अथ एकादशोऽध्यायः ।

श्रीभगवान् उवाच ।
बद्धः मुक्तः इति व्याख्या गुणतः मे न वस्तुतः ।
गुणस्य मायामूलत्वात् न मे मोक्षः न बंधनम् ॥ 1॥

शोकमोहौ सुखं दुःखं देहापत्तिः च मायया ।
स्वप्नः यथा आत्मनः ख्यातिः संसृतिः न तु वास्तवी ॥ 2॥

विद्या अविद्ये मम तनू विद्धि उद्धव शरीरिणाम् ।
मोक्षबंधकरी आद्ये मायया मे विनिर्मिते ॥ 3॥

एकस्य एव मम अंशस्य जीवस्य एव महामते ।
बंधः अस्य अविद्यया अनादिः विद्यया च तथा इतरः ॥ 4॥

अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।
विरुद्धधर्मिणोः तात स्थितयोः एकधर्मिणि ॥ 5॥

सुपर्णौ एतौ सदृशौ सखायौ
यदृच्छया एतौ कृतनीडौ च वृक्षे ।
एकः तयोः खादति पिप्पलान्नम्
अन्यः निरन्नः अपि बलेन भूयान् ॥ 6॥

आत्मानं अन्यं च सः वेद विद्वान्
अपिप्पलादः न तु पिप्पलादः ।
यः अविद्यया युक् स तु नित्यबद्धः
विद्यामयः यः स तु नित्यमुक्तः ॥ 7॥

देहस्थः अपि न देहस्थः विद्वान् स्वप्नात् यथा उत्थितः ।
अदेहस्थः अपि देहस्थः कुमतिः स्वप्नदृक् यथा ॥ 8॥

इंद्रियैः इंद्रियार्थेषु गुणैः अपि गुणेषु च ।
गृह्यमाणेषु अहंकुर्यात् न विद्वान् यः तु अविक्रियः ॥ 9॥

दैवाधीने शरीरे अस्मिन् गुणभाव्येन कर्मणा ।
वर्तमानः अबुधः तत्र कर्ता अस्मि इति निबध्यते ॥ 10॥

एवं विरक्तः शयनः आसनाटनमज्जने ।
दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु ॥ 11॥

न तथा बध्यते विद्वान् तत्र तत्र आदयन् गुणान् ।
प्रकृतिस्थः अपि असंसक्तः यथा खं सविता अनिलः ॥ 12॥

वैशारद्येक्षया असंगशितया छिन्नसंशयः ।
प्रतिबुद्धः इव स्वप्नात् नानात्वात् विनिवर्तते ॥ 13॥

यस्य स्युः वीतसंकल्पाः प्राणेंद्रियमनोधियाम् ।
वृत्तयः सः विनिर्मुक्तः देहस्थः अपि हि तत् गुणैः ॥ 14॥

यस्य आत्मा हिंस्यते हिंस्र्यैः येन किंचित् यदृच्छया ।
अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः ॥ 15॥

न स्तुवीत न निंदेत कुर्वतः साधु असाधु वा ।
वदतः गुणदोषाभ्यां वर्जितः समदृक् मुनिः ॥ 16॥

न कुर्यात् न वदेत् किंचित् न ध्यायेत् साधु असाधु वा ।
आत्मारामः अनया वृत्त्या विचरेत् जडवत् मुनिः ॥ 17॥

शब्दब्रह्मणि निष्णातः न निष्णायात् परे यदि ।
श्रमः तस्य श्रमफलः हि अधेनुं इव रक्षतः ॥ 18॥

गां दुग्धदोहां असतीं च भार्याम्
देहं पराधीनं असत्प्रजां च ।
वित्तं तु अतीर्थीकृतं अंग वाचम्
हीनां मया रक्षति दुःखदुःखी ॥ 19॥

यस्यां न मे पावनं अंग कर्म
स्थितिउद्भवप्राण निरोधनं अस्य ।
लीलावतारीप्सितजन्म वा स्यात्
बंध्यां गिरं तां बिभृयात् न धीरः ॥ 20॥

एवं जिज्ञासया अपोह्य नानात्वभ्रमं आत्मनि ।
उपारमेत विरजं मनः मयि अर्प्य सर्वगे ॥ 21॥

यदि अनीशः धारयितुं मनः ब्रह्मणि निश्चलम् ।
मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ 22॥

श्रद्धालुः मे कथाः श‍ऋण्वन् सुभद्रा लोकपावनीः ।
गायन् अनुस्मरन् कर्म जन्म च अभिनयन् मुहुः ॥ 23॥

मदर्थे धर्मकामार्थान् आचरन् मदपाश्रयः ।
लभते निश्चलां भक्तिं मयि उद्धव सनातने ॥ 24॥

सत्संगलब्धया भक्त्या मयि मां सः उपासिता ।
सः वै मे दर्शितं सद्भिः अंजसा विंदते पदम् ॥ 25॥

उद्धव उवाच ।
साधुः तव उत्तमश्लोक मतः कीदृग्विधः प्रभो ।
भक्तिः त्वयि उपयुज्येत कीदृशी सद्भिः आदृता ॥ 26॥

एतत् मे पुरुषाध्यक्ष लोकाध्यक्ष जगत् प्रभो ।
प्रणताय अनुरक्ताय प्रपन्नाय च कथ्यताम् ॥ 27॥

त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः ।
अवतीर्णः असि भगवन् स्वेच्छाउपात्तपृथक् वपुः ॥ 28॥

श्रीभगवान् उवाच ।
कृपालुः अकृतद्रोहः तितिक्षुः सर्वदेहिनाम् ।
सत्यसारः अनवद्यात्मा समः सर्वोपकारकः ॥ 29॥

कामैः अहतधीः दांतः मृदुः शुचिः अकिंचनः ।
अनीहः मितभुक् शांतः स्थिरः मत् शरणः मुनिः ॥ 30॥

अप्रमत्तः गभीरात्मा धृतिमांजितषड्गुणः ।
अमानी मानदः कल्पः मैत्रः कारुणिकः कविः ॥ 31॥

आज्ञाय एवं गुणान् दोषान्मयादिष्टान् अपि स्वकान् ।
धर्मान् संत्यज्य यः सर्वान् मां भजेत सः सत्तमः ॥ 32॥

ज्ञात्वा अज्ञात्वा अथ ये वै मां यावान् यः च अस्मि
यादृशः ।
भजंति अनन्यभावेन ते मे भक्ततमाः मताः ॥ 33॥

मल्लिंगमद्भक्तजनदर्शनस्पर्शनार्चनम् ।
परिचर्या स्तुतिः प्रह्वगुणकर्म अनुकीर्तनम् ॥ 34॥

मत्कथाश्रवणे श्रद्धा मत् अनुध्यानं उद्धव ।
सर्वलाभ उपहरणं दास्येन आत्मनिवेदनम् ॥ 35॥

मज्जन्मकर्मकथनं मम पर्वानुमोदनम् ।
गीततांडववादित्रगोष्ठीभिः मद्गृह उत्सवः ॥ 36॥

यात्रा बलिविधानं च सर्ववार्षिकपर्वसु ।
वैदिकी तांत्रिकी दीक्षा मदीयव्रतधारणम् ॥ 37॥

मम अर्चास्थापने श्रद्धा स्वतः संहत्य च उद्यमः ।
उद्यान उपवनाक्रीडपुरमंदिरकर्मणि ॥ 38॥

संमार्जन उपलेपाभ्यां सेकमंडलवर्तनैः ।
गृहशुश्रूषणं मह्यं दासवद्यदमायया ॥ 39॥

अमानित्वं अदंभित्वं कृतस्य अपरिकीर्तनम् ।
अपि दीपावलोकं मे न उपयुंज्यात् निवेदितम् ॥ 40॥

यत् यत् इष्टतमं लोके यत् च अतिप्रियं आत्मनः ।
तत् तत् निवेदयेत् मह्यं तत् आनंत्याय कल्पते ॥ 41॥

सूर्यः अग्निः ब्राह्मणः गावः वैष्णवः खं मरुत् जलम् ।
भूः आत्मा सर्वभूतानि भद्र पूजापदानि मे ॥ 42॥

सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।
आतिथ्येन तु विप्राग्र्यः गोष्वंग यवसादिना ॥ 43॥

वैष्णवे बंधुसत्कृत्या हृदि खे ध्याननिष्ठया ।
वायौ मुख्यधिया तोये द्रव्यैः तोयपुरस्कृतैः ॥ 44॥

स्थंडिले मंत्रहृदयैः भोगैः आत्मानं आत्मनि ।
क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ 45॥

धिष्ण्येषु एषु इति मद्रूपं शंखचक्रगदांबुजैः ।
युक्तं चतुर्भुजं शांतं ध्यायन् अर्चेत् समाहितः ॥ 46॥

इष्टापूर्तेन मां एवं यः यजेत समाहितः ।
लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया ॥ 47॥

प्रायेण भक्तियोगेन सत्संगेन विना उद्धव ।
न उपायः विद्यते सध्र्यङ् प्रायणं हि सतां अहम् ॥ 48॥

अथ एतत् परमं गुह्यं श्रुण्वतः यदुनंदन ।
सुगोप्यं अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥ 49॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे
एकादशपूजाविधानयोगो नाम एकादशोऽध्यायः ॥ 11॥

अथ द्वादशोऽध्यायः ।
श्रीभगवान् उवाच ।
न रोधयति मां योगः न स्सांख्यं धर्मः एव च ।
न स्वाध्यायः तपः त्यागः न इष्टापूर्तं न दक्षिणा ॥ 1॥

व्रतानि यज्ञः छंदांसि तीर्थानि नियमाः यमाः ।
यथा अवरुंधे सत्संगः सर्वसंग अपहः हि माम् ॥ 2॥

सत्संगेन हि दैतेया यातुधानः मृगाः खगाः ।
गंधर्व अप्सरसः नागाः सिद्धाः चारणगुह्यकाः ॥ 3॥

विद्याधराः मनुष्येषु वैश्याः शूद्राः स्त्रियः अंत्यजाः ।
रजः तमः प्रकृतयः तस्मिन् तस्मिन् युगे अनघ ॥ 4॥

बहवः मत्पदं प्राप्ताः त्वाष्ट्रकायाधवादयः ।
वृषपर्वा बलिः वाणः मयः च अथ विभीषणः ॥ 5॥

सुग्रीवः हनुमान् ऋक्षः गजः गृध्रः वणिक्पथः ।
व्याधः कुब्जा व्रजे गोप्यः यज्ञपत्न्यः तथा अपरे ॥ 6॥

ते न अधितश्रुतिगणाः न उपासितमहत्तमाः ।
अव्रतातप्ततपसः मत्संगात् मां उपागताः ॥ 7॥

केवलेन हि भावेन गोप्यः गावः नगाः मृगाः ।
ये अन्ये मूढधियः नागाः सिद्धाः मां ईयुः अंजसा ॥ 8॥

यं न योगेन सांख्येन दानव्रततपः अध्वरैः ।
व्याख्याः स्वाध्यायसंन्यासैः प्राप्नुयात् यत्नवान् अपि ॥ 9॥

रामेण सार्धं मथुरां प्रणीते
श्वाफल्किना मयि अनुरक्तचित्ताः ।
विगाढभावेन न मे वियोग
तीव्राधयः अन्यं ददृशुः सुखाय ॥ 10॥

ताः ताः क्षपाः प्रेष्ठतमेन नीताः
मया एव वृंदावनगोचरेण ।
क्षणार्धवत् ताः पुनरंग तासां
हीना माया कल्पसमा बभूवुः ॥ 11॥

ताः न अविदन् मयि अनुषंगबद्ध
धियः स्वमात्मानं अदः तथा इदम् ।
यथा समाधौ मुनयः अब्धितोये
नद्यः प्रविष्टाः इव नामरूपे ॥ 12॥

मत्कामा रमणं जारं अस्वरूपविदः अबलाः ।
ब्रह्म मां परमं प्रापुः संगात् शतसहस्रशः ॥ 13॥

तस्मात् त्वं उद्धव उत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतं एव च ॥ 14॥

मां एकं एव शरणं आत्मानं सर्वदेहिनाम् ।
याहि सर्वात्मभावेन मया स्याः हि अकुतोभयः ॥ 15॥

उद्धवः उवाच ।
संशयः श्रुण्वतः वाचं तव योगेश्वर ईश्वर ।
न निवर्ततः आत्मस्थः येन भ्राम्यति मे मनः ॥ 16॥

श्रीभगवान् उवाच ।
सः एष जीवः विवरप्रसूतिः
प्राणेन घोषेण गुहां प्रविष्टः ।
मनोमयं सूक्ष्मं उपेत्य रूपं
मात्रा स्वरः वर्णः इति स्थविष्ठः ॥ 17॥

यथा अनलः खे अनिलबंधुः ऊष्मा
बलेन दारुण्यधिमथ्यमानः ।
अणुः प्रजातः हविषा समिध्यते
तथा एव मे व्यक्तिः इयं हि वाणी ॥ 18॥

एवं गदिः कर्मगतिः विसर्गः
घ्राणः रसः दृक् स्पर्शः श्रुतिः च ।
संकल्पविज्ञानं अथ अभिमानः
सूत्रं रजः सत्त्वतमोविकारः ॥ 19॥

अयं हि जीवः त्रिवृत् अब्जयोनिः
अव्यक्तः एकः वयसा सः आद्यः ।
विश्लिष्टशक्तिः बहुधा एव भाति
बीजानि योनिं प्रतिपद्य यद्वत् ॥ 20॥

यस्मिन् इदं प्रोतं अशेषं ओतं
पटः यथा तंतुवितानसंस्थः ।
यः एष संसारतरुः पुराणः
कर्मात्मकः पुष्पफले प्रसूते ॥ 21॥

द्वे अस्य बीजे शतमूलः त्रिनालः
पंचस्कंधः पंचरसप्रसूतिः ।
दश एकशाखः द्विसुपर्णनीडः
त्रिवल्कलः द्विफलः अर्कं प्रविष्टः ॥ 22॥

अदंति च एकं फलं अस्य गृध्रा
ग्रामेचराः एकं अरण्यवासाः ।
हंसाः यः एकं बहुरूपं इज्यैः
मायामयं वेद सः वेद वेदम् ॥ 23॥

एवं गुरु उपासनया एकभक्त्या
विद्याकुठारेण शितेन धीरः ।
विवृश्च्य जीवाशयं अप्रमत्तः
संपद्य च आत्मानं अथ त्यज अस्त्रम् ॥ 24॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे
द्वादशोऽध्यायः ॥ 12॥

अथ त्रयोदशोऽध्यायः ।
श्रीभगवान् उवाच ।
सत्त्वं रजः तमः इति गुणाः बुद्धेः न च आत्मनः ।
सत्त्वेन अन्यतमौ हन्यात् सत्त्वं सत्त्वेन च एव हि ॥ 1॥

सत्त्वात् धर्मः भवेत् वृद्धात् पुंसः मद्भक्तिलक्षणः ।
सात्विक उपासया सत्त्वं ततः धर्मः प्रवर्तते ॥ 2॥

धर्मः रजः तमः हन्यात् सत्त्ववृद्धिः अनुत्तमः ।
आशु नश्यति तत् मूलः हि अधर्मः उभये हते ॥ 3॥

आगमः अपः प्रजा देशः कालः कर्म च जन्म च ।
ध्यानं मंत्रः अथ संस्कारः दश एते गुणहेतवः ॥ 4॥

तत् तत् सात्विकं एव एषां यत् यत् वृद्धाः प्रचक्षते ।
निंदंति तामसं तत् तत् राजसं तत् उपेक्षितम् ॥ 5॥

सात्त्विकानि एव सेवेत पुमान् सत्त्वविवृद्धये ।
ततः धर्मः ततः ज्ञानं यावत् स्मृतिः अपोहनम् ॥ 6॥

वेणुसंघर्षजः वह्निः दग्ध्वा शाम्यति तत् वनम् ।
एवं गुणव्यत्ययजः देहः शाम्यति तत् क्रियः ॥ 7॥

उद्धवः उवाच ।
विदंति मर्त्याः प्रायेण विषयान् पदं आपदाम् ।
तथा अपि भुंजते कृष्ण तत् कथं श्व खर अजावत् ॥ 8॥

श्रीभगवान् उवाच ।
अहं इति अन्यथाबुद्धिः प्रमत्तस्य यथा हृदि ।
उत्सर्पति रजः घोरं ततः वैकारिकं मनः ॥ 9॥

रजोयुक्तस्य मनसः संकल्पः सविकल्पकः ।
ततः कामः गुणध्यानात् दुःसहः स्यात् हि दुर्मतेः ॥ 10॥

करोति कामवशगः कर्माणि अविजितेंद्रियः ।
दुःखोदर्काणि संपश्यन् रजोवेगविमोहितः ॥ 11।
रजः तमोभ्यां यत् अपि विद्वान् विक्षिप्तधीः पुनः ।
अतंद्रितः मनः युंजन् दोषदृष्टिः न सज्जते ॥ 12॥

अप्रमत्तः अनुयुंजीतः मनः मयि अर्पयन् शनैः ।
अनिर्विण्णः यथाकालं जितश्वासः जितासनः ॥ 13॥

एतावान् योगः आदिष्टः मत् शिष्यैः सनक आदिभिः ।
सर्वतः मनः आकृष्य मय्यद्धा आवेश्यते यथा ॥ 14॥

उद्धवः उवाच ।
यदा त्वं सनक आदिभ्यः येन रूपेण केशव ।
योगं आदिष्टवान् एतत् रूपं इच्छामि वेदितुम् ॥ 15॥

श्रीभगवान् उवाच ।
पुत्राः हिरण्यगर्भस्य मानसाः सनक आदयः ।
पप्रच्छुः पितरं सूक्ष्मां योगस्य ऐकांतिकीं गतिम् ॥

16॥

सनक आदयः ऊचुः ।
गुणेषु आविशते चेतः गुणाः चेतसि च प्रभो ।
कथं अन्योन्यसंत्यागः मुमुक्षोः अतितितीर्षोः ॥ 17॥

श्रीभगवान् उवाच ।
एवं पृष्टः महादेवः स्वयंभूः भूतभावनः ।
ध्यायमानः प्रश्नबीजं न अभ्यपद्यत कर्मधीः ॥ 18॥

सः मां अचिंतयत् देवः प्रश्नपारतितीर्षया ।
तस्य अहं हंसरूपेण सकाशं अगमं तदा ॥ 19॥

दृष्ट्वा मां त उपव्रज्य कृत्वा पाद अभिवंदनम् ।
ब्रह्माणं अग्रतः कृत्वा पप्रच्छुः कः भवान् इति ॥ 20॥

इति अहं मुनिभिः पृष्टः तत्त्वजिज्ञासुभिः तदा ।
यत् अवोचं अहं तेभ्यः तत् उद्धव निबोध मे ॥ 21॥

वस्तुनः यदि अनानात्वं आत्मनः प्रश्नः ईदृशः ।
कथं घटेत वः विप्राः वक्तुः वा मे कः आश्रयः ॥ 22॥

पंचात्मकेषु भूतेषु समानेषु च वस्तुतः ।
कः भवान् इति वः प्रश्नः वाचारंभः हि अनर्थकः ॥ 23॥

मनसा वचसा दृष्ट्या गृह्यते अन्यैः अपि इंद्रियैः ।
अहं एव न मत्तः अन्यत् इति बुध्यध्वं अंजसा ॥ 24॥

गुणेषु आविशते चेतः गुणाः चेतसि च प्रजाः ।
जीवस्य देहः उभयं गुणाः चेतः मत् आत्मनः ॥ 25॥

गुणेषु च आविशत् चित्तं अभीक्ष्णं गुणसेवया ।
गुणाः च चित्तप्रभवाः मत् रूपः उभयं त्यजेत् ॥ 26॥

जाग्रत् स्वप्नः सुषुप्तं च गुणतः बुद्धिवृत्तयः ।
तासां विलक्षणः जीवः साक्षित्वेन विनिश्चितः ॥ 27॥

यः हि संसृतिबंधः अयं आत्मनः गुणवृत्तिदः ।
मयि तुर्ये स्थितः जह्यात् त्यागः तत् गुणचेतसाम् ॥ 28॥

अहंकारकृतं बंधं आत्मनः अर्थविपर्ययम् ।
विद्वान् निर्विद्य संसारचिंतां तुर्ये स्थितः त्यजेत् ॥ 29॥

यावत् नानार्थधीः पुंसः न निवर्तेत युक्तिभिः ।
जागर्ति अपि स्वपन् अज्ञः स्वप्ने जागरणं यथा ॥ 30॥

असत्त्वात् आत्मनः अन्येषां भावानां तत् कृता भिदा ।
गतयः हेतवः च अस्य मृषा स्वप्नदृशः यथा ॥ 31॥

यो जागरे बहिः अनुक्षणधर्मिणः अर्थान्
भुंक्ते समस्तकरणैः हृदि तत् सदृक्षान् ।
स्वप्ने सुषुप्तः उपसंहरते सः एकः
स्मृति अन्वयात् त्रिगुणवृत्तिदृक् इंद्रिय ईशः ॥ 32॥

एवं विमृश्य गुणतः मनसः त्र्यवस्था
मत् मायया मयि कृता इति निश्चितार्थाः ।
संछिद्य हार्दं अनुमानस्त् उक्तितीक्ष्ण
ज्ञानासिना भजतः मा अखिलसंशयाधिम् ॥ 33॥

ईक्षेत विभ्रमं इदं मनसः विलासम्
दृष्टं विनष्टं अतिलोलं अलातचक्रम् ।
विज्ञानं एकं उरुधा इव विभाति माया
स्वप्नः त्रिधा गुणविसर्गकृतः विकल्पः ॥ 34॥

दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्णः
तूष्णीं भवेत् निजसुख अनुभवः निरीहः ।
संदृश्यते क्व च यदि इदं अवस्तुबुद्ध्या
त्यक्तं भ्रमाय न भवेत् स्मृतिः आनिपातात् ॥ 35॥

देहं च नश्वरं अवस्थितं उत्थितं वा
सिद्धः न पश्यति यतः अध्यगमत्स्वरूपम् ।
दैवात् अपेतं उत दैवशात् उपेतम्
वासः यथा परिकृतं मदिरामदांधः ॥ 36॥

देहः अपि दैववशगः खलु कर्म यावत्
स्वारंभकं प्रतिसमीक्षतः एव सासुः ।
तं अप्रपंचं अधिरूढसमाधियोगः
स्वाप्नं पुनः न भजते प्रतिबुद्धवस्तुः ॥ 37॥

मया एतत् उक्तं वः विप्राः गुह्यं यत् सांख्ययोगयोः ।
जानीतं आगतं यज्ञं युष्मत् धर्मविवक्षया ॥ 38॥

अहं योगस्य सांख्यस्य सत्यस्यर्तस्य तेजसः ।
परायणं द्विजश्रेष्ठाः श्रियः कीर्तेः दमस्य च ॥ 39॥

मां भजंति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
सुहृदं प्रियं आत्मानं साम्य असंग आदयः गुणाः ॥ 40॥

इति मे छिन्नसंदेहाः मुनयः सनक आदयः ।
सभाजयित्वा परया भक्त्या अगृणत संस्तवैः ॥ 41॥

