Print Friendly, PDF & Email

ऋषय ऊचुः ।
सर्वशास्त्रार्थतत्त्वज्ञ सर्वलोकोपकारक ।
वयं चातिथयः प्राप्ता आतिथेयोऽसि सुव्रत ॥ 1 ॥

ज्ञानदानेन संसारसागरात्तारयस्व नः ।
कलौ कलुषचित्ता ये नराः पापरताः सदा ॥ 2 ॥

केन स्तोत्रेण मुच्यंते सर्वपातकबंधनात् ।
इष्टसिद्धिकरं पुण्यं दुःखदारिद्र्यनाशनम् ॥ 3 ॥

सर्वरोगहरं स्तोत्रं सूत नो वक्तुमर्हसि ।
श्रीसूत उवाच ।
शृणुध्वं ऋषयः सर्वे नैमिशारण्यवासिनः ॥ 4 ॥

तत्त्वज्ञानतपोनिष्ठाः सर्वशास्त्रविशारदाः ।
स्वयंभुवा पुरा प्रोक्तं नारदाय महात्मने ॥ 5 ॥

तदहं संप्रवक्ष्यामि श्रोतुं कौतूहलं यदि ।
ऋषय ऊचुः ।
किमाह भगवान्ब्रह्मा नारदाय महात्मने ॥ 6 ॥

सूतपुत्र महाभाग वक्तुमर्हसि सांप्रतम् ।
श्रीसूत उवाच ।
दिव्यसिंहासनासीनं सर्वदेवैरभिष्टुतम् ॥ 7 ॥

साष्टांगं प्रणिपत्यैनं ब्रह्माणं भुवनेश्वरम् ।
नारदः परिपप्रच्छ कृतांजलिरुपस्थितः ॥ 8 ॥

नारद उवाच ।
लोकनाथ सुरश्रेष्ठ सर्वज्ञ करुणाकर ।
षण्मुखस्य परं स्तोत्रं पावनं पापनाशनम् ॥ 9 ॥

हे धातः पुत्रवात्सल्यात्तद्वद प्रणताय मे ।
उपदिश्य तु मामेवं रक्ष रक्ष कृपानिधे ॥ 10 ॥

ब्रह्मोवाच ।
शृणु वक्ष्यामि देवर्षे स्तवराजमिदं परम् ।
मातृकामालिकायुक्तं ज्ञानमोक्षसुखप्रदम् ॥ 11 ॥

सहस्राणि च नामानि षण्मुखस्य महात्मनः ।
यानि नामानि दिव्यानि दुःखरोगहराणि च ॥ 12 ॥

तानि नामानि वक्ष्यामि कृपया त्वयि नारद ।
जपमात्रेण सिद्ध्यंति मनसा चिंतितान्यपि ॥ 13 ॥

इहामुत्र परं भोगं लभते नात्र संशयः ।
इदं स्तोत्रं परं पुण्यं कोटियज्ञफलप्रदम् ।
संदेहो नात्र कर्तव्यः शृणु मे निश्चितं वचः ॥ 14 ॥

ॐ अस्य श्रीसुब्रह्मण्यसहस्रनामस्तोत्र महामंत्रस्य ब्रह्मा ऋषिः अनुष्टुप्छंदः सुब्रह्मण्यो देवता शरजन्माक्षय इति बीजं शक्तिधरोऽक्षय कार्तिकेय इति शक्तिः क्रौंचधर इति कीलकं शिखिवाहन इति कवचं षण्मुखाय इति ध्यानं श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः ।

करन्यासः –
ॐ शं ॐकारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय अंगुष्ठाभ्यां नमः ।
ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय तर्जनीभ्यां नमः ।
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय मध्यमाभ्यां नमः ।
ॐ णं कृशानुसंभवाय कवचिने कुक्कुटध्वजाय अनामिकाभ्यां नमः ।
ॐ भं कंदर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय कनिष्ठिकाभ्यां नमः ।
ॐ वं खेटधराय खड्गिने शक्तिहस्ताय करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ॐ शं ॐकारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय हृदयाय नमः ।
ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय शिरसे स्वाहा ।
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय शिखायै वषट् ।
ॐ णं कृशानुसंभवाय कवचिने कुक्कुटध्वजाय कवचाय हुम् ।
ॐ भं कंदर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय नेत्रत्रयाय वौषट् ।
ॐ वं खेटधराय खड्गिने शक्तिहस्ताय अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बंधः ।

