कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-ञ्चतुर्थकाण्डे षष्ठः प्रश्नः – परिषेचन-संस्काराभिधानं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अश्म॒न्नूर्ज॒-म्पर्व॑ते शिश्रिया॒णां-वाँते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚ । अ॒द्भ्य ओष॑धीभ्यो॒ वन॒स्पति॒भ्यो-ऽधि॒ सम्भृ॑ता॒-न्ता-न्न॒ इष॒मूर्ज॑-न्धत्त मरुत-स्सग्ं ररा॒णाः ॥ अश्मग्ग्॑स्ते॒ क्षुद॒मु-न्ते॒ शुगृ॑च्छतु॒ य-न्द्वि॒ष्मः ॥ स॒मु॒द्रस्य॑ त्वा॒-ऽवाक॒या-ऽग्ने॒ परि॑ व्ययामसि । पा॒व॒को अ॒स्मभ्यग्ं॑ शि॒वो भ॑व ॥ हि॒मस्य॑ त्वा ज॒रायु॒णा-ऽग्ने॒ परि॑ व्ययामसि । पा॒व॒को अ॒स्मभ्यग्ं॑ शि॒वो भ॑व ॥ उप॒- [उप॑, ज्मन्नुप॑] 1

-ज्मन्नुप॑ वेत॒से-ऽव॑त्तर-न्न॒दीष्वा । अग्ने॑ पि॒त्तम॒पाम॑सि ॥ मण्डू॑कि॒ ताभि॒रा ग॑हि॒ सेम-न्नो॑ य॒ज्ञम् । पा॒व॒कव॑र्णग्ं शि॒व-ङ्कृ॑धि ॥ पा॒व॒क आ चि॒तय॑न्त्या कृ॒पा । क्षाम॑-न्रुरु॒च उ॒षसो॒ न भा॒नुना᳚ ॥ तूर्व॒-न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे । न त॑तृषा॒णो अ॒जरः॑ ॥ अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया᳚ । आ दे॒वान् [आ दे॒वान्, व॒क्षि॒ यक्षि॑ च ।] 2

व॑क्षि॒ यक्षि॑ च ॥ स नः॑ पावक दीदि॒वो-ऽग्ने॑ दे॒वाग्ं इ॒हा-ऽऽ व॑ह । उप॑ य॒ज्ञग्ं ह॒विश्च॑ नः ॥ अ॒पामि॒द-न्न्यय॑नग्ं समु॒द्रस्य॑ नि॒वेश॑नम् । अ॒न्य-न्ते॑ अ॒स्म-त्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यग्ं॑ शि॒वो भ॑व ॥ नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे᳚ । अ॒न्य-न्ते॑ अ॒स्म-त्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यग्ं॑ शि॒वो भ॑व ॥ नृ॒षदे॒ व- [नृ॒षदे॒ वट्, अ॒फ्सु॒षदे॒ व-ड्व॑न॒सदे॒] 3

-ड॑फ्सु॒षदे॒ व-ड्व॑न॒सदे॒ व-ड्ब॑र्​हि॒षदे॒ वट्-थ्सु॑व॒र्विदे॒ वट् ॥ ये दे॒वा दे॒वानां᳚-यँ॒ज्ञिया॑ य॒ज्ञिया॑नाग्ं सं​वँ-थ्स॒रीण॒मुप॑ भा॒गमास॑ते । अ॒हु॒तादो॑ ह॒विषो॑ य॒ज्ञे अ॒स्मिन्-थ्स्व॒य-ञ्जु॑हुद्ध्व॒-म्मधु॑नो घृ॒तस्य॑ ॥ ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न्॒ ये ब्रह्म॑णः पुर ए॒तारो॑ अ॒स्य । येभ्यो॒ नर्ते पव॑ते॒ धाम॒ कि-ञ्च॒न न ते दि॒वो न पृ॑थि॒व्या अधि॒ स्नुषु॑ ॥ प्रा॒ण॒दा [प्रा॒ण॒दाः, अ॒पा॒न॒दा व्या॑न॒दा-] 4

अ॑पान॒दा व्या॑न॒दा-श्च॑क्षु॒र्दा व॑र्चो॒दा व॑रिवो॒दाः । अ॒न्य-न्ते॑ अ॒स्म-त्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यग्ं॑ शि॒वो भ॑व ॥ अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यग्ंस॒द्विश्व॒-न्न्य॑त्रिण᳚म् । अ॒ग्निर्नो॑ वग्ंसते र॒यिम् ॥ सैना-ऽनी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाग्ं आय॑जिष्ठ-स्स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने᳚ द्यु॒मदु॒त रे॒व-द्दि॑दीहि ॥ 5 ॥
(उप॑-दे॒वान्-वट्-प्रा॑ण॒दा-श्चतु॑श्चत्वारिग्ंशच्च) (अ. 1)

य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्॒होता॑ निष॒सादा॑ पि॒ता नः॑ । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः परम॒च्छदो॒ वर॒ आ वि॑वेश ॥ वि॒श्वक॑र्मा॒ मन॑सा॒ यद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्र॑ सप्त॒र्॒षी-न्प॒र एक॑मा॒हुः ॥ यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता यो न॑-स्स॒तो अ॒भ्या सज्ज॒जान॑ । 6