तैः अहं पूजितः सम्यक् संस्तुतः परम ऋषिभिः ।
प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ 42॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे
हंसगीतानिरूपणं नाम त्रयोदशोऽध्यायः ॥ 13॥

अथ चतुर्दशोऽध्यायः ।
उद्धवः उवाच ।
वदंति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः ।
तेषां विकल्पप्राधान्यं उत अहो एकमुख्यता ॥ 1॥

भवत् उदाहृतः स्वामिन् भक्तियोगः अनपेक्षितः ।
निरस्य सर्वतः संगं येन त्वयि आविशेत् मनः ॥ 2॥

श्रीभगवान् उवाच ।
कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता ।
मया आदौ ब्रह्मणे प्रोक्ता धर्मः यस्यां मदात्मकः ॥ 3॥

तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा ।
ततः भृगु आदयः अगृह्णन् सप्तब्रह्ममहर्षयः ॥ 4॥

तेभ्यः पितृभ्यः तत् पुत्राः देवदानवगुह्यकाः ।
मनुष्याः सिद्धगंधर्वाः सविद्याधरचारणाः ॥ 5॥

किंदेवाः किन्नराः नागाः रक्षः किंपुरुष आदयः ।
बह्व्यः तेषां प्रकृतयः रजःसत्त्वतमोभुवः ॥ 6॥

याभिः भूतानि भिद्यंते भूतानां मतयः तथा ।
यथाप्रकृति सर्वेषां चित्राः वाचः स्रवंति हि ॥ 7॥

एवं प्रकृतिवैचित्र्यात् भिद्यंते मतयः नृणाम् ।
पारंपर्येण केषांचित् पाखंडमतयः अपरे ॥ 8॥

मन्मायामोहितधियः पुरुषाः पुरुषर्षभ ।
श्रेयः वदंति अनेकांतं यथाकर्म यथारुचि ॥ 9॥

धर्मं एके यशः च अन्ये कामं सत्यं दमं शमम् ।
अन्ये वदंति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् ।
केचित् यज्ञतपोदानं व्रतानि नियम अन्यमान् ॥ 10॥

आदि अंतवंतः एव एषां लोकाः कर्मविनिर्मिताः ।
दुःख उदर्काः तमोनिष्ठाः क्षुद्र आनंदाः शुच अर्पिताः ॥

11॥

मयि अर्पित मनः सभ्य निरपेक्षस्य सर्वतः ।
मया आत्मना सुखं यत् तत् कुतः स्यात् विषय आत्मनाम् ॥

12॥

अकिंचनस्य दांतस्य शांतस्य समचेतसः ।
मया संतुष्टमनसः सर्वाः सुखमयाः दिशः ॥ 13॥

न पारमेष्ठ्यं न महेंद्रधिष्ण्यम्
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीः अपुनर्भवं वा
मयि अर्पित आत्मा इच्छति मत् विना अन्यत् ॥ 14॥

न तथा मे प्रियतमः आत्मयोनिः न शंकरः ।
न च संकर्षणः न श्रीः न एव आत्मा च यथा भवान् ॥ 15॥

निरपेक्षं मुनिं शातं निर्वैरं समदर्शनम् ।
अनुव्रजामि अहं नित्यं पूयेयेति अंघ्रिरेणुभिः ॥ 16॥

निष्किंचना मयि अनुरक्तचेतसः
शांताः महांतः अखिलजीववत्सलाः ।
कामैः अनालब्धधियः जुषंति यत्
तत् नैरपेक्ष्यं न विदुः सुखं मम ॥ 17॥

बाध्यमानः अपि मद्भक्तः विषयैः अजितेंद्रियः ।
प्रायः प्रगल्भया भक्त्या विषयैः न अभिभूयते ॥ 18॥

यथा अग्निः सुसमृद्ध अर्चिः करोति एधांसि भस्मसात् ।
तथा मद्विषया भक्तिः उद्धव एनांसि कृत्स्नशः ॥ 19॥

न साधयति मां योगः न सांख्यं धर्मः उद्धव ।
न स्वाध्यायः तपः त्यागः यथा भक्तिः मम ऊर्जिता ॥ 20॥

भक्त्या अहं एकया ग्राह्यः श्रद्धया आत्मा प्रियः सताम् ।
भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि संभवात् ॥ 21॥

धर्मः सत्यदया उपेतः विद्या वा तपसान्विता ।
मद्भ्क्त्यापेतं आत्मानं न सम्यक् प्रपुनाति हि ॥ 22॥

कथं विना रोमहर्षं द्रवता चेतसा विना ।
विनानंद अश्रुकलया शुध्येत् भक्त्या विनाशयः ॥ 23॥

वाक् गद्गदा द्रवते यस्य चित्तम्
रुदति अभीक्ष्णं हसति क्वचित् च ।
विलज्जः उद्गायति नृत्यते च
मद्भक्तियुक्तः भुवनं पुनाति ॥ 24॥

यथा अग्निना हेम मलं जहाति
ध्मातं पुनः स्वं भजते च रूपम् ।
आत्मा च कर्मानुशयं विधूय
मद्भक्तियोगेन भजति अथः माम् ॥ 25॥

यथा यथा आत्मा परिमृज्यते असौ
मत्पुण्यगाथाश्रवण अभिधानैः ।
तथा तथा पश्यति वस्तु सूक्ष्मम्
चक्षुः यथा एव अंजनसंप्रयुक्तम् ॥ 26॥

विषयान् ध्यायतः चित्तं विषयेषु विषज्जते ।
मां अनुस्मरतः चित्तं मयि एव प्रविलीयते ॥ 27॥

तस्मात् असत् अभिध्यानं यथा स्वप्नमनोरथम् ।
हित्वा मयि समाधत्स्व मनः मद्भावभावितम् ॥ 28॥

स्त्रीणां स्त्रीसंगिनां संगं त्यक्त्वा दूरतः आत्मवान् ।
क्षेमे विविक्तः आसीनः चिंतयेत् मां अतंद्रितः ॥ 29॥

न तथा अस्य भवेत् क्लेशः बंधः च अन्यप्रसंगतः ।
योषित् संगात् यथा पुंसः यथा तत् संगिसंगतः ॥ 30॥

उद्धवः उवाच ।
यथा त्वां अरविंदाक्ष यादृशं वा यदात्मकम् ।
ध्यायेत् मुमुक्षुः एतत् मे ध्यानं मे वक्तुं अर्हसि ॥ 31॥

श्रीभगवान् उवाच ।
समः आसनः आसीनः समकायः यथासुखम् ।
हस्तौ उत्संगः आधाय स्वनासाग्रकृत ईक्षणः ॥ 32॥

प्राणस्य शोधयेत् मार्गं पूरकुंभकरेचकैः ।
विपर्ययेण अपि शनैः अभ्यसेत् निर्जितेंद्रियः ॥ 33॥

हृदि अविच्छिन्नं ॐकारं घंटानादं बिसोर्णवत् ।
प्राणेन उदीर्य तत्र अथ पुनः संवेशयेत् स्वरम् ॥ 34॥

एवं प्रणवसंयुक्तं प्राणं एव समभ्यसेत् ।
दशकृत्वः त्रिषवणं मासात् अर्वाक् जित अनिलः ॥35॥

हृत्पुंडरीकं अंतस्थं ऊर्ध्वनालं अधोमुखम् ।
ध्यात्वा ऊर्ध्वमुखं उन्निद्रं अष्टपत्रं सकर्णिकम् ॥ 36॥

कर्णिकायां न्यसेत् सूर्यसोमाग्नीन् उत्तरोत्तरम् ।
वह्निमध्ये स्मरेत् रूपं मम एतत् ध्यानमंगलम् ॥ 37॥

समं प्रशांतं सुमुखं दीर्घचारुचतुर्भुजम् ।
सुचारुसुंदरग्रीवं सुकपोलं शुचिस्मितम् ॥ 38॥

समान कर्ण विन्यस्त स्फुरन् मकर कुंडलम् ।
हेम अंबरं घनश्यामं श्रीवत्स श्रीनिकेतनम् ॥ 39॥

शंख चक्र गदा पद्म वनमाला विभूषितम् ।
नूपुरैः विलसत् पादं कौस्तुभ प्रभया युतम् ॥ 40॥

द्युमत् किरीट कटक कटिसूत्र अंगद अयुतम् ।
सर्वांग सुंदरं हृद्यं प्रसाद सुमुख ईक्षणम् ॥ 41॥

सुकुमारं अभिध्यायेत् सर्वांगेषु मनः दधत् ।
इंद्रियाणि इंद्रियेभ्यः मनसा आकृष्य तत् मनः ।
बुद्ध्या सारथिना धीरः प्रणयेत् मयि सर्वतः ॥ 42॥

तत् सर्व व्यापकं चित्तं आकृष्य एकत्र धारयेत् ।
न अन्यानि चिंतयेत् भूयः सुस्मितं भावयेत् मुखम् ॥ 43॥

तत्र लब्धपदं चित्तं आकृष्य व्योम्नि धारयेत् ।
तत् च त्यक्त्वा मदारोहः न किंचित् अपि चिंतयेत् ॥ 44॥

एवं समाहितमतिः मां एव आत्मानं आत्मनि ।
विचष्टे मयि सर्वात्मत् ज्योतिः ज्योतिषि संयुतम् ॥ 45॥

ध्यानेन इत्थं सुतीव्रेण युंजतः योगिनः मनः ।
संयास्यति आशु निर्वाणं द्रव्य ज्ञान क्रिया भ्रमः ॥ 46॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे
भक्तिरहस्यावधारणयोगो नाम चतुर्दशोऽध्यायः ॥ 14॥

अथ पंचदशोऽध्यायः ।
श्रीभगवान् उवाच ।
जितेंद्रियस्य युक्तस्य जितश्वासस्य योगिनः
मयि धारयतः चेतः उपतिष्ठंति सिद्धयः ॥ 1॥

उद्धवः उवाच ।
कया धारणया कास्वित् कथंस्वित् सिद्धिः अच्युत ।
कति वा सिद्धयः ब्रूहि योगिनां सिद्धिदः भवान् ॥ 2॥

श्रीभगवान् उवाच ।
सिद्धयः अष्टादश प्रोक्ता धारणायोगपारगैः ।
तासां अष्टौ मत् प्रधानाः दशः एव गुणहेतवः ॥ 3॥

अणिमा महिमा मूर्तेः लघिमा प्राप्तिः इंद्रियैः ।
प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणं ईशिता ॥ 4॥

गुणेषु असंगः वशिता यत् कामः तत् अवस्यति ।
एताः मे सिद्धयः सौम्य अष्टौ उत्पत्तिकाः मताः ॥ 5॥

अनूर्मिमत्त्वं देहे अस्मिन् दूरश्रवणदर्शनम् ।
मनोजवः कामरूपं परकायप्रवेशनम् ॥ 6॥

स्वच्छंदमृत्युः देवानां सहक्रीडानुदर्शनम् ।
यथासंकल्पसंसिद्धिः आज्ञाप्रतिहता गतिः ॥ 7॥

त्रिकालज्ञत्वं अद्वंद्वं परचित्तादि अभिज्ञता ।
अग्नि अर्क अंबु विष आदीनां प्रतिष्टंभः अपराजयः ॥ 8॥

एताः च उद्देशतः प्रोक्ता योगधारणसिद्धयः ।
यया धारणया या स्यात् यथा वा स्यात् निबोध मे ॥ 9॥

भूतसूक्ष्म आत्मनि मयि तन्मात्रं धारयेत् मनः ।
अणिमानं अवाप्नोति तन्मात्र उपासकः मम ॥ 10॥

महति आत्मन् मयि परे यथासंस्थं मनः दधत् ।
महिमानं अवाप्नोति भूतानां च पृथक् पृथक् ॥ 11॥

परमाणुमये चित्तं भूतानां मयि रंजयन् ।
कालसूक्ष्मात्मतां योगी लघिमानं अवाप्नुयात् ॥ 12॥

धारयन् मयि अहंतत्त्वे मनः वैकारिके अखिलम् ।
सर्वेंद्रियाणां आत्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥ 13॥

महति आत्मनि यः सूत्रे धारयेत् मयि मानसम् ।
प्राकाम्यं पारमेष्ठ्यं मे विंदते अव्यक्तजन्मनः ॥ 14॥

विष्णौ त्र्यधि ईश्वरे चित्तं धारयेत् कालविग्रहे ।
सः ईशित्वं अवाप्नोति क्षेत्रक्षेत्रज्ञचोदनाम् ॥ 15॥

नारायणे तुरीयाख्ये भगवत् शब्दशब्दिते ।
मनः मयि आदधत् योगी मत् धर्माः वहितां इयात् ॥ 16॥

निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।
परमानंदं आप्नोति यत्र कामः अवसीयते ॥ 17॥

श्वेतदीपपतौ चित्तं शुद्धे धर्ममये मयि ।
धारयन् श्वेततां याति षडूर्मिरहितः नरः ॥ 18॥

मयि आकाश आत्मनि प्राणे मनसा घोषं उद्वहन् ।
तत्र उपलब्धा भूतानां हंसः वाचः श्रुणोति असौ ॥ 19॥

चक्षुः त्वष्टरि संयोज्य त्वष्टारं अपि चक्षुषि ।
मां तत्र मनसा ध्यायन् विश्वं पश्यति सूक्ष्मदृक् ॥ 20॥

मनः मयि सुसंयोज्य देहं तदनु वायुना ।
मद्धारण अनुभावेन तत्र आत्मा यत्र वै मनः ॥ 21॥

यदा मनः उपादाय यत् यत् रूपं बुभूषति ।
तत् तत् भवेत् मनोरूपं मद्योगबलं आश्रयः ॥ 22॥

परकायं विशन् सिद्धः आत्मानं तत्र भावयेत् ।
पिंडं हित्वा विशेत् प्राणः वायुभूतः षडंघ्रिवत् ॥ 23॥

पार्ष्ण्या आपीड्य गुदं प्राणं हृत् उरः कंठ मूर्धसु ।
आरोप्य ब्रह्मरंध्रेण ब्रह्म नीत्वा उत्सृजेत् तनुम् ॥ 24॥

विहरिष्यन् सुराक्रीडे मत्स्थं सत्त्वं विभावयेत् ।
विमानेन उपतिष्ठंति सत्त्ववृत्तीः सुरस्त्रियः ॥ 25॥

यथा संकल्पयेत् बुद्ध्या यदा वा मत्परः पुमान् ।
मयि सत्ये मनः युंजन् तथा तत् समुपाश्नुते ॥ 26॥

यः वै मद्भावं आपन्नः ईशितुः वशितुः पुमान् ।
कुतश्चित् न विहन्येत तस्य च आज्ञा यथा मम ॥ 27॥

मद्भक्त्या शुद्धसत्त्वस्य योगिनः धारणाविदः ।
तस्य त्रैकालिकी बुद्धिः जन्म मृत्यु उपबृंहिता ॥ 28॥

अग्नि आदिभिः न हन्येत मुनेः योगं अयं वपुः ।
मद्योगश्रांतचित्तस्य यादसां उदकं यथा ॥ 29॥

मद्विभूतिः अभिध्यायन् श्रीवत्स अस्त्रबिभूषिताः ।
ध्वजातपत्रव्यजनैः सः भवेत् अपराजितः ॥ 30॥

उपासकस्य मां एवं योगधारणया मुनेः ।
सिद्धयः पूर्वकथिताः उपतिष्ठंति अशेषतः ॥ 31॥

जितेंद्रियस्य दांतस्य जितश्वास आत्मनः मुनेः ।
मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा ॥ 32॥

अंतरायान् वदंति एताः युंजतः योगं उत्तमम् ।
मया संपद्यमानस्य कालक्षेपणहेतवः ॥ 33॥

जन्म ओषधि तपो मंत्रैः यावतीः इह सिद्धयः ।
योगेन आप्नोति ताः सर्वाः न अन्यैः योगगतिं व्रजेत् ॥ 34॥

सर्वासां अपि सिद्धीनां हेतुः पतिः अहं प्रभुः ।
अहं योगस्य सांख्यस्य धर्मस्य ब्रह्मवादिनाम् ॥ 35॥

अहं आत्मा अंतरः बाह्यः अनावृतः सर्वदेहिनाम् ।
यथा भूतानि भूतेषु बहिः अंतः स्वयं तथा ॥ 36॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे
सिद्धनिरूपणयोगो नाम पंचदशोऽध्यायः ॥ 15॥

अथ षोडशोऽध्यायः ।
उद्धवः उवाच ।
त्वं ब्रह्म परमं साक्षात् अनादि अनंतं अपावृतम् ।
सर्वेषां अपि भावानां त्राणस्थिति अप्यय उद्भवः ॥ 1॥

उच्चावचेषु भूतेषु दुर्ज्ञेयं अकृत आत्मभिः ।
उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः ॥ 2॥

येषु येषु च भावेषु भक्त्या त्वां परमर्षयः ।
उपासीनाः प्रपद्यंते संसिद्धिं तत् वदस्व मे ॥ 3॥

गूढः चरसि भूतात्मा भूतानां भूतभावन ।
न त्वां पश्यंति भूतानि पश्यंतं मोहितानि ते ॥ 4॥

याः काः च भूमौ दिवि वै रसायाम्
विभूतयः दिक्षु महाविभूते ।
ताः मह्यं आख्याहि अनुभाविताः ते
नमामि ते तीर्थ पद अंघ्रिपद्मम् ॥ 5॥

श्रीभगवान् उवाच ।
एवं एतत् अहं पृष्टः प्रश्नं प्रश्नविदां वर ।
युयुत्सुना विनशने सपत्नैः अर्जुनेन वै ॥ 6॥

ज्ञात्वा ज्ञातिवधं गर्ह्यं अधर्मं राज्यहेतुकम् ।
ततः निवृत्तः हंता अहं हतः अयं इति लौकिकः ॥ 7॥

सः तदा पुरुषव्याघ्रः युक्त्या मे प्रतिबोधितः ।
अभ्यभाषत मां एवं यथा त्वं रणमूर्धनि ॥ 8॥

अहं आत्मा उद्धव आमीषां भूतानां सुहृत् ईश्वरः ।
अहं सर्वाणि भूतानि तेषां स्थिति उद्भव अप्ययः ॥ 9॥

अहं गतिः गतिमतां कालः कलयतां अहम् ।
गुणानां च अपि अहं साम्यं गुणिन्या उत्पत्तिकः गुणः ॥ 10॥

गुणिनां अपि अहं सूत्रं महतां च महान् अहम् ।
सूक्ष्माणां अपि अहं जीवः दुर्जयानां अहं मनः ॥ 11॥

हिरण्यगर्भः वेदानां मंत्राणां प्रणवः त्रिवृत् ।
अक्षराणां अकारः अस्मि पदानि छंदसां अहम् ॥ 12॥

इंद्रः अहं सर्वदेवानां वसूनामस्मि हव्यवाट् ।
आदित्यानां अहं विष्णू रुद्राणां नीललोहितः ॥ 13॥

ब्रह्मर्षीणां भृगुः अहं राजर्षीणां अहं मनुः ।
देवर्षिणां नारदः अहं हविर्धानि अस्मि धेनुषु ॥ 14॥

सिद्धेश्वराणां कपिलः सुपर्णः अहं पतत्रिणाम् ।
प्रजापतीनां दक्षः अहं पितॄणां अहं अर्यमा ॥ 15॥

मां विद्धि उद्धव दैत्यानां प्रह्लादं असुरेश्वरम् ।
सोमं नक्षत्र ओषधीनां धनेशं यक्षरक्षसाम् ॥ 16॥

ऐरावतं गजेंद्राणां यादसां वरुणं प्रभुम् ।
तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥ 17॥

उच्चैःश्रवाः तुरंगाणां धातूनां अस्मि कांचनम् ।
यमः संयमतां च अहं सर्पाणां अस्मि वासुकिः ॥ 18॥

नागेंद्राणां अनंतः अहं मृगेंद्रः श‍ऋंगिदंष्ट्रिणाम् ।
आश्रमाणां अहं तुर्यः वर्णानां प्रथमः अनघ ॥ 19॥

तीर्थानां स्रोतसां गंगा समुद्रः सरसां अहम् ।
आयुधानां धनुः अहं त्रिपुरघ्नः धनुष्मताम् ॥ 20॥

धिष्ण्यानां अस्मि अहं मेरुः गहनानां हिमालयः ।
वनस्पतीनां अश्वत्थः ओषधीनां अहं यवः ॥ 21॥

पुरोधसां वसिष्ठः अहं ब्रह्मिष्ठानां बृहस्पतिः ।
स्कंदः अहं सर्वसेनान्यां अग्रण्यां भगवान् अजः ॥ 22॥

यज्ञानां ब्रह्मयज्ञः अहं व्रतानां अविहिंसनम् ।
वायु अग्नि अर्क अंबु वाक् आत्मा शुचीनां अपि अहं शुचिः ॥ 23॥

योगानां आत्मसंरोधः मंत्रः अस्मि विजिगीषताम् ।
आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ 24॥

स्त्रीणां तु शतरूपा अहं पुंसां स्वायंभुवः मनुः ।
नारायणः मुनीनां च कुमारः ब्रह्मचारिणाम् ॥ 25॥

धर्माणां अस्मि संन्यासः क्षेमाणां अबहिः मतिः ।
गुह्यानां सूनृतं मौनं मिथुनानां अजः तु अहम् ॥ 26॥

संवत्सरः अस्मि अनिमिषां ऋतूनां मधुमाधवौ ।
मासानां मार्गशीर्षः अहं नक्षत्राणां तथा अभिजित् ॥ 27॥

अहं युगानां च कृतं धीराणां देवलः असितः ।
द्वैपायनः अस्मि व्यासानां कवीनां काव्यः आत्मवान् ॥ 28॥

वासुदेवः भगवतां त्वं भागवतेषु अहम् ।
किंपुरुषाणां हनुमान् विद्याघ्राणां सुदर्शनः ॥ 29॥

रत्नानां पद्मरागः अस्मि पद्मकोशः सुपेशसाम् ।
कुशः अस्मि दर्भजातीनां गव्यं आज्यं हविष्षु अहम् ॥

30॥

व्यवसायिनां अहं लक्ष्मीः कितवानां छलग्रहः ।
तितिक्षा अस्मि तितिक्षणां सत्त्वं सत्त्ववतां अहम् ॥ 31॥

ओजः सहोबलवतां कर्म अहं विद्धि सात्त्वताम् ।
सात्त्वतां नवमूर्तीनां आदिमूर्तिः अहं परा ॥ 32॥

विश्वावसुः पूर्वचित्तिः गंधर्व अप्सरसां अहम् ।
भूधराणां अहं स्थैर्यं गंधमात्रं अहं भुवः ॥ 33॥

अपां रसः च परमः तेजिष्ठानां विभावसुः ।
प्रभा सूर्य इंदु ताराणां शब्दः अहं नभसः परः ॥ 34॥

ब्रह्मण्यानां बलिः अहं विराणां अहं अर्जुनः ।
भूतानां स्थितिः उत्पत्तिः अहं वै प्रतिसंक्रमः ॥ 35॥