ध्यानम् ।
ध्यायेत्षण्मुखमिंदुकोटिसदृशं रत्नप्रभाशोभितं
बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् ।
कर्णालंबितकुंडलप्रविलसद्गंडस्थलाशोभितं
कांचीकंकणकिंकिणीरवयुतं शृंगारसारोदयम् ॥ 1 ॥

ध्यायेदीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहं
खेटं कुक्कुटमंकुशं च वरदं पाशं धनुश्चक्रकम् ।
वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखं
देवं चित्रमयूरवाहनगतं चित्रांबरालंकृतम् ॥ 2 ॥

स्तोत्रम् ।
अचिंत्यशक्तिरनघस्त्वक्षोभ्यस्त्वपराजितः ।
अनाथवत्सलोऽमोघस्त्वशोकोऽप्यजरोऽभयः ॥ 1 ॥

अत्युदारो ह्यघहरस्त्वग्रगण्योऽद्रिजासुतः ।
अनंतमहिमाऽपारोऽनंतसौख्यप्रदोऽव्ययः ॥ 2 ॥

अनंतमोक्षदोऽनादिरप्रमेयोऽक्षरोऽच्युतः ।
अकल्मषोऽभिरामोऽग्रधुर्यश्चामितविक्रमः ॥ 3 ॥

[ अतुलश्चामृतोऽघोरो ह्यनंतोऽनंतविक्रमः ]
अनाथनाथो ह्यमलो ह्यप्रमत्तोऽमरप्रभुः ।
अरिंदमोऽखिलाधारस्त्वणिमादिगुणोऽग्रणीः ॥ 4 ॥

अचंचलोऽमरस्तुत्यो ह्यकलंकोऽमिताशनः ।
अग्निभूरनवद्यांगो ह्यद्भुतोऽभीष्टदायकः ॥ 5 ॥

अतींद्रियोऽप्रमेयात्मा ह्यदृश्योऽव्यक्तलक्षणः ।
आपद्विनाशकस्त्वार्य आढ्य आगमसंस्तुतः ॥ 6 ॥

आर्तसंरक्षणस्त्वाद्य आनंदस्त्वार्यसेवितः ।
आश्रितेष्टार्थवरद आनंद्यार्तफलप्रदः ॥ 7 ॥

आश्चर्यरूप आनंद आपन्नार्तिविनाशनः ।
इभवक्त्रानुजस्त्विष्ट इभासुरहरात्मजः ॥ 8 ॥

इतिहासश्रुतिस्तुत्य इंद्रभोगफलप्रदः ।
इष्टापूर्तफलप्राप्तिरिष्टेष्टवरदायकः ॥ 9 ॥

इहामुत्रेष्टफलद इष्टदस्त्विंद्रवंदितः ।
ईडनीयस्त्वीशपुत्र ईप्सितार्थप्रदायकः ॥ 10 ॥

ईतिभीतिहरश्चेड्य ईषणात्रयवर्जितः ।
उदारकीर्तिरुद्योगी चोत्कृष्टोरुपराक्रमः ॥ 11 ॥

उत्कृष्टशक्तिरुत्साह उदारश्चोत्सवप्रियः ।
उज्जृंभ उद्भवश्चोग्र उदग्रश्चोग्रलोचनः ॥ 12 ॥

उन्मत्त उग्रशमन उद्वेगघ्नोरगेश्वरः ।
उरुप्रभावश्चोदीर्ण उमापुत्र उदारधीः ॥ 13 ॥

ऊर्ध्वरेतःसुतस्तूर्ध्वगतिदस्तूर्जपालकः ।
ऊर्जितस्तूर्ध्वगस्तूर्ध्व ऊर्ध्वलोकैकनायकः ॥ 14 ॥