यो दे॒वाना᳚-न्नाम॒धा एक॑ ए॒व तग्ं स॑म्प्र॒श्ञ-म्भुव॑ना यन्त्य॒न्या ॥ त आ-ऽय॑जन्त॒ द्रवि॑ण॒ग्ं॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना । अ॒सूर्ता॒ सूर्ता॒ रज॑सो वि॒माने॒ ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥ न तं-विँ॑दाथ॒ य इ॒द-ञ्ज॒जाना॒न्य-द्यु॒ष्माक॒मन्त॑र-म्भवाति । नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒ शास॑श्चरन्ति ॥ प॒रो दि॒वा प॒र ए॒ना [प॒र ए॒ना, पृ॒थि॒व्या प॒रो] 7

पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्गुहा॒ यत् । कग्ग्​ स्वि॒द्गर्भ॑-म्प्रथ॒म-न्द॑द्ध्र॒ आपो॒ यत्र॑ दे॒वा-स्स॒मग॑च्छन्त॒ विश्वे᳚ ॥ तमिद्गर्भ॑-म्प्रथ॒म-न्द॑द्ध्र॒ आपो॒ यत्र॑ दे॒वा-स्स॒मग॑च्छन्त॒ विश्वे᳚ । अ॒जस्य॒ नाभा॒वद्ध्येक॒-मर्पि॑तं॒-यँस्मि॑न्नि॒दं-विँश्व॒-म्भुव॑न॒मधि॑ श्रि॒तम् ॥ वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदि-द्ग॑न्ध॒र्वो अ॑भव-द्द्वि॒तीयः॑ । तृ॒तीयः॑ पि॒ता ज॑नि॒तौष॑धीना- [पि॒ता ज॑नि॒तौष॑धीनाम्, अ॒पा-ङ्गर्भं॒-व्यँ॑दधा-त्पुरु॒त्रा ।] 8

-म॒पा-ङ्गर्भं॒-व्यँ॑दधा-त्पुरु॒त्रा ॥ चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्न॑माने । य॒देदन्ता॒ अद॑दृग्ंहन्त॒ पूर्व॒ आदि-द्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥ वि॒श्वत॑-श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् । स-म्बा॒हुभ्या॒-न्नम॑ति॒ स-म्पत॑त्रै॒ र्द्यावा॑पृथि॒वी ज॒नय॑-न्दे॒व एकः॑ ॥ किग्ग्​ स्वि॑दासी-दधि॒ष्ठान॑-मा॒रम्भ॑ण-ङ्कत॒म-थ्स्वि॒-त्किमा॑सीत् । यदी॒ भूमि॑-ञ्ज॒नय॑- [यदी॒ भूमि॑-ञ्ज॒नयन्न्॑, वि॒श्वक॑र्मा॒] 9

-न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो᳚-न्महि॒ना वि॒श्वच॑क्षाः ॥ किग्ग्​ स्वि॒द्वन॒-ङ्क उ॒ स वृ॒क्ष आ॑सी॒द्यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒द्ध्यति॑ष्ठ॒-द्भुव॑नानि धा॒रयन्न्॑ ॥ या ते॒ धामा॑नि पर॒माणि॒ या-ऽव॒मा या म॑द्ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधाव-स्स्व॒यं-यँ॑जस्व त॒नुव॑-ञ्जुषा॒णः ॥ वा॒चस्पतिं॑-विँ॒श्वक॑र्माण-मू॒तये॑ [-मू॒तये᳚, म॒नो॒युजं॒-वाँजे॑] 10

मनो॒युजं॒-वाँजे॑ अ॒द्या हु॑वेम । स नो॒ नेदि॑ष्ठा॒ हव॑नानि जोषते वि॒श्वश॑भूं॒रव॑से सा॒धुक॑र्मा ॥ विश्व॑कर्मन्. ह॒विषा॑ वावृधा॒न-स्स्व॒यं-यँ॑जस्व त॒नुव॑-ञ्जुषा॒णः । मुह्य॑न्त्व॒न्ये अ॒भित॑-स्स॒पत्ना॑ इ॒हास्माक॑-म्म॒घवा॑ सू॒रिर॑स्तु ॥ विश्व॑कर्मन्. ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑-मकृणोरव॒द्ध्यम् । तस्मै॒ विश॒-स्सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॑ह॒व्यो॑ यथा-ऽस॑त् ॥ स॒मु॒द्राय॑ व॒युना॑य॒ सिन्धू॑ना॒-म्पत॑ये॒ नमः॑ । न॒दीना॒ग्ं॒ सर्वा॑सा-म्पि॒त्रे जु॑हु॒ता वि॒श्वक॑र्मणे॒ विश्वा-ऽहाम॑र्त्यग्ं ह॒विः ॥ 11 ॥
(ज॒जानै॒ – नौ – ष॑धीनां॒ – भूमि॑-ञ्ज॒नय॑ – न्नू॒तये॒ – नमो॒ – नव॑ च) (अ. 2)