गति उक्ति उत्सर्ग उपादानं आनंद स्पर्श लक्षणम् ।
आस्वाद श्रुति अवघ्राणं अहं सर्वेंद्रिय इंद्रियम् ॥ 36॥

पृथिवी वायुः आकाशः आपः ज्योतिः अहं महान् ।
विकारः पुरुषः अव्यक्तं रजः सत्त्वं तमः परम् ।
अहं एतत् प्रसंख्यानं ज्ञानं सत्त्वविनिश्चयः ॥ 37॥

मया ईश्वरेण जीवेन गुणेन गुणिना विना ।
सर्वात्मना अपि सर्वेण न भावः विद्यते क्वचित् ॥ 38॥

संख्यानं परमाणूनां कालेन क्रियते मया ।
न तथा मे विभूतीनां सृजतः अंडानि कोटिशः ॥ 39॥

तेजः श्रीः कीर्तिः ऐश्वर्यं ह्रीः त्यागः सौभगं भगः ।
वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मे अंशकः ॥ 40॥

एताः ते कीर्तिताः सर्वाः संक्षेपेण विभूतयः ।
मनोविकाराः एव एते यथा वाचा अभिधीयते ॥ 41॥

वाचं यच्छ मनः यच्छ प्राणानि यच्छ इंद्रियाणि च ।
आत्मानं आत्मना यच्छ न भूयः कल्पसे अध्वने ॥ 42॥

यः वै वाक् मनसि सम्यक् असंयच्छन् धिया यतिः ।
तस्य व्रतं तपः दानं स्रवत्यामघटांबुवत् ॥ 43॥

तस्मात् मनः वचः प्राणान् नियच्छेत् मत् परायणः ।
मत् भक्ति युक्तया बुद्ध्या ततः परिसमाप्यते ॥ 44॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे
विभूतियोगो नाम षोडशोऽध्यायः ॥ 16॥

अथ सप्तदशोऽध्यायः ।
उद्धवः उवाच ।
यः त्वया अभितः पूर्वं धर्मः त्वत् भक्तिलक्षणः ।
वर्णाश्रम आचारवतां सर्वेषां द्विपदां अपि ॥ 1॥

यथा अनुष्ठीयमानेन त्वयि भक्तिः नृणां भवेत् ।
स्वधर्मेण अरविंदाक्ष तत् समाख्यातुं अर्हसि ॥ 2॥

पुरा किल महाबाहो धर्मं परमकं प्रभो ।
यत् तेन हंसरूपेण ब्रह्मणे अभ्यात्थ माधव ॥ 3॥

सः इदानीं सुमहता कालेन अमित्रकर्शन ।
न प्रायः भविता मर्त्यलोके प्राक् अनुशासितः ॥ 4॥

वक्ता कर्ता अविता न अन्यः धर्मस्य अच्युत ते भुवि ।
सभायां अपि वैरिंच्यां यत्र मूर्तिधराः कलाः ॥ 5॥

कर्त्रा अवित्रा प्रवक्त्रा च भवता मधुसूदन ।
त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ 6॥

तत्त्वं नः सर्वधर्मज्ञ धर्मः त्वत् भक्तिलक्षणः ।
यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ 7॥

श्रीशुकः उवाच ।
इत्थं स्वभृत्यमुख्येन पृष्टः सः भगवान् हरिः ।
प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥ 8॥

श्रीभगवान् उवाच ।
धर्म्यः एष तव प्रश्नः नैःश्रेयसकरः नृणाम् ।
वर्णाश्रम आचारवतां तं उद्धव निबोध मे ॥ 9॥

आदौ कृतयुगे वर्णः नृणां हंसः इति स्मृतः ।
कृतकृत्याः प्रजाः जात्याः तस्मात् कृतयुगं विदुः ॥ 10॥

वेदः प्रणवः एव अग्रे धर्मः अहं वृषरूपधृक् ।
उपासते तपोनिष्ठां हंसं मां मुक्तकिल्बिषाः ॥ 11॥

त्रेतामुखे महाभाग प्राणात् मे हृदयात् त्रयी ।
विद्या प्रादुः अभूत् तस्याः अहं आसं त्रिवृन्मखः ॥ 12॥

विप्र क्षत्रिय विट् शूद्राः मुख बाहु उरु पादजाः ।
वैराजात् पुरुषात् जाताः यः आत्माचारलक्षणाः ॥ 13॥

गृहाश्रमः जघनतः ब्रह्मचर्यं हृदः मम ।
वक्षःस्थानात् वने वासः न्यासः शीर्षणि संस्थितः ॥ 14॥

वर्णानां आश्रमाणां च जन्मभूमि अनुसारिणीः ।
आसन् प्रकृतयः नॄणां नीचैः नीच उत्तम उत्तमाः ॥ 15॥

शमः दमः तपः शौचं संतोषः क्षांतिः आर्जवम् ।
मद्भक्तिः च दया सत्यं ब्रह्मप्रकृतयः तु इमाः ॥ 16॥

तेजः बलं धृतिः शौर्यं तितिक्षा औदार्यं उद्यमः ।
स्थैर्यं ब्रह्मणि अत ऐश्वर्यं क्षत्रप्रकृतयः तु इमाः ॥

17॥

आस्तिक्यं दाननिष्ठा च अदंभः ब्रह्मसेवनम् ।
अतुष्टिः अर्थ उपचयैः वैश्यप्रकृतयः तु इमाः ॥ 18॥

शुश्रूषणं द्विजगवां देवानां च अपि अमायया ।
तत्र लब्धेन संतोषः शूद्रप्रकृतयः तु इमाः ॥ 19॥

अशौचं अनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः ।
कामः क्रोधः च तर्षः च स्वभावः अंतेवसायिनाम् ॥ 20॥

अहिंसा सत्यं अस्तेयं अकामक्रोधलोभता ।
भूतप्रियहितेहा च धर्मः अयं सार्ववर्णिकः ॥ 21॥

द्वितीयं प्राप्य अनुपूर्व्यात् जन्म उपनयनं द्विजः ।
वसन् गुरुकुले दांतः ब्रह्म अधीयीत च आहुतः ॥ 22॥

मेखला अजिन दंड अक्ष ब्रह्मसूत्र कमंडलून् ।
जटिलः अधौतदद्वासः अरक्तपीठः कुशान् दधत् ॥ 23॥

स्नान भोजन होमेषु जप उच्चारे च वाग्यतः ।
न च्छिंद्यात् नख रोमाणि कक्ष उपस्थगतानि अपि ॥ 24॥

रेतः न अवरिकेत् जातु ब्रह्मव्रतधरः स्वयम् ।
अवकीर्णे अवगाह्य अप्सु यतासुः त्रिपदीं जपेत् ॥ 25॥

अग्नि अर्क आचार्य गो विप्र गुरु वृद्ध सुरान् शुचिः ।
समाहितः उपासीत संध्ये च यतवाक् जपन् ॥ 26॥

आचार्यं मां विजानीयात् न अवमन्येत कर्हिचित् ।
न मर्त्यबुद्धि आसूयेत सर्वदेवमयः गुरुः ॥ 27॥

सायं प्रातः उपानीय भैक्ष्यं तस्मै निवेदयेत् ।
यत् च अन्यत् अपि अनुज्ञातं उपयुंजीत संयतः ॥ 28॥

शुश्रूषमाणः आचार्यं सदा उपासीत नीचवत् ।
यान शय्या आसन स्थानैः न अतिदूरे कृतांजलिः ॥ 29॥

एवंवृत्तः गुरुकुले वसेत् भोगविवर्जितः ।
विद्या समाप्यते यावत् बिभ्रत् व्रतं अखंडितम् ॥ 30॥

यदि असौ छंदसां लोकं आरोक्ष्यन् ब्रह्मविष्टपम् ।
गुरवे विन्यसेत् देहं स्वाध्यायार्थं वृहत् व्रतः ॥ 31॥

अग्नौ गुरौ आत्मनि च सर्वभूतेषु मां परम् ।
अपृथक् धीः उपासीत ब्रह्मवर्चस्वी अकल्मषः ॥ 32॥

स्त्रीणां निरीक्षण स्पर्श संलाप क्ष्वेलन आदिकम् ।
प्राणिनः मिथुनीभूतान् अगृहस्थः अग्रतः त्यजेत् ॥ 33॥

शौचं आचमनं स्नानं संध्या उपासनं आर्जवम् ।
तीर्थसेवा जपः अस्पृश्य अभक्ष्य असंभाष्य वर्जनम् ॥

34॥

सर्व आश्रम प्रयुक्तः अयं नियमः कुलनंदन।
मद्भावः सर्बभूतेषु मनोवाक्काय संयमः ॥ 35॥

एवं बृहत् व्रतधरः ब्राह्मणः अग्निः इव ज्वलन् ।
मद्भक्तः तीव्रतपसा दग्धकर्म आशयः अमलः ॥ 36॥

अथ अनंतरं आवेक्ष्यन् यथा जिज्ञासित आगमः ।
गुरवे दक्षिणां दत्त्वा स्नायत् गुरु अनुमोदितः ॥ 37॥

गृहं वनं वा उपविशेत् प्रव्रजेत् वा द्विज उत्तमः ।
आश्रमात् आश्रमं गच्छेत् न अन्यथा मत्परः चरेत् ॥ 38॥

गृहार्थी सदृशीं भार्यां उद्वहेत् अजुगुप्सिताम् ।
यवीयसीं तु वयसा यां सवर्णां अनुक्रमात् ॥ 39॥

इज्य अध्ययन दानानि सर्वेषां च द्विजन्मनाम् ।
प्रतिग्रहः अध्यापनं च ब्राह्मणस्य एव याजनम् ॥ 40॥

प्रतिग्रहं मन्यमानः तपः तेजोयशोनुदम् ।
अन्याभ्यां एव जीवेत शिलैः वा दोषदृक् तयोः ॥ 41॥

ब्राह्मणस्य हि देहः अयं क्षुद्रकामाय न इष्यते ।
कृच्छ्राय तपसे च इह प्रेत्य अनंतसुखाय च ॥ 42॥

शिलोंछवृत्त्या परितुष्टचित्तः
धर्मं महांतं विरजं जुषाणः ।
मयि अर्पितात्मा गृहः एव तिष्ठन्
न अतिप्रसक्तः समुपैति शांतिम् ॥ 43॥

समुद्धरंति ये विप्रं सीदंतं मत्परायणम् ।
तान् उद्धरिष्ये न चिरात् आपद्भ्यः नौः इव अर्णवात् ॥ 44॥

सर्वाः समुद्धरेत् राजा पिता इव व्यसनात् प्रजाः ।
आत्मानं आत्मना धीरः यथा गजपतिः गजान् ॥ 45॥

एवंविधः नरपतिः विमानेन अर्कवचसा ।
विधूय इह अशुभं कृत्स्नं इंद्रेण सह मोदते ॥ 46॥

सीदन् विप्रः वणिक् वृत्त्या पण्यैः एव आपदं तरेत् ।
खड्गेन वा आपदाक्रांतः न श्ववृत्त्या कथंचन ॥ 47॥

वैश्यवृत्त्या तु राजन् यः जीवेत् मृगयया आपदि ।
चरेत् वा विप्ररूपेण न श्ववृत्त्या कथंचन ॥ 48॥

शूद्रवृत्तिं भजेत् वैश्यः शूद्रः कारुकटप्रियाम् ।
कृच्छ्रात् मुक्तः न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ 49॥

वेद अध्याय स्वधा स्वाहा बलि अन्न आद्यैः यथा उदयम् ।
देवर्षि पितृभूतानि मद्रूपाणि अन्वहं यजेत् ॥ 50॥

यदृच्छया उपपन्नेन शुक्लेन उपार्जितेन वा ।
धनेन अपीडयन् भृत्यान् न्यायेन एव आहरेत् क्रतून् ॥ 51॥

कुटुंबेषु न सज्जेत न प्रमाद्येत् कुटुंबि अपि ।
विपश्चित् नश्वरं पश्येत् अदृष्टं अपि दृष्टवत् ॥ 52॥

पुत्र दारा आप्त बंधूनां संगमः पांथसंगमः ।
अनुदेहं वियंति एते स्वप्नः निद्रानुगः यथा ॥ 53॥

इत्थं परिमृशन् मुक्तः गृहेषु अतिथिवत् वसन् ।
न गृहैः अनुबध्येत निर्ममः निरहंकृतः ॥ 54॥

कर्मभिः गृहं एधीयैः इष्ट्वा मां एव भक्तिमान् ।
तिष्ठेत् वनं वा उपविशेत् प्रजावान् वा परिव्रजेत् ॥ 55॥

यः तु आसक्तं अतिः गेहे पुत्र वित्तैषण आतुरः ।
स्त्रैणः कृपणधीः मूढः मम अहं इति बध्यते ॥ 56॥

अहो मे पितरौ वृद्धौ भार्या बालात्मजा आत्मजाः ।
अनाथाः मां ऋते दीनाः कथं जीवंति दुःखिताः ॥ 57॥

एवं गृह आशय आक्षिप्त हृदयः मूढधीः अयम् ।
अतृप्तः तान् अनुध्यायन् मृतः अंधं विशते तमः ॥ 58॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे
ब्रह्मचर्यगृहस्थकर्मधर्मनिरूपणे सप्तदशोऽध्यायः ॥

17॥

अथ अष्टादशोऽध्यायः ।
श्रीभगवान् उवाच ।
वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सह एव वा ।
वनः एव वसेत् शांतः तृतीयं भागं आयुषः ॥ 1॥

कंदमूलफलैः वन्यैः मेध्यैः वृत्तिं प्रकल्पयेत् ।
वसीत वल्कलं वासः तृणपर्ण अजिनानि च ॥ 2॥

केशरोमनखश्मश्रुमलानि बिभृयात् अतः ।
न धावेत् अप्सु मज्जेत त्रिकालं स्थंडिलेशयः ॥ 3॥

ग्रीष्मे तप्येत पंचाग्नीन् वर्षास्वासारषाड् जले ।
आकंठमग्नः शिशिरः एवंवृत्तः तपश्चरेत् ॥ 4॥

अग्निपक्वं समश्नीयात् कालपक्वं अथ अपि वा ।
उलूखल अश्मकुट्टः वा दंत उलूखलः एव वा ॥ 5॥

स्वयं संचिनुयात् सर्वं आत्मनः वृत्तिकारणम् ।
देशकालबल अभिज्ञः न आददीत अन्यदा आहृतम् ॥ 6॥

वन्यैः चरुपुरोडाशैः निर्वपेत् कालचोदितान् ।
न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ 7॥

अग्निहोत्रं च दर्शः च पूर्णमासः च पूर्ववत् ।
चातुर्मास्यानि च मुनेः आम्नातानि च नैगमैः ॥ 8॥

एवं चीर्णेन तपसा मुनिः धमनिसंततः ।
मां तपोमयं आराध्य ऋषिलोकात् उपैति माम् ॥ 9॥

यः तु एतत् कृच्छ्रतः चीर्णं तपः निःश्रेयसं महत् ।
कामाय अल्पीयसे युंज्यात् वालिशः कः अपरः ततः ॥ 10॥

यदा असौ नियमे अकल्पः जरया जातवेपथुः ।
आत्मनि अग्नीन् समारोप्य मच्चित्तः अग्निं समाविशेत् ॥ 11॥

यदा कर्मविपाकेषु लोकेषु निरय आत्मसु ।
विरागः जायते सम्यक् न्यस्त अग्निः प्रव्रजेत् ततः ॥ 12॥

इष्ट्वा यथा उपदेशं मां दत्त्वा सर्वस्वं ऋत्विजे ।
अग्नीन् स्वप्राणः आवेश्य निरपेक्षः परिव्रजेत् ॥ 13॥

विप्रस्य वै संन्यसतः देवाः दारादिरूपिणः ।
विघ्नान् कुर्वंति अयं हि अस्मान् आक्रम्य समियात् परम् ॥ 14॥

बिभृयात् चेत् मुनिः वासः कौपीन आच्छादनं परम् ।
त्यक्तं न दंडपात्राभ्यां अन्यत् किंचित् अनापदि ॥ 15॥

दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेत् जलम् ।
सत्यपूतां वदेत् वाचं मनःपूतं समाचरेत् ॥ 16॥

मौन अनीहा अनिल आयामाः दंडाः वाक् देह चेतसाम् ।
नहि एते यस्य संति अंगः वेणुभिः न भवेत् यतिः ॥ 17॥

भिक्षां चतुषु वर्णेषु विगर्ह्यान् वर्जयन् चरेत् ।
सप्तागारान् असंक्लृप्तान् तुष्येत् लब्धेन तावता ॥ 18॥

बहिः जलाशयं गत्वा तत्र उपस्पृश्य वाग्यतः ।
विभज्य पावितं शेषं भुंजीत अशेषं आहृतम् ॥ 19॥

एकः चरेत् महीं एतां निःसंगः संयतेंद्रियः ।
आत्मक्रीडः आत्मरतः आत्मवान् समदर्शनः ॥ 20॥

विविक्तक्षेमशरणः मद्भावविमलाशयः ।
आत्मानं चिंतयेत् एकं अभेदेन मया मुनिः ॥ 21॥

अन्वीक्षेत आत्मनः बंधं मोक्षं च ज्ञाननिष्ठया ।
बंधः इंद्रियविक्षेपः मोक्षः एषां च संयमः ॥ 22॥

तस्मात् नियम्य षड्वर्गं मद्भावेन चरेत् मुनिः ।
विरक्तः क्षुल्लकामेभ्यः लब्ध्वा आत्मनि सुखं महत् ॥ 23॥

पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशन् चरेत् ।
पुण्यदेशसरित् शैलवन आश्रमवतीं महीम् ॥ 24॥

वानप्रस्थ आश्रम पदेषु अभीक्ष्णं भैक्ष्यं आचरेत् ।
संसिध्यत्याश्वसंमोहः शुद्धसत्त्वः शिलांधसा ॥ 25॥

न एतत् वस्तुतया पश्येत् दृश्यमानं विनश्यति ।
असक्तचित्तः विरमेत् इह अमुत्र चिकीर्षितात् ॥ 26॥

यत् एतत् आत्मनि जगत् मनोवाक्प्राणसंहतम् ।
सर्वं माया इति तर्केण स्वस्थः त्यक्त्वा न तत् स्मरेत् ॥ 27॥

ज्ञाननिष्ठः विरक्तः वा मद्भक्तः वा अनपेक्षकः ।
सलिंगान् आश्रमां त्यक्त्वा चरेत् अविधिगोचरः ॥ 28॥

बुधः बालकवत् क्रीडेत् कुशलः जडवत् चरेत् ।
वदेत् उन्मत्तवत् विद्वान् गोचर्यां नैगमः चरेत् ॥ 29॥

वेदवादरतः न स्यात् न पाखंडी न हैतुकः ।
शुष्कवादविवादे न कंचित् पक्षं समाश्रयेत् ॥ 30॥

न उद्विजेत जनात् धीरः जनं च उद्वेजयेत् न तु ।
अतिवादान् तितिक्षेत न अवमन्येत कंचन ।
देहं उद्दिश्य पशुवत् वैरं कुर्यात् न केनचित् ॥ 31॥

एकः एव परः हि आत्मा भूतेषु आत्मनि अवस्थितः ।
यथा इंदुः उदपात्रेषु भूतानि एकात्मकानि च ॥ 32॥

अलब्ध्वा न विषीदेत काले काले अशनं क्वचित् ।
लब्ध्वा न हृष्येत् धृतिं आनुभयं दैवतंत्रितम् ॥ 33॥

आहारार्थं समीहेत युक्तं तत् प्राणधारणम् ।
तत्त्वं विमृश्यते तेन तत् विज्ञाय विमुच्यते ॥ 34॥

यत् ऋच्छया उपपन्नात् अन्नं अद्यात् श्रेष्ठं उत अपरम् ।
तथा वासः तथा शय्यां प्राप्तं प्राप्तं भजेत् मुनिः ॥ 35॥

शौचं आचमनं स्नानं न तु चोदनया चरेत् ।
अन्यान् च नियमान् ज्ञानी यथा अहं लीलया ईश्वरः ॥ 36॥

नहि तस्य विकल्पाख्या या च मद्वीक्षया हता ।
आदेहांतात् क्वचित् ख्यातिः ततः संपद्यते मया ॥ 37॥

दुःख उदर्केषु कामेषु जातनिर्वेदः आत्मवान् ।
अजिज्ञासित मद्धर्मः गुरुं मुनिं उपाव्रजेत् ॥ 38॥

तावत् परिचरेत् भक्तः श्रद्धावान् अनसूयकः ।
यावत् ब्रह्म विजानीयात् मां एव गुरुं आदृतः ॥ 39॥

यः तु असंयत षड्वर्गः प्रचंड इंद्रिय सारथिः ।
ज्ञान वैराग्य रहितः त्रिदंडं उपजीवति ॥ 40॥

सुरान् आत्मानं आत्मस्थं निह्नुते मां च धर्महा ।
अविपक्व कषायः अस्मात् उष्मात् च विहीयते ॥ 41॥

भिक्षोः धर्मः शमः अहिंसा तपः ईक्षा वनौकसः ।
गृहिणः भूतरक्ष इज्याः द्विजस्य आचार्यसेवनम् ॥ 42॥

ब्रह्मचर्यं तपः शौचं संतोषः भूतसौहृदम् ।
गृहस्थस्य अपि ऋतौ गंतुः सर्वेषां मदुपासनम् ॥ 43॥

इति मां यः स्वधर्मेण भजन् नित्यं अनन्यभाक् ।
सर्वभूतेषु मद्भावः मद्भक्तिं विंदते अचिरात् ॥ 44॥

भक्त्या उद्धव अनपायिन्या सर्वलोकमहेश्वरम् ।
सर्व उत्पत्ति अपि अयं ब्रह्म कारणं मा उपयाति सः ॥ 45॥

इति स्वधर्म निर्णिक्त सत्त्वः निर्ज्ञात् मद्गतिः ।
ज्ञान विज्ञान संपन्नः न चिरात् समुपैति माम् ॥ 46॥

वर्णाश्रमवतां धर्मः एषः आचारलक्षणः ।
सः एव मद्भक्तियुतः निःश्रेयसकरः परः ॥ 47॥

एतत् ते अभिहितं साधो भवान् पृच्छति यत् च माम् ।
यथा स्वधर्मसंयुक्तः भक्तः मां समियात् परम् ॥ 48॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे
वानप्रस्थसंन्यासधर्मनिरूपणं नामाष्टादशोऽध्यायः ॥ 18॥

अथ एकोनविंशः अध्यायः ।
श्रीभगवान् उवाच ।
यः विद्याश्रुतसंपन्नः आत्मवान् न अनुमानिकः ।
मायामात्रं इदं ज्ञात्वा ज्ञानं च मयि संन्यसेत् ॥ 1॥

ज्ञानिनः तु अहं एव इष्टः स्वार्थः हेतुः च संमतः ।
स्वर्गः च एव अपवर्गः च न अन्यः अर्थः मदृते प्रियः ॥ 2॥

ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुः मम ।
ज्ञानी प्रियतमः अतः मे ज्ञानेन असौ बिभर्ति माम् ॥ 3॥

तपः तीर्थं जपः दानं पवित्राणि इतराणि च ।
न अलं कुर्वंति तां सिद्धिं या ज्ञानकलया कृता ॥ 4॥