ऊर्जावानूर्जितोदार ऊर्जितोर्जितशासनः ।
ऋषिदेवगणस्तुत्य ऋणत्रयविमोचनः ॥ 15 ॥

ऋजुरूपो ह्यृजुकर ऋजुमार्गप्रदर्शनः ।
ऋतंभरो ह्यृजुप्रीत ऋषभस्त्वृद्धिदस्त्वृतः ॥ 16 ॥

लुलितोद्धारको लूतभवपाशप्रभंजनः ।
एणांकधरसत्पुत्र एक एनोविनाशनः ॥ 17 ॥

ऐश्वर्यदश्चैंद्रभोगी चैतिह्यश्चैंद्रवंदितः ।
ओजस्वी चौषधिस्थानमोजोदश्चौदनप्रदः ॥ 18 ॥

औदार्यशील औमेय औग्र औन्नत्यदायकः ।
औदार्य औषधकर औषधं चौषधाकरः ॥ 19 ॥

अंशुमानंशुमालीड्य अंबिकातनयोऽन्नदः ।
अंधकारिसुतोऽंधत्वहारी चांबुजलोचनः ॥ 20 ॥

अस्तमायोऽमराधीशो ह्यस्पष्टोऽस्तोकपुण्यदः ।
अस्तामित्रोऽस्तरूपश्चास्खलत्सुगतिदायकः ॥ 21 ॥

कार्तिकेयः कामरूपः कुमारः क्रौंचदारणः ।
कामदः कारणं काम्यः कमनीयः कृपाकरः ॥ 22 ॥

कांचनाभः कांतियुक्तः कामी कामप्रदः कविः ।
कीर्तिकृत्कुक्कुटधरः कूटस्थः कुवलेक्षणः ॥ 23 ॥

कुंकुमांगः क्लमहरः कुशलः कुक्कुटध्वजः ।
कुशानुसंभवः क्रूरः क्रूरघ्नः कलितापहृत् ॥ 24 ॥

कामरूपः कल्पतरुः कांतः कामितदायकः ।
कल्याणकृत्क्लेशनाशः कृपालुः करुणाकरः ॥ 25 ॥

कलुषघ्नः क्रियाशक्तिः कठोरः कवची कृती ।
कोमलांगः कुशप्रीतः कुत्सितघ्नः कलाधरः ॥ 26 ॥

ख्यातः खेटधरः खड्गी खट्वांगी खलनिग्रहः ।
ख्यातिप्रदः खेचरेशः ख्यातेहः खेचरस्तुतः ॥ 27 ॥

खरतापहरः स्वस्थः खेचरः खेचराश्रयः ।
खंडेंदुमौलितनयः खेलः खेचरपालकः ॥ 28 ॥

खस्थलः खंडितार्कश्च खेचरीजनपूजितः ।
गांगेयो गिरिजापुत्रो गणनाथानुजो गुहः ॥ 29 ॥

गोप्ता गीर्वाणसंसेव्यो गुणातीतो गुहाश्रयः ।
गतिप्रदो गुणनिधिः गंभीरो गिरिजात्मजः ॥ 30 ॥

गूढरूपो गदहरो गुणाधीशो गुणाग्रणीः ।
गोधरो गहनो गुप्तो गर्वघ्नो गुणवर्धनः ॥ 31 ॥

गुह्यो गुणज्ञो गीतिज्ञो गतातंको गुणाश्रयः ।
गद्यपद्यप्रियो गुण्यो गोस्तुतो गगनेचरः ॥ 32 ॥

गणनीयचरित्रश्च गतक्लेशो गुणार्णवः ।
घूर्णिताक्षो घृणिनिधिः घनगंभीरघोषणः ॥ 33 ॥

घंटानादप्रियो घोषो घोराघौघविनाशनः ।
घनानंदो घर्महंता घृणावान् घृष्टिपातकः ॥ 34 ॥

घृणी घृणाकरो घोरो घोरदैत्यप्रहारकः ।
घटितैश्वर्यसंदोहो घनार्थो घनसंक्रमः ॥ 35 ॥

चित्रकृच्चित्रवर्णश्च चंचलश्चपलद्युतिः ।
चिन्मयश्चित्स्वरूपश्च चिरानंदश्चिरंतनः ॥ 36 ॥