उदे॑नमुत्त॒रा-न्न॒याग्ने॑ घृतेना-ऽऽहुत । रा॒यस्पोषे॑ण॒ सग्ं सृ॑ज प्र॒जया॑ च॒ धने॑न च ॥ इन्द्रे॒म-म्प्र॑त॒रा-ङ्कृ॑धि सजा॒ताना॑-मसद्व॒शी । समे॑नं॒-वँर्च॑सा सृज दे॒वेभ्यो॑ भाग॒धा अ॑सत् ॥ यस्य॑ कु॒र्मो ह॒विर्गृ॒हे तम॑ग्ने वर्धया॒ त्वम् । तस्म॑ दे॒वा अधि॑ ब्रवन्न॒य-ञ्च॒ ब्रह्म॑ण॒स्पतिः॑ ॥ उदु॑ त्वा॒ विश्वे॑ दे॒वा [विश्वे॑ दे॒वाः, अग्ने॒ भर॑न्तु॒ चित्ति॑भिः ।] 12

अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वत॑म-स्सु॒प्रती॑को वि॒भाव॑सुः ॥ पञ्च॒ दिशो॒ दैवी᳚र्य॒ज्ञम॑वन्तु दे॒वीरपाम॑ति-न्दुर्म॒ति-म्बाध॑मानाः । रा॒यस्पोषे॑ य॒ज्ञप॑ति-मा॒भज॑न्तीः ॥ रा॒यस्पोषे॒ अधि॑ य॒ज्ञो अ॑स्था॒-थ्समि॑द्धे अ॒ग्नावधि॑ मामहा॒नः । उ॒क्थप॑त्र॒ ईड्यो॑ गृभी॒तस्त॒प्त-ङ्घ॒र्म-म्प॑रि॒गृह्या॑यजन्त ॥ ऊ॒र्जा य-द्य॒ज्ञमश॑मन्त दे॒वा दैव्या॑य ध॒र्त्रे जोष्ट्रे᳚ । दे॒व॒श्री-श्श्रीम॑णा-श्श॒तप॑याः [दे॒व॒श्री-श्श्रीम॑णा-श्श॒तप॑याः, प॒रि॒गृह्य॑] 13

परि॒गृह्य॑ दे॒वा य॒ज्ञमा॑यन्न् ॥ सूर्य॑रश्मि॒र्॒हरि॑केशः पु॒रस्ता᳚-थ्सवि॒ता ज्योति॒रुद॑या॒ग्ं॒ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वं-याँ॑ति दे॒व-स्स॒पंश्य॒न् विश्वा॒ भुव॑नानि गो॒पाः ॥ दे॒वा दे॒वेभ्यो॑ अद्ध्व॒र्यन्तो॑ अस्थुर्वी॒तग्ं श॑मि॒त्रे श॑मि॒ता य॒जद्ध्यै᳚ । तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यमेति॒ ततः॑ पाव॒का आ॒शिषो॑ नो जुषन्ताम् ॥ वि॒मान॑ ए॒ष दि॒वो मद्ध्य॑ आस्त आपप्रि॒वा-न्रोद॑सी अ॒न्तरि॑क्षम् । स वि॒श्वाची॑र॒भि- [स वि॒श्वाची॑र॒भि, च॒ष्टे॒ घृ॒ताची॑रन्त॒रा] 14

-च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑र-ञ्च के॒तुम् ॥ उ॒क्षा स॑मु॒द्रो अ॑रु॒ण-स्सु॑प॒र्णः पूर्व॑स्य॒ योनि॑-म्पि॒तुरा वि॑वेश । मद्ध्ये॑ दि॒वो निहि॑तः॒ पृश्ञि॒रश्मा॒ वि च॑क्रमे॒ रज॑सः पा॒त्यन्तौ᳚ ॥ इन्द्रं॒-विँश्वा॑ अवीवृधन्-थ्समु॒द्रव्य॑चस॒-ङ्गिरः॑ । र॒थीत॑मग्ं रथी॒नां-वाँजा॑ना॒ग्ं॒ सत्प॑ति॒-म्पति᳚म् ॥ सु॒म्न॒हूर्य॒ज्ञो दे॒वाग्ं आ च॑ वक्ष॒द्यक्ष॑द॒ग्निर्दे॒वो दे॒वाग्ं आ च॑ वक्षत् ॥ वाज॑स्य मा प्रस॒वेनो᳚-द्ग्रा॒भेणो-द॑ग्रभीत् । अथा॑ स॒पत्ना॒ग्ं॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राग्ं अकः ॥ उ॒द्ग्रा॒भ-ञ्च॑ निग्रा॒भ-ञ्च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन्न् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न् व्य॑स्यताम् ॥ 15 ॥
(दे॒वाः – श॒तप॑या – अ॒भि – वाज॑स्य॒ – षड्विग्ं॑शतिश्च ) (अ. 3)