तस्मात् ज्ञानेन सहितं ज्ञात्वा स्वात्मानं उद्धव ।
ज्ञानविज्ञानसंपन्नः भज मां भक्तिभावतः ॥ 5॥

ज्ञानविज्ञानयज्ञेन मां इष्ट्वा आत्मानं आत्मनि ।
सर्वयज्ञपतिं मां वै संसिद्धिं मुनयः अगमन्॥ 6॥

त्वयि उद्धव आश्रयति यः त्रिविधः विकारः
मायांतरा आपतति न आदि अपवर्गयोः यत् ।
जन्मादयः अस्य यत् अमी तव तस्य किं स्युः
आदि अंतयोः यत् असतः अस्ति तत् एव मध्ये ॥ 7॥

उद्धवः उवाच ।
ज्ञानं विशुद्धं विपुलं यथा एतत्
वैराग्यविज्ञानयुतं पुराणम् ।
आख्याहि विश्वेश्वर विश्वमूर्ते
त्वत् भक्तियोगं च महत् विमृग्यम् ॥ 8॥

तापत्रयेण अभिहतस्य घोरे
संतप्यमानस्य भवाध्वनीश ।
पश्यामि न अन्यत् शरणं तवांघ्रि
द्वंद्व आतपत्रात् अमृत अभिवर्षात् ॥ 9॥

दष्टं जनं संपतितं बिले अस्मिन्
कालाहिना क्षुद्रसुखोः उतर्षम् ।
समुद्धर एनं कृपया अपवर्ग्यैः
वचोभिः आसिंच महानुभाव ॥ 10॥

श्रीभगवान् उवाच ।
इत्थं एतत् पुरा राजा भीष्मं धर्मभृतां वरम् ।
अजातशत्रुः पप्रच्छ सर्वेषां नः अनुश्रुण्वताम् ॥ 11॥

निवृत्ते भारते युद्धे सुहृत् निधनविह्वलः ।
श्रुत्वा धर्मान् बहून् पश्चात् मोक्षधर्मान् अपृच्छत ॥

12॥

तान् अहं ते अभिधास्यामि देवव्रतमुखात् श्रुतान् ।
ज्ञानवैराग्यविज्ञानश्रद्धाभक्ति उपबृंहितान् ॥ 13॥

नव एकादश पंच त्रीन् भावान् भूतेषु येन वै ।
ईक्षेत अथ एकं अपि एषु तत् ज्ञानं मम निश्चितम् ॥ 14॥

एतत् एव हि विज्ञानं न तथा एकेन येन यत् ।
स्थिति उत्पत्ति अपि अयान् पश्येत् भावानां त्रिगुण आत्मनाम् ॥

15॥

आदौ अंते च मध्ये च सृज्यात् सृज्यं यत् अन्वियात् ।
पुनः तत् प्रतिसंक्रामे यत् शिष्येत तत् एव सत् ॥ 16॥

श्रुतिः प्रत्यक्षं ऐतिह्यं अनुमानं चतुष्टयम् ।
प्रमाणेषु अनवस्थानात् विकल्पात् सः विरज्यते ॥ 17॥

कर्मणां परिणामित्वात् आविरिंचात् अमंगलम् ।
विपश्चित् नश्वरं पश्येत् अदृष्टं अपि दृष्टवत् ॥ 18॥

भक्तियोगः पुरा एव उक्तः प्रीयमाणाय ते अनघ ।
पुनः च कथयिष्यामि मद्भक्तेः कारणं परम् ॥ 19॥

श्रद्धा अमृतकथायां मे शश्वत् मत् अनुकीर्तनम् ।
परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ 20॥

आदरः परिचर्यायां सर्वांगैः अभिवंदनम् ।
मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः ॥ 21॥

मदर्थेषु अंगचेष्टा च वचसा मद्गुणेरणम् ।
मय्यर्पणं च मनसः सर्वकामविवर्जनम् ॥ 22॥

मदर्थे अर्थ परित्यागः भोगस्य च सुखस्य च ।
इष्टं दत्तं हुतं जप्तं मदर्थं यत् व्रतं तपः ॥ 23॥

एवं धर्मैः मनुष्याणां उद्धव आत्मनिवेदिनाम् ।
मयि संजायते भक्तिः कः अन्यः अर्थः अस्य अवशिष्यते ॥ 24॥

यदा आत्मनि अर्पितं चित्तं शांतं सत्त्व उपबृंहितम् ।
धर्मं ज्ञानं सवैराग्यं ऐश्वर्यं च अभिपद्यते ॥ 25॥

यत् अर्पितं तत् विकल्पे इंद्रियैः परिधावति ।
रजस्वलं च आसन् निष्ठं चित्तं विद्धि विपर्ययम् ॥ 26॥

धर्मः मद्भक्तिकृत् प्रोक्तः ज्ञानं च एकात्म्यदर्शनम् ।
गुणेषु असंगः वैराग्यं ऐश्वर्यं च अणिं आदयः ॥ 27॥

उद्धवः उवाच ।
यमः कतिविधः प्रोक्तः नियमः वा अरिकर्शन ।
कः शमः कः दमः कृष्ण का तितिक्षा धृतिः प्रभो ॥ 28॥

किं दानं किं तपः शौर्यं किं सत्यं ऋतं उच्यते ।
कः त्यागः किं धनं चेष्टं कः यज्ञः का च दक्षिणा ॥

29॥

पुंसः किंस्वित् बलं श्रीमन् भगः लाभः च केशव ।
का विद्या ह्रीः परा का श्रीः किं सुखं दुःखं एव च ॥

30॥

कः पंडितः कः च मूर्खः कः पंथाः उत्पथः च कः ।
कः स्वर्गः नरकः कः स्वित् कः बंधुः उत किं गृहम् ॥ 31॥

कः आढ्यः कः दरिद्रः वा कृपणः कः ईश्वरः ।
एतान् प्रश्नान् मम ब्रूहि विपरीतान् च सत्पते ॥ 32॥

श्रीभगवान् उवाच ।
अहिंसा सत्यं अस्तेयं असंगः ह्रीः असंचयः ।
आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमा अभयम् ॥

33।
शौचं जपः तपः होमः श्रद्धा आतिथ्यं मत् अर्चनम् ।
तीर्थाटनं परार्थेहा तुष्टिः आचार्यसेवनम् ॥ 34॥

एते यमाः सनियमाः उभयोः द्वादश स्मृताः ।
पुंसां उपासिताः तात यथाकामं दुहंति हि ॥ 35॥

शमः मत् निष्ठता बुद्धेः दमः इंद्रियसंयमः ।
तितिक्षा दुःखसंमर्षः जिह्वा उपस्थजयः धृतिः ॥ 36॥

दंडन्यासः परं दानं कामत्यागः तपः स्मृतम् ।
स्वभावविजयः शौर्यं सत्यं च समदर्शनम् ॥ 37॥

ऋतं च सूनृता वाणी कविभिः परिकीर्तिता ।
कर्मस्वसंगमः शौचं त्यागः संन्यासः उच्यते ॥ 38॥

धर्मः इष्टं धनं नॄणां यज्ञः अहं भगवत्तमः ।
दक्षिणा ज्ञानसंदेशः प्राणायामः परं बलम् ॥ 39॥

भगः मे ऐश्वरः भावः लाभः मद्भक्तिः उत्तमः ।
विद्या आत्मनि भिद अबाधः जुगुप्सा ह्रीः अकर्मसु ॥ 40॥

श्रीः गुणाः नैरपेक्ष्य आद्याः सुखं दुःखसुख अत्ययः ।
दुःखं कामसुख अपेक्षा पंडितः बंधमोक्षवित् ॥ 41॥

मूर्खः देह आदि अहं बुद्धिः पंथाः मत् निगमः स्मृतः ।
उत्पथः चित्तविक्षेपः स्वर्गः सत्त्वगुण उअदयः ॥ 42॥

नरकः तमः उन्नहः बंधुः गुरुः अहं सखे ।
गृहं शरीरं मानुष्यं गुणाढ्यः हि आढ्यः उच्यते ॥ 43॥

दरिद्रः यः तु असंतुष्टः कृपणः यः अजितेंद्रियः ।
गुणेषु असक्तधीः ईशः गुणसंगः विपर्ययः ॥ 44॥

एतः उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः ।
किं वर्णितेन बहुना लक्षणं गुणदोषयोः ।
गुणदोष दृशिः दोषः गुणः तु उभयवर्जितः ॥ 45॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे भगवदुधवसंवादे
एकोनविंशोऽध्यायः ॥ 19॥

अथ विंशः अध्यायः ।
उद्धवः उवाच ।
विधिः च प्रतिषेधः च निगमः हि ईश्वरस्य ते ।
अवेक्षते अरविंदाक्ष गुणं दोषं च कर्मणाम् ॥ 1॥

वर्णाश्रम विकल्पं च प्रतिलोम अनुलोमजम् ।
द्रव्य देश वयः कालान् स्वर्गं नरकं एव च ॥ 2॥

गुण दोष भिदा दृष्टिं अंतरेण वचः तव ।
निःश्रेयसं कथं नॄणां निषेध विधि लक्षणम् ॥ 3॥

पितृदेवमनुष्याणां वेदः चक्षुः तव ईश्वर ।
श्रेयः तु अनुपलब्धे अर्थे साध्यसाधनयोः अपि ॥ 4॥

गुणदोषभिदादृष्टिः निगमात् ते न हि स्वतः ।
निगमेन अपवादः च भिदायाः इति हि भ्रमः ॥ 5॥

श्रीभगवान् उवाच ।
योगाः त्रयः मया प्रोक्ता नॄणां श्रेयोविधित्सया ।
ज्ञानं कर्म च भक्तिः च न उपायः अन्यः अस्ति कुत्रचित् ॥

6॥

निर्विण्णानां ज्ञानयोगः न्यासिनां इह कर्मसु ।
तेषु अनिर्विण्णचित्तानां कर्मयोगः ति कामिनाम् ॥ 7॥

यदृच्छया मत् कथा आदौ जातश्रद्धः तु यः पुमान् ।
न निर्विण्णः न अतिसक्तः भक्तियोगः अस्य सिद्धिदः ॥ 8॥

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत् कथाश्रवण आदौ वा श्रद्धा यावत् न जायते ॥ 9॥

स्वधर्मस्थः यजन्यज्ञैः अनाशीः कामः उद्धव ।
न याति स्वर्गनरकौ यदि अन्यत्र समाचरेत् ॥ 10॥

अस्मिन् लोके वर्तमानः स्वधर्मस्थः अनघः शुचिः ।
ज्ञानं विशुद्धं आप्नोति मद्भक्तिं वा यदृच्छया ॥ 11॥

स्वर्गिणः अपि एतं इच्छंति लोकं निरयिणः तथा ।
साधकं ज्ञानभक्तिभ्यां उभयं तत् असाधकम् ॥ 12॥

न नरः स्वर्गतिं कांक्षेत् नारकीं वा विचक्षणः ।
न इमं लोकं च कांक्षेत देह आवेशात् प्रमाद्यति ॥ 13॥

एतत् विद्वान् पुरा मृत्योः अभवाय घटेत सः ।
अप्रमत्तः इदं ज्ञात्वा मर्त्यं अपि अर्थसिद्धिदम् ॥ 14॥

छिद्यमानं यमैः एतैः कृतनीडं वनस्पतिम् ।
खगः स्वकेतं उत्सृज्य क्षेमं याति हि अलंपटः ॥ 15॥

अहोरात्रैः छिद्यमानं बुद्ध्वायुः भयवेपथुः ।
मुक्तसंगः परं बुद्ध्वा निरीह उपशाम्यति ॥ 16॥

नृदेहं आद्यं सुलभं सुदुर्लभम्
प्लवं सुकल्पं गुरुकर्णधारम् ।
मया अनुकूलेन नभस्वतेरितम्
पुमान् भवाब्धिं न तरेत् सः आत्महा ॥ 17॥

यदा आरंभेषु निर्विण्णः विरक्तः संयतेंद्रियः ।
अभ्यासेन आत्मनः योगी धारयेत् अचलं मनः ॥ 18॥

धार्यमाणं मनः यः हि भ्राम्यदाशु अनवस्थितम् ।
अतंद्रितः अनुरोधेन मार्गेण आत्मवशं नयेत् ॥ 19॥

मनोगतिं न विसृजेत् जितप्राणः जितेंद्रियः ।
सत्त्वसंपन्नया बुद्ध्या मनः आत्मवशं नयेत् ॥ 20॥

एषः वै परमः योगः मनसः संग्रहः स्मृतः ।
हृदयज्ञत्वं अन्विच्छन् दम्यस्य एव अर्वतः मुहुः ॥ 21॥

सांख्येन सर्वभावानां प्रतिलोम अनुलोमतः ।
भव अपि अयौ अनुध्ययेत् मनः यावत् प्रसीदति ॥ 22॥

निर्विण्णस्य विरक्तस्य पुरुषस्य उक्तवेदिनः ।
मनः त्यजति दौरात्म्यं चिंतितस्य अनुचिंतया ॥ 23॥

यम आदिभिः योगपथैः आन्वीक्षिक्या च विद्यया ।
मम अर्चोपासनाभिः वा न अन्यैः योग्यं स्मरेत् मनः ॥ 24॥

यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् ।
योगेन एव दहेत् अंहः न अन्यत् तत्र कदाचन ॥ 25॥

स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः ।
कर्मणां जाति अशुद्धानां अनेन नियमः कृतः ।
गुणदोषविधानेन संगानां त्याजनेच्छया ॥ 26॥

जातश्रद्दः मत्कथासु निर्विण्णः सर्वकर्मसु ।
वेद दुःखात्मकान् कामान् परित्यागे अपि अनीश्वरः ॥ 27॥

ततः भजेत मां प्रीतः श्रद्धालुः दृढनिश्चयः ।
जुषमाणः च तान् कामान् दुःख उदर्कान् च गर्हयन् ॥ 28॥

प्रोक्तेन भक्तियोगेन भजतः मा असकृत् मुनेः ।
कामाः हृदय्याः नश्यंति सर्वे मयि हृदि स्थिते ॥ 29॥

भिद्यते हृदयग्रंथिः छिद्यंते सर्वसंशयाः ।
क्षीयंते च अस्य कर्माणि मयि दृष्टे अखिल आत्मनि ॥ 30॥

तस्मात् मद्भक्तियुक्तस्य योगिनः वै मत् आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयः भवेत् इह ॥ 31॥

यत् कर्मभिः यत् तपसा ज्ञानवैराग्यतः च यत् ।
योगेन दानधर्मेण श्रेयोभिः इतरैः अपि ॥ 32॥

सर्वं मद्भक्तियोगेन मद्भक्तः लभते अंजसा ।
स्वर्ग अपवर्गं मत् धाम कथंचित् यदि वांछति ॥ 33॥

न किंचित् साधवः धीराः भक्ताः हि एकांतिनः मम ।
वांछति अपि मया दत्तं कैवल्यं अपुनर्भवम् ॥ 34॥

नैरपेक्ष्यं परं प्राहुः निःश्रेयसं अनल्पकम् ।
तस्मात् निराशिषः भक्तिः निरपेक्षस्य मे भवेत् ॥ 35॥

न मयि एकांतभक्तानां गुणदोष उद्भवाः गुणाः ।
साधूनां समचित्तानां बुद्धेः परं उपेयुषाम् ॥ 36॥

एवं एतत् मया आदिष्टान् अनुतिष्ठंति मे पथः ।
क्षेमं विंदंति मत् स्थानं यत् ब्रह्म परमं विदुः ॥ 37॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे भगवदुद्धवसंवादे
वेदत्रयीविभागयोगो नाम विंशोऽध्यायः ॥ 20॥

अथ एकविंशः अध्यायः ।
श्रीभगवान् उवाच ।
यः एतान् मत्पथः हित्वा भक्तिज्ञानक्रियात्मकान् ।
क्षुद्रान् कामान् चलैः प्राणैः जुषंतः संसरंति ते ॥ 1॥

स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः ।
विपर्ययः तु दोषः स्यात् उभयोः एषः निश्चयः ॥ 2॥

शुद्धि अशुद्धी विधीयेते समानेषु अपि वस्तुषु ।
द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभ अशुभौ ॥ 3॥

धर्मार्थं व्यवहारार्थं यात्रार्थं इति च अनघ ।
दर्शितः अयं मया आचारः धर्मं उद्वहतां धुरम् ॥ 4॥

भूमि अंबु अग्नि अनिल आकाशाः भूतानां पंच धातवः ।
आब्रह्म स्थावर आदीनां शरीराः आत्मसंयुताः ॥ 5॥

वेदेन नामरूपाणि विषमाणि समेषु अपि ।
धातुषु उद्धव कल्प्यंतः एतेषां स्वार्थसिद्धये ॥ 6॥

देश काल आदि भावानां वस्तूनां मम सत्तम ।
गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥ 7॥

अकृष्णसारः देशानां अब्रह्मण्यः अशुचिः भवेत् ।
कृष्णसारः अपि असौवीर कीकट असंस्कृतेरिणम् ॥ 8॥

कर्मण्यः गुणवान् कालः द्रव्यतः स्वतः एव वा ।
यतः निवर्तते कर्म सः दोषः अकर्मकः स्मृतः ॥ 9॥

द्रव्यस्य शुद्धि अशुद्धी च द्रव्येण वचनेन च ।
संस्कारेण अथ कालेन महत्त्व अल्पतया अथवा ॥ 10॥

शक्त्या अशक्त्या अथवा बुद्ध्या समृद्ध्या च यत् आत्मने ।
अघं कुर्वंति हि यथा देश अवस्था अनुसारतः ॥ 11॥

धान्य दारु अस्थि तंतूनां रस तैजस चर्मणाम् ।
काल वायु अग्नि मृत्तोयैः पार्थिवानां युत अयुतैः ॥ 12॥

अमेध्यलिप्तं यत् येन गंधं लेपं व्यपोहति ।
भजते प्रकृतिं तस्य तत् शौचं तावत् इष्यते ॥ 13॥

स्नान दान तपः अवस्था वीर्य संस्कार कर्मभिः ।
मत् स्मृत्या च आत्मनः शौचं शुद्धः कर्म आचरेत् द्विजः ॥ 14॥

मंत्रस्य च परिज्ञानं कर्मशुद्धिः मदर्पणम् ।
धर्मः संपद्यते षड्भिः अधर्मः तु विपर्ययः ॥ 15॥

क्वचित् गुणः अपि दोषः स्यात् दोषः अपि विधिना गुणः ।
गुणदोषार्थनियमः तत् भिदां एव बाधते ॥ 16॥

समानकर्म आचरणं पतितानां न पातकम् ।
औत्पत्तिकः गुणः संगः न शयानः पतति अधः ॥ 17॥

यतः यतः निवर्तेत विमुच्येत ततः ततः ।
एषः धर्मः नॄणां क्षेमः शोकमोहभय अपहः ॥ 18॥

विषयेषु गुणाध्यासात् पुंसः संगः ततः भवेत् ।
संगात् तत्र भवेत् कामः कामात् एव कलिः नॄणाम् ॥ 19॥

कलेः दुर्विषहः क्रोधः तमः तं अनुवर्तते ।
तमसा ग्रस्यते पुंसः चेतना व्यापिनी द्रुतम् ॥ 20॥

तया विरहितः साधो जंतुः शून्याय कल्पते ।
ततः अस्य स्वार्थविभ्रंशः मूर्च्छितस्य मृतस्य च ॥ 21॥

विषयाभिनिवेशेन न आत्मानं वेद न अपरम् ।
वृक्षजीविकया जीवन् व्यर्थं भस्त्र इव यः श्वसन् ॥ 22॥

फलश्रुतिः इयं नॄणां न श्रेयः रोचनं परम् ।
श्रेयोविवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥ 23॥

उत्पत्ति एव हि कामेषु प्राणेषु स्वजनेषु च ।
आसक्तमनसः मर्त्या आत्मनः अनर्थहेतुषु ॥ 24॥

न तान् अविदुषः स्वार्थं भ्राम्यतः वृजिनाध्वनि ।
कथं युंज्यात् पुनः तेषु तान् तमः विशतः बुधः ॥ 25॥

एवं व्यवसितं केचित् अविज्ञाय कुबुद्धयः ।
फलश्रुतिं कुसुमितां न वेदज्ञाः वदंति हि ॥ 26॥

कामिनः कृपणाः लुब्धाः पुष्पेषु फलबुद्धयः ।
अग्निमुग्धा धुमतांताः स्वं लोकं न विंदंति ते ॥ 27॥

न ते मां अंगः जानंति हृदिस्थं यः इदं यतः ।
उक्थशस्त्राः हि असुतृपः यथा नीहारचक्षुषः ॥ 28॥

ते मे मतं अविज्ञाय परोक्षं विषयात्मकाः ।
हिंसायां यदि रागः स्यात् यज्ञः एव न चोदना ॥ 29॥

हिंसाविहाराः हि अलब्धैः पशुभिः स्वसुखेच्छया ।
यजंते देवताः यज्ञैः पितृभूतपतीन् खलाः ॥ 30॥

स्वप्न् उपमं अमुं लोकं असंतं श्रवणप्रियम् ।
आशिषः हृदि संकल्प्य त्यजंति अर्थान् यथा वणिक् ॥ 31॥

रजःसत्त्वतमोनिष्ठाः रजःसत्त्वतमोजुषः ।
उपासतः इंद्रमुख्यान् देवादीन् न तथा एव माम् ॥ 32॥

इष्ट्वा इह देवताः यज्ञैः गत्वा रंस्यामहे दिवि ।
तस्य अंतः इह भूयास्मः महाशाला महाकुलाः ॥ 33॥

एवं पुष्पितया वाचा व्याक्षिप्तमनसां नॄणाम् ।
मानिनान् च अतिस्तब्धानां मद्वार्ता अपि न रोचते ॥ 34॥

वेदाः ब्रह्मात्मविषयाः त्रिकांडविषयाः इमे ।
परोक्षवादाः ऋषयः परोक्षं मम च प्रियम् ॥ 35॥

शब्दब्रह्म सुदुर्बोधं प्राण इंद्रिय मनोमयम् ।
अनंतपारं गंभीरं दुर्विगाह्यं समुद्रवत् ॥ 36॥

मया उपबृंहितं भूम्ना ब्रह्मणा अनंतशक्तिना ।
भूतेषु घोषरूपेण बिसेषु ऊर्ण इव लक्ष्यते ॥ 37॥

यथा ऊर्णनाभिः हृदयात् ऊर्णां उद्वमते मुखात् ।
आकाशात् घोषवान् प्राणः मनसा स्पर्शरूपिणा ॥ 38॥

छंदोमयः अमृतमयः सहस्रपदवीं प्रभुः ।
ॐकारात् व्यंजित स्पर्श स्वर उष्म अंतस्थ भूषिताम् ॥

39॥

विचित्रभाषाविततां छंदोभिः चतुर उत्तरैः ।
अनंतपारां बृहतीं सृजति आक्षिपते स्वयम् ॥ 40॥

गायत्री उष्णिक् अनुष्टुप् च बृहती पंक्तिः एव च ।
त्रिष्टुप् जगती अतिच्छंदः हि अत्यष्टि अतिजगत् विराट् ॥ 41॥