चित्रकेलिश्चित्रतरश्चिंतनीयश्चमत्कृतिः ।
चोरघ्नश्चतुरश्चारुश्चामीकरविभूषणः ॥ 37 ॥

चंद्रार्ककोटिसदृशश्चंद्रमौलितनूभवः ।
छादितांगश्छद्महंता छेदिताखिलपातकः ॥ 38 ॥

छेदीकृततमःक्लेशश्छत्रीकृतमहायशाः ।
छादिताशेषसंतापश्छुरितामृतसागरः ॥ 39 ॥

छन्नत्रैगुण्यरूपश्च छातेहश्छिन्नसंशयः ।
छंदोमयश्छंदगामी छिन्नपाशश्छविश्छदः ॥ 40 ॥

जगद्धितो जगत्पूज्यो जगज्ज्येष्ठो जगन्मयः ।
जनको जाह्नवीसूनुर्जितामित्रो जगद्गुरुः ॥ 41 ॥

जयी जितेंद्रियो जैत्रो जरामरणवर्जितः ।
ज्योतिर्मयो जगन्नाथो जगज्जीवो जनाश्रयः ॥ 42 ॥

जगत्सेव्यो जगत्कर्ता जगत्साक्षी जगत्प्रियः ।
जंभारिवंद्यो जयदो जगज्जनमनोहरः ॥ 43 ॥

जगदानंदजनको जनजाड्यापहारकः ।
जपाकुसुमसंकाशो जनलोचनशोभनः ॥ 44 ॥

जनेश्वरो जितक्रोधो जनजन्मनिबर्हणः ।
जयदो जंतुतापघ्नो जितदैत्यमहाव्रजः ॥ 45 ॥

जितमायो जितक्रोधो जितसंगो जनप्रियः ।
झंझानिलमहावेगो झरिताशेषपातकः ॥ 46 ॥

झर्झरीकृतदैत्यौघो झल्लरीवाद्यसंप्रियः ।
ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः ॥ 47 ॥

टंकारनृत्तविभवः टंकवज्रध्वजांकितः ।
टंकिताखिललोकश्च टंकितैनस्तमोरविः ॥ 48 ॥

डंबरप्रभवो डंभो डंबो डमरुकप्रियः । [डमड्ड]
डमरोत्कटसन्नादो डिंभरूपस्वरूपकः ॥ 49 ॥

ढक्कानादप्रीतिकरो ढालितासुरसंकुलः ।
ढौकितामरसंदोहो ढुंढिविघ्नेश्वरानुजः ॥ 50 ॥

तत्त्वज्ञस्तत्वगस्तीव्रस्तपोरूपस्तपोमयः ।
त्रयीमयस्त्रिकालज्ञस्त्रिमूर्तिस्त्रिगुणात्मकः ॥ 51 ॥

त्रिदशेशस्तारकारिस्तापघ्नस्तापसप्रियः ।
तुष्टिदस्तुष्टिकृत्तीक्ष्णस्तपोरूपस्त्रिकालवित् ॥ 52 ॥

स्तोता स्तव्यः स्तवप्रीतः स्तुतिः स्तोत्रं स्तुतिप्रियः ।
स्थितः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः ॥ 53 ॥

स्थविष्ठः स्थविरः स्थूलः स्थानदः स्थैर्यदः स्थिरः ।
दांतो दयापरो दाता दुरितघ्नो दुरासदः ॥ 54 ॥

दर्शनीयो दयासारो देवदेवो दयानिधिः ।
दुराधर्षो दुर्विगाह्यो दक्षो दर्पणशोभितः ॥ 55 ॥