आ॒शु-श्शिशा॑नो वृष॒भो न यु॒द्ध्मो घ॑नाघ॒नः, क्षोभ॑ण-श्चर्​षणी॒नाम् । स॒ङ्क्रन्द॑नो-ऽनिमि॒ष ए॑क वी॒र-श्श॒तग्ं सेना॑ अजय-थ्सा॒कमिन्द्रः॑ ॥ स॒ङ्क्रन्द॑नेना निमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना᳚ । तदिन्द्रे॑ण जयत॒ त-थ्स॑हद्ध्वं॒-युँधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा᳚ ॥ स इषु॑हस्तै॒-स्स नि॑ष॒ङ्गिभि॑र्व॒शी सग्ग्​स्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । स॒ग्ं॒सृ॒ष्ट॒जि-थ्सो॑म॒पा बा॑हुश॒र्ध्यू᳚र्ध्वध॑न्वा॒ प्रति॑हिताभि॒रस्ता᳚ ॥ बृह॑स्पते॒ परि॑ दीया॒ [परि॑ दीय, रथे॑न] 16

रथे॑न रक्षो॒हा ऽमित्राग्ं॑ अप॒ बाध॑मानः । प्र॒भ॒ञ्जन्-थ्सेनाः᳚ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑-मेद्ध्यवि॒ता रथा॑नाम् ॥ गो॒त्र॒भिद॑-ङ्गो॒विदं॒-वँज्र॑बाहु॒-ञ्जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒-मोज॑सा । इ॒मग्ं स॑जाता॒ अनु॑वीर-यद्ध्व॒मिन्द्रग्ं॑ सखा॒यो-ऽनु॒ सग्ं र॑भद्ध्वम् ॥ ब॒ल॒वि॒ज्ञा॒यः-स्थवि॑रः॒ प्रवी॑र॒-स्सह॑स्वान्. वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित् ॥ अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानो-ऽदा॒यो [गाह॑मानो-ऽदा॒यः, वी॒र-श्श॒तम॑न्यु॒रिन्द्रः॑ ।] 17

वी॒र-श्श॒तम॑न्यु॒रिन्द्रः॑ । दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑ यु॒द्ध्यो᳚-स्माक॒ग्ं॒ सेना॑ अवतु॒ प्र यु॒थ्सु ॥ इन्द्र॑ आसां-ने॒ता बृह॒स्पति॒ र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑-मभिभञ्जती॒ना-ञ्जय॑न्तीना-म्म॒रुतो॑ य॒न्त्वग्रे᳚ ॥ इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्याना᳚-म्म॒रुता॒ग्ं॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसा-म्भुवनच्य॒वाना॒-ङ्घोषो॑ दे॒वाना॒-ञ्जय॑ता॒ मुद॑स्थात् ॥ अ॒स्माक॒-मिन्द्र॒-स्समृ॑तेषु ध्व॒जेष्व॒स्माकं॒-याँ इष॑व॒स्ता ज॑यन्तु । 18

अ॒स्माकं॑-वीँ॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु ॥ उद्ध॑र्​षय मघव॒न्ना-यु॑धा॒-न्युथ्सत्व॑ना-म्माम॒काना॒-म्महाग्ं॑सि । उद्वृ॑त्रहन् वा॒जिनां॒-वाँजि॑ना॒न्यु-द्रथा॑ना॒-ञ्जय॑तामेतु॒ घोषः॑ ॥ उप॒ प्रेत॒ जय॑ता नरस्स्थि॒रा व॑-स्सन्तु बा॒हवः॑ । इन्द्रो॑ व॒-श्शर्म॑ यच्छ त्वना-धृ॒ष्या यथास॑थ ॥ अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑ सग्ंशिता । गच्छा॒-ऽमित्रा॒-न्प्र- [गच्छा॒-ऽमित्रा॒-न्प्र, वि॒श॒ मैषा॒-] 19

-वि॑श॒ मैषा॒-ङ्कञ्च॒नोच्छि॑षः ॥ मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒ ऽमृते॑ना॒भि-व॑स्ताम् । उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्त॒-न्त्वामनु॑ मदन्तु दे॒वाः ॥ यत्र॑ बा॒णा-स्स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु ॥ 20 ॥
(दी॒या॒ – ऽदा॒यो – ज॑यन्त्व॒ – मित्रा॒-न्प्र – च॑त्वारि॒ग्ं॒शच्च॑) (अ. 4)

प्राची॒मनु॑ प्र॒दिश॒-म्प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने पु॒रो अ॑ग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॒ह्यूर्ज॑-न्नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥ क्रम॑द्ध्वम॒ग्निना॒ नाक॒मुख्य॒ग्ं॒ हस्ते॑षु॒ बिभ्र॑तः । दि॒वः पृ॒ष्ठग्ं सुव॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राद्ध्वम् ॥ पृ॒थि॒व्या अ॒हमुद॒न्तरि॑क्ष॒-मा-ऽरु॑ह-म॒न्तरि॑क्षा॒-द्दिव॒मा-ऽरु॑हम् । दि॒वो नाक॑स्य पृ॒ष्ठा-थ्सुव॒र्ज्योति॑रगा- [पृ॒ष्ठा-थ्सुव॒र्ज्योति॑रगाम्, अ॒हम् ।] 21