किं विधत्ते किं आचष्टे किं अनूद्य विकल्पयेत् ।
इति अस्याः हृदयं लोके न अन्यः मत् वेद कश्चन ॥42॥

मां विधत्ते अभिधत्ते मां विकल्प्य अपोह्यते तु अहम् ।
एतावान् सर्ववेदार्थः शब्दः आस्थाय मां भिदाम् ।
मायामात्रं अनूद्य अंते प्रतिषिध्य प्रसीदति ॥ 43॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे भगवद्द्धवसंवादे
वेदत्रयविभागनिरूपणं नाम एकविंशोऽध्यायः ॥ 21॥

अथ द्वाविंशः अध्यायः ।
उद्धवः उवाच ।
कति तत्त्वानि विश्वेश संख्यातानि ऋषिभिः प्रभो ।
नव एकादश पंच त्रीणि आत्थ त्वं इह शुश्रुम ॥ 1॥

केचित् षड्विंशतिं प्राहुः अपरे पंचविंशतिम् ।
सप्त एके नव षट् केचित् चत्वारि एकादश अपरे ।
केचित् सप्तदश प्राहुः षोडश एके त्रयोदश ॥ 2॥

एतावत् त्वं हि संख्यानां ऋषयः यत् विवक्षया ।
गायंति पृथक् आयुष्मन् इदं नः वक्तुं अर्हसि ॥ 3॥

श्रीभगवान् उवाच ।
युक्तं च संति सर्वत्र भाषंते ब्राह्मणाः यथा ।
मायां मदीयां उद्गृह्य वदतां किं नु दुर्घटम् ॥ 4॥

न एतत् एवं यथा आत्थ त्वं यत् अहं वच्मि तत् तथा ।
एवं विवदतां हेतुं शक्तयः मे दुरत्ययाः ॥ 5॥

यासां व्यतिकरात् आसीत् विकल्पः वदतां पदम् ।
प्राप्ते शमदमे अपि एति वादस्तमनु शाम्यति ॥ 6॥

परस्परान् अनुप्रवेशात् तत्त्वानां पुरुषर्षभ ।
पौर्व अपर्य प्रसंख्यानं यथा वक्तुः विवक्षितम् ॥ 7॥

एकस्मिन् अपि दृश्यंते प्रविष्टानि इतराणि च ।
पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः ॥ 8॥

पौर्व अपर्यं अतः अमीषां प्रसंख्यानं अभीप्सताम् ।
यथा विविक्तं यत् वक्त्रं गृह्णीमः युक्तिसंभवात् ॥ 9॥

अनादि अविद्यायुक्तस्य पुरुषस्य आत्मवेदनम् ।
स्वतः न संभवात् अन्यः तत्त्वज्ञः ज्ञानदः भवेत् ॥ 10॥

पुरुष ईश्वरयोः अत्र न वैलक्षण्यं अणु अपि ।
तत् अन्यकल्पनापार्था ज्ञानं च प्रकृतेः गुणः ॥ 11॥

प्रकृतिः गुणसाम्यं वै प्रकृतेः न आत्मनः गुणाः ।
सत्त्वं रजः तमः इति स्थिति उत्पत्ति अंतहेतवः ॥ 12॥

सत्त्वं ज्ञानं रजः कर्म तमः अज्ञानं इह उच्यते ।
गुणव्यतिकरः कालः स्वभावः सूत्रं एव च ॥ 13॥

पुरुषः प्रकृतिः व्यक्तं अहंकारः नभः अनिलः ।
ज्योतिः आपः क्षितिः इति तत्त्वानि उक्तानि मे नव ॥ 14॥

श्रोत्रं त्वक् दर्शनं घ्राणः जिह्वा इति ज्ञानशक्तयः ।
वाक् पाणि उपस्थ पायु अंघ्रिः कर्माण्यंग उभयं मनः ॥ 15॥

शब्दः स्पर्शः रसः गंधः रूपं च इति अर्थजातयः ।
गति उक्ति उत्सर्ग शिल्पानि कर्म आयतन सिद्धयः ॥ 16॥

सर्ग आदौ प्रकृतिः हि अस्य कार्य कारण रूपिणी ।
सत्त्व आदिभिः गुणैः धत्ते पुरुषः अव्यक्तः ईक्षते ॥ 17॥

व्यक्त आदयः विकुर्वाणाः धातवः पुरुष ईक्षया ।
लब्धवीर्याः सृजंति अंडं संहताः प्रकृतेः बलात् ॥ 18॥

सप्त एव धातवः इति तत्र अर्थाः पंच खादयः ।
ज्ञानं आत्मा उभय आधारः ततः देह इंद्रिय आसवः ॥ 19॥

षड् इति अत्र अपि भूतानि पंच षष्ठः परः पुमान् ।
तैः युक्तः आत्मसंभूतैः सृष्ट्वा इदं समुपाविशत् ॥ 20॥

चत्वारि एव इति तत्र अपि तेजः आपः अन्नं आत्मनः ।
जातानि तैः इदं जातं जन्म अवयविनः खलु ॥ 21॥

संख्याने सप्तदशके भूतमात्र इंद्रियाणि च ।
पंचपंच एक मनसा आत्मा सप्तदशः स्मृतः ॥ 22॥

तद्वत् षोडशसंख्याने आत्मा एव मनः उच्यते ।
भूतेंद्रियाणि पंच एव मनः आत्मा त्रयोदशः ॥ 23॥

एकादशत्वः आत्मा असौ महाभूतेंद्रियाणि च ।
अष्टौ प्रकृतयः च एव पुरुषः च नव इति अथ ॥ 24॥

इति नाना प्रसंख्यानं तत्त्वानां ऋषिभिः कृतम् ।
सर्वं न्याय्यं युक्तिमत्वात् विदुषां किं अशोभनम् ॥ 25॥

उद्धवः उवाच ।
प्रकृतिः पुरुषः च उभौ यदि अपि आत्मविलक्षणौ ।
अन्योन्य अपाश्रयात् कृष्ण दृश्यते न भिदा तयोः ।
प्रकृतौ लक्ष्यते हि आत्मा प्रकृतिः च तथा आत्मनि ॥ 26॥

एवं मे पुंडरीकाक्ष महांतं संशयं हृदि ।
छेत्तुं अर्हसि सर्वज्ञ वचोभिः नयनैपुणैः ॥ 27॥

त्वत्तः ज्ञानं हि जीवानां प्रमोषः ते अत्र शक्तितः ।
त्वं एव हि आत्म मायाया गतिं वेत्थ न च अपरः ॥ 28॥

श्रीभगवान् उवाच ।
प्रकृतिः पुरुषः च इति विकल्पः पुरुषर्षभ ।
एषः वैकारिकः सर्गः गुणव्यतिकरात्मकः ॥ 29॥

मम अंग माया गुणमयी अनेकधा
विकल्पबुद्धीः च गुणैः विधत्ते ।
वैकारिकः त्रिविधः अध्यात्मं एकम्
अथ अधिदैवं अधिभूतं अन्यत् ॥ 30॥

दृक् रूपं आर्कं वपुः अत्र रंध्रे
परस्परं सिध्यति यः स्वतः खे ।
आत्मा यत् एषं अपरः यः आद्यः
स्वया अनुभूत्य अखिलसिद्धसिद्धिः ।
एवं त्वक् आदि श्रवणादि चक्षुः
जिह्व आदि नास आदि च चित्तयुक्तम् ॥ 31॥

यः असौ गुणक्षोभकृतौ विकारः
प्रधानमूलात् महतः प्रसूतः ।
अहं त्रिवृत् मोहविकल्पहेतुः
वैकारिकः तामसः ऐंद्रियः च ॥ 32॥

आत्मापरिज्ञानमयः विवादः
हि अस्ति इति न अस्ति इति भिदार्थनिष्ठः ।
व्यर्थः अपि न एव उपरमेत पुंसां
मत्तः परावृत्तधियां स्वलोकात् ॥ 33॥

उद्धवः उवाच ।
त्वत्तः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो ।
उच्च अवचान् यथा देहान् गृह्णंति विसृजंति च ॥ 34॥

तत् मम आख्याहि गोविंद दुर्विभाव्यं अनात्मभिः ।
न हि एतत् प्रायशः लोके विद्वांसः संति वंचिताः ॥ 35॥

श्रीभगवान् उवाच ।
मनः कर्ममयं नृणां इंद्रियैः पंचभिः युतम् ।
लोकात् लोकं प्रयाति अन्यः आत्मा तत् अनुवर्तते ॥ 36॥

ध्यायन् मनः अनुविषयान् दृष्टान् वा अनुश्रुतान् अथ ।
उद्यत् सीदत् कर्मतंत्रं स्मृतिः तत् अनुशाम्यति ॥ 37॥

विषय अभिनिवेशेन न आत्मानं यत् स्मरेत् पुनः ।
जंतोः वै कस्यचित् हेतोः मृत्युः अत्यंतविस्मृतिः ॥ 38॥

जन्म तु आत्मतया पुंसः सर्वभावेन भूरिद ।
विषय स्वीकृतिं प्राहुः यथा स्वप्नमनोरथः ॥ 39॥

स्वप्नं मनोरथं च इत्थं प्राक्तनं न स्मरति असौ ।
तत्र पूर्वं इव आत्मानं अपूर्वं च अनुपश्यति ॥ 40॥

इंद्रिय आयन सृष्ट्या इदं त्रैविध्यं भाति वस्तुनि ।
बहिः अंतः भिदाहेतुः जनः असत् जनकृत् यथा ॥ 41॥

नित्यदा हि अंगः भूतानि भवंति न भवंति च ।
कालेन अल्क्ष्यवेगेन सूक्ष्मत्वात् तत् न दृश्यते ॥ 42॥

यथा अर्चिषां स्रोतसां च फलानां वा वनस्पतेः ।
तथा एव सर्वभूतानां वयः अवस्था आदयः कृताः ॥ 43॥

सः अयं दीपः अर्चिषां यद्वत् स्रोतसां तत् इदं जलम् ।
सः अयं पुमान् इति नृणां मृषाः गीः धीः मृषा
आयुषाम् ॥ 44॥

मा स्वस्य कर्मबीजेन जायते सः अपि अयं पुमान् ।
म्रियते वामरः भ्रांत्या यथा अग्निः दारु संयुतः ॥ 45॥

निषेकगर्भजन्मानि बाल्यकौमारयौवनम् ।
वयोमध्यं जरा मृत्युः इति अवस्थाः तनोः नव ॥ 46॥

एताः मनोरथमयीः हि अन्यस्य उच्चावचाः तनूः ।
गुणसंगात् उपादत्ते क्वचित् कश्चित् जहाति च ॥ 47॥

आत्मनः पितृपुत्राभ्यां अनुमेयौ भवाप्ययौ ।
न भवाप्ययवस्तूनां अभिज्ञः द्वयलक्षणः ॥ 48॥

तरोः बीजविपाकाभ्यां यः विद्वात् जन्मसंयमौ ।
तरोः विलक्षणः द्रष्टा एवं द्रष्टा तनोः पृथक् ॥ 49॥

प्रकृतेः एवं आत्मानं अविविच्य अबुधः पुमान् ।
तत्त्वेन स्पर्शसंमूढः संसारं प्रतिपद्यते ॥ 50॥

सत्त्वसंगात् ऋषीन् देवान् रजसा असुरमानुषान् ।
तमसा भूततिर्यक्त्वं भ्रामितः याति कर्मभिः ॥ 51॥

नृत्यतः गायतः पश्यन् यथा एव अनुकरोति तान् ।
एवं बुद्धिगुणान् पश्यन् अनीहः अपि अनुकार्यते ॥ 52॥

यथा अंभसा प्रचलता तरवः अपि चलाः इव ।
चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमति इव भूः ॥ 53॥

यथा मनोरथधियः विषयानुभवः मृषा ।
स्वप्नदृष्टाः च दाशार्ह तथा संसारः आत्मनः ॥ 54॥

अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते ।
ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा ॥ 55॥

तस्मात् उद्धव मा भुंक्ष्व विषयान् असत् इंद्रियैः ।
आत्मा अग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम् ॥ 56॥

क्षिप्तः अवमानितः असद्भिः प्रलब्धः असूयितः अथवा ।
ताडितः संनिबद्धः वा वृत्त्या वा परिहापितः ॥ 57॥

निष्ठितः मूत्रितः बहुधा एवं प्रकंपितः ।
श्रेयस्कामः कृच्छ्रगतः आत्मना आत्मानं उद्धरेत् ॥ 58॥

उद्धवः उवाच ।
यथा एवं अनुबुद्ध्येयं वद नः वदतां वर ।
सुदुःसहं इमं मन्यः आत्मनि असत् अतिक्रमम् ॥ 59॥

विदुषं अपि विश्वात्मन् प्रकृतिः हि बलीयसी ।
ऋते त्वत् धर्मनिरतान् शांताः ते चरणालयान् ॥ 60॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे भगवदुद्धवसंवादे
द्वाविंशोऽध्यायः ॥ 22॥

अथ त्रयोविंशः अध्यायः ।
बादरायणिः उवाच ।
सः एवं आशंसितः उद्धवेन
भागवतमुख्येन दाशार्हमुख्यः ।
सभाजयन् बृत्यवचः मुकुंदः
तं आबभाषे श्रवणीयवीर्यः ॥ 1॥

श्रीभगवान् उवाच ।
बर्हस्पत्य सः वै न अत्र साधुः वै दुर्जन् ईरितैः ।
दुरुक्तैः भिन्नं आत्मानं यः समाधातुं ईश्वरः ॥ 2॥

न तथा तप्यते विद्धः पुमान् बाणैः सुमर्मगैः ।
यथा तुदंति मर्मस्थाः हि असतां परुषेषवः ॥ 3॥

कथयंति महत्पुण्यं इतिहासं इह उद्धव ।
तं अहं वर्णयिष्यामि निबोध सुसमाहितः ॥ 4॥

केनचित् भिक्षुणा गीतं परिभूतेन दुर्जनैः ।
स्मरताः धृतियुक्तेन विपाकं निजकर्मणाम् ॥ 5॥

अवनिषु द्विजः कश्चित् आसीत् आढ्यतमः श्रिया ।
वार्तावृत्तिः कदर्यः तु कामी लुब्धः अतिकोपनः ॥ 6॥

ज्ञातयः अतिथयः तस्य वाङ्मात्रेण अपि न अर्चिताः ।
शून्य अवसथः आत्मा अपि काले कामैः अनर्चितः ॥ 7॥

दुःशीलस्य कदर्यस्य द्रुह्यंते पुत्रबांधवाः ।
दारा दुहितरः भृत्याः विषण्णाः न आचरन् प्रियम् ॥ 8॥

तस्य एवं यक्षवित्तस्य च्युतस्य उभयलोकतः ।
धर्मकामविहीनस्य चुक्रुधुः पंचभागिनः ॥ 9॥

तत् अवध्यान विस्रस्त पुण्य स्कंधस्य भूरिद ।
अर्थः अपि अगच्छन् निधनं बहु आयास परिश्रमः ॥ 10॥

ज्ञातयः जगृहुः किंचित् किंचित् अस्यवः उद्धव ।
दैवतः कालतः किंचित् ब्रह्मबंधोः नृपार्थिवात् ॥ 11॥

सः एवं द्रविणे नष्टे धर्मकामविवर्जितः ।
उपेक्षितः च स्वजनैः चिंतां आप दुरत्ययाम् ॥ 12॥

तस्य एवं ध्यायतः दीर्घं नष्टरायः तपस्विनः ।
खिद्यतः बाष्पकंठस्य निर्वेदः सुमहान् अभूत् ॥ 13॥

सः च आह इदं अहो कष्टं वृथा आत्मा मे अनुतापितः ।
न धर्माय न कामाय यस्य अर्थ आयासः ईदृशः ॥ 14॥

प्रायेण अर्थाः कदर्याणां न सुखाय कदाचन ।
इह च आत्मोपतापाय मृतस्य नरकाय च ॥ 15॥

यशः यशस्विनां शुद्धं श्लाघ्याः ये गुणिनां गुणाः ।
लोभः स्वल्पः अपि तान् हंति श्वित्रः रूपं इव इप्सितम् ॥ 16॥

अर्थस्य साधने सिद्धः उत्कर्षे रक्षणे व्यये ।
नाश उपभोगः आयासः त्रासः चिंता भ्रमः नृणाम् ॥ 17॥

स्तेयं हिंसा अनृतं दंभः कामः क्रोधः स्मयः मदः ।
भेदः वैरं अविश्वासः संस्पर्धा व्यसनानि च ॥ 18॥

एते पंचदशान् अर्थाः हि अर्थमूलाः मताः नृणाम् ।
तस्मात् अनर्थं अर्थाख्यं श्रेयः अर्थी दूरतः त्यजेत् ॥ 19॥

भिद्यंते भ्रातरः दाराः पितरः सुहृदः तथा ।
एकास्निग्धाः काकिणिना सद्यः सर्वे अरयः कृताः ॥ 20॥

अर्थेन अल्पीयसा हि एते संरब्धा दीप्तं अन्यवः ।
त्यजंति आशु स्पृधः घ्नंति सहसा उत्सृज्य सौहृदम् ॥

21॥

लब्ध्वा जन्म अमरप्रार्थ्यं मानुष्यं तत् द्विज अग्र्यताम् ।
तत् अनादृत्य ये स्वार्थं घ्नंति यांति अशुभां गतिम् ॥

22॥

स्वर्ग अपवर्गयोः द्वारं प्राप्य लोकं इमं पुमान् ।
द्रविणे कः अनूषज्जेत मर्त्यः अनर्थस्य धामनि ॥ 23॥

देवर्षि पितृ भूतानि ज्ञातीन् बंधून् च भागिनः ।
असंविभज्य च आत्मानं यक्षवित्तः पतति अधः ॥ 24॥

व्यर्थया अर्थेहया वित्तं प्रमत्तस्य वयः बलम् ।
कुशलाः येन सिध्यंति जरठः किं नु साधये ॥ 25॥

कस्मात् संक्लिश्यते विद्वान् व्यर्थया अर्थेहया असकृत् ।
कस्यचित् मायया नूनं लोकः अयं सुविमोहितः ॥ 26॥

किं धनैः धनदैः वा किं कामैः वा कामदैः उत ।
मृत्युना ग्रस्यमानस्य कर्मभिः वा उत जन्मदैः ॥ 27॥

नूनं मे भगवान् तुष्टः सर्वदेवमयः हरिः ।
येन नीतः दशां एतां निर्वेदः च आत्मनः प्लवः ॥ 28॥

सः अहं कलौ अशेषेण शोषयिह्ह्ये अंगं आत्मनः ।
अप्रमत्तः अखिलस्वार्थे यदि स्यात् सिद्धः आत्मनि ॥ 29॥

तत्र मां अनुमोदेरन् देवाः त्रिभुवनेश्वराः ।
मुहूर्तेन ब्रह्मलोकं खट्वांगः समसाधयत् ॥ 30॥

श्रीभगवान् उवाच ।
इति अभिप्रेत्य मनसा हि आवंत्यः द्विजसत्तमः ।
उन्मुच्य हृदयग्रंथीन् शांतः भिक्षुः अभूत् मुनिः ॥ 31॥

सः चचार महीं एतां संयत आत्मेंद्रिय अनिलः ।
भिक्षार्थं नगर ग्रामान् असंगः अलक्षितः अविशत् ॥ 32॥

तं वै प्रवयसं भिक्षुं अवधूतं असज्जनाः ।
दृष्ट्वा पर्यभवन् भद्रः बह्वीभिः परिभूतिभिः ॥ 33॥

केचित् त्रिवेणुं जगृहुः एके पात्रं कमंडलुम् ।
पीठं च एके अक्षसूत्रं च कंथां चीराणि केचन ॥ 34॥

प्रदाय च पुनः तानि दर्शितानि आददुः मुनेः ।
अन्नं च भैक्ष्यसंपन्नं भुंजानस्य सरित् तटे ॥ 35॥

मूत्रयंति च पापिष्ठाः ष्ठीवंति अस्य च मूर्धनि ।
यतवाचं वाचयंति ताडयंति न वक्ति चेत् ॥ 36॥

तर्जयंति अपरे वाग्भिः स्तेनः अयं इति वादिनः ।
बध्नंति रज्ज्वा तं केचित् बध्यतां बध्यतां इति ॥ 37॥

क्षिपंति एके अवजानंतः एषः धर्मध्वजः शठः ।
क्षीणवित्तः इमां वृत्तिं अग्रहीत् स्वजन उज्झितः ॥ 38॥

अहो एषः महासारः धृतिमान् गिरिः आडिव ।
मौनेन साधयति अर्थं बकवत् दृढनिश्चयः ॥ 39॥

इति एके विहसंति एनं एके दुर्वातयंति च ।
तं बबंधुः निरुरुधुः यथा क्रीडनकं द्विजम् ॥ 40॥

एवं सः भौतिकं दुःखं दैविकं दैहिकं च यत् ।
भोक्तव्यं आत्मनः दिष्टं प्राप्तं प्राप्तं अबुध्यत ॥ 41॥

परिभूतः इमां गाथां अगायत नराधमैः ।
पातयद्भिः स्वधर्मस्थः धृतिं आस्थाय सात्विकीम् ॥ 42॥

द्विजः उवाच ।
न अयं जनः मे सुखदुःखहेतुः
न देवतात्मा ग्रहकर्मकालाः ।
मनः परं कारणं आमनंति
संसारचक्रं परिवर्तयेत् यत् ॥ 43॥

मनः गुणान् वै सृजते बलीयः
ततः च कर्माणि विलक्षणानि ।
शुक्लानि कृष्णानि अथ लोहितानि
तेभ्यः सवर्णाः सृतयः भवंति ॥ 44॥

अनीहः आत्मा मनसा समीहता
हिरण्मयः मत्सखः उद्विचष्टे ।
मनः स्वलिंगं परिगृह्य कामान्
जुषन् निबद्धः गुणसंगतः असौ ॥ 45॥

दानं स्वधर्मः नियमः यमः च
श्रुतं च कर्माणि च सद्व्रतानि ।
सर्वे मनोनिग्रहलक्षणांताः
परः हि योगः मनसः समाधि ॥ 46॥

समाहितं यस्य मनः प्रशांतम्
दानादिभिः किं वद तस्य कृत्यम् ।
असंयतं यस्य मनः विनश्यत्
दानादिभिः चेत् अपरं किमेभिः ॥ 47॥

मनोवशे अन्ये हि अभवन् स्म देवाः
मनः च न अन्यस्य वशं समेति ।
भीष्मः हि देवः सहसः सहीयान्
युंज्यात् वशे तं सः हि देवदेवः ॥ 48॥

तं दुर्जयं शत्रुं असह्यवेगं
मरुंतुदं तत् न विजित्य केचित् ।
कुर्वंति असत् विग्रहं अत्र मर्त्यैः
मित्राणि उदासीन रिपून् विमूढाः ॥ 49॥

देहं मनोमात्रं इमं गृहीत्वा
मम अहं इति अंध धियः मनुष्याः ।
एषः अहं अन्यः अयं इति भ्रमेण
दुरंतपारे तमसि भ्रमंति ॥ 50॥

