप्तचेतसाम् । कृष्णमाया विमूढानां संघर्षः सुमहान् अभूत् ॥ 13॥युयुधुः क्रोधसंरब्धा वेलायां आततायिनः । धनुभिः असिभिः मल्लैः गदाभिः तां अरर्ष्टिभिः ॥ 14॥पतत्पताकै रथकुंजरादिभिः खर उष्ट्र गोभिः महिषैः नरैः अपि । मिथः समेत्य अश्वतरैः सुदुर्मदा न्यहन् शरर्दद्भिः इव द्विपा वने ॥ 15॥प्रद्युम्न सांबौ युधि रूढमत्सरौ अक्रूर भोजौ अनिरुद्ध सात्यकी । सुभद्र संग्रामजितौ सुदारुणौ गदौ सुमित्रा सुरथौ समीयतुः ॥ 16॥अन्ये च ये वै निशठ उल्मुक आदयः सहस्रजित् शतजित् भानु मुख्याः । अन्योन्यं आसाद्य मदांधकारिता जघ्नुः मुकुंदेन विमोहिता भृशम् ॥ 17॥दाशार्ह वृष्णि अंधक भोज सात्वता मधु अर्बुदा माथुरशूरसेनाः । विसर्जनाः कुकुराः कुंतयः च मिथः ततः ते अथ विसृज्य सौहृदम् ॥ 18॥पुत्राः अयुध्यन् पितृभिः भ्रातृभिः च स्वस्त्रीय दौहित्र पितृव्यमातुलैः । मित्राणि मित्रैः सुहृदः सुहृद्भिः ज्ञातींस्त्वहन् ज्ञातयः एव मूढाः ॥ 19॥शरेषु क्षीयमाणेषु भज्यमानेषु धन्वसु । शस्त्रेषु क्षीयमाणेषु मुष्टिभिः जह्रुः एरकाः ॥ 20॥ताः वज्रकल्पाः हि अभवन् परिघाः मुष्टिनाः भृताः । जघ्नुः द्विषः तैः कृष्णेन वार्यमाणाः तु तं च ते ॥ 21॥प्रत्यनीकं मन्यमानाः बलभद्रं च मोहिताः । हंतुं कृतधियः राजन् आपन्नाः आततायिनः ॥ 22॥अथ तौ अपि संक्रुद्धौ उद्यम्य कुरुनंदन । एरका मुष्टि परिघौ जरंतौ जघ्नतुः युधि ॥ 23॥ब्रह्मशाप उपसृष्टानां कृष्णमायावृत आत्मनाम् । स्पर्धाक्रोधः क्षयं निन्ये वैणवः अग्निः यथा वनम् ॥ 24॥एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः । अवतारितः भुवः भारः इति मेने अवशेषितः ॥ 25॥रामः समुद्रवेलायां योगं आस्थाय पौरुषम् । तत् त्याज लोकं मानुष्यं संयोज्य आत्मानं आत्मनि ॥ 26॥रामनिर्याणं आलोक्य भगवान् देवकीसुतः । निषसाद धरोपस्थे तूष्णीं आसाद्य पिप्पलम् ॥ 27॥बिभ्रत् चतुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया । दिशः वितिमाराः कुर्वन् विधूमः इव पावकः ॥ 28॥श्रीवत्सांकं घनश्यामं तप्त हाटक वर्चसम् । कौशेय अंबर युग्मेन परिवीतं सुमंगलम् ॥ 29॥सुंदर स्मित वक्त्र अब्जं नील कुंतल मंडितम् । पुंडरीक अभिरामाक्षं स्फुरन् मकर कुंडलम् ॥ 30॥कटिसूत्र ब्रह्मसूत्र किरीट कटक अंगदैः । हार नूपुर मुद्राभिः कौस्तुभेन विराजितम् ॥ 31॥वनमाला परीतांगं मूर्तिमद्भिः निज आयुधैः । कृत्वा उरौ दक्षिणे पादं आसीनं पंकज अरुणम् ॥ 32॥मुसलौ अशेषायः खंडकृतेषुः लुब्धकः जराः । मृगास्य आकारं तत् चरणं विव्याध मृगशंकया ॥ 33॥चतुर्भुजं तं पुरुषं दृष्ट्वा सः कृत किल्बिषः । भीतः पपात शिरसा पादयोः असुरद्विषः ॥ 34॥अजानता कृतं इदं पापेन मधुसूदन । क्षंतुं अर्हसि पापस्य उत्तमश्लोकः मे अनघ ॥ 35॥यस्य अनुस्मरणं नॄणां अज्ञान ध्वांत नाशनम् । वदंति तस्य ते विष्णो मया असाधु कृतं प्रभो ॥ 36॥तत् मा आशु जहि वैकुंठ पाप्मानं मृग लुब्धकम् । यथा पुनः अहं तु एवं न कुर्यां सत् अतिक्रमम् ॥ 37॥यस्य आत्म योग रचितं न विदुः विरिंचः रुद्र आदयः अस्य तनयाः पतयः गिरां ये । त्वत् मायया पिहित दृष्टयः एतत् अंजः किं तस्य ते वयं असत् गतयः गृणीमः ॥ 38॥