(श्रीमहाभारते भीष्मपर्वणि पंचषष्टितमोऽध्याये श्लो: 47)
विश्वावसुर्विश्वमूर्तिर्विश्वेशो
विष्वक्सेनो विश्वकर्मा वशी च ।
विश्वेश्वरो वासुदेवोऽसि तस्मा-
-द्योगात्मानं दैवतं त्वामुपैमि ॥ 47 ॥
जय विश्व महादेव जय लोकहितेरत ।
जय योगीश्वर विभो जय योगपरावर ॥ 48 ॥
पद्मगर्भ विशालाक्ष जय लोकेश्वरेश्वर ।
भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज ॥ 49 ॥
असंख्येयगुणाधार जय सर्वपरायण ।
नारायण सुदुष्पार जय शार्ङ्गधनुर्धर ॥ 50 ॥
जय सर्वगुणोपेत विश्वमूर्ते निरामय ।
विश्वेश्वर महाबाहो जय लोकार्थतत्पर ॥ 51 ॥
महोरगवराहाद्य हरिकेश विभो जय ।
हरिवास दिशामीश विश्वावासामिताव्यय ॥ 52 ॥
व्यक्ताव्यक्तामितस्थान नियतेंद्रिय सत्क्रिय ।
असंख्येयात्मभावज्ञ जय गंभीरकामद ॥ 53 ॥
अनंतविदित ब्रह्मन् नित्यभूतविभावन ।
कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयावह ॥ 54 ॥
गुह्यात्मन् सर्वयोगात्मन् स्फुट संभूत संभव ।
भूताद्य लोकतत्त्वेश जय भूतविभावन ॥ 55 ॥
आत्मयोने महाभाग कल्पसंक्षेपतत्पर ।
उद्भावनमनोभाव जय ब्रह्मजनप्रिय ॥ 56 ॥
निसर्गसर्गनिरत कामेश परमेश्वर ।
अमृतोद्भव सद्भाव मुक्तात्मन् विजयप्रद ॥ 57 ॥
प्रजापतिपते देव पद्मनाभ महाबल ।
आत्मभूत महाभूत सत्वात्मन् जय सर्वदा ॥ 58 ॥
पादौ तव धरा देवी दिशो बाहु दिवं शिरः ।
मूर्तिस्तेऽहं सुराः कायश्चंद्रादित्यौ च चक्षुषी ॥ 59 ॥
बलं तपश्च सत्यं च कर्म धर्मात्मजं तव ।
तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसंभवाः ॥ 60 ॥
अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती ।
वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् ॥ 61 ॥
न संख्या न परीमाणं न तेजो न पराक्रमम् ।
न बलं योगयोगीश जानीमस्ते न संभवम् ॥ 62 ॥
त्वद्भक्तिनिरता देव नियमैस्त्वां समाश्रिताः ।
अर्चयामः सदा विष्णो परमेशं महेश्वरम् ॥ 63 ॥
ऋषयो देवगंधर्वा यक्षराक्षसपन्नगाः ।
पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः ॥ 64 ॥
एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् ।
पद्मनाभ विशालाक्ष कृष्ण दुःखप्रणाशन ॥ 65 ॥
त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगद्गुरुः ।
त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा ॥ 66 ॥
पृथिवी निर्भया देव त्वत्प्रसादात्सदाऽभवत् ।
तस्माद्भव विशालाक्ष यदुवंशविवर्धनः ॥ 67 ॥
धर्मसंस्थापनार्थाय दैत्यानां च वधाय च ।
जगतो धारणार्थाय विज्ञाप्यं कुरु मे प्रभो ॥ 68 ॥
यत्तत्परमकं गुह्यं त्वत्प्रसादादिदं विभो ।
वासुदेव तदेतत्ते मयोद्गीतं यथातथम् ॥ 69 ॥
सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना ।
कृष्ण त्वमात्मनो साक्षी प्रद्युम्नं चात्मसंभवम् ॥ 70 ॥
प्रद्युम्नादनिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् ।
अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् ॥ 71 ॥
वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः ।
[तस्माद्याचामि लोकेश चतुरात्मानमात्मना।]
विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो ॥ 72 ॥
तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै ।
धर्मं प्राप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः ॥ 73 ॥
त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम ।
तैस्तैर्हि नामभिर्युक्ता गायंति परमात्मकम् ॥ 74 ॥
स्थिताश्च सर्वे त्वयि भूतसंघाः
कृत्वाश्रयं त्वां वरदं सुबाहो ।
अनादिमध्यांतमपारयोगं
लोकस्य सेतुं प्रवदंति विप्राः ॥ 75 ॥
इति श्रीमहाभारते भीष्मपर्वणि पंचषष्टितमोऽध्याये वासुदेव स्तोत्रम् ।