जनः तु हेतुः सुखदुःखयोः चेत्
किं आत्मनः च अत्र ह भौमयोः तत् ।
जिह्वां क्वचित् संदशति स्वदद्भिः
तत् वेदनायां कतमाय कुप्येत् ॥ 51॥

दुःखस्य हेतुः यदि देवताः तु
किं आत्मनः तत्र विकारयोः तत् ।
यत् अंगं अंगेन निहन्यते क्वचित्
क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ 52॥

आत्मा यदि स्यात् सुखदुःखहेतुः
किं अन्यतः तत्र निजस्वभावः ।
न हि आत्मनः अन्यत् यदि तत् मृषा स्यात्
क्रुध्येत कस्मात् न सुखं न दुःखम् ॥ 53॥

ग्रहाः निमित्तं सुखदुःखयोः चेत्
किं आत्मनः अजस्य जनस्य ते वै ।
ग्रहैः ग्रहस्य एव वदंति पीडाम्
क्रुध्येत कस्मै पुरुषः ततः अन्यः ॥ 54॥

कर्माः तु हेतुः सुखदुःखयोः चेत्
किं आत्मनः तत् हि जडाजडत्वे ।
देहः तु अचित्पुरुषः अयं सुपर्णः
क्रुध्येत कस्मै न हि कर्ममूलम् ॥ 55॥

कालः तु हेतुः सुखदुःखयोः चेत्
किं आत्मनः तत्र तत् आत्मकः असौ ।
न अग्नेः हि तापः न हिमस्य तत् स्यात्
क्रुध्येत कस्मै न परस्य द्वंद्वम् ॥ 56॥

न केनचित् क्व अपि कथंचन अस्य
द्वंद्व उपरागः परतः परस्य ।
यथाहमः संसृतिरूपिणः स्यात्
एवं प्रबुद्धः न बिभेति भूतैः ॥ 57॥

एतां सः आस्थाय परात्मनिष्ठाम्
अध्यासितां पूर्वतमैः महर्षिभिः ।
अहं तरिष्यामि दुरंतपारम्
तमः मुकुंद अंघ्रिनिषेवया एव ॥ 58॥

श्रीभगवान् उवाच ।
निर्विद्य नष्टद्रविणः गतक्लमः
प्रव्रज्य गां पर्यटमानः इत्थम् ।
निराकृतः असद्भिः अपि स्वधर्मात्
अकंपितः अमुं मुनिः आह गाथाम् ॥ 59॥

सुखदुःखप्रदः न अन्यः पुरुषस्य आत्मविभ्रमः ।
मित्र उदासीनरिपवः संसारः तमसः कृतः ॥ 60॥

तस्मात् सर्वात्मना तात निगृहाण मनो धिया ।
मयि आवेशितया युक्तः एतावान् योगसंग्रहः ॥ 61॥

यः एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः ।
धारयन् श्रावयन् श्रुण्वन् द्वंद्वैः न एव अभिभूयते ॥ 62॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे भगवदुद्धवसंवादे
बिक्षुगीतनिरूपणं नाम त्रयोविंशोऽध्यायः ॥ 23॥

अथ चतुर्विंशोऽध्याः ।
श्रीभगवान् उवाच ।
अथ ते संप्रवक्ष्यामि सांख्यं पूर्वैः विनिश्चितम् ।
यत् विज्ञाय पुमान् सद्यः जह्यात् वैकल्पिकं भ्रमम् ॥ 1॥

आसीत् ज्ञानं अथः हि अर्थः एकं एव अविकल्पितम् ।
यदा विवेकनिपुणाः आदौ कृतयुगे अयुगे ॥ 2॥

तत् मायाफलरूपेण केवलं निर्विकल्पितम् ।
वाङ्मनः अगोचरं सत्यं द्विधा समभवत् बृहत् ॥ 3॥

तयोः एकतरः हि अर्थः प्रकृतिः सोभयात्मिका ।
ज्ञानं तु अन्यतरः भावः पुरुषः सः अभिधीयते ॥ 4॥

तमः रजः सत्त्वं इति प्रकृतेः अभवन् गुणाः ।
मया प्रक्षोभ्यमाणायाः पुरुष अनुमतेन च ॥ 5॥

तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः ।
ततः विकुर्वतः जातः यः अहंकारः विमोहनः ॥ 6॥

वैकारिकः तैजसः च तामसः च इति अहं त्रिवृत् ।
तन्मात्र इंद्रिय मनसां कारणं चित् अचित् मयः ॥ 7॥

अर्थः तन्मात्रिकात् जज्ञे तामसात् इंद्रियाणि च ।
तैजसात् देवताः आसन् एकादश च वैकृतात् ॥ 8॥

मया संचोदिताः भावाः सर्वे संहति अकारिणः ।
अंडं उत्पादयामासुः मम आयतनं उत्तमम् ॥ 9॥

तस्मिन् अहं समभवं अंडे सलिलसंस्थितौ ।
मम नाभ्यां अभूत् पद्मं विश्वाख्यं तत्र च आत्मभूः ॥

10॥

सः असृजत् तपसा युक्तः रजसा मत् अनुग्रहात् ।
लोकान् सपालान् विश्वात्मा भूः भुवः स्वः इति त्रिधा ॥ 11॥

देवानां ओकः आसीत् स्वः भूतानां च भुवः पदम् ।
मर्त्य आदीनां च भूः लोकः सिद्धानां त्रितयात् परम् ॥

12॥

अधः असुराणां नागानां भूमेः ओकः असृजत् प्रभुः ।
त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुण आत्मनाम् ॥ 13॥

योगस्य तपसः च एव न्यासस्य गतयः अमलाः ।
महः जनः तपः सत्यं भक्तियोगस्य मद्गतिः ॥ 14॥

मया कालात्मना धात्रा कर्मयुक्तं इदं जगत् ।
गुणप्रवाहः एतस्मिन् उन्मज्जति निमज्जति ॥ 15॥

अणुः बृहत् कृशः स्थूलः यः यः भावः प्रसिध्यति ।
सर्वः अपि उभयसंयुक्तः प्रकृत्या पुरुषेण च ॥ 16॥

यः तु यस्य आदिः अंतः च सः वै मध्यं च तस्य सन् ।
विकारः व्यवहारार्थः यथा तैजस पार्थिवाः ॥ 17॥

यत् उपादाय पूर्वः तु भावः विकुरुते अपरम् ।
आदिः अंतः यदा यस्य तत् सत्यं अभिधीयते ॥ 18॥

प्रकृतिः हि अस्य उपादानं आधारः पुरुषः परः ।
सतः अभिव्यंजकः कालः ब्रह्म तत् त्रितयं तु अहम् ॥ 19॥

सर्गः प्रवर्तते तावत् पौर्व अपर्येण नित्यशः ।
महान् गुणविसर्ग अर्थः स्थिति अंतः यावत् ईक्षणम् ॥ 20॥

विराट् मया आसाद्यमानः लोककल्पविकल्पकः ।
पंचत्वाय विशेषाय कल्पते भुवनैः सह ॥ 21॥

अन्ने प्रलीयते मर्त्यं अन्नं धानासु लीयते ।
धानाः भूमौ प्रलीयंते भूमिः गंधे प्रलीयते ॥ 22॥

अप्सु प्रलीयंते गंधः आपः च स्वगुणे रसे ।
लीयते ज्योतिषि रसः ज्योती रूपे प्रलीयते ॥ 23॥

रूपं वायौ सः च स्पर्शे लीयते सः अपि च अंबरे ।
अंबरं शब्दतन्मात्रः इंद्रियाणि स्वयोनिषु ॥ 24॥

योनिः वैकारिके सौम्य लीयते मनसि ईश्वरे ।
शब्दः भूतादिं अपि एति भूतादिः महति प्रभुः ॥ 25॥

सः लीयते महान् स्वेषु गुणेषु गुणवत्तमः ।
ते अव्यक्ते संप्रलीयंते तत्कले लीयते अव्यये ॥ 26॥

कालः मायामये जीवे जीवः आत्मनि मयि अजे ।
आत्मा केवलः आत्मस्थः विकल्प अपाय लक्षणः ॥ 27॥

एवं अन्वीक्षमाणस्य कथं वैकल्पिकः भ्रमः ।
मनसः हृदि तिष्ठेत व्योम्नि इव अर्क उदये तमः ॥ 28॥

एषः सांख्यविधिः प्रोक्तः संशयग्रंथिभेदनः ।
प्रतिलोम अनुलोमाभ्यां परावरदृशा मया ॥ 29॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे
प्रकृतिपुरुषसांख्ययोगो नाम चतुर्विंशोऽध्यायः ॥ 24॥

अथ पंचविंशोऽध्यायः ।
श्रीभगवानुवाच ।
गुणानां असमिश्राणां पुमान्येन यथा भवेत् ।
तन्मे पुरुषवर्य इअदं उपधारय शंसतः ॥ 1॥

समः दमः तितिक्षा ईक्षा तपः सत्यं दया स्मृतिः ।
तुष्टिः त्यागः अस्पृहा श्रद्धा ह्रीः दया आदिः स्वनिर्वृतिः ॥ 2॥

कामः ईहा मदः तृष्णा स्तंभः आशीः भिदा सुखम् ।
मद उत्साहः यशः प्रीतिः हास्यं वीर्यं बल उद्यमः ॥ 3॥

क्रोधः लोभः अनृतं हिंसा यांचा दंभः क्लमः कलिः ।
शोकमोहौ विषादार्ती निद्रा आशा भीः अनुद्यमः ॥ 4॥

सत्त्वस्य रजसः च एताः तमसः च अनुमूर्वशः ।
वृत्तयः वर्णितप्रायाः संनिपातं अथः श्रुणु ॥ 5॥

संनिपातः तु अहं इति मम इति उद्धव या मतिः ।
व्यवहारः संनिपातः मनोमात्र इंद्रियासुभिः ॥ 6॥

धर्मे च अर्थे च कामे च यदा असौ परिनिष्ठितः ।
गुणानां संनिकर्षः अयं श्रद्धाः अतिधनावहः ॥ 7॥

प्रवृत्तिलक्षणे निष्ठा पुमान् यः हि गृहाश्रमे ।
स्वधर्मे च अनुतिष्ठेत गुणानां समितिः हि सा ॥ 8॥

पुरुषं सत्त्वसंयुक्तं अनुमीयात् शम आदिभिः ।
कामादिभी रजोयुक्तं क्रोधाद्यैः तमसा युतम् ॥ 9॥

यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः ।
तं सत्त्वप्रकृतिं विद्यात् पुरुषं स्त्रियं एव वा ॥ 10॥

यदा आशिषः आशास्य मां भजेत स्वकर्मभिः ।
तं रजःप्रकृतिं विद्यात् हिंसां आशास्य तामसम् ॥ 11॥

सत्त्वं रजः तमः इति गुणाः जीवस्य न एव मे ।
चित्तजा यैः तु भूतानां सज्जमानः निबध्यते ॥ 12॥

यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् ।
तदा सुखेन युज्येत धर्मज्ञान आदिभिः पुमान् ॥ 13॥

यदा जयेत् तमः सत्त्वं रजः संगं भिदा चलम् ।
तदा दुःखेन युज्येत कर्मणा यशसा श्रिया ॥ 14॥

यदा जयेत् रजः सत्त्वं तमः मूढः लयं जडम् ।
युज्येत शोकमोहाभ्यां निद्रया हिंसया आशया ॥ 15॥

यदा चित्तं प्रसीदेत इंद्रियाणां च निर्वृतिः ।
देहे अभयं मनोसंगं तत् सत्त्वं विद्धि मत्पदम् ॥ 16॥

विकुर्वन् क्रियया च अधीर निर्वृतिः च चेतसाम् ।
गात्रास्वास्थ्यं मनः भ्रांतं रजः एतैः निशामय ॥ 17॥

सीदत् चित्तं विलीयेत चेतसः ग्रहणे अक्षमम् ।
मनः नष्टं तमः ग्लानिः तमः तत् उपधारय ॥ 18॥

एधमाने गुणे सत्त्वे देवानां बलं एधते ।
असुराणां च रजसि तमसि उद्धव रक्षसाम् ॥ 19॥

सत्त्वात् जगरणं विद्यात् रजसा स्वप्नं आदिशेत् ।
प्रस्वापं तमसा जंतोः तुरीयं त्रिषु संततम् ॥ 20॥

उपर्युपरि गच्छंति सत्त्वेन आब्रह्मणः जनाः ।
तमसा अधः अधः आमुख्यात् रजसा अंतरचारिणः ॥ 21॥

सत्त्वे प्रलीनाः स्वः यांति नरलोकं रजोलयाः ।
तमोलयाः तु निरयं यांति मां एव निर्गुणाः ॥ 22॥

मदर्पणं निष्फलं वा सात्विकं निजकर्म तत् ।
राजसं फलसंकल्पं हिंसाप्रायादि तामसम् ॥ 23॥

कैवल्यं सात्विकं ज्ञानं रजः वैकल्पिकं च यत् ।
प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ 24॥

वनं तु सात्विकः वासः ग्रामः राजसः उच्यते ।
तामसं द्यूतसदनं मन्निकेतनं तु निर्गुणम् ॥ 25॥

सात्विकः कारकः असंगी रागांधः राजसः स्मृतः ।
तामसः स्मृतिविभ्रष्टः निर्गुणः मदपाश्रयः ॥ 26॥

सात्त्विकी आध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी ।
तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ 27॥

पथ्यं पूतं अनायः तं आहार्यं सात्त्विकं स्मृतम् ।
राजसं च इंद्रियप्रेष्ठं तामसं च आर्तिद अशुचि ॥ 28॥

सात्त्विकं सुखं आत्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोहदैनोत्थं निर्गुणं मदपाश्रयम् ॥ 29॥

द्रव्यं देशः फलं कालः ज्ञानं कर्म च कारकाः ।
श्रद्धा अवस्था आकृतिः निष्ठा त्रैगुण्यः सर्वः एव हि ॥

30॥

सर्वे गुणमयाः भावाः पुरुष अव्यक्त धिष्ठिताः ॥ 31॥

एताः संसृतयः पुंसः गुणकर्मनिबंधनाः ।
येन इमे निर्जिताः सौम्य गुणाः जीवेन चित्तजाः ।
भक्तियोगेन मन्निष्ठः मद्भावाय प्रपद्यते ॥ 32॥

तस्मात् अहं इमं लब्ध्वा ज्ञानविज्ञानसंभवम् ।
गुणसंगं विनिर्धूय मां भजंतु विचक्षणाः ॥ 33॥

निःसंगः मां भजेत् विद्वान् अप्रमत्तः जितेंद्रियः ।
रजः तमः च अभिजयेत् सत्त्वसंसेवया मुनिः ॥ 34॥

सत्त्वं च अभिजयेत् युक्तः नैरपेक्ष्येण शांतधीः ।
संपद्यते गुणैः मुक्तः जीवः जीवं विहाय माम् ॥ 35॥

जीवः जीवविनिर्मुक्तः गुणैः च आशयसंभवैः ।
मया एव ब्रह्मणा पूर्णः न बहिः न अंतरः चरेत् ॥ 36॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे
गुणनिर्गुणनिरूपणं नाम पंचविंशोऽध्यायः ॥ 25॥

अथ षड्विंशोऽध्यायः ।
श्रीभगवान् उवाच ।
मत् लक्षणं इमं कायं लब्ध्वा मद्धर्मः आस्थितः ।
आनंदं परमात्मानं आत्मस्थं समुपैति माम् ॥1॥

गुणमय्याः जीवयोन्याः विमुक्तः ज्ञाननिष्ठया ।
गुणेषु मायामात्रेषु दृश्यमानेषु अवस्तुतः ।
वर्तमानः अपि न पुमान् युज्यते अवस्तुभिः गुणैः ॥ 2॥

संगं न कुर्यात् असतां शिश्न उदर तृपां क्वचित् ।
तस्य अनुगतः तमसि अंधे पतति अंध अनुगांधवत् ॥ 3॥

ऐलः सम्राट् इमां गाथां अगायत बृहच्छ्रवाः ।
उर्वशी विरहात् मुह्यन् निर्विण्णः शोकसंयमे ॥ 4॥

त्यक्त्वा आत्मानं व्रजंतीं तां नग्नः उन्मत्तवत् नृपः ।
विलपन् अन्वगात् जाये घोरे तिष्ठ इति विक्लवः ॥ 5॥

कामान् अतृप्तः अनुजुषन् क्षुल्लकान् वर्षयामिनीः ।
न वेद यांतीः न अयांतीः उर्वशी आकृष्टचेअतनः ॥ 6॥

ऐलः उवाच ।
अहो मे मोहविस्तारः कामकष्मलचेतसः ।
देव्याः गृहीतकंठस्य न आयुःखंडाः इमे स्मृताः ॥ 7॥

न अहं वेद अभिनिर्मुक्तः सूर्यः वा अभ्युदितः अमुया ।
मुषितः वर्षपूगानां बत अहानि गतानि उत ॥ 8॥

अहो मे आत्मसंमोहः येन आत्मा योषितां कृतः ।
क्रीडामृगः चक्रवर्ती नरदेवशिखामणिः ॥ 9॥

सपरिच्छदं आत्मानं हित्वा तृणं इव ईश्वरम् ।
यांतीं स्त्रियं च अन्वगमं नग्नः उन्मत्तवत् रुदन् ॥ 10॥

कुतः तस्य अनुभावः स्यात् तेजः ईशत्वं एव वा ।
यः अन्वगच्छं स्त्रियं यांतीं खरवत् पादताडितः ॥ 11॥

किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा ।
किं विविक्तेन मौनेन स्त्रीभिः यस्य मनः हृतम् ॥ 12॥

स्वार्थस्य अकोविदं धिङ् मां मूर्खं पंडित मानिनम् ।
यः अहं ईश्वरतां प्राप्य स्त्रीभिः गो खरवत् जितः ॥ 13॥

सेवतः वर्षपूगात् मे उर्वश्यः अधरासवम् ।
न तृप्यति आत्मभूः कामः वह्निः आहुतिभिः यथा ॥ 14॥

पुंश्चल्या अपहृतं चित्तं कोन्वन्यः मोचितुं प्रभुः ।
आत्मारामेश्वरं ऋते भगवंतं अधोक्षजम् ॥ 15॥

बोधितस्य अपि देव्या मे सूक्तवाक्येन दुर्मतेः ।
मनोगतः महामोहः न अपयाति अजितात्मनः ॥ 16॥

किं एतया नः अपकृतं रज्ज्वा वा सर्पचेतसः ।
रज्जुस्वरूप अविदुषः यः अहं यत् अजितेंद्रियः ॥ 17॥

क्व अयं मलोमसः कायः दौर्गंधि आदि आत्मकः अशुचिः ।
क्व गुणाः सौमनस्य आद्याः हि अध्यासः अविद्यया कृतः ॥ 18॥

पित्रोः किं स्वं नु भार्यायाः स्वामिनः अग्नेः श्वगृध्रयोः ।
किं आत्मनः किं सुहृदां इति यः न अवसीयते ॥ 19॥

तस्मिन् कलेवरे अमेध्ये तुच्छनिष्ठे विषज्जते ।
अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः ॥ 20॥

त्वङ् मांस रुधिर स्नायु मेदो मज्जा अस्थि संहतौ ।
विण्मूत्रपूये रमतां कृमीणां कियत् अंतरम् ॥ 21॥

अथ अपि न उपसज्जेत स्त्रीषु स्त्रैणेषु च अर्थवित् ।
विषय इंद्रिय संयोगात् मनः क्षुभ्यति न अन्यथा ॥ 22॥

अदृष्टात् अश्रुतात् भावात् न भावः उपजायते ।
असंप्रयुंजतः प्राणान् शाम्यति स्तिमितं मनः ॥ 23॥

तस्मात् संगः न कर्तव्यः स्त्रीषु स्त्रैणेषु च इंद्रियैः ।
विदुषां च अपि अविश्रब्धः षड्वर्गः किमु मादृशाम् ॥

24॥

श्रीभगवान् उवाच ।
एवं प्रगायन् नृपदेवदेवः
सः उर्वशीलोकं अथः विहाय ।
आत्मानं आत्मनि अवगम्य मां वै
उपारमत् ज्ञानविधूतमोहः ॥ 25॥

ततः दुःसंगं उत्सृज्य सत्सु सज्जेत बुद्धिमान् ।
संतः एतस्य छिंदंति मनोव्यासंगमुक्तिभिः ॥ 26॥

संतः अनपेक्षाः मच्चित्ताः प्रशांताः समदर्शिनः ।
निर्ममाः निरहंकाराः निर्द्वंद्वाः निष्परिग्रहाः ॥ 27॥

तेषु नित्यं महाभागः महाभागेषु मत्कथाः ।
संभवंति हिता नॄणां जुषतां प्रपुनंति अघम् ॥ 28॥

ताः ये श्रुण्वंति गायंति हि अनुमोदंति च अदृताः ।
मत्पराः श्रद्दधानाः च भक्तिं विंदंति ते मयि ॥ 29॥

भक्तिं लब्धवतः साधोः किं अन्यत् अवशिष्यते ।
मयि अनंतगुणे ब्रह्मणि आनंद अनुभव आत्मनि ॥ 30॥

यथा उपश्रयमाणस्य भगवंतं विभावसुम् ।
शीतं भयं तमः अपि एति साधून् संसेवतः तथा ॥ 31॥

निमज्ज्य उन्मज्ज्यतां घोरे भवाब्धौ परम अयनम् ।
संतः ब्रह्मविदः शांताः नौः दृढ इव अप्सु मज्जताम् ॥ 32॥

अन्नं हि प्राणिनां प्राणः आर्तानां शरणं तु अहम् ।
धर्मः वित्तं नृणां प्रेत्य संतः अर्वाक् बिभ्यतः अरणम् ॥

33॥

संतः दिशंति चक्षूंषि बहिः अर्कः समुत्थितः ।
देवताः बांधवाः संतः संतः आत्मा अहं एव च ॥ 34॥

वैतसेनः ततः अपि एवं उर्वश्या लोकनिःस्पृहः ।
मुक्तसंगः महीं एतां आत्मारामः चचार ह ॥ 35॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे
ऐलगीतं नाम षड्विंशोऽध्यायः ॥ 26॥

अथ सप्तविंशोऽध्यायः ।
उद्धवः उवाच ।
क्रियायोगं समाचक्ष्व भवत् आराधनं प्रभो ।
यस्मात् त्वां ये यथा अर्चंति सात्वताः सात्वतर्षभ ॥ 1॥

एतत् वदंति मुनयः मुहुः निःश्रेयसं नृणाम् ।
नारदः भगवान् व्यासः आचार्यः अंगिरसः सुतः ॥ 2॥

निःसृतं ते मुखांभोजाद्यत् आह भगवान् अजः ।
पुत्रेभ्यः भृगुमुख्येभ्यः देव्यै च भगवान् भवः ॥ 3॥

एतत् वै सर्ववर्णानां आश्रमाणां च संमतम् ।
श्रेयसां उत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ 4॥

एतत् कमलपत्राक्ष कर्मबंधविमोचनम् ।
भक्ताय च अनुरक्ताय ब्रूहि विश्वेश्वर ईश्वर ॥ 5॥

