अस्य श्रीसुब्रह्मण्यहृदयस्तोत्रमहामंत्रस्य, अगस्त्यो भगवान् ऋषिः, अनुष्टुप्छंदः, श्रीसुब्रह्मण्यो देवता, सौं बीजं, स्वाहा शक्तिः, श्रीं कीलकं, श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
करन्यासः –
सुब्रह्मण्याय अंगुष्ठाभ्यां नमः ।
षण्मुखाय तर्जनीभ्यां नमः ।
शक्तिधराय मध्यमाभ्यां नमः ।
षट्कोणसंस्थिताय अनामिकाभ्यां नमः ।
सर्वतोमुखाय कनिष्ठिकाभ्यां नमः ।
तारकांतकाय करतलकरपृष्ठाभ्यां नमः ॥
हृदयादि न्यासः –
सुब्रह्मण्याय हृदयाय नमः ।
षण्मुखाय शिरसे स्वाहा ।
शक्तिधराय शिखायै वषट् ।
षट्कोणसंस्थिताय कवचाय हुम् ।
सर्वतोमुखाय नेत्रत्रयाय वौषट् ।
तारकांतकाय अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बंधः ॥
ध्यानम् ।
षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्रांबरालंकृतं
वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमंकुशं च वरदं दोर्भिर्दधानं सदा
ध्यायामीप्सित सिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहम् ॥
लमित्यादि पंचपूजां कुर्यात् ।
पीठिका ।
सत्यलोके सदानंदे मुनिभिः परिवेष्टितम् ।
पप्रच्छुर्मुनयः सर्वे ब्रह्माणं जगतां गुरुम् ॥ 1 ॥
भगवन् सर्वलोकेश सर्वज्ञ कमलासन ।
सदानंद ज्ञानमूर्ते सर्वभूतहिते रत ॥ 2 ॥
बहुधा प्रोक्तमेतस्य गुहस्य चरितं महत् ।
हृदयं श्रोतुमिच्छामः तस्यैव क्रौंचभेदिनः ॥ 3 ॥
ब्रह्मोवाच ।
शृण्वंतु मुनयः सर्वे गुह्याद्गुह्यतरं महत् ।
सुब्रह्मण्यस्य हृदयं सर्वभूतहितोदयम् ॥ 4 ॥
सर्वार्थसिद्धिदं पुण्यं सर्वकार्यैक साधनम् ।
धर्मार्थकामदं गुह्यं धनधान्यप्रवर्धनम् ॥ 5 ॥
रहस्यमेतद्देवानां अदेयं यस्य कस्यचित् ।
सर्वमित्रकरं गोप्यं तेजोबलसमन्वितम् ॥ 6 ॥
प्रवक्ष्यामि हितार्थं वः परितुष्टेन चेतसा ।
हृत्पद्मकर्णिकामध्ये ध्यायेत्सर्वमनोहरम् ॥ 7 ॥
अथ हृदयम् ।
सुवर्णमंडपं दिव्यं रत्नतोरणराजितम् ।
रत्नस्तंभसहस्रैश्च शोभितं परमाद्भुतम् ॥ 8 ॥
परमानंदनिलयं भास्वत्सूर्यसमप्रभम् ।
देवदानवगंधर्वगरुडैर्यक्षकिन्नरैः । ॥ 9 ॥
सेवार्थमागतैः सिद्धैः साध्यैरध्युषितं सदा ।
महायोगींद्रसंसेव्यं मंदारतरुमंडितम् ॥ 10 ॥
मणिविद्रुमवेदीभिर्महतीभिरुदंचितम् ।
तन्मध्येऽनंतरत्न श्रीच्छटामंडलशोभितम् ॥ 11 ॥
रत्नसिंहासनं दिव्यं रविकोटिसमप्रभम् ।
सर्वाश्चर्यमयं पुण्यं सर्वतः सुपरिष्कृतम् ॥ 12 ॥
तन्मध्येऽष्टदलं पद्मं उद्यदर्कप्रभोदयम् ।
निगमागमरोलंबलंबितं चिन्मयोदयम् ॥ 13 ॥
दिव्यं तेजोमयं दिव्यं देवताभिर्नमस्कृतम् ।
