त्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् ।
श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमवाप्नुयात् ॥ 01 ॥

पक्षिणः काकश्चंडालः पशूनां चैव कुक्कुरः ।
मुनीनां पापश्चंडालः सर्वचांडालनिंदकः ॥ 02 ॥

भस्मना शुद्ध्यते कास्यं ताम्रमम्लेन शुद्ध्यति ।
रजसा शुद्ध्यते नारी नदी वेगेन शुद्ध्यति ॥ 03 ॥

भ्रमन्संपूज्यते राजा भ्रमन्संपूज्यते द्विजः ।
भ्रमन्संपूज्यते योगी स्त्री भ्रमंती विनश्यति ॥ 04 ॥

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बांधवाः ।
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पंडितः ॥ 05 ॥

तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः ।
सहायास्तादृशा एव यादृशी भवितव्यता ॥ 06 ॥

कालः पचति भूतानि कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ 07 ॥

न पश्यति च जन्मांधः कामांधो नैव पश्यति ।
मदोन्मत्ता न पश्यंति अर्थी दोषं न पश्यति ॥ 08 ॥

स्वयं कर्म करोत्यात्मा स्वयं तत्फलमश्नुते ।
स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते ॥ 09 ॥

राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः ।
भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥ 10 ॥

ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुत्रः शत्रुरपंडितः ॥ 11 ॥

लुब्धमर्थेन गृह्णीयात् स्तब्धमंजलिकर्मणा ।
मूर्खं छंदोऽनुवृत्त्या च यथार्थत्वेन पंडितम् ॥ 12 ॥

वरं न राज्यं न कुराजराज्यं
वरं न मित्रं न कुमित्रमित्रम् ।
वरं न शिष्यो न कुशिष्यशिष्यो
वरं न दार न कुदरदारः ॥ 13 ॥

कुराजराज्येन कुतः प्रजासुखं
कुमित्रमित्रेण कुतोऽभिनिर्वृतिः ।
कुदारदारैश्च कुतो गृहे रतिः
कुशिष्यशिष्यमध्यापयतः कुतो यशः ॥ 14 ॥

सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुक्कुटात् ।
वायसात्पंच शिक्षेच्च षट्शुनस्त्रीणि गर्दभात् ॥ 15 ॥

प्रभूतं कार्यमल्पं वा यन्नरः कर्तुमिच्छति ।
सर्वारंभेण तत्कार्यं सिंहादेकं प्रचक्षते ॥ 16 ॥

इंद्रियाणि च संयम्य रागद्वेषविवर्जितः ।
समदुःखसुखः शांतः तत्त्वज्ञः साधुरुच्यते ॥ 17 ॥

प्रत्युत्थानं च युद्धं च संविभागं च बंधुषु ।
स्वयमाक्रम्य भुक्तं च शिक्षेच्चत्वारि कुक्कुटात् ॥ 18 ॥

गूढमैथुनचारित्वं काले काले च संग्रहम् ।
अप्रमत्तमविश्वासं पंच शिक्षेच्च वायसात् ॥ 19 ॥

बह्वाशी स्वल्पसंतुष्टः सनिद्रो लघुचेतनः ।
स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः ॥ 20 ॥

सुश्रांतोऽपि वहेद्भारं शीतोष्णं न च पश्यति ।
संतुष्टश्चरते नित्यं त्रीणि शिक्षेच्च गर्दभात् ॥ 21 ॥

य एतान्विंशतिगुणानाचरिष्यति मानवः ।
कार्यावस्थासु सर्वासु अजेयः स भविष्यति ॥ 22 ॥