श्रीभगवान् उवाच । मा भैः जरे त्वं उत्तिष्ठ कामः एषः कृतः हि मे । याहि त्वं मत् अनुज्ञातः स्वर्गं सुकृतिनां पदम् ॥ 39॥इति आदिष्टः भगवता कृष्णेन इच्छा शरीरिणा । त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥ 40॥दारुकः कृष्णपदवीं अन्विच्छन् अधिगम्यताम् । वायुं तुलसिकामोदं आघ्राय अभिमुखं ययौ ॥ 41॥तं तत्र तिग्मद्युभिः आयुधैः वृतम् हि अश्वत्थमूले कृतकेतनं पतिम् । स्नेहप्लुतात्मा निपपात पादयो रथात् अवप्लुत्य सबाष्पलोचनः ॥ 42॥अपश्यतः त्वत् चरण अंबुजं प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा । दिशः न जाने न लभे च शांतिम् यथा निशायं उडुपे प्रणष्टे ॥ 43॥इति ब्रुवते सूते वै रथः गरुडलांछनः । खं उत्पपात राजेंद्र साश्वध्वजः उदीक्षतः ॥ 44॥तं अन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च । तेन अति विस्मित आत्मानं सूतं आह जनार्दनः ॥ 45॥गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः । संकर्षणस्य निर्याणं बंधुभ्यः ब्रूहि मत् दशाम् ॥ 46॥द्वारकायां च न स्थेयं भवद्भिः च स्वबंधुभिः । मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति ॥ 47॥स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः । अर्जुनेन आविताः सर्व इंद्रप्रस्थं गमिष्यथ ॥ 48॥त्वं तु मत् धर्मं आस्थाय ज्ञाननिष्ठः उपेक्षकः । मन्माया रचनां एतां विज्ञाय उपशमं व्रज ॥ 49॥इति उक्तः तं परिक्रम्य नमस्कृत्य पुनः पुनः । तत् पादौ शीर्ष्णि उपाधाय दुर्मनाः प्रययौ पुरीम् ॥ 50॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे यदुकुलसंक्षयो नाम त्रिंशोऽध्यायः ॥ 30॥अथ एकत्रिंशः अध्यायः । श्रीशुकः उवाच । अथ तत्र आगमत् ब्रह्मा भवान्या च समं भवः । महेंद्रप्रमुखाः देवाः मुनयः सप्रजेश्वराः ॥ 1॥पितरः सिद्धगंधर्वाः विद्याधर महोरगाः । चारणाः यक्षरक्षांसि किंनर अप्सरसः द्विजाः ॥ 2॥द्रष्टुकामाः भगवतः निर्वाणं परम उत्सुकाः । गायंतः च गृणंतः च शौरेः कर्माणि जन्म च ॥ 3॥ववर्षुः पुष्पवर्षाणि विमान आवलिभिः नभः । कुर्वंतः संकुलं राजन् भक्त्या परमया युताः ॥ 4॥भगवान् पितामहं वीक्ष्य विभूतिः आत्मनः विभुः । संयोज्य आत्मनि च आत्मानं पद्मनेत्रे न्यमीलयत् ॥ 5॥लोकाभिरामां स्वतनुं धारणा ध्यान मंगलम् । योगधारणया आग्नेय्या अदग्ध्वा धाम आविशत् स्वकम् ॥ 6॥दिवि दुंदुभयः नेदुः पेतुः सुमनः च खात् । सत्यं धर्मः धृतिः भूमेः कीर्तिः श्रीः च अनु तं वयुः ॥ 7॥देव आदयः ब्रह्ममुख्याः न विशंतं स्वधामनि । अविज्ञातगतिं कृष्णं ददृशुः च अतिविस्मिताः ॥ 8॥सौदामन्याः यथा आकाशे यांत्याः हित्वा अभ्रमंडलम् । गतिः न लक्ष्यते मर्त्यैः तथा कृष्णस्य दैवतैः ॥ 9॥ब्रह्म रुद्र आदयः ते तु दृष्ट्वा योगगतिं हरेः । विस्मिताः तां प्रशंसंतः स्वं स्वं लोकं ययुः तदा ॥ 10॥राजन् परस्य तनुभृत् जननाप्ययेहा मायाविडंबनं अवेहि यथा नटस्य । सृष्ट्वा आत्मना इदं अनुविश्य विहृत्य च अंते संहृत्य च आत्म महिना उपरतः सः आस्ते ॥ 11॥मर्त्येन यः गुरुसुतं यमलोकनीतम् त्वां च आनयत् शरणदः परम अस्त्र दग्धम् । जिग्ये अंतक अंतकं अपि ईशं असौ अवनीशः किं स्वावने स्वरनयन् मृगयुं सदेहम् ॥ 