देदीप्यमानं रुचिभिर्विशालं सुमनोहरम् ॥ 14 ॥
तन्मध्ये सर्वलोकेशं ध्यायेत्सर्वांगसुंदरम् ।
अनंतादित्यसंकाशं आश्रिताभीष्टदायकम् ॥ 15 ॥
अचिंत्यज्ञानविज्ञानतेजोबलसमन्वितम् ।
सर्वायुधधरं दिव्यं सर्वाश्चर्यमयं गुहम् ॥ 16 ॥
महार्ह रत्नखचित षट्किरीटविराजितम् ।
शशांकार्धकलारम्य समुद्यन्मौलिभूषणम् ॥ 17 ॥
मदनोज्ज्वलकोदंडमंगलभ्रूविराजितम् ।
विस्तीर्णारुणपद्मश्री विलसद्द्वादशेक्षणम् ॥ 18 ॥
चारुश्रीवर्णसंपूर्णमुखशोभाविभासुरम् ।
मणिप्रभासमग्रश्रीस्फुरन्मकरकुंडलम् ॥ 19 ॥
लसद्दर्पणदर्पाढ्य गंडस्थलविराजितम् ।
दिव्यकांचनपुष्पश्रीनासापुटविराजितम् ॥ 20 ॥
मंदहासप्रभाजालमधुराधर शोभितम् ।
सर्वलक्षणलक्ष्मीभृत्कंबुकंधर सुंदरम् ॥ 21 ॥
महानर्घमहारत्नदिव्यहारविराजितम् ।
समग्रनागकेयूरसन्नद्धभुजमंडलम् ॥ 22 ॥
रत्नकंकणसंभास्वत्कराग्र श्रीमहोज्ज्वलम् ।
महामणिकवाटाभवक्षःस्थलविराजितम् ॥ 23 ॥
अतिगांभीर्यसंभाव्यनाभीनवसरोरुहम् ।
रत्नश्रीकलिताबद्धलसन्मध्यप्रदेशकम् ॥ 24 ॥
स्फुरत्कनकसंवीतपीतांबरसमावृतम् ।
शृंगाररससंपूर्ण रत्नस्तंभोपमोरुकम् ॥ 25 ॥
स्वर्णकाहलरोचिष्णु जंघायुगलमंडलम् ।
रत्नमंजीरसन्नद्ध रमणीय पदांबुजम् ॥ 26 ॥
भक्ताभीष्टप्रदं देवं ब्रह्मविष्ण्वादिसंस्तुतम् ।
कटाक्षैः करुणादक्षैस्तोषयंतं जगत्पतिम् ॥ 27 ॥
चिदानंदज्ञानमूर्तिं सर्वलोकप्रियंकरम् ।
शंकरस्यात्मजं देवं ध्यायेच्छरवणोद्भवम् ॥ 28 ॥
अनंतादित्यचंद्राग्नि तेजः संपूर्णविग्रहम् ।
सर्वलोकैकवरदं सर्वविद्यार्थतत्त्वकम् ॥ 29 ॥
सर्वेश्वरं सर्वविभुं सर्वभूतहिते रतम् ।
एवं ध्यात्वा तु हृदयं षण्मुखस्य महात्मनः ॥ 30 ॥
सर्वान्कामानवाप्नोति सम्यक् ज्ञानं च विंदति ।
शुचौ देशे समासीनः शुद्धात्मा चरिताह्निकः ॥ 31 ॥
प्राङ्मुखो यतचित्तश्च जपेद्धृदयमुत्तमम् ।
सकृदेव मनुं जप्त्वा संप्राप्नोत्यखिलं शुभम् ॥ 32 ॥
इदं सर्वाघहरणं मृत्युदारिद्र्यनाशनम् ।
सर्वसंपत्करं पुण्यं सर्वरोगनिवारणम् ॥ 33 ॥
सर्वकामकरं दिव्यं सर्वाभीष्टप्रदायकम् ।
प्रजाकरं राज्यकरं भाग्यदं बहुपुण्यदम् ॥ 34 ॥
गुह्याद्गुह्यतरं भूयो देवानामपि दुर्लभम् ।
इदं तु नातपस्काय नाभक्ताय कदाचन ॥ 35 ॥
न चाशुश्रूषवे देयं न मदांधाय कर्हिचित् ।
सच्छिष्याय कुलीनाय स्कंदभक्तिरताय च ॥ 36 ॥
सतामभिमतायेदं दातव्यं धर्मवर्धनम् ।
य इदं परमं पुण्यं नित्यं जपति मानवः ।
तस्य श्री भगवान् स्कंदः प्रसन्नो भवति ध्रुवम् ॥ 37 ॥
इति श्रीस्कांदपुराणे सुब्रह्मण्यहृदयस्तोत्रम् ॥