दुर्धरो दानशीलश्च द्वादशाक्षो द्विषड्भुजः ।
द्विषट्कर्णो द्विषड्बाहुर्दीनसंतापनाशनः ॥ 56 ॥

दंदशूकेश्वरो देवो दिव्यो दिव्याकृतिर्दमः ।
दीर्घवृत्तो दीर्घबाहुर्दीर्घदृष्टिर्दिवस्पतिः ॥ 57 ॥

दंडो दमयिता दर्पो देवसिंहो दृढव्रतः ।
दुर्लभो दुर्गमो दीप्तो दुष्प्रेक्ष्यो दिव्यमंडनः ॥ 58 ॥

दुरोदरघ्नो दुःखघ्नो दुरारिघ्नो दिशां पतिः ।
दुर्जयो देवसेनेशो दुर्ज्ञेयो दुरतिक्रमः ॥ 59 ॥

दंभो दृप्तश्च देवर्षिर्दैवज्ञो दैवचिंतकः ।
धुरंधरो धर्मपरो धनदो धृतिवर्धनः ॥ 60 ॥

धर्मेशो धर्मशास्त्रज्ञो धन्वी धर्मपरायणः ।
धनाध्यक्षो धनपतिर्धृतिमांधूतकिल्बिषः ॥ 61 ॥

धर्महेतुर्धर्मशूरो धर्मकृद्धर्मविद्ध्रुवः ।
धाता धीमांधर्मचारी धन्यो धुर्यो धृतव्रतः ॥ 62 ॥

नित्योत्सवो नित्यतृप्तो निर्लेपो निश्चलात्मकः ।
निरवद्यो निराधारो निष्कलंको निरंजनः ॥ 63 ॥

निर्ममो निरहंकारो निर्मोहो निरुपद्रवः ।
नित्यानंदो निरातंको निष्प्रपंचो निरामयः ॥ 64 ॥

निरवद्यो निरीहश्च निर्दर्शो निर्मलात्मकः ।
नित्यानंदो निर्जरेशो निःसंगो निगमस्तुतः ॥ 65 ॥

निष्कंटको निरालंबो निष्प्रत्यूहो निरुद्भवः ।
नित्यो नियतकल्याणो निर्विकल्पो निराश्रयः ॥ 66 ॥

नेता निधिर्नैकरूपो निराकारो नदीसुतः ।
पुलिंदकन्यारमणः पुरुजित्परमप्रियः ॥ 67 ॥

प्रत्यक्षमूर्तिः प्रत्यक्षः परेशः पूर्णपुण्यदः ।
पुण्याकरः पुण्यरूपः पुण्यः पुण्यपरायणः ॥ 68 ॥

पुण्योदयः परं ज्योतिः पुण्यकृत्पुण्यवर्धनः ।
परानंदः परतरः पुण्यकीर्तिः पुरातनः ॥ 69 ॥

प्रसन्नरूपः प्राणेशः पन्नगः पापनाशनः ।
प्रणतार्तिहरः पूर्णः पार्वतीनंदनः प्रभुः ॥ 70 ॥

पूतात्मा पुरुषः प्राणः प्रभवः पुरुषोत्तमः ।
प्रसन्नः परमस्पष्टः परः परिबृढः परः ॥ 71 ॥

परमात्मा परब्रह्म परार्थः प्रियदर्शनः ।
पवित्रः पुष्टिदः पूर्तिः पिंगलः पुष्टिवर्धनः ॥ 72 ॥

पापहारी पाशधरः प्रमत्तासुरशिक्षकः ।
पावनः पावकः पूज्यः पूर्णानंदः परात्परः ॥ 73 ॥

पुष्कलः प्रवरः पूर्वः पितृभक्तः पुरोगमः ।
प्राणदः प्राणिजनकः प्रदिष्टः पावकोद्भवः ॥ 74 ॥

परब्रह्मस्वरूपश्च परमैश्वर्यकारणम् ।
परर्धिदः पुष्टिकरः प्रकाशात्मा प्रतापवान् ॥ 75 ॥