-म॒हम् ॥ सुव॒र्यन्तो॒ नापे᳚क्षन्त॒ आ द्याग्ं रो॑हन्ति॒ रोद॑सी । य॒ज्ञं-येँ वि॒श्वतो॑धार॒ग्ं॒ सुवि॑द्वाग्ंसो वितेनि॒रे ॥ अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒ता-ञ्चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम् । इय॑क्षमाणा॒ भृगु॑भि-स्स॒जोषा॒-स्सुव॑र्यन्तु॒ यज॑माना-स्स्व॒स्ति ॥ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकग्ं॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्नि-न्धा॑रय-न्द्रविणो॒दाः ॥ अग्ने॑ सहस्राक्ष [अग्ने॑ सहस्राक्ष, श॒त॒मू॒र्ध॒ञ्छ॒त-न्ते᳚] 22

शतमूर्धञ्छ॒त-न्ते᳚ प्रा॒णा-स्स॒हस्र॑मपा॒नाः । त्वग्ं सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा᳚ ॥ सु॒प॒र्णो॑-ऽसि ग॒रुत्मा᳚-न्पृथि॒व्याग्ं सी॑द पृ॒ष्ठे पृ॑थि॒व्या-स्सी॑द भा॒सा-ऽन्तरि॑क्ष॒मा पृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒ दिश॒ उ-द्दृग्ं॑ह ॥ आ॒जुह्वा॑न-स्सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वां-योँनि॒मा सी॑द सा॒द्ध्या । अ॒स्मिन्-थ्स॒धस्थे॒ अद्ध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ [अद्ध्युत्त॑रस्मि॒न् विश्वे॑ देवाः, यज॑मानश्च सीदत ।] 23

यज॑मानश्च सीदत ॥ प्रेद्धो॑ अग्ने दीदिहि पु॒रो नो-ऽज॑स्रया सू॒र्म्या॑ यविष्ठ । त्वाग्ं शश्व॑न्त॒ उप॑ यन्ति॒ वाजाः᳚ ॥ वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे᳚ । यस्मा॒-द्योने॑रु॒दारि॑था॒ यजे॒ त-म्प्रत्वे ह॒वीग्ंषि॑ जुहुरे॒ समि॑द्धे ॥ ताग्ं स॑वि॒तुर्वरे᳚ण्यस्य चि॒त्रामा-ऽहं-वृँ॑णे सुम॒तिं-विँ॒श्वज॑न्याम् । याम॑स्य॒ कण्वो॒ अदु॑ह॒-त्प्रपी॑नाग्ं स॒हस्र॑धारा॒- [स॒हस्र॑धाराम्, पय॑सा म॒ही-ङ्गाम् ।] 24

-म्पय॑सा म॒ही-ङ्गाम् ॥ स॒प्त ते॑ अग्ने स॒मिध॑-स्स॒प्त जि॒ह्वा-स्स॒प्तर्​ष॑य-स्स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्रा᳚-स्सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ ॥ ई॒दृ-ञ्चा᳚न्या॒दृ-ञ्चै॑ता॒दृञ्च॑ प्रति॒दृ-ञ्च॑ मि॒तश्च॒ सम्मि॑तश्च॒ सभ॑राः ॥ शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माग्​श्च स॒त्यश्च॑र्त॒पाश्चात्यग्ं॑हाः । 25

ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॒श्चान्त्य॑मित्रश्च दू॒रे अ॑मित्रश्च ग॒णः ॥ ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः ॥ ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षुण॑-स्स॒दृक्षा॑सः॒ प्रति॑सदृक्षास॒ एत॑न । मि॒तास॑श्च॒ सम्मि॑तासश्च न ऊ॒तये॒ सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन्निन्द्र॒-न्दैवी॒र्विशो॑ म॒रुतो-ऽनु॑वर्त्मानो॒ यथेन्द्र॒-न्दैवी॒र्विशो॑ म॒रुतो-ऽनु॑वर्त्मान ए॒वमि॒मं-यँज॑मान॒-न्दैवी᳚श्च॒ विशो॒ मानु॑षी॒श्चानु॑वर्त्मानो भवन्तु ॥ 26 ॥
(अ॒गा॒ग्ं॒ – स॒ह॒स्रा॒क्ष॒ – दे॒वाः॒ – स॒हस्र॑धारा॒ – मत्यग्ं॑हा॒ – अनु॑वर्त्मानः॒ – षोड॑श च) (अ. 5)

जी॒मूत॑स्येव भवति॒ प्रती॑कं॒-यँद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे᳚ । अना॑विद्धया त॒नुवा॑ जय॒ त्वग्ं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥ धन्व॑ना॒ गा धन्व॑ना॒-ऽऽजि-ञ्ज॑येम॒ धन्व॑ना ती॒व्रा-स्स॒मदो॑ जयेम । धनु॒-श्शत्रो॑रपका॒म-ङ्कृ॑णोति॒ धन्व॑ना॒ सर्वाः᳚ प्र॒दिशो॑ जयेम ॥ व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्ण॑-म्प्रि॒यग्ं सखा॑य-म्परिषस्वजा॒ना । योषे॑व शिङ्क्ते॒ वित॒ता-ऽधि॒ धन्व॒- [धन्वन्न्॑, ज्या इ॒यग्ं] 27

