अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वंचनं चापमानं च मतिमान्न प्रकाशयेत् ॥ 01 ॥

धनधान्यप्रयोगेषु विद्यासंग्रहणे तथा ।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥ 02 ॥

संतोषामृततृप्तानां यत्सुखं शांतिरेव च ।
न च तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ 03 ॥

संतोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने ।
त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥ 04 ॥

विप्रयोर्विप्रवह्न्योश्च दंपत्योः स्वामिभृत्ययोः ।
अंतरेण न गंतव्यं हलस्य वृषभस्य च ॥ 05 ॥

पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च ।
नैव गां न कुमारीं च न वृद्धं न शिशुं तथा ॥ 06 ॥

शकटं पंचहस्तेन दशहस्तेन वाजिनम् ।
गजं हस्तसहस्रेण देशत्यागेन दुर्जनम् ॥ 07 ॥

हस्ती अंकुशमात्रेण वाजी हस्तेन ताड्यते ।
श‍ऋंगी लगुडहस्तेन खड्गहस्तेन दुर्जनः ॥ 08 ॥

तुष्यंति भोजने विप्रा मयूरा घनगर्जिते ।
साधवः परसंपत्तौ खलाः परविपत्तिषु ॥ 09 ॥

अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् ।
आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ॥ 10 ॥

बाहुवीर्यं बलं राज्ञां ब्रह्मणो ब्रह्मविद्बली ।
रूपयौवनमाधुर्यं स्त्रीणां बलमनुत्तमम् ॥ 11 ॥

नात्यंतं सरलैर्भाव्यं गत्वा पश्य वनस्थलीम् ।
छिद्यंते सरलास्तत्र कुब्जास्तिष्ठंति पादपाः ॥ 12 ॥

यत्रोदकं तत्र वसंति हंसा-
स्तथैव शुष्कं परिवर्जयंति ।
न हंसतुल्येन नरेण भाव्यं
पुनस्त्यजंतः पुनराश्रयंते ॥ 13 ॥

उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ।
तडागोदरसंस्थानां परीवाह इवांभसाम् ॥ 14 ॥

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बांधवाः ।
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पंडितः ॥ 15 ॥

स्वर्गस्थितानामिह जीवलोके
चत्वारि चिह्नानि वसंति देहे ।
दानप्रसंगो मधुरा च वाणी
देवार्चनं ब्राह्मणतर्पणं च ॥ 16 ॥

अत्यंतकोपः कटुका च वाणी
दरिद्रता च स्वजनेषु वैरम् ।
नीचप्रसंगः कुलहीनसेवा
चिह्नानि देहे नरकस्थितानाम् ॥ 17 ॥

गम्यते यदि मृगेंद्रमंदिरं
लभ्यते करिकपालमौक्तिकम् ।
जंबुकालयगते च प्राप्यते
वत्सपुच्छखरचर्मखंडनम् ॥ 18 ॥

शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना ।
न गुह्यगोपने शक्तं न च दंशनिवारणे ॥ 19 ॥

वाचां शौचं च मनसः शौचमिंद्रियनिग्रहः ।
सर्वभूतदयाशौचमेतच्छौचं परार्थिनाम् ॥ 20 ॥

पुष्पे गंधं तिले तैलं काष्ठेऽग्निं पयसि घृतम् ।
इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ॥ 21 ॥