प्रज्ञापरः प्रकृष्टार्थः पृथुः पृथुपराक्रमः ।
फणीश्वरः फणिवरः फणामणिविभूषणः ॥ 76 ॥

फलदः फलहस्तश्च फुल्लांबुजविलोचनः ।
फडुच्चाटितपापौघः फणिलोकविभूषणः ॥ 77 ॥

बाहुलेयो बृहद्रूपो बलिष्ठो बलवान् बली ।
ब्रह्मेशविष्णुरूपश्च बुद्धो बुद्धिमतां वरः ॥ 78 ॥

बालरूपो ब्रह्मगर्भो ब्रह्मचारी बुधप्रियः ।
बहुश्रुतो बहुमतो ब्रह्मण्यो ब्राह्मणप्रियः ॥ 79 ॥

बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः ।
बृहद्भानुतनूद्भूतो बृहत्सेनो बिलेशयः ॥ 80 ॥

बहुबाहुर्बलश्रीमान् बहुदैत्यविनाशकः ।
बिलद्वारांतरालस्थो बृहच्छक्तिधनुर्धरः ॥ 81 ॥

बालार्कद्युतिमान् बालो बृहद्वक्षा बृहद्धनुः ।
भव्यो भोगीश्वरो भाव्यो भवनाशो भवप्रियः ॥ 82 ॥

भक्तिगम्यो भयहरो भावज्ञो भक्तसुप्रियः ।
भुक्तिमुक्तिप्रदो भोगी भगवान् भाग्यवर्धनः ॥ 83 ॥

भ्राजिष्णुर्भावनो भर्ता भीमो भीमपराक्रमः ।
भूतिदो भूतिकृद्भोक्ता भूतात्मा भुवनेश्वरः ॥ 84 ॥

भावको भीकरो भीष्मो भावकेष्टो भवोद्भवः ।
भवतापप्रशमनो भोगवान् भूतभावनः ॥ 85 ॥

भोज्यप्रदो भ्रांतिनाशो भानुमान् भुवनाश्रयः ।
भूरिभोगप्रदो भद्रो भजनीयो भिषग्वरः ॥ 86 ॥

महासेनो महोदारो महाशक्तिर्महाद्युतिः ।
महाबुद्धिर्महावीर्यो महोत्साहो महाबलः ॥ 87 ॥

महाभोगी महामायी मेधावी मेखली महान् ।
मुनिस्तुतो महामान्यो महानंदो महायशाः ॥ 88 ॥

महोर्जितो माननिधिर्मनोरथफलप्रदः ।
महोदयो महापुण्यो महाबलपराक्रमः ॥ 89 ॥

मानदो मतिदो माली मुक्तामालाविभूषणः ।
मनोहरो महामुख्यो महर्धिर्मूर्तिमान्मुनिः ॥ 90 ॥

महोत्तमो महोपायो मोक्षदो मंगलप्रदः ।
मुदाकरो मुक्तिदाता महाभोगो महोरगः ॥ 91 ॥

यशस्करो योगयोनिर्योगिष्ठो यमिनां वरः ।
यशस्वी योगपुरुषो योग्यो योगनिधिर्यमी ॥ 92 ॥

यतिसेव्यो योगयुक्तो योगविद्योगसिद्धिदः ।
यंत्रो यंत्री च यंत्रज्ञो यंत्रवान्यंत्रवाहकः ॥ 93 ॥