श्रीभगवान् उवाच ।
नहि अंतः अनंतपारस्य कर्मकांडस्य च उद्धव ।
संक्षिप्तं वर्णयिष्यामि यथावत् अनुपूर्वशः ॥ 6॥

वैदिकः तांत्रिकः मिश्रः इति मे त्रिविधः मखः ।
त्रयाणां ईप्सितेन एव विधिना मां समर्चयेत् ॥ 7॥

यदा स्वनिगमेन उक्तं द्विजत्वं प्राप्य पूरुषः ।
यथा यजेत मां भक्त्या श्रद्धया तत् निबोध मे ॥ 8॥

अर्चायां स्थंडिले अग्नौ वा सूर्ये वा अप्सु हृदि द्विजः ।
द्रव्येण भक्तियुक्तः अर्चेत् स्वगुरुं मां अमायया ॥ 9॥

पूर्वं स्नानं प्रकुर्वीत धौतदंतः अंगशुद्धये ।
उभयैः अपि च स्नानं मंत्रैः मृद्ग्रहणादिना ॥ 10॥

संध्या उपास्ति आदि कर्माणि वेदेन अचोदितानि मे ।
पूजां तैः कल्पयेत् सम्यक् संकल्पः कर्मपावनीम् ॥ 11॥

शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
मनोमयी मणिमयी प्रतिमा अष्टविधा स्मृता ॥ 12॥

चल अचल इति द्विविधा प्रतिष्ठा जीवमंदिरम् ।
उद्वास आवाहने न स्तः स्थिरायां उद्धव अर्चने ॥ 13॥

अस्थिरायां विकल्पः स्यात् स्थंडिले तु भवेत् द्वयम् ।
स्नपनं तु अविलेप्यायां अन्यत्र परिमार्जनम् ॥ 14॥

द्रव्यैः प्रसिद्ध्यैः मत् यागः प्रतिमादिषु अमायिनः ।
भक्तस्य च यथालब्धैः हृदि भावेन च एव हि ॥ 15॥

स्नान अलंकरणं प्रेष्ठं अर्चायां एव तु उद्धव ।
स्थंडिले तत्त्वविन्यासः वह्नौ आज्यप्लुतं हविः ॥ 16॥

सूर्ये च अभ्यर्हणं प्रेष्ठं सलिले सलिल आदिभिः ।
श्रद्धया उपाहृतं प्रेष्ठं भक्तेन मम वारि अपि ॥ 17॥

भूर्यपि अभक्त उपहृतं न मे तोषाय कल्पते ।
गंधः धूपः सुमनसः दीपः अन्न आद्य च किं पुनः ॥ 18॥

शुचिः संभृतसंभारः प्राक् दर्भैः कल्पित आसनः ।
आसीनः प्राक् उदक् वा अर्चेत् अर्चायां अथ संमुखः ॥ 19॥

कृतन्यासः कृतन्यासां मदर्चां पाणिना मृजेत् ।
कलशं प्रोक्षणीयं च यथावत् उपसाधयेत् ॥ 20॥

तत् अद्भिः देवयजनं द्रव्याणि आत्मानं एव च ।
प्रोक्ष्य पात्राणि त्रीणि अद्भिः तैः तैः द्रव्यैः च साधयेत् ॥ 21॥

पाद्य अर्घ आचमनीयार्थं त्रीणि पात्राणि दैशिकः ।
हृदा शीर्ष्णा अथ शिखया गायत्र्या च अभिमंत्रयेत् ॥

22॥

पिंडे वायु अग्नि संशुद्धे हृत्पद्मस्थां परां मम ।
अण्वीं जीवकलां ध्यायेत् नाद अंते सिद्धभाविताम् ॥ 23॥

तया आत्मभूतया पिंडे व्याप्ते संपूज्य तन्मयः ।
आवाह्य अर्च आदिषु स्थाप्य न्यस्त अंगं मां प्रपूजयेत् ॥

24॥

पाद्य उपस्पर्श अर्हण आदीन् उपचारान् प्रकल्पयेत् ।
धर्मादिभिः च नवभिः कल्पयित्वा आसनं मम ॥ 25॥

पद्मं अष्टदलं तत्र कर्णिकाकेसर उज्ज्वलम् ।
उभाभ्यां वेदतंत्राभ्यां मह्यं तु उभयसिद्धये ॥ 26॥

सुदर्शनं पांचजन्यं गदासीषुधनुः हलान् ।
मुसलं कौस्तुभं मालां श्रीवत्सं च अनुपूजयेत् ॥ 27॥

नंदं सुनंदं गरुडं प्रचंडं चंडं एव च ।
महाबलं बलं च एव कुमुदं कुमुदेक्षणम् ॥ 28॥

दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् ।
स्वे स्वे स्थाने तु अभिमुखान् पूजयेत् प्रोक्षण आदिभिः ॥ 29॥

चंदन उशीर कर्पूर कुंकुम अगरु वासितैः ।
सलिलैः स्नापयेत् मंत्रैः नित्यदा विभवे सति ॥ 30॥

स्वर्णघर्म अनुवाकेन महापुरुषविद्यया ।
पौरुषेण अपि सूक्तेन सामभीः राजनादिभिः ॥ 31॥

वस्त्र उपवीत आभरण पत्र स्रक् गंध लेपनैः ।
अलंकुर्वीत सप्रेम मद्भक्तः मां यथा उचितम् ॥ 32॥

पाद्यं आचमनीयं च गंधं सुमनसः अक्षतान् ।
धूप दीप उपहार्याणि दद्यात् मे श्रद्धया अर्चकः ॥ 33॥

गुडपायससर्पींषि शष्कुलि आपूप मोदकान् ।
संयाव दधि सूपां च नैवेद्यं सति कल्पयेत् ॥ 34॥

अभ्यंग उन्मर्दन आदर्श दंतधौ अभिषेचनम् ।
अन्नद्य गीत नृत्यादि पर्वणि स्युः उतान्वहम् ॥ 35॥

विधिना विहिते कुंडे मेखलागर्तवेदिभिः ।
अग्निं आधाय परितः समूहेत् पाणिना उदितम् ॥ 36॥

परिस्तीर्य अथ पर्युक्षेत् अन्वाधाय यथाविधि ।
प्रोक्षण्या आसाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ 37॥

तप्तजांबूनदप्रख्यं शंखचक्रगदांबुजैः ।
लसत् चतुर्भुजं शांतं पद्मकिंजल्कवाससम् ॥ 38॥

स्फुरत् किरीट कटक कटिसूत्रवर अंगदम् ।
श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् ॥ 39॥

ध्यायन् अभ्यर्च्य दारूणि हविषा अभिघृतानि च ।
प्रास्य आज्यभागौ आघारौ दत्त्वा च आज्यप्लुतं हविः ॥ 40॥

जुहुयात् मूलमंत्रेण षोडशर्च अवदानतः ।
धर्मादिभ्यः यथान्यायं मंत्रैः स्विष्टिकृतं बुधः ॥ 41॥

अभ्यर्च्य अथ नमस्कृत्य पार्षदेभ्यः बलिं हरेत् ।
मूलमंत्रं जपेत् ब्रह्म स्मरन् नारायण आत्मकम् ॥ 42॥

दत्त्वा आचमनं उच्छेषं विष्वक्सेनाय कल्पयेत् ।
मुखवासं सुरभिमत् तांबूलाद्यं अथ अर्हयेत् ॥ 42॥

उपगायन् गृणन् नृत्यन् कर्माणि अभिनयन् मम ।
मत्कथाः श्रावयन् श्रुण्वन् मुहूर्तं क्षणिकः भवेत् ॥ 44।
स्तवैः उच्चावचैः स्तोत्रैः पौराणैः प्रकृतैः अपि ।
स्तुत्वा प्रसीद भगवन् इति वंदेत दंडवत् ॥ 45॥

शिरः मत् पादयोः कृत्वा बाहुभ्यां च परस्परम् ।
प्रपन्नं पाहि मां ईश भीतं मृत्युग्रह अर्णवात् ॥ 46॥

इति शेषां मया दत्तां शिरसि आधाय सादरम् ।
उद्वासयेत् चेत् उद्वास्यं ज्योतिः ज्योतिषि तत् पुनः ॥ 47॥

अर्चादिषु यदा यत्र श्रद्धा मां तत्र च अर्चयेत् ।
सर्वभूतेषु आत्मनि च सर्व आत्मा अहं अवस्थितः ॥ 48॥

एवं क्रियायोगपथैः पुमान् वैदिकतांत्रिकैः ।
अर्चन् उभयतः सिद्धिं मत्तः विंदति अभीप्सिताम् ॥ 49॥

मदर्चां संप्रतिष्ठाप्य मंदिरं कारयेत् दृढम् ।
पुष्प उद्यानानि रम्याणि पूजा यात्रा उत्सव आश्रितान् ॥ 50॥

पूजादीनां प्रवाहार्थं महापर्वसु अथ अन्वहम् ।
क्षेत्रापणपुरग्रामान् दत्त्वा मत् सार्ष्टितां इयात् ॥ 51॥

प्रतिष्ठया सार्वभौमंसद्मना भुवनत्रयम् ।
पूजादिना ब्रह्मलोकं त्रिभिः मत् साम्यतां इयात् ॥ 52॥

मां एव नैरपेक्ष्येण भक्तियोगेन विंदति ।
भक्तियोगं सः लभते एवं यः पूजयेत माम् ॥ 53॥

यः स्वदत्तां परैः दत्तं हरेत सुरविप्रयोः ।
वृत्तिं सः जायते विड्भुक् वर्षाणां अयुतायुतम् ॥ 54॥

कर्तुः च सारथेः हेतोः अनुमोदितुः एव च ।
कर्मणां भागिनः प्रेत्य भूयः भूयसि तत्फलम् ॥ 55॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे
सप्तविंशोऽध्यायः ॥ 27॥

अथ अष्टविंशः अध्यायः ।
श्रीभगवान् उवाच ।
परस्वभावकर्माणि न प्रशंसेत् न गर्हयेत् ।
विश्वं एकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ 1॥

परस्वभावकर्माणि यः प्रशंसति निंदति ।
सः आशु भ्रश्यते स्वार्थात् असत्य अभिनिवेशतः ॥ 2॥

तैजसे निद्रया आपन्ने पिंडस्थः नष्टचेतनः ।
मायां प्राप्नोति मृत्युं वा तद्वत् नानार्थदृक् पुमान् ॥ 3॥

किं भद्रं किं अभद्रं वा द्वैतस्य अवस्तुनः कियत् ।
वाचा उदितं तत् अनृतं मनसा ध्यातं एव च ॥ 4॥

छायाप्रत्याह्वयाभासा हि असंतः अपि अर्थकारिणः ।
एवं देहादयः भावाः यच्छंति आमृत्युतः भयम् ॥ 5॥

आत्मा एव तत् इदं विश्वं सृज्यते सृजति प्रभुः ।
त्रायते त्राति विश्वात्मा ह्रियते हरति ईश्वरः ॥ 6॥

तस्मात् नहि आत्मनः अन्यस्मात् अन्यः भावः निरूपितः ।
निरूपितेयं त्रिविधा निर्मूला भातिः आत्मनि ।
इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ 7॥

एतत् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् ।
न निंदति न च स्तौति लोके चरति सूर्यवत् ॥ 8॥

प्रत्यक्षेण अनुमानेन निगमेन आत्मसंविदा ।
आदि अंतवत् असत् ज्ञात्वा निःसंगः विचरेत् इह ॥ 9॥

उद्धवः उवाच ।
न एव आत्मनः न देहस्य संसृतिः द्रष्टृदृश्ययोः ।
अनात्मस्वदृशोः ईश कस्य स्यात् उपलभ्यते ॥ 10॥

आत्मा अव्ययः अगुणः शुद्धः स्वयंज्योतिः अनावृतः ।
अग्निवत् दारुवत् देहः कस्य इह संसृतिः ॥ 11॥

श्रीभगवान् उवाच ।
यावत् देह इंद्रिय प्राणैः आत्मनः संनिकर्षणम् ।
संसारः फलवान् तावत् अपार्थः अपि अविवेकिनः ॥ 12॥

अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते ।
ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा ॥ 13॥

यथा हि अप्रतिबुद्धस्य प्रस्वापः बहु अनर्थभृत् ।
सः एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ 14॥

शोक हर्ष भय क्रोध लोभ मोह स्पृहादयः ।
अहंकारस्य दृश्यंते जन्म मृत्युः च न आत्मनः ॥ 15॥

देह इंद्रिय प्राण मनः अभिमानः
जीवः अंतरात्मा गुणकर्म मूर्तिः ।
सूत्रं महान् इति उरुधा इव गीतः
संसारः आधावति कालतंत्रः ॥ 16॥

अमूलं एतत् बहुरूप रूपितं
मनोवचःप्राणशरीरकर्म ।
ज्ञानासिना उपासनया शितेन
छित्त्वा मुनिः गां विचरति अतृष्णः ॥ 17॥

ज्ञानं विवेकः निगमः तपः च
प्रत्यक्षं ऐतिह्यं अथ अनुमानम् ।
आदि अंतयोः अस्य यत् एव केवलम्
कालः च हेतुः च तत् एव मध्ये ॥ 18॥

यथा हिरण्यं स्वकृतं पुरस्तात्
पश्चात् च सर्वस्य हिरण्मयस्य ।
तत् एव मध्ये व्यवहार्यमाणम्
नानापदेशैः अहं अस्य तद्वत् ॥ 19॥

विज्ञानं एतत् त्रियवस्तं अंग
गुणत्रयं कारण कार्य कर्तृ ।
समन्वयेन व्यतिरेकतः च
येन एव तुर्येण तत् एव सत्यम् ॥ 20॥

न यत् पुरस्तात् उत यत् न पश्चात्
मध्ये च तत् न व्यपदेशमात्रम् ।
भूतं प्रसिद्धं च परेण यद्यत्
तत् एव तत् स्यात् इति मे मनीषा ॥ 21॥

अविद्यमानः अपि अवभासते यः
वैकारिकः राजससर्गः एषः ।
ब्रह्म स्वयंज्योतिः अतः विभाति
ब्रह्म इंद्रिय अर्थ आत्म विकार चित्रम् ॥ 22॥

एवं स्फुटं ब्रह्मविवेकहेतुभिः
परापवादेन विशारदेन ।
छित्त्वा आत्मसंदेहं उपारमेत
स्वानंदतुष्टः अखिल कामुकेभ्यः ॥ 23॥

न आत्मा वपुः पार्थिवं इंद्रियाणि
देवाः हि असुः वायुजलं हुताशः ।
मनः अन्नमात्रं धिषणा च सत्त्वम्
अहंकृतिः खं क्षितिः अर्थसाम्यम् ॥ 24॥

समाहितैः कः करणैः गुणात्मभिः
गुणः भवेत् मत्सुविविक्तधाम्नः ।
विक्षिप्यमाणैः उत किं न दूषणम्
घनैः उपेतैः विगतैः रवेः किम् ॥ 25॥

यथा नभः वायु अनल अंबु भू गुणैः
गतागतैः वर्तुगुणैः न सज्जते ।
तथा अक्षरं सत्त्व रजः तमः मलैः
अहंमतेः संसृतिहेतुभिः परम् ॥ 26॥

तथापि संगः परिवर्जनीयः
गुणेषु मायारचितेषु तावत् ।
मद्भक्तियोगेन दृढेन यावत्
रजः निरस्येत मनःकषायः ॥ 27॥

यथा आमयः असाधु चिकित्सितः नृणाम्
पुनः पुनः संतुदति प्ररोहन् ।
एवं मनः अपक्व कषय कर्म
कुयोगिनं विध्यति सर्वसंगम् ॥ 28॥

कुयोगिनः ये विहित अंतरायैः
मनुष्यभूतैः त्रिदश उपसृष्टैः ।
ते प्राक्तन अभ्यासबलेन भूयः
युंजंति योगं न तु कर्मतंत्रम् ॥ 29॥

करोति कर्म क्रियते च जंतुः
केनापि असौ चोदितः आनिपातात् ।
न तत्र विद्वान्प्रकृतौ स्थितः अपि
निवृत्त तृष्णः स्वसुख अनुभूत्या ॥ 30॥

तिष्ठंतं आसीनं उत व्रजंतम्
शयानं उक्षंतं अदंतं अन्नम् ।
स्वभावं अन्यत् किं अपि इहमानम्
आत्मानं आत्मस्थमतिः न वेद ॥ 31॥

यदि स्म पश्यति असत् इंद्रिय अथ
नाना अनुमानेन विरुद्धं अन्यत् ।
न मन्यते वस्तुतया मनीषी
स्वाप्नं यथा उत्थाय तिरोदधानम् ॥ 32॥

पूर्वं गृहीतं गुणकर्मचित्रम्
अज्ञानं आत्मनि अविविक्तं अंग ।
निवर्तते तत् पुनः ईक्षया एव
न गृह्यते न अपि विसृज्य आत्मा ॥ 33॥

यथा हि भानोः उदयः नृचक्षुषाम्
तमः निहन्यात् न तु सद्विधत्ते ।
एवं समीक्षा निपुणा सती मे
हन्यात् तमिस्रं पुरुषस्य बुद्धेः ॥ 34॥

एषः स्वयंज्योतिः अजः अप्रमेयः
महानुभूतिः सकलानुभूतिः ।
एकः अद्वितीयः वचसां विरामे
येन ईशिता वाक् असवः चरंति ॥ 35॥

एतावान् आत्मसंमोहः यत् विकल्पः तु केवले ।
आत्मन् नृते स्वमात्मानं अवलंबः न यस्य हि ॥36॥

यत् नाम आकृतिभिः ग्राह्यं पंचवर्णं अबाधितम् ।
व्यर्थेन अपि अर्थवादः अयं द्वयं पंडितमानिनाम् ॥ 37॥

योगिनः अपक्वयोगस्य युंजतः कायः उत्थितैः ।
उपसर्गैः विहन्येत तत्र अयं विहितः विधिः ॥ 38॥

योगधारणया कांश्चित् आसनैः धारण अन्वितैः ।
तपोमंत्रौषधैः कांश्चित् उपसर्गान् विनिर्दहेत् ॥ 39॥

कांश्चित् मम अनुध्यानेन नामसंकीर्तन आदिभिः ।
योगेश्वर अनुवृत्त्या वा हन्यात् अशुभदान् शनैः ॥ 40॥

केचित् देहं इमं धीराः सुकल्पं वयसि स्थिरम् ।
विधाय विविध उपायैः अथ युंजंति सिद्धये ॥ 41॥

न हि तत् कुशलात् दृत्यं तत् आयासः हि अपार्थकः ।
अंतवत्त्वात् शरीरस्य फलस्य इव वनस्पतेः ॥ 42॥

योगं निषेवतः नित्यं कायः चेत् कल्पतां इयात् ।
तत् श्रद्दध्यात् न मतिमान् योगं उत्सृज्य मत्परः ॥ 43॥

योगचर्यां इमां योगी विचरन् मत् व्यपाश्रयः ।
न अंतरायैः विहन्येत निःस्पृहः स्वसुखानुभूः ॥ 44॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे भगवदुद्धवसंवादे
परमार्थनिर्णयो नाम अष्टाविंशोऽध्यायः ॥ 28॥

अथ एकोनत्रिंशः अध्यायः ।
सुदुस्तरां इमां मन्ये योगचर्यां अनात्मनः ।
यथा अंजसा पुमान् सिह्येत् तत् मे ब्रूहि अंजसा अच्युत ॥ 1॥

प्रायशः पुंडरीकाक्ष युंजंतः योगिनः मनः ।
विषीदंति असमाधानात् मनोनिग्रहकर्शिताः ॥ 2॥

अथ अतः आनंददुघं पदांबुजम्
हंसाः श्रयेरन् अरविंदलोचन ।
सुखं नु विश्वेश्वर योगकर्मभिः
त्वत् मायया अमी विहताः न मानिनः ॥ 3॥

किं चित्रं अच्युत तव एतत् अशेषबंधः
दासेषु अनन्यशरणेषु यत् आत्म सात्त्वम् ।
यः अरोचयत्सह मृगैः स्वयं ईश्वराणाम्
श्रीमत् किरीट तट पीडित पाद पीठः ॥ 4॥

तं त्वा अखिल आत्मदयित ईश्वरं आश्रितानाम्
सर्व अर्थदं स्वकृतवित् विसृजेत कः नु ।
कः वा भजेत् किं अपि विस्मृतये अनु भूत्यै
किं वा भवेत् न तव पादरजोजुषां नः ॥ 5॥

न एव उपयंति अपचितिं कवयः तव ईश
ब्रह्मायुषा अपि कृतं ऋधमुदः स्मरंतः ।
यः अंतर्बहिः तनुभृतां अशुभं विधुन्वन्
आचार्यचैत्यवपुषा स्वगतं व्यनक्ति ॥ 6॥

श्रीशुकः उवाच ।
इति उद्धवेन अति अनुरक्त चेतसा
पृष्टः जगत्क्रीडनकः स्वशक्तिभिः ।
गृहीत मूर्तित्रयः ईश्वर ईश्वरः
जगाद सप्रेम मनोहरस्मितः ॥ 7॥

श्रीभगवान् उवाच ।
हंत ते कथयिष्यामि मम धर्मान् सुमंगलाम् ।
यान् श्रद्धया आचरन् मर्त्यः मृत्युं जयति दुर्जयम् ॥ 8॥

कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् ।
मयि अर्पित मनः चित्तः मत् धर्म आत्ममनोरतिः ॥ 9॥

देशान् पुण्यान् आश्रयेत मद्भक्तैः साधुभिः श्रितान् ।
देव आसुर मनुष्येषु मद्भक्त आचरितानि च ॥ 10॥

पृथक् सत्रेण वा मह्यं पर्वयात्रा महोत्सवान् ।
कारयेत् गीतनृत्य आद्यैः महाराज विभूतिभिः ॥ 11॥

मां एव सर्वभूतेषु बहिः अंतः अपावृतम् ।
ईक्षेत आत्मनि च आत्मानं यथा खं अमल आशयः ॥ 12॥

इति सर्वाणि भूतानि मद्भावेन महाद्युते ।
सभाजयन् मन्यमानः ज्ञानं केवलं आश्रितः ॥ 13॥

ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्ये अर्के स्फुलिंगके ।
अक्रूरे क्रूरके च एव समदृक् पंडितः मतः ॥ 14॥

नरेषु अभीक्ष्णं मद्भावं पुंसः भावयतः अचिरात् ।
स्पर्धा असूया तिरस्काराः साहंकाराः वियंति हि ॥ 15॥

विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् ।
प्रणमेत् दंडवत् भूमौ आश्व चांडाल गो खरम् ॥ 16॥

यावत् सर्वेषु भूतेषु मद्भावः न उपजायते ।
तावत् एवं उपासीत वाङ् मन काय वृत्तिभिः ॥ 17॥

सर्वं ब्रह्मात्मकं तस्य विद्यया आत्म मनीषया ।
परिपश्यन् उपरमेत् सर्वतः मुक्त संशयः ॥ 18॥

अयं हि सर्वकल्पानां सध्रीचीनः मतः मम ।
मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ 19॥