-ञ्ज्या इ॒यग्ं सम॑ने पा॒रय॑न्ती ॥ ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्र-म्बि॑भृतामु॒पस्थे᳚ । अप॒ शत्रून्॑ विद्ध्यताग्ं सं​विँदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रान्॑ ॥ ब॒ह्वी॒ना-म्पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑ना-ऽव॒गत्य॑ । इ॒षु॒धि-स्सङ्काः॒ पृत॑नाश्च॒ सर्वाः᳚ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥ रथे॒ तिष्ठ॑-न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः । अ॒भीशू॑ना-म्महि॒मान॑- [महि॒मान᳚म्, प॒ना॒य॒त॒ मनः॑] 28

-म्पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ॥ ती॒व्रा-न्घोषा᳚न् कृण्वते॒ वृष॑पाण॒यो-ऽश्वा॒ रथे॑भि-स्स॒ह वा॒जय॑न्तः । अ॒व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रा᳚न् क्षि॒णन्ति॒ शत्रू॒ग्ं॒रन॑पव्ययन्तः ॥ र॒थ॒वाह॑नग्ं ह॒विर॑स्य॒ नाम॒ यत्रा-ऽऽयु॑ध॒-न्निहि॑तमस्य॒ वर्म॑ । तत्रा॒ रथ॒मुप॑ श॒ग्मग्ं स॑देम वि॒श्वाहा॑ व॒यग्ं सु॑मन॒स्यमा॑नाः ॥ स्वा॒दु॒ष॒ग्ं॒ सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रित॒-श्शक्ती॑वन्तो गभी॒राः । चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑द्ध्रा-स्स॒तोवी॑रा उ॒रवो᳚ व्रातसा॒हाः ॥ ब्राह्म॑णासः॒ [ब्राह्म॑णासः, पित॑र॒-] 29

पित॑र॒-स्सोम्या॑स-श्शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा᳚ । पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशग्ं॑स ईशत ॥ सु॒प॒र्णं-वँ॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभि॒-स्सन्न॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नर॒-स्स-ञ्च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑व॒-श्शर्म॑ यग्ंसन्न् ॥ ऋजी॑ते॒ परि॑ वृङ्ग्धि॒ नो-ऽश्मा॑ भवतु नस्त॒नूः । सोमो॒ अधि॑ ब्रवीतु॒ नो-ऽदि॑ति॒- [नो-ऽदि॑तिः, शर्म॑ यच्छतु ।] 30

-श्शर्म॑ यच्छतु ॥ आ ज॑ङ्घन्ति॒ सान्वे॑षा-ञ्ज॒घना॒ग्ं॒ उप॑ जिघ्नते । अश्वा॑जनि॒ प्रचे॑त॒सो-ऽश्वा᳚न्-थ्स॒मथ्सु॑ चोदय ॥ अहि॑रिव भो॒गैः पर्ये॑ति बा॒हु-ञ्ज्याया॑ हे॒ति-म्प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वा-न्पुमा॒-न्पुमाग्ं॑स॒-म्परि॑ पातु वि॒श्वतः॑ ॥ वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्म-थ्स॑खा प्र॒तर॑ण-स्सु॒वीरः॑ । गोभि॒-स्सन्न॑द्धो असि वी॒डय॑स्वा-ऽऽस्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥ दि॒वः पृ॑थि॒व्याः प- [परि॑, ओज॒ उ-द्भृ॑तं॒-] 31

-र्योज॒ उ-द्भृ॑तं॒-वँन॒स्पति॑भ्यः॒ पर्याभृ॑त॒ग्ं॒ सहः॑ । अ॒पामो॒ज्मान॒-म्परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रग्ं॑ ह॒विषा॒ रथं॑-यँज ॥ इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑क-म्मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ । सेमा-न्नो॑ ह॒व्यदा॑ति-ञ्जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥ उप॑ श्वासय पृथि॒वीमु॒त द्या-म्पु॑रु॒त्रा ते॑ मनुतां॒-विँष्ठि॑त॒-ञ्जग॑त् । स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒रा- [दे॒वैर्दू॒रात्, दवी॑यो॒] 32

-द्दवी॑यो॒ अप॑सेध॒ शत्रून्॑ ॥ आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ धा॒ निष्ट॑निहि दुरि॒ता बाध॑मानः । अप॑ प्रोथ दुन्दुभे दु॒च्छुनाग्ं॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व ॥ आ-ऽमूर॑ज प्र॒त्याव॑र्तये॒माः के॑तु॒म-द्दु॑न्दु॒भि र्वा॑वदीति । समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒-ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥ 33 ॥
(धन्व॑न् – महि॒मानं॒ – ब्राह्म॑णा॒सो – ऽदि॑तिः – पृथि॒व्याः परि॑ – दू॒रा – देक॑चत्वारिग्ंशच्च) (अ. 6)