यातनारहितो योगी योगीशो योगिनां वरः ।
रमणीयो रम्यरूपो रसज्ञो रसभावनः ॥ 94 ॥

रंजनो रंजितो रागी रुचिरो रुद्रसंभवः ।
रणप्रियो रणोदारो रागद्वेषविनाशनः ॥ 95 ॥

रत्नार्ची रुचिरो रम्यो रूपलावण्यविग्रहः ।
रत्नांगदधरो रत्नभूषणो रमणीयकः ॥ 96 ॥

रुचिकृद्रोचमानश्च रंजितो रोगनाशनः ।
राजीवाक्षो राजराजो रक्तमाल्यानुलेपनः ॥ 97 ॥

राजद्वेदागमस्तुत्यो रजःसत्त्वगुणान्वितः ।
रजनीशकलारम्यो रत्नकुंडलमंडितः ॥ 98 ॥

रत्नसन्मौलिशोभाढ्यो रणन्मंजीरभूषणः ।
लोकैकनाथो लोकेशो ललितो लोकनायकः ॥ 99 ॥

लोकरक्षो लोकशिक्षो लोकलोचनरंजितः ।
लोकबंधुर्लोकधाता लोकत्रयमहाहितः ॥ 100 ॥

लोकचूडामणिर्लोकवंद्यो लावण्यविग्रहः ।
लोकाध्यक्षस्तु लीलावान्लोकोत्तरगुणान्वितः ॥ 101 ॥

वरिष्ठो वरदो वैद्यो विशिष्टो विक्रमो विभुः ।
विबुधाग्रचरो वश्यो विकल्पपरिवर्जितः ॥ 102 ॥

विपाशो विगतातंको विचित्रांगो विरोचनः ।
विद्याधरो विशुद्धात्मा वेदांगो विबुधप्रियः ॥ 103 ॥

वचस्करो व्यापकश्च विज्ञानी विनयान्वितः ।
विद्वत्तमो विरोधिघ्नो वीरो विगतरागवान् ॥ 104 ॥

वीतभावो विनीतात्मा वेदगर्भो वसुप्रदः ।
विश्वदीप्तिर्विशालाक्षो विजितात्मा विभावनः ॥ 105 ॥

वेदवेद्यो विधेयात्मा वीतदोषश्च वेदवित् ।
विश्वकर्मा वीतभयो वागीशो वासवार्चितः ॥ 106 ॥

वीरध्वंसो विश्वमूर्तिर्विश्वरूपो वरासनः ।
विशाखो विमलो वाग्मी विद्वान्वेदधरो वटुः ॥ 107 ॥

वीरचूडामणिर्वीरो विद्येशो विबुधाश्रयः ।
विजयी विनयी वेत्ता वरीयान्विरजा वसुः ॥ 108 ॥

वीरघ्नो विज्वरो वेद्यो वेगवान्वीर्यवान्वशी ।
वरशीलो वरगुणो विशोको वज्रधारकः ॥ 109 ॥

शरजन्मा शक्तिधरः शत्रुघ्नः शिखिवाहनः ।
श्रीमान् शिष्टः शुचिः शुद्धः शाश्वतः श्रुतिसागरः ॥ 110 ॥

शरण्यः शुभदः शर्म शिष्टेष्टः शुभलक्षणः ।
शांतः शूलधरः श्रेष्ठः शुद्धात्मा शंकरः शिवः ॥ 111 ॥

शितिकंठात्मजः शूरः शांतिदः शोकनाशनः ।
षाण्मातुरः षण्मुखश्च षड्गुणैश्वर्यसंयुतः ॥ 112 ॥

षट्चक्रस्थः षडूर्मिघ्नः षडंगश्रुतिपारगः ।
षड्भावरहितः षट्कः षट्छास्त्रस्मृतिपारगः ॥ 113 ॥

षड्वर्गदाता षड्ग्रीवः षडरिघ्नः षडाश्रयः ।
षट्किरीटधरः श्रीमान् षडाधारश्च षट्क्रमः ॥ 114 ॥

षट्कोणमध्यनिलयः षंडत्वपरिहारकः ।
सेनानीः सुभगः स्कंदः सुरानंदः सतां गतिः ॥ 115 ॥

सुब्रह्मण्यः सुराध्यक्षः सर्वज्ञः सर्वदः सुखी ।
सुलभः सिद्धिदः सौम्यः सिद्धेशः सिद्धिसाधनः ॥ 116 ॥

सिद्धार्थः सिद्धसंकल्पः सिद्धसाधुः सुरेश्वरः ।
सुभुजः सर्वदृक्साक्षी सुप्रसादः सनातनः ॥ 117 ॥

