न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगला स्वप्नेऽपि नालिंगितं
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ 01 ॥

जल्पंति सार्धमन्येन पश्यंत्यन्यं सविभ्रमाः ।
हृदये चिंतयंत्यन्यं न स्त्रीणामेकतो रतिः ॥ 02 ॥

यो मोहान्मन्यते मूढो रक्तेयं मयि कामिनी ।
स तस्या वशगो भूत्वा नृत्येत् क्रीडाशकुंतवत् ॥ 03 ॥

कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खंडितं भुवि मनः को नाम राजप्रियः ।
कः कालस्य न गोचरत्वमगमत् कोऽर्थी गतो गौरवं
को वा दुर्जनदुर्गमेषु पतितः क्षेमेण यातः पथि ॥ 04 ॥

न निर्मितो न चैव न दृष्टपूर्वो
न श्रूयते हेममयः कुरंगः ।
तथाऽपि तृष्णा रघुनंदनस्य
विनाशकाले विपरीतबुद्धिः ॥ 05 ॥

गुणैरुत्तमतां याति नोच्चैरासनसंस्थिताः ।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥ 06 ॥

गुणाः सर्वत्र पूज्यंते न महत्योऽपि संपदः ।
पूर्णेंदुः किं तथा वंद्यो निष्कलंको यथा कृशः ॥ 07 ॥

परैरुक्तगुणो यस्तु निर्गुणोऽपि गुणी भवेत् ।
इंद्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ॥ 08 ॥

विवेकिनमनुप्राप्ता गुणा यांति मनोज्ञताम् ।
सुतरां रत्नमाभाति चामीकरनियोजितम् ॥ 09 ॥

गुणैः सर्वज्ञतुल्योऽपि सीदत्येको निराश्रयः ।
अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते ॥ 10 ॥

अतिक्लेशेन यद्द्रव्यमतिलोभेन यत्सुखम् ।
शत्रूणां प्रणिपातेन ते ह्यर्था मा भवंतु मे ॥ 11 ॥

किं तया क्रियते लक्ष्म्या या वधूरिव केवला ।
या तु वेश्येव सामान्या पथिकैरपि भुज्यते ॥ 12 ॥

धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु ।
अतृप्ताः प्राणिनः सर्वे याता यास्यंति यांति च ॥ 13 ॥

क्षीयंते सर्वदानानि यज्ञहोमबलिक्रियाः ।
न क्षीयते पात्रदानमभयं सर्वदेहिनाम् ॥ 14 ॥

तृणं लघु तृणात्तूलं तूलादपि च याचकः ।
वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥ 15 ॥

वरं प्राणपरित्यागो मानभंगेन जीवनात् ।
प्राणत्यागे क्षणं दुःखं मानभंगे दिने दिने ॥ 16 ॥

प्रियवाक्यप्रदानेन सर्वे तुष्यंति जंतवः ।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥ 17 ॥

संसारकटुवृक्षस्य द्वे फलेऽमृतोपमे ।
सुभाषितं च सुस्वादु संगतिः सज्जने जने ॥ 18 ॥

जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः ।
तेनैवाऽभ्यासयोगेन देही चाभ्यस्यते पुनः ॥ 19 ॥

पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥ 20 ॥