यदक्र॑न्दः प्रथ॒म-ञ्जाय॑मान उ॒द्यन्-थ्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्य॒-म्महि॑ जा॒त-न्ते॑ अर्वन्न् ॥ य॒मेन॑ द॒त्त-न्त्रि॒त ए॑नमायुन॒गिन्द्र॑ एण-म्प्रथ॒मो अद्ध्य॑तिष्ठत् । ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑-गृभ्णा॒-थ्सूरा॒दश्वं॑-वँसवो॒ निर॑तष्ट ॥ असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ । असि॒ सोमे॑न स॒मया॒ विपृ॑क्त [विपृ॑क्तः, आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ।] 34

आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥ त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒फ्सु त्रीण्य॒न्त-स्स॑मु॒द्रे । उ॒तेव॑ मे॒ वरु॑णश्छन्-थ्स्यर्व॒न्॒. यत्रा॑ त आ॒हुः प॑र॒म-ञ्ज॒नित्र᳚म् ॥ इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानाग्ं॑ सनि॒तुर्नि॒धाना᳚ । अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ॥ आ॒त्मान॑-न्ते॒ मन॑सा॒-ऽऽराद॑जानाम॒वो दि॒वा [ ] 35

प॒तय॑न्त-म्पत॒ङ्गम् । शिरो॑ अपश्य-म्प॒थिभि॑-स्सु॒गेभि॑ररे॒णुभि॒र्जेह॑मान-म्पत॒त्रि ॥ अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्य॒-ञ्जिगी॑षमाणमि॒ष आ प॒दे गोः । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒डादि-द्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ॥ अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावो-ऽनु॒ भगः॑ क॒नीना᳚म् । अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्य॑- [वी॒र्य᳚म्, ते ।] 36

-न्ते ॥ हिर॑ण्यशृ॒ङ्गो-ऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् । दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्॒. यो अर्व॑न्त-म्प्रथ॒मो अ॒द्ध्यति॑ष्ठत् ॥ ई॒र्मान्ता॑स॒-स्सिलि॑कमद्ध्यमास॒-स्सग्ं शूर॑णासो दि॒व्यासो॒ अत्याः᳚ । ह॒ग्ं॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्य-मज्म॒मश्वाः᳚ ॥ तव॒ शरी॑र-म्पतयि॒ष्ण्व॑र्व॒-न्तव॑ चि॒त्तं-वाँत॑ इव॒ ध्रजी॑मान् । तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रा-ऽर॑ण्येषु॒ जर्भु॑राणा चरन्ति ॥ उप॒ [उप॑, प्रागा॒च्छस॑नं-] 37

प्रागा॒च्छस॑नं-वाँ॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीद्ध्या॑नः । अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चा-त्क॒वयो॑ यन्ति रे॒भाः ॥ उप॒ प्रागा᳚-त्पर॒मं-यँ-थ्स॒धस्थ॒मर्वा॒ग्ं॒ अच्छा॑ पि॒तर॑-म्मा॒तर॑-ञ्च । अ॒द्या दे॒वान् जुष्ट॑तमो॒ हि ग॒म्या अथा-ऽऽशा᳚स्ते दा॒शुषे॒ वार्या॑णि ॥ 38 ॥
(विपृ॑क्तो – दि॒वा – वी॒र्य॑ – मुपै – का॒न्नच॑त्वारि॒ग्ं॒शच्च॑) (अ. 7)

मा नो॑ मि॒त्रो वरु॑णो अर्य॒मा-ऽऽयुरिन्द्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन्न् । य-द्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः᳚ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥ यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒ति-ङ्गृ॑भी॒ता-म्मु॑ख॒तो नय॑न्ति । सुप्रा॑ङ॒जो मेम्य॑-द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ ॥ ए॒ष च्छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे᳚व्यः । अ॒भि॒प्रियं॒-यँ-त्पु॑रो॒डाश॒मर्व॑ता॒ त्वष्टे- [त्वष्टेत्, ए॒न॒ग्ं॒ सौ॒श्र॒व॒साय॑ जिन्वति ।] 39

-दे॑नग्ं सौश्रव॒साय॑ जिन्वति ॥ यद्ध॒विष्य॑मृतु॒शो दे॑व॒यान॒-न्त्रिर्मानु॑षाः॒ पर्यश्व॒-न्नय॑न्ति । अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञ-न्दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः ॥ होता᳚-ऽद्ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शग्ग्​स्ता॒ सुवि॑प्रः । तेन॑ य॒ज्ञेन॒ स्व॑रङ्कृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णद्ध्वम् ॥ यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒-येँ अ॑श्वयू॒पाय॒ तक्ष॑ति । ये चार्व॑ते॒ पच॑नग्ं स॒भंर॑न्त्यु॒तो [ ] 40