सुधापतिः स्वयंज्योतिः स्वयंभूः सर्वतोमुखः ।
समर्थः सत्कृतिः सूक्ष्मः सुघोषः सुखदः सुहृत् ॥ 118 ॥

सुप्रसन्नः सुरश्रेष्ठः सुशीलः सत्यसाधकः ।
संभाव्यः सुमनाः सेव्यः सकलागमपारगः ॥ 119 ॥

सुव्यक्तः सच्चिदानंदः सुवीरः सुजनाश्रयः ।
सर्वलक्षणसंपन्नः सत्यधर्मपरायणः ॥ 120 ॥

सर्वदेवमयः सत्यः सदा मृष्टान्नदायकः ।
सुधापी सुमतिः सत्यः सर्वविघ्नविनाशनः ॥ 121 ॥

सर्वदुःखप्रशमनः सुकुमारः सुलोचनः ।
सुग्रीवः सुधृतिः सारः सुराराध्यः सुविक्रमः ॥ 122 ॥

सुरारिघ्नः स्वर्णवर्णः सर्पराजः सदा शुचिः ।
सप्तार्चिर्भूः सुरवरः सर्वायुधविशारदः ॥ 123 ॥

हस्तिचर्मांबरसुतो हस्तिवाहनसेवितः ।
हस्तचित्रायुधधरो हृताघो हसिताननः ॥ 124 ॥

हेमभूषो हरिद्वर्णो हृष्टिदो हृष्टिवर्धनः ।
हेमाद्रिभिद्धंसरूपो हुंकारहतकिल्बिषः ॥ 125 ॥

हिमाद्रिजातातनुजो हरिकेशो हिरण्मयः ।
हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥ 126 ॥

हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः ।
हरप्रियो हितकरो हतपापो हरोद्भवः ॥ 127 ॥

क्षेमदः क्षेमकृत्क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः ।
क्षेत्रपालः क्षमाधारः क्षेमक्षेत्रः क्षमाकरः ॥ 128 ॥

क्षुद्रघ्नः क्षांतिदः क्षेमः क्षितिभूषः क्षमाश्रयः ।
क्षालिताघः क्षितिधरः क्षीणसंरक्षणक्षमः ॥ 129 ॥

क्षणभंगुरसन्नद्धघनशोभिकपर्दकः ।
क्षितिभृन्नाथतनयामुखपंकजभास्करः ॥ 130 ॥

क्षताहितः क्षरः क्षंता क्षतदोषः क्षमानिधिः ।
क्षपिताखिलसंतापः क्षपानाथसमाननः ॥ 131 ॥

उत्तर न्यासः ।
करन्यासः –
ॐ शं ॐकारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय अंगुष्ठाभ्यां नमः ।
ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय तर्जनीभ्यां नमः ।
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय मध्यमाभ्यां नमः ।
ॐ णं कृशानुसंभवाय कवचिने कुक्कुटध्वजाय अनामिकाभ्यां नमः ।
ॐ भं कंदर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय कनिष्ठिकाभ्यां नमः ।
ॐ वं खेटधराय खड्गिने शक्तिहस्ताय करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ॐ शं ॐकारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय हृदयाय नमः ।
ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय शिरसे स्वाहा ।
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय शिखायै वषट् ।
ॐ णं कृशानुसंभवाय कवचिने कुक्कुटध्वजाय कवचाय हुम् ।
ॐ भं कंदर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय नेत्रत्रयाय वौषट् ।
ॐ वं खेटधराय खड्गिने शक्तिहस्ताय अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्विमोकः ।

फलश्रुति ।
इति नाम्नां सहस्राणि षण्मुखस्य च नारद ।
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥ 1 ॥

स सद्यो मुच्यते पापैर्मनोवाक्कायसंभवैः ।
आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् ॥ 2 ॥

वाक्येनैकेन वक्ष्यामि वांछितार्थं प्रयच्छति ।
तस्मात्सर्वात्मना ब्रह्मन्नियमेन जपेत्सुधीः ॥ 3 ॥

इति स्कंदपुराणे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे श्री सुब्रह्मण्य सहस्रनाम स्तोत्रम् ।