अस्य श्री अन्नपूर्णाष्टोत्तर शतनामस्तोत्र महामंत्रस्य ब्रह्मा ऋषिः अनुष्टुप्छंदः श्री अन्नपूर्णेश्वरी देवता स्वधा बीजं स्वाहा शक्तिः ॐ कीलकं मम सर्वाभीष्टप्रसादसिद्ध्यर्थे जपे विनियोगः ।

ॐ अन्नपूर्णा शिवा देवी भीमा पुष्टिस्सरस्वती ।
सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा ॥ 1 ॥

वेदवेद्या महाविद्या विद्यादात्री विशारदा ।
कुमारी त्रिपुरा बाला लक्ष्मीश्श्रीर्भयहारिणी ॥ 2 ॥

भवानी विष्णुजननी ब्रह्मादिजननी तथा ।
गणेशजननी शक्तिः कुमारजननी शुभा ॥ 3 ॥

भोगप्रदा भगवती भक्ताभीष्टप्रदायिनी ।
भवरोगहरा भव्या शुभ्रा परममंगला ॥ 4 ॥

भवानी चंचला गौरी चारुचंद्रकलाधरा ।
विशालाक्षी विश्वमाता विश्ववंद्या विलासिनी ॥ 5 ॥

आर्या कल्याणनिलया रुद्राणी कमलासना ।
शुभप्रदा शुभाऽनंता वृत्तपीनपयोधरा ॥ 6 ॥

अंबा संहारमथनी मृडानी सर्वमंगला ।
विष्णुसंसेविता सिद्धा ब्रह्माणी सुरसेविता ॥ 7 ॥

परमानंददा शांतिः परमानंदरूपिणी ।
परमानंदजननी परानंदप्रदायिनी ॥ 8 ॥

परोपकारनिरता परमा भक्तवत्सला ।
पूर्णचंद्राभवदना पूर्णचंद्रनिभांशुका ॥ 9 ॥

शुभलक्षणसंपन्ना शुभानंदगुणार्णवा ।
शुभसौभाग्यनिलया शुभदा च रतिप्रिया ॥ 10 ॥

चंडिका चंडमथनी चंडदर्पनिवारिणी ।
मार्तांडनयना साध्वी चंद्राग्निनयना सती ॥ 11 ॥

पुंडरीकहरा पूर्णा पुण्यदा पुण्यरूपिणी ।
मायातीता श्रेष्ठमाया श्रेष्ठधर्मात्मवंदिता ॥ 12 ॥

असृष्टिस्संगरहिता सृष्टिहेतु कपर्दिनी ।
वृषारूढा शूलहस्ता स्थितिसंहारकारिणी ॥ 13 ॥

मंदस्मिता स्कंदमाता शुद्धचित्ता मुनिस्तुता ।
महाभगवती दक्षा दक्षाध्वरविनाशिनी ॥ 14 ॥

सर्वार्थदात्री सावित्री सदाशिवकुटुंबिनी ।
नित्यसुंदरसर्वांगी सच्चिदानंदलक्षणा ॥ 15 ॥

नाम्नामष्टोत्तरशतमंबायाः पुण्यकारणम् ।
सर्वसौभाग्यसिद्ध्यर्थं जपनीयं प्रयत्नतः ॥ 16 ॥

इदं जपाधिकारस्तु प्राणमेव ततस्स्तुतः ।
आवहंतीति मंत्रेण प्रत्येकं च यथाक्रमम् ॥ 17 ॥

कर्तव्यं तर्पणं नित्यं पीठमंत्रेति मूलवत् ।
तत्तन्मंत्रेतिहोमेति कर्तव्यश्चेति मालवत् ॥ 18 ॥

एतानि दिव्यनामानि श्रुत्वा ध्यात्वा निरंतरम् ।
स्तुत्वा देवीं च सततं सर्वान्कामानवाप्नुयात् ॥ 19 ॥

इति श्री ब्रह्मोत्तरखंडे आगमप्रख्यातिशिवरहस्ये अन्नपूर्णाष्टोत्तर शतनामस्तोत्रम् ॥