12॥तथा अपि अशेशा स्थिति संभव अपि अयेषु अनन्य हेतुः यत् अशेष शक्तिधृक् । न इच्छत् प्रणेतुं वपुः अत्र शेषितम् मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ 13॥यः एतां प्रातः उत्थाय कृष्णस्य पदवीं पराम् । प्रयतः कीर्तयेत् भक्त्या तां एव आप्नोति अनुत्तमाम् ॥ 14॥दारुकः द्वारकां एत्य वसुदेव उग्रसेनयोः । पतित्वा चरणावस्रैः न्यषिंचत् कृष्णविच्युतः ॥ 15॥कथयामास निधनं वृष्णीनां कृत्स्नशः नृप । तत् श्रुत्वा उद्विग्न हृदयाः जनाः शोक विमूर्च्छिताः ॥ 16॥तत्र स्म त्वरिता जग्मुः कृष्ण विश्लेष विह्वलाः । व्यसवाः शेरते यत्र ज्ञातयः घ्नंतः आननम् ॥ 17॥देवकी रोहिणी च एव वसुदेवः तथा सुतौ । कृष्ण राम अवपश्यंतः शोक आर्ताः विजहुः स्मृतिम् ॥ 18॥प्राणान् च विजहुः तत्र भगवत् विरह आतुराः । उपगुह्य पतीन् तात चितां आरुरुहुः स्त्रियः ॥ 19॥रामपत्न्यः च तत् देहं उपगुह्य अग्निं आविशन् । वसुदेवपत्न्यः तत् गात्रं प्रद्युम्न आदीन् हरेः स्नुषाः । कृष्णपत्न्यः आविशन् अग्निं रुक्मिणि आद्याः तदात्मिकाः ॥ 20॥अर्जुनः प्रेयसः सख्युः कृष्णस्य विरह आतुरः । आत्मानं सांत्वयामास कृष्णगीतैः सदुक्तिभिः ॥ 21॥बंधूनां नष्टगोत्राणां अर्जुनः सांपरायिकम् । हतानां कारयामास यथावत् अनुपूर्वशः ॥ 22॥द्वारकां हरिणा त्यक्ता समुद्रः अप्लावयत् क्षणात् । वर्जयित्वा महाराज श्रीमत् भगवत् आलयम् ॥ 23॥नित्यं संनिहितः तत्र भगवान् मधुसूदनः । स्मृत्या अशेषा अशुभहरं सर्व मंगलं अमंगलम् ॥ 24॥स्त्री बाल वृद्धान् आदाय हतशेषान् धनंजयः । इंद्रप्रस्थं समावेश्य वज्र तत्र अभ्यषेचयत् ॥ 25॥श्रुत्वा सुहृत् वधं राजन् अर्जुनात् ते पितामहाः । त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् ॥ 26॥यः एतत् देवदेवस्य विष्णोः कर्माणि जन्म च । कीर्तयेत् श्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ॥ 27॥इत्थं हरेः भगवतः रुचिर अवतार वीर्याणि बालचरितानि च शंतमानि । अन्यत्र च इह च श्रुतानि गृणन् मनुष्यः भक्तिं परां परमहंसगतौ लभेत ॥ 28॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे मौसलोपाख्यानं नाम एकत्रिंशोऽध्यायः ॥ 31॥॥ इति उद्धवगीता नाम एकादशस्कंधः समाप्तः ॥ |
उद्धवगीता – एकादशोऽध्यायःDownload PDF
Related Posts
पांडवगीता
प्रह्लादनारदपराशरपुंडरीक-व्यासांबरीषशुकशौनकभीष्मकाव्याः ।रुक्मांगदार्जुनवसिष्ठविभीषणाद्याएतानहं परमभागवतान् नमामि ॥ 1॥ लोमहर्षण उवाच ।धर्मो विवर्धति युधिष्ठिरकीर्तनेनपापं प्रणश्यति वृकोदरकीर्तनेन ।शत्रुर्विनश्यति धनंजयकीर्तनेनमाद्रीसुतौ कथयतां न भवंति रोगाः ॥ 2॥ ब्रह्मोवाच ।ये मानवा विगतरागपराऽपरज्ञानारायणं सुरगुरुं सततं स्मरंति ।ध्यानेन तेन…
Read moreवेदांत डिंडिमः
वेदांतडिंडिमास्तत्वमेकमुद्धोषयंति यत् ।आस्तां पुरस्तांतत्तेजो दक्षिणामूर्तिसंज्ञितम् ॥ 1 आत्माऽनात्मा पदार्थौ द्वौ भोक्तृभोग्यत्वलक्षणौ ।ब्रह्मेवाऽऽत्मान देहादिरिति वेदांतडिंडिमः ॥ 2 ज्ञानाऽज्ञाने पदार्थों द्वावात्मनो बंधमुक्तिदौ ।ज्ञानान्मुक्ति निर्बंधोऽन्यदिति वेदांतडिंडिमः ॥ 3 ज्ञातृ ज्ञेयं पदार्थौ द्वौ भास्य…
Read more