नारायणीयं दशक 47

एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् ।स्तन्यलोलुपतया निवारयन्नंकमेत्य पपिवान् पयोधरौ ॥1॥ अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननांबुजे ।दुग्धमीश दहने परिस्रुतं धर्तुमाशु जननी जगाम ते ॥2॥ सामिपीतरसभंगसंगतक्रोधभारपरिभूतचेतसा।मंथदंडमुपगृह्य पाटितं हंत देव दधिभाजनं त्वया ॥3॥ उच्चलद्ध्वनितमुच्चकैस्तदा सन्निशम्य…

Read more

नारायणीयं दशक 46

अयि देव पुरा किल त्वयि स्वयमुत्तानशये स्तनंधये ।परिजृंभणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥1॥ पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते ।फलसंचयवंचनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥2॥ अयि ते प्रलयावधौ विभो क्षितितोयादिसमस्तभक्षिणः ।मृदुपाशनतो रुजा…

Read more

नारायणीयं दशक 45

अयि सबल मुरारे पाणिजानुप्रचारैःकिमपि भवनभागान् भूषयंतौ भवंतौ ।चलितचरणकंजौ मंजुमंजीरशिंजा-श्रवणकुतुकभाजौ चेरतुश्चारुवेगात् ॥1॥ मृदु मृदु विहसंतावुन्मिषद्दंतवंतौवदनपतितकेशौ दृश्यपादाब्जदेशौ ।भुजगलितकरांतव्यालगत्कंकणांकौमतिमहरतमुच्चैः पश्यतां विश्वनृणाम् ॥2॥ अनुसरति जनौघे कौतुकव्याकुलाक्षेकिमपि कृतनिनादं व्याहसंतौ द्रवंतौ ।वलितवदनपद्मं पृष्ठतो दत्तदृष्टीकिमिव न विदधाथे…

Read more

नारायणीयं दशक 44

गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् ।हृद्गतहोरातत्त्वो गर्गमुनिस्त्वत् गृहं विभो गतवान् ॥1॥ नंदोऽथ नंदितात्मा वृंदिष्टं मानयन्नमुं यमिनाम् ।मंदस्मितार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥2॥ यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य कार्यमिति कथयन् ।गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि…

Read more

नारायणीयं दशक 43

त्वामेकदा गुरुमरुत्पुरनाथ वोढुंगाढाधिरूढगरिमाणमपारयंती ।माता निधाय शयने किमिदं बतेतिध्यायंत्यचेष्टत गृहेषु निविष्टशंका ॥1॥ तावद्विदूरमुपकर्णितघोरघोष-व्याजृंभिपांसुपटलीपरिपूरिताशः ।वात्यावपुस्स किल दैत्यवरस्तृणाव-र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥2॥ उद्दामपांसुतिमिराहतदृष्टिपातेद्रष्टुं किमप्यकुशले पशुपाललोके ।हा बालकस्य किमिति त्वदुपांतमाप्तामाता भवंतमविलोक्य भृशं रुरोद ॥3॥…

Read more

नारायणीयं दशक 42

कदापि जन्मर्क्षदिने तव प्रभो निमंत्रितज्ञातिवधूमहीसुरा ।महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥1॥ ततो भवत्त्राणनियुक्तबालकप्रभीतिसंक्रंदनसंकुलारवैः ।विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥2॥ ततस्तदाकर्णनसंभ्रमश्रमप्रकंपिवक्षोजभरा व्रजांगनाः ।भवंतमंतर्ददृशुस्समंततो विनिष्पतद्दारुणदारुमध्यगम् ॥3॥ शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नंदः…

Read more

नारायणीयं दशक 41

व्रजेश्वरैः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः ।निष्पिष्टनिश्शेषतरुं निरीक्ष्य कंचित्पदार्थं शरणं गतस्वाम् ॥1॥ निशम्य गोपीवचनादुदंतं सर्वेऽपि गोपा भयविस्मयांधाः ।त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥2॥ त्वत्पीतपूतस्तनतच्छरीरात् समुच्चलन्नुच्चतरो हि धूमः ।शंकामधादागरवः किमेष किं चांदनो गौल्गुलवोऽथवेति…

Read more

नारायणीयं दशक 40

तदनु नंदममंदशुभास्पदं नृपपुरीं करदानकृते गतम्।समवलोक्य जगाद भवत्पिता विदितकंससहायजनोद्यमः ॥1॥ अयि सखे तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् ।इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥2॥ इह च संत्यनिमित्तशतानि ते कटकसीम्नि ततो लघु…

Read more

नारायणीयं दशक 39

भवंतमयमुद्वहन् यदुकुलोद्वहो निस्सरन्ददर्श गगनोच्चलज्जलभरां कलिंदात्मजाम् ।अहो सलिलसंचयः स पुनरैंद्रजालोदितोजलौघ इव तत्क्षणात् प्रपदमेयतामाययौ ॥1॥ प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका-मपावृतकवाटिकां पशुपवाटिकामाविशन् ।भवंतमयमर्पयन् प्रसवतल्पके तत्पदा-द्वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥2॥ ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्-भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् ।विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा-डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम्…

Read more

नारायणीयं दशक 38

आनंदरूप भगवन्नयि तेऽवतारेप्राप्ते प्रदीप्तभवदंगनिरीयमाणैः ।कांतिव्रजैरिव घनाघनमंडलैर्द्या-मावृण्वती विरुरुचे किल वर्षवेला ॥1॥ आशासु शीतलतरासु पयोदतोयै-राशासिताप्तिविवशेषु च सज्जनेषु ।नैशाकरोदयविधौ निशि मध्यमायांक्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥2॥ बाल्यस्पृशाऽपि वपुषा दधुषा विभूती-रुद्यत्किरीटकटकांगदहारभासा ।शंखारिवारिजगदापरिभासितेनमेघासितेन परिलेसिथ सूतिगेहे ॥3॥ वक्षःस्थलीसुखनिलीनविलासिलक्ष्मी-मंदाक्षलक्षितकटाक्षविमोक्षभेदैः ।तन्मंदिरस्य…

Read more