न हि अंग उपक्रमे ध्वंसः मद्धर्मस्य उद्धव अणु अपि ।
मया व्यवसितः सम्यक् निर्गुणत्वात् अनाशिषः ॥ 20॥

यः यः मयि परे धर्मः कल्प्यते निष्फलाय चेत् ।
तत् आयासः निरर्थः स्यात् भयादेः इव सत्त्म ॥ 21॥

एषा बुद्धिमतां बुद्धिः मनीषा च मनीषिणाम् ।
यत् सत्यं अनृतेन इह मर्त्येन आप्नोति मा अमृतम् ॥ 22॥

एष ते अभिहितः कृत्स्नः ब्रह्मवादस्य संग्रहः ।
समासव्यासविधिना देवानां अपि दुर्गमः ॥ 23॥

अभीक्ष्णशः ते गदितं ज्ञानं विस्पष्टयुक्तिमत् ।
एतत् विज्ञाय मुच्येत पुरुषः नष्टसंशयः ॥ 24॥

सुविविक्तं तव प्रश्नं मया एतत् अपि धारयेत् ।
सनातनं ब्रह्मगुह्यं परं ब्रह्म अधिगच्छति ॥ 25॥

यः एतत् मम भक्तेषु संप्रदद्यात् सुपुष्कलम् ।
तस्य अहं ब्रह्मदायस्य ददामि आत्मानं आत्मना ॥ 26॥

यः एतत् समधीयीत पवित्रं परमं शुचि ।
सः पूयेत अहः अहः मां ज्ञानदीपेन दर्शयन् ॥ 27॥

यः एतत् श्रद्धया नित्यं अव्यग्रः श्रुणुयात् नरः ।
मयि भक्तिं परां कुर्वन् कर्मभिः न सः बध्यते ॥ 28॥

अपि उद्धव त्वया ब्रह्म सखे समवधारितम् ।
अपि ते विगतः मोहः शोकः च असौ मनोभवः ॥ 29॥

न एतत् त्वया दांभिकाय नास्तिकाय शठाय च ।
अशुश्रूषोः अभक्ताय दुर्विनीताय दीयताम् ॥ 30॥

एतैः दोषैः विहीनाय ब्रह्मण्याय प्रियाय च ।
साधवे शुचये ब्रूयात् भक्तिः स्यात् शूद्र योषिताम् ॥ 31॥

न एतत् विज्ञाय जिज्ञासोः ज्ञातव्यं अवशिष्यते ।
पीत्वा पीयूषं अमृतं पातव्यं न अवशिष्यते ॥ 32॥

ज्ञाने कर्मणि योगे च वार्तायां दंडधारणे ।
यावान् अर्थः नृणां तात तावान् ते अहं चतुर्विधः ॥ 33॥

मर्त्यः यदा त्यक्त समस्तकर्मा
निवेदितात्मा विचिकीर्षितः मे ।
तदा अमृतत्वं प्रतिपद्यमानः
मया आत्मभूयाय च कल्पते वै ॥ 34॥

श्रीशुकः उवाच ।
सः एवं आदर्शित योगमार्गः
तदा उत्तम श्लोकवचः निशम्य ।
बद्ध अंजलिः प्रीति उपरुद्ध कंठः
न किंचित् ऊचेः अश्रु परिप्लुत अक्षः ॥ 35॥

विष्टभ्य चित्तं प्रणय अवघूर्णम्
धैर्येण राजन् बहु मन्यमानः ।
कृतांजलिः प्राह यदुप्रवीरम्
शीर्ष्णा स्पृशन् तत् चरण अरविंदम् ॥ 36॥

उद्धवः उवाच ।
विद्रावितः मोह महा अंधकारः
यः आश्रितः मे तव सन्निधानात् ।
विभावसोः किं नु समीपगस्य
शीतं तमः भीः प्रभवंति अज अद्य ॥ 37॥

प्रत्यर्पितः मे भवता अनुकंपिना
भृत्याय विज्ञानमयः प्रदीपः ।
हित्वा कृतज्ञः तव पादमूलम्
कः अन्यत् समीयात् शरणं त्वदीयम् ॥ 38॥

वृक्णः च मे सुदृढः स्नेहपाशः
दाशार्ह वृष्णि अंधक सात्वतेषु ।
प्रसारितः सृष्टिविवृद्धये त्वया
स्वमायया हि आत्म सुबोध हेतिना ॥ 39॥

नमः अस्तु ते महायोगिन् प्रपन्नं अनुशाधि माम् ।
यथा त्वत् चरण अंभोजे रतिः स्यात् अनपायिनी ॥ 40॥

श्रीभगवान् उवाच ।
गच्छ उद्धव मया आदिष्टः बदरि आख्यं मम आश्रमम् ।
तत्र मत् पाद तीर्थोदे स्नान उपस्पर्शनैः शुचिः ॥ 41॥

ईक्षया अलकनंदाया विधूत अशेष कल्मषः ।
वसानः वल्कलानि अंग वन्यभुक् सुख निःस्पृहः ॥ 42॥

तितिक्षौः द्वंद्वमात्राणां सुशीलः संयतेंद्रियः ।
शांतः समाहितधिया ज्ञानविज्ञानसंयुतः ॥ 43॥

मत्तः अनुशिक्षितं यत् ते विविक्तमनुभावयन् ।
मयि आवेशित वाक् चित्तः मद्धर्म निरतः भव ।
अतिव्रज्य गतीः तिस्रः मां एष्यसि ततः परम् ॥ 44॥

श्रीशुकः उवाच ।
सः एवं उक्तः हरिमेधसा उद्धवः
प्रदक्षिणं तं परिसृत्य पादयोः ।
शिरः निधाय अश्रुकलाभिः आर्द्रधीः
न्यषिंचत् अद्वंद्वपरः अपि उपक्रमे ॥ 45॥

सुदुस्त्यज स्नेह वियोग कातरः
न शक्नुवन् तं परिहातुं आतुरः ।
कृच्छ्रं ययौ मूर्धनि भर्तृपादुके
बिभ्रन् नमस्कृत्य ययौ पुनः पुनः ॥ 46॥

ततः तं अंतर्हृदि संनिवेश्य
गतः महाभागवतः विशालाम् ।
यथा उपदिष्टां जगत् एकबंधुना
ततः समास्थाय हरेः अगात् गतिम् ॥ 47॥

यः एअतत् आनंद समुद्र संभृतम्
ज्ञानामृतं भागवताय भाषितम् ।
कृष्णेण योगेश्वर सेवितांघ्रिणा
सच्छ्रद्धया आसेव्य जगत् विमुच्यते ॥ 48॥

भवभय अपहंतुं ज्ञानविज्ञानसारम्
निगमकृत् उपजहे भृंगवत् वेदसारम् ।
अमृतं उदधितः च अपाययत् भृत्यवर्गान्
पुरुषं ऋषभं आद्यं कृष्णसंज्ञं नतः अस्मि ॥ 49॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे भगवदुद्धवसंवादे
परमार्थप्राप्तिसुगमोपायकथनोद्धवबदरिकाश्रमप्रवेशो
नाम एकोनत्रिंशोऽध्यायः ॥ 29॥

अथ त्रिंशः अध्यायः ।
राजा उवाच ।
ततः महाभागवते उद्धवे निर्गते वनम् ।
द्वारवत्यां किं अकरोत् भगवान् भूतभावनः ॥ 1॥

ब्रह्मशाप उपसंसृष्टे स्वकुले यादवर्षभः ।
प्रेयसीं सर्वनेत्राणां तनुं सः कथं अत्यजत् ॥ 2॥

प्रत्याक्रष्टुं नयनं अबला यत्र लग्नं न शेकुः
कर्णाविष्टं न सरति ततः यत् सतां आत्मलग्नम् ।
यत् श्रीः वाचां जनयति रतिं किं नु मानं कवीनाम्
दृष्ट्वा जिष्णोः युधि रथगतं यत् च तत् साम्यम्
ईयुः ॥ 3॥

ऋषिः उवाच ।
दिवि भुवि अंतरिक्षे च महोत्पातान् समुत्थितान् ।
दृष्ट्वा आसीनान् सुधर्मायां कृष्णः प्राह यदून् इदम् ॥ 4॥

श्रीभगवान् उवाच ।
एते घोराः महोत्पाताः द्वार्वत्यां यमकेतवः ।
मुहूर्तं अपि न स्थेयं अत्र नः यदुपुंगवाः ॥ 5॥

स्त्रियः बालाः च वृद्धाः च शंखोद्धारं व्रजंत्वितः ।
वयं प्रभासं यास्यामः यत्र प्रत्यक् सरस्वती ॥ 6॥

तत्र अभिषिच्य शुचय उपोष्य सुसमाहिताः ।
देवताः पूजयिष्यामः स्नपन आलेपन अर्हणैः ॥7॥

ब्राह्मणान् तु महाभागान् कृतस्वस्त्ययना वयम् ।
गो भू हिरण्य वासोभिः गज अश्वरथ वेश्मभिः ॥ 8॥

विधिः एषः हि अरिष्टघ्नः मंगल आयनं उत्तमम् ।
देव द्विज गवां पूजा भूतेषु परमः भवः ॥ 9॥

इति सर्वे समाकर्ण्य यदुवृद्धाः मधुद्विषः ।
तथा इति नौभिः उत्तीर्य प्रभासं प्रययू रथैः ॥ 10॥

तस्मिन् भगवता आदिष्टं यदुदेवेन यादवा ।
चक्रुः परभया भक्त्या सर्वश्रेय उपबृंहितम् ॥ 11॥

ततः तस्मिन् महापानं पपुः मैरेयकं मधु ।
दिष्ट विभ्रंशित धियः यत् द्रवैः भ्रश्यते मतिः ॥ 12॥

महापान अभिमत्तानां वीराणां दृप्तचेतसाम् ।
कृष्णमाया विमूढानां संघर्षः सुमहान् अभूत् ॥ 13॥

युयुधुः क्रोधसंरब्धा वेलायां आततायिनः ।
धनुभिः असिभिः मल्लैः गदाभिः तां अरर्ष्टिभिः ॥ 14॥

पतत्पताकै रथकुंजरादिभिः
खर उष्ट्र गोभिः महिषैः नरैः अपि ।
मिथः समेत्य अश्वतरैः सुदुर्मदा
न्यहन् शरर्दद्भिः इव द्विपा वने ॥ 15॥

प्रद्युम्न सांबौ युधि रूढमत्सरौ
अक्रूर भोजौ अनिरुद्ध सात्यकी ।
सुभद्र संग्रामजितौ सुदारुणौ
गदौ सुमित्रा सुरथौ समीयतुः ॥ 16॥

अन्ये च ये वै निशठ उल्मुक आदयः
सहस्रजित् शतजित् भानु मुख्याः ।
अन्योन्यं आसाद्य मदांधकारिता
जघ्नुः मुकुंदेन विमोहिता भृशम् ॥ 17॥

दाशार्ह वृष्णि अंधक भोज सात्वता
मधु अर्बुदा माथुरशूरसेनाः ।
विसर्जनाः कुकुराः कुंतयः च
मिथः ततः ते अथ विसृज्य सौहृदम् ॥ 18॥

पुत्राः अयुध्यन् पितृभिः भ्रातृभिः च
स्वस्त्रीय दौहित्र पितृव्यमातुलैः ।
मित्राणि मित्रैः सुहृदः सुहृद्भिः
ज्ञातींस्त्वहन् ज्ञातयः एव मूढाः ॥ 19॥

शरेषु क्षीयमाणेषु भज्यमानेषु धन्वसु ।
शस्त्रेषु क्षीयमाणेषु मुष्टिभिः जह्रुः एरकाः ॥ 20॥

ताः वज्रकल्पाः हि अभवन् परिघाः मुष्टिनाः भृताः ।
जघ्नुः द्विषः तैः कृष्णेन वार्यमाणाः तु तं च ते ॥ 21॥

प्रत्यनीकं मन्यमानाः बलभद्रं च मोहिताः ।
हंतुं कृतधियः राजन् आपन्नाः आततायिनः ॥ 22॥

अथ तौ अपि संक्रुद्धौ उद्यम्य कुरुनंदन ।
एरका मुष्टि परिघौ जरंतौ जघ्नतुः युधि ॥ 23॥

ब्रह्मशाप उपसृष्टानां कृष्णमायावृत आत्मनाम् ।
स्पर्धाक्रोधः क्षयं निन्ये वैणवः अग्निः यथा वनम् ॥ 24॥

एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः ।
अवतारितः भुवः भारः इति मेने अवशेषितः ॥ 25॥

रामः समुद्रवेलायां योगं आस्थाय पौरुषम् ।
तत् त्याज लोकं मानुष्यं संयोज्य आत्मानं आत्मनि ॥ 26॥

रामनिर्याणं आलोक्य भगवान् देवकीसुतः ।
निषसाद धरोपस्थे तूष्णीं आसाद्य पिप्पलम् ॥ 27॥

बिभ्रत् चतुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया ।
दिशः वितिमाराः कुर्वन् विधूमः इव पावकः ॥ 28॥

श्रीवत्सांकं घनश्यामं तप्त हाटक वर्चसम् ।
कौशेय अंबर युग्मेन परिवीतं सुमंगलम् ॥ 29॥

सुंदर स्मित वक्त्र अब्जं नील कुंतल मंडितम् ।
पुंडरीक अभिरामाक्षं स्फुरन् मकर कुंडलम् ॥ 30॥

कटिसूत्र ब्रह्मसूत्र किरीट कटक अंगदैः ।
हार नूपुर मुद्राभिः कौस्तुभेन विराजितम् ॥ 31॥

वनमाला परीतांगं मूर्तिमद्भिः निज आयुधैः ।
कृत्वा उरौ दक्षिणे पादं आसीनं पंकज अरुणम् ॥ 32॥

मुसलौ अशेषायः खंडकृतेषुः लुब्धकः जराः ।
मृगास्य आकारं तत् चरणं विव्याध मृगशंकया ॥ 33॥

चतुर्भुजं तं पुरुषं दृष्ट्वा सः कृत किल्बिषः ।
भीतः पपात शिरसा पादयोः असुरद्विषः ॥ 34॥

अजानता कृतं इदं पापेन मधुसूदन ।
क्षंतुं अर्हसि पापस्य उत्तमश्लोकः मे अनघ ॥ 35॥

यस्य अनुस्मरणं नॄणां अज्ञान ध्वांत नाशनम् ।
वदंति तस्य ते विष्णो मया असाधु कृतं प्रभो ॥ 36॥

तत् मा आशु जहि वैकुंठ पाप्मानं मृग लुब्धकम् ।
यथा पुनः अहं तु एवं न कुर्यां सत् अतिक्रमम् ॥ 37॥

यस्य आत्म योग रचितं न विदुः विरिंचः
रुद्र आदयः अस्य तनयाः पतयः गिरां ये ।
त्वत् मायया पिहित दृष्टयः एतत् अंजः
किं तस्य ते वयं असत् गतयः गृणीमः ॥ 38॥

श्रीभगवान् उवाच ।
मा भैः जरे त्वं उत्तिष्ठ कामः एषः कृतः हि मे ।
याहि त्वं मत् अनुज्ञातः स्वर्गं सुकृतिनां पदम् ॥ 39॥

इति आदिष्टः भगवता कृष्णेन इच्छा शरीरिणा ।
त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥ 40॥

दारुकः कृष्णपदवीं अन्विच्छन् अधिगम्यताम् ।
वायुं तुलसिकामोदं आघ्राय अभिमुखं ययौ ॥ 41॥

तं तत्र तिग्मद्युभिः आयुधैः वृतम्
हि अश्वत्थमूले कृतकेतनं पतिम् ।
स्नेहप्लुतात्मा निपपात पादयो
रथात् अवप्लुत्य सबाष्पलोचनः ॥ 42॥

अपश्यतः त्वत् चरण अंबुजं प्रभो
दृष्टिः प्रणष्टा तमसि प्रविष्टा ।
दिशः न जाने न लभे च शांतिम्
यथा निशायं उडुपे प्रणष्टे ॥ 43॥

इति ब्रुवते सूते वै रथः गरुडलांछनः ।
खं उत्पपात राजेंद्र साश्वध्वजः उदीक्षतः ॥ 44॥

तं अन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च ।
तेन अति विस्मित आत्मानं सूतं आह जनार्दनः ॥ 45॥

गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः ।
संकर्षणस्य निर्याणं बंधुभ्यः ब्रूहि मत् दशाम् ॥ 46॥

द्वारकायां च न स्थेयं भवद्भिः च स्वबंधुभिः ।
मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति ॥ 47॥

स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः ।
अर्जुनेन आविताः सर्व इंद्रप्रस्थं गमिष्यथ ॥ 48॥

त्वं तु मत् धर्मं आस्थाय ज्ञाननिष्ठः उपेक्षकः ।
मन्माया रचनां एतां विज्ञाय उपशमं व्रज ॥ 49॥

इति उक्तः तं परिक्रम्य नमस्कृत्य पुनः पुनः ।
तत् पादौ शीर्ष्णि उपाधाय दुर्मनाः प्रययौ पुरीम् ॥ 50॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे यदुकुलसंक्षयो नाम
त्रिंशोऽध्यायः ॥ 30॥

अथ एकत्रिंशः अध्यायः ।
श्रीशुकः उवाच ।
अथ तत्र आगमत् ब्रह्मा भवान्या च समं भवः ।
महेंद्रप्रमुखाः देवाः मुनयः सप्रजेश्वराः ॥ 1॥

पितरः सिद्धगंधर्वाः विद्याधर महोरगाः ।
चारणाः यक्षरक्षांसि किंनर अप्सरसः द्विजाः ॥ 2॥

द्रष्टुकामाः भगवतः निर्वाणं परम उत्सुकाः ।
गायंतः च गृणंतः च शौरेः कर्माणि जन्म च ॥ 3॥

ववर्षुः पुष्पवर्षाणि विमान आवलिभिः नभः ।
कुर्वंतः संकुलं राजन् भक्त्या परमया युताः ॥ 4॥

भगवान् पितामहं वीक्ष्य विभूतिः आत्मनः विभुः ।
संयोज्य आत्मनि च आत्मानं पद्मनेत्रे न्यमीलयत् ॥ 5॥

लोकाभिरामां स्वतनुं धारणा ध्यान मंगलम् ।
योगधारणया आग्नेय्या अदग्ध्वा धाम आविशत् स्वकम् ॥ 6॥

दिवि दुंदुभयः नेदुः पेतुः सुमनः च खात् ।
सत्यं धर्मः धृतिः भूमेः कीर्तिः श्रीः च अनु तं वयुः ॥ 7॥

देव आदयः ब्रह्ममुख्याः न विशंतं स्वधामनि ।
अविज्ञातगतिं कृष्णं ददृशुः च अतिविस्मिताः ॥ 8॥

सौदामन्याः यथा आकाशे यांत्याः हित्वा अभ्रमंडलम् ।
गतिः न लक्ष्यते मर्त्यैः तथा कृष्णस्य दैवतैः ॥ 9॥

ब्रह्म रुद्र आदयः ते तु दृष्ट्वा योगगतिं हरेः ।
विस्मिताः तां प्रशंसंतः स्वं स्वं लोकं ययुः तदा ॥ 10॥

राजन् परस्य तनुभृत् जननाप्ययेहा
मायाविडंबनं अवेहि यथा नटस्य ।
सृष्ट्वा आत्मना इदं अनुविश्य विहृत्य च अंते
संहृत्य च आत्म महिना उपरतः सः आस्ते ॥ 11॥

मर्त्येन यः गुरुसुतं यमलोकनीतम्
त्वां च आनयत् शरणदः परम अस्त्र दग्धम् ।
जिग्ये अंतक अंतकं अपि ईशं असौ अवनीशः
किं स्वावने स्वरनयन् मृगयुं सदेहम् ॥ 12॥

तथा अपि अशेशा स्थिति संभव अपि
अयेषु अनन्य हेतुः यत् अशेष शक्तिधृक् ।
न इच्छत् प्रणेतुं वपुः अत्र शेषितम्
मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ 13॥

यः एतां प्रातः उत्थाय कृष्णस्य पदवीं पराम् ।
प्रयतः कीर्तयेत् भक्त्या तां एव आप्नोति अनुत्तमाम् ॥ 14॥

दारुकः द्वारकां एत्य वसुदेव उग्रसेनयोः ।
पतित्वा चरणावस्रैः न्यषिंचत् कृष्णविच्युतः ॥ 15॥

कथयामास निधनं वृष्णीनां कृत्स्नशः नृप ।
तत् श्रुत्वा उद्विग्न हृदयाः जनाः शोक विमूर्च्छिताः ॥ 16॥

तत्र स्म त्वरिता जग्मुः कृष्ण विश्लेष विह्वलाः ।
व्यसवाः शेरते यत्र ज्ञातयः घ्नंतः आननम् ॥ 17॥

देवकी रोहिणी च एव वसुदेवः तथा सुतौ ।
कृष्ण राम अवपश्यंतः शोक आर्ताः विजहुः स्मृतिम् ॥ 18॥

प्राणान् च विजहुः तत्र भगवत् विरह आतुराः ।
उपगुह्य पतीन् तात चितां आरुरुहुः स्त्रियः ॥ 19॥

रामपत्न्यः च तत् देहं उपगुह्य अग्निं आविशन् ।
वसुदेवपत्न्यः तत् गात्रं प्रद्युम्न आदीन् हरेः स्नुषाः ।
कृष्णपत्न्यः आविशन् अग्निं रुक्मिणि आद्याः तदात्मिकाः ॥ 20॥

अर्जुनः प्रेयसः सख्युः कृष्णस्य विरह आतुरः ।
आत्मानं सांत्वयामास कृष्णगीतैः सदुक्तिभिः ॥ 21॥

बंधूनां नष्टगोत्राणां अर्जुनः सांपरायिकम् ।
हतानां कारयामास यथावत् अनुपूर्वशः ॥ 22॥

द्वारकां हरिणा त्यक्ता समुद्रः अप्लावयत् क्षणात् ।
वर्जयित्वा महाराज श्रीमत् भगवत् आलयम् ॥ 23॥

नित्यं संनिहितः तत्र भगवान् मधुसूदनः ।
स्मृत्या अशेषा अशुभहरं सर्व मंगलं अमंगलम् ॥ 24॥

स्त्री बाल वृद्धान् आदाय हतशेषान् धनंजयः ।
इंद्रप्रस्थं समावेश्य वज्र तत्र अभ्यषेचयत् ॥ 25॥

श्रुत्वा सुहृत् वधं राजन् अर्जुनात् ते पितामहाः ।
त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् ॥ 26॥

यः एतत् देवदेवस्य विष्णोः कर्माणि जन्म च ।
कीर्तयेत् श्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ॥ 27॥

इत्थं हरेः भगवतः रुचिर अवतार
वीर्याणि बालचरितानि च शंतमानि ।
अन्यत्र च इह च श्रुतानि गृणन् मनुष्यः
भक्तिं परां परमहंसगतौ लभेत ॥ 28॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे मौसलोपाख्यानं नाम
एकत्रिंशोऽध्यायः ॥ 31॥

॥ इति उद्धवगीता नाम एकादशस्कंधः समाप्तः ॥