तेषा॑-म॒भिगू᳚र्तिर्न इन्वतु ॥ उप॒ प्रागा᳚-थ्सु॒मन्मे॑-ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः । अन्वे॑नं॒-विँप्रा॒ ऋष॑यो मदन्ति दे॒वाना᳚-म्पु॒ष्टे च॑कृमा सु॒बन्धु᳚म् ॥ य-द्वा॒जिनो॒ दाम॑ स॒दान्न॒मर्व॑तो॒ या शी॑र्​ष॒ण्या॑ रश॒ना रज्जु॑रस्य । यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॑ तृण॒ग्ं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ यदश्व॑स्य क्र॒विषो॒ [यदश्व॑स्य क्र॒विषः॑, मक्षि॒का-ऽऽश॒] 41

मक्षि॒का-ऽऽश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ । यद्धस्त॑यो-श्शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ यदूव॑द्ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ । सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेधग्ं॑ शृत॒पाक॑-म्पचन्तु ॥ य-त्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूल॒-न्निह॑तस्याव॒धाव॑ति । मा त-द्भूम्या॒मा श्रि॑ष॒ ( )-न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥ 42 ॥
(इ – दु॒तो – क्र॒विषः॑ – श्रिषथ् – स॒प्त च॑) (अ. 8)

ये वा॒जिन॑-म्परि॒पश्य॑न्ति प॒क्वं-यँ ई॑मा॒हु-स्सु॑र॒भिर्निर्​ह॒रेति॑ । ये चार्व॑तो माग्ंसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू᳚र्तिर्न इन्वतु ॥ यन्नीक्ष॑ण-म्मा॒ग्॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि । ऊ॒ष्म॒ण्या॑-ऽपि॒धाना॑ चरू॒णाम॒ङ्का-स्सू॒नाः परि॑ भूष॒न्त्यश्व᳚म् ॥ नि॒क्रम॑ण-न्नि॒षद॑नं-विँ॒वर्त॑नं॒-यँच्च॒ पड्बी॑श॒मर्व॑तः । यच्च॑ प॒पौ यच्च॑ घा॒सि- [घा॒सिम्, ज॒घास॒ सर्वा॒ ता] 43

-ञ्ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ मा त्वा॒-ऽग्नि-र्ध्व॑नयि-द्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रिः॑ । इ॒ष्टं-वीँ॒तम॒भिगू᳚र्तं॒-वँष॑ट्कृत॒-न्त-न्दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्व᳚म् ॥ यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं-याँ हिर॑ण्यान्यस्मै । स॒न्दान॒मर्व॑न्त॒-म्पड्बी॑श-म्प्रि॒या दे॒वेष्वा या॑मयन्ति ॥ य-त्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्​ष्णि॑या वा॒ कश॑या [वा॒ कश॑या, वा॒ तु॒तोद॑ ।] 44

वा तु॒तोद॑ । स्रु॒चेव॒ ता ह॒विषो॑ अद्ध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥ चतु॑स्त्रिग्ंश-द्वा॒जिनो॑ दे॒वब॑न्धो॒-र्वङ्क्री॒-रश्व॑स्य॒ स्वधि॑ति॒-स्समे॑ति । अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ॥ एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॒र्तुः । या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑ना॒-म्प्र जु॑होम्य॒ग्नौ ॥ मा त्वा॑ तप- [तपत्, प्रि॒य आ॒त्मा-] 45

-त्प्रि॒य आ॒त्मा-ऽपि॒यन्त॒-म्मा स्वधि॑तिस्त॒नुव॒ आ ति॑ष्ठिप-त्ते । मा ते॑ गृ॒द्ध्नु-र॑विश॒स्ता-ऽति॒हाय॑ छि॒द्रा गात्रा᳚ण्य॒सिना॒ मिथू॑ कः ॥ न वा उ॑वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाग्ं इदे॑षि प॒थिभि॑-स्सु॒गेभिः॑ । हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा᳚स्था-द्वा॒जी धु॒रि रास॑भस्य ॥ सु॒गव्य॑-न्नो वा॒जी स्वश्वि॑य-म्पु॒ग्ं॒सः पु॒त्राग्ं उ॒त वि॑श्वा॒पुषग्ं॑ र॒यिम् । अ॒ना॒गा॒स्त्व-न्नो॒ अदि॑तिः कृणोतु क्ष॒त्र-न्नो॒ अश्वो॑ वनताग्ं ह॒विष्मान्॑ ॥ 46 ॥
(घा॒सिं-कश॑या – तप-द्- र॒यिं – नव॑ च ) (अ. 9)

(अश्म॒न् – य इ॒मो – दे॑न – मा॒शुः – प्राचीं᳚ – जी॒मूत॑स्य॒ – यदक्र॑न्दो॒ – मा नो॑ मि॒त्रो – ये वा॒जिनं॒ – नव॑)

(अश्म॑न् – मनो॒युजं॒ – प्राची॒मनु॒ – शर्म॑ यच्छतु॒ – तेषा॑म॒भिगू᳚र्तिः॒ – षट्च॑त्वारिग्ंशत्)

(अश्म॑न्, ह॒विष्मान्॑)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-ञ्चतुर्थ काण्डे षष्ठः प्रश्न-स्समाप्तः ॥

ओ-न्नमः परमात्मने , श्री महागणपतये नमः , श्री गुरुभ्यो नमः , ह॒रिः॒ ॐ